TB 3.2.1

6 पञ्चाशत्

3.2.1 अनुवाकं 1 - वथ्सापाकरणम्

3.2.1.1
तृ॒तीय॑स्यामि॒तो दि॒वि सोम॑ आसीत् । तं गा॑य॒त्र्याह॑रत् । तस्य॑ प॒र्णम॑च्छिद्यत । तत् प॒र्णो॑ऽभवत् । तत् प॒र्णस्य॑ पर्ण॒त्वम् । ब्रह्म॒ वै प॒र्णः । यत् प॑र्णशा॒खया॑ व॒थ्सान॑पाक॒रोति॑ । ब्रह्म॑णै॒वैना॑न॒पाक॑रोति ॥ गा॒य॒त्रो वै प॒र्णः । गा॒य॒त्राः प॒शवः॑
कोर्वै (Index)
(प॒शवः॑ - करोति - प॒शवो॑ - देवभा॒गमित्या॑ह - करोति॒ - +नव॑ च)
3.2.1.2
तस्मा॒त् त्रीणि॑त्रीणि प॒र्णस्य॑ पला॒शानि॑ । त्रि॒पदा॑ गाय॒त्री । यत् प॑र्णश॒खया॒ गाः प्रा॒र्पय॑ति । स्वयै॒वैना॑ दे॒वत॑या॒ प्रार्प॑यति । यं का॒मये॑ता प॒शुः स्या॒दिति॑ । अ॒प॒र्णां तस्मै॒ शुष्का᳚ग्रा॒माह॑रेत् । अ॒प॒शुरे॒व भ॑वति । यं का॒मये॑त पशु॒मान्थ् स्या॒दिति॑ । ब॒हु॒प॒र्णां तस्मै॑ बहुशा॒खामाह॑रेत् । प॒शु॒मन्त॑-मे॒वैनं॑ करोति ।
कोर्वै (Index)
(प॒शवः॑ - करोति - प॒शवो॑ - देवभा॒गमित्या॑ह - करोति॒ - +नव॑ च)
3.2.1.3
यत् प्राची॑मा॒हरे᳚त् । दे॒व॒लो॒क-म॒भिज॑येत् । यदुदी॑चीं मनुष्यलो॒कम् । प्राची॒मुदी॑ची॒माह॑रति । उ॒भयो᳚र् लो॒कयो॑-र॒भिजि॑त्यै ॥ इ॒षे त्वो॒र्जे त्वेत्या॑ह । इष॑मे॒वोर्जं॒ ॅयज॑माने दधाति ॥ वा॒यवः॒ स्थेत्या॑ह । वा॒युर्वा अ॒न्तरि॑क्ष॒-स्याद्ध्य॑क्षाः । अ॒न्त॒रि॒क्ष॒दे॒व॒त्याः᳚ खलु॒ वै प॒शवः॑
कोर्वै (Index)
(प॒शवः॑ - करोति - प॒शवो॑ - देवभा॒गमित्या॑ह - करोति॒ - +नव॑ च)
3.2.1.4
वा॒यव॑ ए॒वैना॒न् परि॑ ददाति । प्र वा ए॑नाने॒तदा-क॑रोति । यदाह॑ । वा॒यवः॒ स्थेत्यु॑पा॒यवः॒ स्थेत्या॑ह । यज॑मानायै॒व प॒शूनुप॑ह्वयते ॥ दे॒वो वः॑ सवि॒ता प्रार्प॑य॒त्वित्या॑ह॒ प्रसू᳚त्यै ॥ श्रेष्ठ॑तमाय॒ कर्म॑ण॒ इत्या॑ह । य॒ज्ञो हि श्रेष्ठ॑तमं॒ कर्म॑ । तस्मा॑दे॒वमा॑ह ॥ आप्या॑यद्ध्वमघ्निया देवभा॒गमित्या॑ह
कोर्वै (Index)
(प॒शवः॑ - करोति - प॒शवो॑ - देवभा॒गमित्या॑ह - करोति॒ - +नव॑ च)
3.2.1.5
व॒थ्सेभ्य॑श्च॒ वा ए॒ताः पु॒रा म॑नु॒ष्ये᳚भ्य॒-श्चाप्या॑यन्त । दे॒वेभ्य॑ ए॒वैना॒ इन्द्रा॒याप्या॑यति ॥ ऊर्ज॑स्वतीः॒ पय॑स्वती॒रित्या॑ह । ऊर्जꣳ॒ ॒हि पयः॑ स॒म्भर॑न्ति ॥ प्र॒जाव॑ती-रनमी॒वा अ॑य॒क्ष्मा इत्या॑ह॒ प्रजा᳚त्यै । मावः॑ स्ते॒न ई॑शत॒ माऽघशꣳ॑स॒ इत्या॑ह॒ गुप्त्यै᳚ ॥ रु॒द्रस्य॑ हे॒तिः परि॑ वो वृण॒क्त्वित्या॑ह । रु॒द्रा दे॒वैना᳚-स्त्रायते ॥ ध्रु॒वा अ॒स्मिन् गोप॑तौ स्यात ब॒ह्वीरित्या॑ह । ध्रु॒वा ए॒वास्मि॑न् ब॒ह्वीः क॑रोति ( ) ।
कोर्वै (Index)
(प॒शवः॑ - करोति - प॒शवो॑ - देवभा॒गमित्या॑ह - करोति॒ - +नव॑ च)
3.2.1.6
यज॑मानस्य प॒शून् पा॒हीत्या॑ह । प॒शु॒नां गो॑पी॒थाय॑ । तस्मा᳚थ्सा॒यं प॒शव॒ उप॑ स॒माव॑र्तन्ते ॥ अन॑धः सादयति । गर्भा॑णां॒ धृत्या॒ अप्र॑पादाय । तस्मा॒द्गर्भाः᳚ प्र॒जाना॒मप्र॑पादुकाः । उ॒परी॑व॒ निद॑धाति । उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
कोर्वै (Index)
(प॒शवः॑ - करोति - प॒शवो॑ - देवभा॒गमित्या॑ह - करोति॒ - +नव॑ च)