TB 1.8.9

1 पञ्चाशत्

1.8.9 अनुवाकं 9 - अभिषेचनीयविषययो रुक्मयोः स्तुतिः

1.8.9.1
इ॒यं ॅवै र॑ज॒ता । अ॒सौ हरि॑णी । यद्-रु॒क्मौ भव॑तः । आ॒भ्यामे॒वैन॑-मुभ॒यतः॒ परि॑ गृह्णाति । वरु॑णस्य॒ वा अ॑भिषि॒च्यमा॑न॒स्यापः॑ । इ॒न्द्रि॒यं ॅवी॒र्यं॑ निर॑घ्नन्न् । तथ्-सु॒वर्णꣳ॒॒ हिर॑ण्य-मभवत् । यद्-रु॒क्म-म॑न्त॒र्-दधा॑ति । इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्यानि॑र्घाताय । श॒तमा॑नो भवति श॒तक्ष॑रः ( ) । श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति । आयु॒र्वै हिर॑ण्यम् । आ॒यु॒ष्या॑ ए॒वैन॑-म॒भ्यति॑ क्षरन्ति । तेजो॒ वै हिर॑ण्यम् । ते॒ज॒स्या॑ ए॒वैन॑म॒भ्यति॑ क्षरन्ति । वर्चो॒ वै हिर॑ण्यम् । व॒र्च॒स्या॑ ए॒वैन॑म॒भ्यति॑ क्षरन्ति ।
कोर्वै (Index)
(श॒तक्ष॑रो॒ऽष्टौ च॑)