वज्रो॒ वै स्फ्यः । यद॒न्वञ्चं॑ धा॒रये᳚त् । वज्रे᳚ऽद्ध्व॒र्युः क्ष॑ण्वीत । पु॒रस्ता᳚त् ति॒र्यञ्चं॑ धारयति । वज्रो॒ वै स्फ्यः । वज्रे॑णै॒व य॒ज्ञ्स्य॑ दक्षिण॒तो रक्षाꣳ॒॒स्यप॑हन्ति । अ॒ग्निभ्यां॒ प्राच॑श्च प्र॒तीच॑श्च । स्फ्येनोदी॑चश्चा-ध॒राच॑श्च । स्फ्येन॒ वा ए॒ष वज्रे॑णा॒स्यै पा॒प्मानं॒ भ्रातृ॑व्य-मप॒हत्य॑ । उ॒त्क॒रेऽधि॒ प्रवृ॑श्चति
कोर्वै (Index)
(वृ॒श्च॒ति॒ - सा॒द॒ये॒ - दि॒द्ध्मः पञ्च॑ च)