TB 3.2.9

15 पञ्चाशत्

3.2.9 अनुवाकं 9 - वेदिकरणम्

3.2.9.1
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॒ स्फ्यमाद॑त्ते॒ प्रसू᳚त्यै । अ॒श्विनो᳚र्-बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मद्ध्व॒र्यू आस्ता᳚म् । पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै᳚ ॥ आद॑द॒ इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑ण॒ इत्या॑ह । इ॒न्द्रि॒यमे॒व यज॑माने दधाति । स॒हस्र॑भृष्टिः श॒तते॑जा॒ इत्या॑ह । रू॒पमे॒वास्यै॒तन्-म॑हि॒मानं॒ ॅव्याच॑ष्टे ॥ वा॒युर॑सि ति॒ग्मते॑जा॒ इत्या॑ह । तेजो॒ वै वा॒युः
कोर्वै (Index)
(वै वा॒यु - रा॑ह - परा॒वतीत्या॒हा - ह॑ - द्वि॒तीयꣳ॑ हर॒ - तीति॑ - परिगृ॒ह्णन्ति॑ - देव॒यज॑नीं करोति - भवन्ति - खनत्य - क - रे॒तत् - कृ॒त्वा - र॑क्षो॒घ्नी - र॑र्पयति)
3.2.9.2
तेज॑ ए॒वास्मि॑न् दधाति ॥ वि॒षाद्वै नामा॑सु॒र आ॑सीत् । सो॑ऽबिभेत् । य॒ज्ञेन॑ मा दे॒वा अ॒भिभ॑विष्य॒न्तीति॑ । स पृ॑थि॒वीम॒भ्य॑वमीत् । सा ऽमे॒द्ध्या ऽभ॑वत् । अथो॒ यदिन्द्रो॑ वृ॒त्रमहन्न्॑ । तस्य॒ लोहि॑तं पृथि॒वीमनु॒ व्य॑धावत् । सा ऽमे॒द्ध्या ऽभ॑वत् । पृथि॑वि देवयज॒नीत्या॑ह
कोर्वै (Index)
(वै वा॒यु - रा॑ह - परा॒वतीत्या॒हा - ह॑ - द्वि॒तीयꣳ॑ हर॒ - तीति॑ - परिगृ॒ह्णन्ति॑ - देव॒यज॑नीं करोति - भवन्ति - खनत्य - क - रे॒तत् - कृ॒त्वा - र॑क्षो॒घ्नी - र॑र्पयति)
3.2.9.3
मेद्ध्या॑मे॒वैनां᳚ देव॒यज॑नीं करोति । ओष॑द्ध्यास्ते॒ मूलं॒ मा हिꣳ॑सिष॒मित्या॑ह । ओष॑धीना॒-महिꣳ॑सायै ॥ व्र॒जं ग॑च्छ गो॒स्थान॒मित्या॑ह । छन्दाꣳ॑सि॒ वै व्र॒जो गो॒स्थानः॑ । छन्दाꣳ॑स्ये॒वास्मै᳚ व्र॒जं गो॒स्थानं॑ करोति ॥ वर्.ष॑तु ते॒ द्यौरित्या॑ह । वृष्टि॒र्वै द्यौः । वृष्टि॑मे॒वाव॑रुन्धे ॥ ब॒धा॒न दे॑व सवितः पर॒मस्यां᳚ परा॒वतीत्या॑ह
कोर्वै (Index)
(वै वा॒यु - रा॑ह - परा॒वतीत्या॒हा - ह॑ - द्वि॒तीयꣳ॑ हर॒ - तीति॑ - परिगृ॒ह्णन्ति॑ - देव॒यज॑नीं करोति - भवन्ति - खनत्य - क - रे॒तत् - कृ॒त्वा - र॑क्षो॒घ्नी - र॑र्पयति)
3.2.9.4
द्वौ वाव पुरु॑षौ । यं चै॒व द्वेष्टि॑ । यश्चै॑नं॒ द्वेष्टि॑ । तावु॒भौ ब॑द्ध्नाति पर॒मस्यां᳚ परा॒वति॑ श॒तेन॒ पाशैः᳚ । यो᳚ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॒गित्या॒हानि॑म्रुक्त्यै ॥ अ॒ररु॒र्वै नामा॑सु॒र आ॑सीत् । स पृ॑थि॒व्यामुप॑म्लुप्तोऽशयत् । तं दे॒वा अप॑हतो॒ऽररुः॑ पृथि॒व्या इति॑ पृथि॒व्या अपा᳚घ्नन्न् । भ्रातृ॑व्यो॒ वा अ॒ररुः॑ । अप॑हतो॒ऽररुः॑ पृथि॒व्या इति॒ यदाह॑
कोर्वै (Index)
(वै वा॒यु - रा॑ह - परा॒वतीत्या॒हा - ह॑ - द्वि॒तीयꣳ॑ हर॒ - तीति॑ - परिगृ॒ह्णन्ति॑ - देव॒यज॑नीं करोति - भवन्ति - खनत्य - क - रे॒तत् - कृ॒त्वा - र॑क्षो॒घ्नी - र॑र्पयति)
3.2.9.5
भ्रातृ॑व्यमे॒व पृ॑थि॒व्या अप॑हन्ति । ते॑ऽमन्यन्त । दिवं॒ ॅवा अ॒यमि॒तः प॑तिष्य॒तीति॑ । तम॒ररु॑स्ते॒ दिवं॒ मा स्का॒निति॑ दि॒वः पर्य॑बाधन्त । भ्रातृ॑व्यो॒ वा अ॒ररुः॑ । अ॒ररु॑स्ते॒ दिवं॒ मा स्का॒निति॒ यदाह॑ । भ्रातृ॑व्यमे॒व दि॒वः परि॑बाधते । स्त॒म्ब॒ य॒जुर्. ह॑रति । पृ॒थि॒व्या ए॒व भ्रातृ॑व्य॒-मप॑हन्ति । द्वि॒तीयꣳ॑ हरति
कोर्वै (Index)
(वै वा॒यु - रा॑ह - परा॒वतीत्या॒हा - ह॑ - द्वि॒तीयꣳ॑ हर॒ - तीति॑ - परिगृ॒ह्णन्ति॑ - देव॒यज॑नीं करोति - भवन्ति - खनत्य - क - रे॒तत् - कृ॒त्वा - र॑क्षो॒घ्नी - र॑र्पयति)
3.2.9.6
अ॒न्तरि॑क्षादे॒वैन॒-मप॑हन्ति । तृ॒तीयꣳ॑ हरति । दि॒व ए॒वैन॒-मप॑हन्ति । तू॒ष्णीं च॑तु॒र्थꣳ ह॑रति । अप॑रिमितादे॒वैन॒-मप॑हन्ति ॥ असु॑राणां॒ ॅवा इ॒यमग्र॑ आसीत् । याव॒दासी॑नः परा॒ पश्य॑ति । ताव॑द्-दे॒वाना᳚म् । ते दे॒वा अ॑ब्रुवन्न् । अस्त्वे॒व नो॒ऽस्यामपीति॑
कोर्वै (Index)
(वै वा॒यु - रा॑ह - परा॒वतीत्या॒हा - ह॑ - द्वि॒तीयꣳ॑ हर॒ - तीति॑ - परिगृ॒ह्णन्ति॑ - देव॒यज॑नीं करोति - भवन्ति - खनत्य - क - रे॒तत् - कृ॒त्वा - र॑क्षो॒घ्नी - र॑र्पयति)
3.2.9.7
क्य॑न्नो दास्य॒थेति॑ । याव॑थ्स्व॒यं प॑रिगृह्णी॒थेति॑ । ते वस॑व॒स्त्वेति॑ दक्षिण॒तः पर्य॑गृह्णन्न् । रु॒द्रास्त्वेति॑ प॒श्चात् । आ॒दि॒त्या-स्त्वेत्यु॑त्तर॒तः । ते᳚ऽग्निना॒ प्राञ्चो॑ऽजयन्न् । वसु॑भिर् दक्षि॒णा । रु॒द्रैः प्र॒त्यञ्चः॑ । आ॒दि॒त्यैरुद॑ञ्चः । यस्यै॒वं ॅवि॒दुषो॒ वेदिं॑ परि गृ॒ह्णन्ति॑
कोर्वै (Index)
(वै वा॒यु - रा॑ह - परा॒वतीत्या॒हा - ह॑ - द्वि॒तीयꣳ॑ हर॒ - तीति॑ - परिगृ॒ह्णन्ति॑ - देव॒यज॑नीं करोति - भवन्ति - खनत्य - क - रे॒तत् - कृ॒त्वा - र॑क्षो॒घ्नी - र॑र्पयति)
3.2.9.8
भव॑त्या॒त्मना᳚ । परा᳚ऽस्य॒ भ्रातृ॑व्यो भवति ॥ दे॒वस्य॑ सवि॒तुः स॒व इत्या॑ह॒ प्रसू᳚त्यै । कर्म॑ कृण्वन्ति वे॒धस॒ इत्या॑ह । इ॒षि॒तꣳ हि कर्म॑ क्रि॒यते᳚ । पृ॒थि॒व्यै मेद्ध्यं॑ चामे॒द्ध्यं च॒ व्युद॑क्रामताम् । प्रा॒चीन॑-मुदी॒चीनं॒ मेद्ध्य᳚म् । प्र॒ती॒चीनं॑ दक्षि॒णा ऽमे॒द्ध्यम् । प्राची॒मुदी॑चीं प्रव॒णां क॑रोति । मेद्ध्या॑मे॒वैनां᳚ देव॒यज॑नीं करोति
कोर्वै (Index)
(वै वा॒यु - रा॑ह - परा॒वतीत्या॒हा - ह॑ - द्वि॒तीयꣳ॑ हर॒ - तीति॑ - परिगृ॒ह्णन्ति॑ - देव॒यज॑नीं करोति - भवन्ति - खनत्य - क - रे॒तत् - कृ॒त्वा - र॑क्षो॒घ्नी - र॑र्पयति)
3.2.9.9
प्राञ्चौ॑ वेद्यꣳ॒॒ सावुन्न॑यति । आ॒ह॒व॒नीय॑स्य॒ परि॑गृहीत्यै । प्र॒तीची॒ श्रोणी᳚ । गार्.ह॑पत्यस्य॒ परि॑गृहीत्यै । अथो॑ मिथुन॒त्वाय॑ । उद्ध॑न्ति । यदे॒वास्या॑ अमे॒द्ध्यम् । तदप॑हन्ति । उद्ध॑न्ति । तस्मा॒दोष॑धयः॒ परा॑भवन्ति
कोर्वै (Index)
(वै वा॒यु - रा॑ह - परा॒वतीत्या॒हा - ह॑ - द्वि॒तीयꣳ॑ हर॒ - तीति॑ - परिगृ॒ह्णन्ति॑ - देव॒यज॑नीं करोति - भवन्ति - खनत्य - क - रे॒तत् - कृ॒त्वा - र॑क्षो॒घ्नी - र॑र्पयति)
3.2.9.10
मूलं॑ छिनत्ति । भ्रातृ॑व्यस्यै॒व मूलं॑ छिनत्ति । मूलं॒ ॅवा अ॑ति॒तिष्ठ॒द्-रक्षाꣳ॒॒स्यनूत् पि॑पते । यद्धस्ते॑न छि॒न्द्यात् । कु॒न॒खिनीः᳚ प्र॒जाः स्युः॑ । स्फ्येन॑ छिनत्ति । वज्रो॒ वै स्फ्यः । वज्रे॑णै॒व य॒ज्ञाद्-रक्षाꣳ॒॒स्यप॑हन्ति । पि॒तृ॒दे॒व॒त्या ऽति॑खाता । इय॑तीं खनति
कोर्वै (Index)
(वै वा॒यु - रा॑ह - परा॒वतीत्या॒हा - ह॑ - द्वि॒तीयꣳ॑ हर॒ - तीति॑ - परिगृ॒ह्णन्ति॑ - देव॒यज॑नीं करोति - भवन्ति - खनत्य - क - रे॒तत् - कृ॒त्वा - र॑क्षो॒घ्नी - र॑र्पयति)
3.2.9.11
प्र॒जाप॑तिना यज्ञ्मु॒खेन॒ संमि॑ताम् ॥ वेदि॑र्दे॒वेभ्यो॒ निला॑यत । तां च॑तुरङ्गु॒ले ऽन्व॑विन्दन्न् । तस्मा᳚च्चतुरङ्गु॒लं खेया᳚ । च॒तु॒रङ्गु॒लं ख॑नति । च॒तु॒र॒ङ्गु॒ले ह्योष॑धयः प्रति॒तिष्ठ॑न्ति । आप्र॑ति॒ष्ठायै॑ खनति । यज॑मानमे॒व प्र॑ति॒ष्ठां ग॑मयति । द॒क्षि॒ण॒तो वर्.षी॑यसीं करोति । दे॒व॒यज॑नस्यै॒व रू॒पम॑कः
कोर्वै (Index)
(वै वा॒यु - रा॑ह - परा॒वतीत्या॒हा - ह॑ - द्वि॒तीयꣳ॑ हर॒ - तीति॑ - परिगृ॒ह्णन्ति॑ - देव॒यज॑नीं करोति - भवन्ति - खनत्य - क - रे॒तत् - कृ॒त्वा - र॑क्षो॒घ्नी - र॑र्पयति)
3.2.9.12
पुरी॑षवतीं करोति । प्र॒जा वै प॒शवः॒ पुरी॑षम् । प्र॒जयै॒वैनं॑ प॒शुभिः॒ पुरी॑षवन्तं करोति । उत्त॑रं परिग्रा॒हं परि॑गृह्णाति । ए॒ताव॑ती॒ वै पृ॑थि॒वी । याव॑ती॒ वेदिः॑ । तस्या॑ ए॒ताव॑त ए॒व भ्रातृ॑व्यं नि॒र्भज्य॑ । आ॒त्मन॒ उत्त॑रं परिग्रा॒हं परि॑गृह्णाति । ऋ॒त-म॑स्यृत॒सद॑न-मस्यृत॒श्रीर॒सीत्या॑ह । य॒था॒ य॒जुरे॒वै तत् ।
कोर्वै (Index)
(वै वा॒यु - रा॑ह - परा॒वतीत्या॒हा - ह॑ - द्वि॒तीयꣳ॑ हर॒ - तीति॑ - परिगृ॒ह्णन्ति॑ - देव॒यज॑नीं करोति - भवन्ति - खनत्य - क - रे॒तत् - कृ॒त्वा - र॑क्षो॒घ्नी - र॑र्पयति)
3.2.9.13
क्रू॒रमि॑व॒ वा ए॒तत् क॑रोति । यद्वेदिं॑ क॒रोति॑ । धा अ॑सि स्व॒धा अ॒सीति॑ योयुप्यते॒ शान्त्यै᳚ । उ॒र्वी चासि॒ वस्वी॑ चा॒सीत्या॑ह । उ॒र्वीमे॒वैनां॒ ॅवस्वीं᳚ करोति । पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरफ्शि॒न्नित्या॑ह मेद्ध्य॒त्वाय॑ । उ॒दा॒दाय॑ पृथि॒वीं जी॒रदा॑नु॒र्यामैर॑यं च॒न्द्रम॑सि स्व॒धाभि॒रित्या॑ह । यदे॒वास्या॑ अमे॒द्ध्यम् । तद॑प॒हत्य॑ । मेद्ध्यां᳚ देव॒यज॑नीं कृ॒त्वा
कोर्वै (Index)
(वै वा॒यु - रा॑ह - परा॒वतीत्या॒हा - ह॑ - द्वि॒तीयꣳ॑ हर॒ - तीति॑ - परिगृ॒ह्णन्ति॑ - देव॒यज॑नीं करोति - भवन्ति - खनत्य - क - रे॒तत् - कृ॒त्वा - र॑क्षो॒घ्नी - र॑र्पयति)
3.2.9.14
यद॒दश्च॒न्द्रम॑सि॒ मेद्ध्य᳚म् । तद॒स्यामेर॑यति । तां धीरा॑सो अनु॒दृश्य॑ यजन्त॒ इत्या॒हानु॑ख्यात्यै ॥ प्रोक्ष॑णी॒रासा॑दय । इ॒द्ध्माब॒र्॒.हि-रुप॑सादय । स्रु॒वं च॒ स्रुच॑श्च॒ संमृ॑ड्ढि । पत्नीꣳ॒॒ संन॑ह्य । आज्ये॑नो॒देहीत्या॑हानुपू॒र्वता॑यै । प्रोक्ष॑णी॒रासा॑दयति । आपो॒ वै र॑क्षो॒घ्नीः
कोर्वै (Index)
(वै वा॒यु - रा॑ह - परा॒वतीत्या॒हा - ह॑ - द्वि॒तीयꣳ॑ हर॒ - तीति॑ - परिगृ॒ह्णन्ति॑ - देव॒यज॑नीं करोति - भवन्ति - खनत्य - क - रे॒तत् - कृ॒त्वा - र॑क्षो॒घ्नी - र॑र्पयति)
3.2.9.15
रक्ष॑सा॒मप॑हत्यै । स्फ्यस्य॒ वर्त्मन्᳚थ्-सादयति । य॒ज्ञ्स्य॒ सन्त॑त्यै । उ॒वाच॒ हासि॑तो दैव॒लः । ए॒ताव॑ती॒र्वा अ॒मुष्मि॑न् ॅलो॒क आप॑ आसन्न् । याव॑तीः॒ प्रोक्ष॑णी॒रिति॑ । तस्मा᳚द् ब॒ह्वीरा॒साद्याः᳚ । स्फ्यमु॒दस्यन्न्॑ । यं द्वि॒ष्यात्तं ध्या॑येत् । शु॒चैवैन॑-मर्पयति ( ) ।