TB 1.8.4

3 पञ्चाशत्

1.8.4 अनुवाकं 4 - प्रयुजां हवींषि द्वादश

1.8.4.1
आ॒ग्ने॒य-म॒ष्टाक॑पालं॒ निर्व॑पति । तस्मा॒-च्छिशि॑रे कुरुपञ्चा॒लाः प्राञ्चो॑ यान्ति । सौ॒म्यं च॒रुम् । तस्मा᳚द्-वस॒न्तं ॅव्य॑व॒साया॑दयन्ति । सा॒वि॒त्रं द्वाद॑शकपालम् । तस्मा᳚त्-पु॒रस्ता॒द्-यवा॑नाꣳ सवि॒त्रा विरु॑न्धते । बा॒र्.॒ह॒स्प॒त्यं च॒रुम् । स॒वि॒त्रैव वि॒रुद्ध्य॑ । ब्रह्म॑णा॒ यवा॒नाद॑धते । त्वा॒ष्ट्र-म॒ष्टाक॑पालम्
कोर्वै (Index)
(त्वा॒ष्ट्रम॒ष्टाक॑पालं - दधते - युन॒क्त्येकं॑ च)
1.8.4.2
रू॒पाण्ये॒व तेन॑ कुर्वते । वै॒श्वा॒न॒रं द्वाद॑शकपालम् । तस्मा᳚ज्जघ॒न्ये॑ नैदा॑घे प्र॒त्यञ्चः॑ कुरुपञ्चा॒ला या᳚न्ति । सा॒र॒स्व॒तं च॒रुं निर्व॑पति । तस्मा᳚त्-प्रा॒वृषि॒ सर्वा॒ वाचो॑ वदन्ति । पौ॒ष्णेन॒ व्यव॑स्यन्ति । मै॒त्रेण॑ कृषन्ते । वा॒रु॒णेन॒ विधृ॑ता आसते । क्षै॒त्र॒प॒त्येन॑ पाचयन्ते । आ॒दि॒त्येनाद॑धते
कोर्वै (Index)
(त्वा॒ष्ट्रम॒ष्टाक॑पालं - दधते - युन॒क्त्येकं॑ च)
1.8.4.3
मा॒सिमा᳚स्ये॒तानि॑ ह॒वीꣳषि॑ नि॒रुप्या॒णीत्या॑हुः । तेनै॒वर्तून्-प्रयु॑ङ्क्त॒ इति॑ । अथो॒ खल्वा॑हुः । कः स॑म्ॅवथ्स॒रं जी॑विष्य॒तीति॑ । षडे॒व पू᳚र्वे॒द्युर्नि॒रुप्या॑णि । षडु॑त्तरे॒द्युः । तेनै॒वर्तून्-प्रयु॑ङ्क्ते । दक्षि॑णो रथवाहनवा॒हः पूर्वे॑षां॒ दक्षि॑णा । उत्त॑र॒ उत्त॑रेषाम् । स॒म्ॅव॒थ्स॒रस्यै॒वान्तौ॑ युनक्ति ( ) । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
कोर्वै (Index)
(त्वा॒ष्ट्रम॒ष्टाक॑पालं - दधते - युन॒क्त्येकं॑ च)