TB 3.2.4

7 पञ्चाशत्

3.2.4 अनुवाकं 4 - हविर्निर्वापः

3.2.4.1
कर्म॑णे वां दे॒वेभ्यः॑ शकेय॒मित्या॑ह॒ शक्त्यै᳚ । य॒ज्ञ्स्य॒ वै सन्त॑ति॒मनु॑ प्र॒जाः प॒शवो॒ यज॑मानस्य॒ सन्ता॑यन्ते । य॒ज्ञ्स्य॒ विच्छि॑त्ति॒मनु॑ प्र॒जाः प॒शवो॒ यज॑मानस्य॒ विच्छि॑द्यन्ते । य॒ज्ञ्स्य॒ सन्त॑तिरसि य॒ज्ञ्स्य॑ त्वा॒ संत॑त्यै स्तृणामि॒ सन्त॑त्यै त्वा य॒ज्ञ्स्येत्याह॑व॒नीया॒थ् सन्त॑नोति । यज॑मानस्य प्र॒जायै॑ पशू॒नाꣳ सन्त॑त्यै ॥ अ॒पः प्रण॑यति । श्र॒द्धा वा आपः॑ । श्र॒द्धामे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति । अ॒पः प्रण॑यति । य॒ज्ञो वा आपः॑
कोर्वै (Index)
(य॒ज्ञो वा आपो॒ - धाम॑ प्र॒णीय॒ प्रच॑र - त्यती॒या - दे॒तद् - बा॒हुभ्या॒मित्या॑ह - ह॒विꣳषि॒ निर्व॑पति॒ - गत्यै॑ च॒त्वारि॑ च)
3.2.4.2
य॒ज्ञ्मे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति । अ॒पः प्रण॑यति । वज्रो॒ वा आपः॑ । वज्र॑मे॒व भ्रातृ॑व्येभ्यः प्र॒हृत्य॑ प्र॒णीय॒ प्रच॑रति । अ॒पः प्रण॑यति । आपो॒ वै र॑क्षो॒घ्नीः । रक्ष॑सा॒-मप॑हत्यै । अ॒पः प्रण॑यति । आपो॒ वै दे॒वानां᳚ प्रि॒यं धाम॑ । दे॒वाना॑मे॒व प्रि॒यं धाम॑ प्र॒णीय॒ प्रच॑रति
कोर्वै (Index)
(य॒ज्ञो वा आपो॒ - धाम॑ प्र॒णीय॒ प्रच॑र - त्यती॒या - दे॒तद् - बा॒हुभ्या॒मित्या॑ह - ह॒विꣳषि॒ निर्व॑पति॒ - गत्यै॑ च॒त्वारि॑ च)
3.2.4.3
अ॒पः प्रण॑यति । आपो॒ वै सर्वा॑ दे॒वताः᳚ । दे॒वता॑ ए॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति ॥ वेषा॑य॒ त्वेत्या॑ह । वेषा॑य॒ ह्ये॑नदाद॒त्ते ॥ प्रत्यु॑ष्टꣳ॒॒ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तय॒ इत्या॑ह । रक्ष॑सा॒-मप॑हत्यै ॥ धूर॒सीत्या॑ह । ए॒ष वै धुर्यो॒ऽग्निः । तं ॅयदनु॑पस्पृश्याती॒यात्
कोर्वै (Index)
(य॒ज्ञो वा आपो॒ - धाम॑ प्र॒णीय॒ प्रच॑र - त्यती॒या - दे॒तद् - बा॒हुभ्या॒मित्या॑ह - ह॒विꣳषि॒ निर्व॑पति॒ - गत्यै॑ च॒त्वारि॑ च)
3.2.4.4
अ॒द्ध्व॒र्युं च॒ यज॑मानं च॒ प्रद॑हेत् । उ॒प॒स्पृश्यात्ये॑ति । अ॒द्ध्व॒र्योश्च॒ यज॑मानस्य॒ चाप्र॑दाहाय ॥ धूर्व॒ तम्ॅयो᳚ऽस्मान् धूर्व॑ति॒ तं धू᳚र्व॒ यं ॅव॒यं धूर्वा॑म॒ इत्या॑ह । द्वौ वाव पुरु॑षौ । यं चै॒व धूर्व॑ति । यश्चै॑नं॒ धूर्व॑ति । तावु॒भौ शु॒चाऽर्प॑यति ॥ त्वं दे॒वाना॑मसि॒ सस्नि॑तमं॒ पप्रि॑तमं॒ जुष्ट॑तमं॒ ॅवह्नि॑तमं देव॒हूत॑म॒मित्या॑ह । य॒था॒ य॒जुरे॒वै तत्
कोर्वै (Index)
(य॒ज्ञो वा आपो॒ - धाम॑ प्र॒णीय॒ प्रच॑र - त्यती॒या - दे॒तद् - बा॒हुभ्या॒मित्या॑ह - ह॒विꣳषि॒ निर्व॑पति॒ - गत्यै॑ च॒त्वारि॑ च)
3.2.4.5
अह्रु॑तमसि हवि॒र्द्धान॒-मित्या॒हाना᳚र्त्यै । दृꣳह॑स्व॒ मा ह्वा॒रित्या॑ह॒ धृत्यै᳚ ॥ मि॒त्रस्य॑ त्वा॒ चक्षु॑षा॒ प्रेक्ष॒ इत्या॑ह मित्र॒त्वाय॑ । मा भेर्मा सम्ॅवि॑क्था॒ मा त्वा॑ हिꣳसिष॒-मित्या॒हाहिꣳ॑सायै । यद्वै किं च॒ वातो॒ नाभि॒वाति॑ । तथ् सर्वं॑ ॅवरुणदेव॒त्य᳚म् ॥ उ॒रु वाता॒येत्या॑ह । अवा॑रुणमे॒वैन॑त् करोति ॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह॒ प्रसू᳚त्यै । अ॒श्विनो᳚र्-बा॒हुभ्या॒मित्या॑ह
कोर्वै (Index)
(य॒ज्ञो वा आपो॒ - धाम॑ प्र॒णीय॒ प्रच॑र - त्यती॒या - दे॒तद् - बा॒हुभ्या॒मित्या॑ह - ह॒विꣳषि॒ निर्व॑पति॒ - गत्यै॑ च॒त्वारि॑ च)
3.2.4.6
अ॒श्विनौ॒ हि दे॒वाना॑मद्ध्व॒र्यू आस्ता᳚म् । पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै᳚ । अ॒ग्नये॒ जुष्टं॒ निर्व॑पा॒मीत्या॑ह । अ॒ग्नय॑ ए॒वैना॒ञ्जुष्टं॒ निर्व॑पति । त्रिर्यजु॑षा । त्रय॑ इ॒मे लो॒काः । ए॒षां ॅलो॒काना॒माप्त्यै᳚ । तू॒ष्णीं च॑तु॒र्थम् । अप॑रिमितमे॒वाव॑रुन्धे । स ए॒वमे॒वानु॑पू॒र्वꣳ ह॒वीꣳषि॒ निर्व॑पति ।
कोर्वै (Index)
(य॒ज्ञो वा आपो॒ - धाम॑ प्र॒णीय॒ प्रच॑र - त्यती॒या - दे॒तद् - बा॒हुभ्या॒मित्या॑ह - ह॒विꣳषि॒ निर्व॑पति॒ - गत्यै॑ च॒त्वारि॑ च)
3.2.4.7
इ॒दं दे॒वाना॑मि॒दमु॑ नः स॒हेत्या॑ह॒ व्यावृ॑त्त्यै ॥ स्फा॒त्यै त्वा॒ नारा᳚त्या॒ इत्या॑ह॒ गुप्त्यै᳚ । तम॑सीव॒ वा ए॒षो᳚ऽन्तश्च॑रति । यः प॑री॒णहि॑ ॥ सुव॑र॒भि विख्ये॑षं ॅवैश्वान॒रं ज्योति॒रित्या॑ह । सुव॑रे॒वाभि वि प॑श्यति वैश्वान॒रं ज्योतिः॑ । द्यावा॑पृथि॒वी ह॒विषि॑ गृही॒त उद॑वेपेताम् ॥ दृꣳह॑न्तां॒ दुर्या॒ द्यावा॑पृथि॒व्योरित्या॑ह । गृ॒हाणां॒ द्यावा॑पृथि॒व्योर्-द्धृत्यै᳚ ॥ उ॒र्व॑न्तरि॑क्ष॒-मन्वि॒हीत्या॑ह॒ गत्यै᳚ ( ) ॥ अदि॑त्यास्त्वो॒पस्थे॑ सादया॒मीत्या॑ह । इ॒यं ॅवा अदि॑तिः । अ॒स्या ए॒वैन॑दु॒पस्थे॑ सादयति ॥ अग्ने॑ ह॒व्यꣳ र॑क्ष॒स्वेत्या॑ह॒ गुप्त्यै᳚ ।
कोर्वै (Index)
(य॒ज्ञो वा आपो॒ - धाम॑ प्र॒णीय॒ प्रच॑र - त्यती॒या - दे॒तद् - बा॒हुभ्या॒मित्या॑ह - ह॒विꣳषि॒ निर्व॑पति॒ - गत्यै॑ च॒त्वारि॑ च)