TB 3.2.6

4 पञ्चाशत्

3.2.6 अनुवाकं 6 - तण्डुलपेषणम्

3.2.6.1
अव॑धूतꣳ॒॒ रक्षोऽव॑धूता॒ अरा॑तय॒ इत्या॑ह । रक्ष॑सा॒मप॑हत्यै । अदि॑त्या॒स्त्वग॒सीत्या॑ह । इ॒यं ॅवा अदि॑तिः । अ॒स्या ए॒वैन॒त् त्वचं॑ करोति । प्रति॑ त्वा पृथि॒वी वे॒त्त्वित्या॑ह॒ प्रति॑ष्ठित्यै । पु॒रस्ता᳚त् प्रती॒चीन॑ग्रीव॒-मुत्त॑रलो॒मोप॑स्तृणाति मेद्ध्य॒त्वाय॑ । तस्मा᳚त् पु॒रस्ता᳚त् प्र॒त्यञ्चः॑ प॒शवो॒ मेध॒मुप॑तिष्ठन्ते । तस्मा᳚त् प्र॒जा मृ॒गं ग्राहु॑काः । य॒ज्ञो दे॒वेभ्यो॒ निला॑यत
कोर्वै (Index)
(निला॑यत॒ - विधृ॑त्यै - वी॒र्ये॑ण - स्कन्दन्ति च॒त्वारि॑ च )
3.2.6.2
कृष्णो॑ रू॒पं कृ॒त्वा । यत् कृ॑ष्णाजि॒ने ह॒विर॑धिपि॒नष्टि॑ । य॒ज्ञादे॒व तद् य॒ज्ञ्ं प्रयु॑ङ्क्ते । ह॒विषोऽस्क॑न्दाय ॥ द्यावा॑पृथि॒वी स॒हास्ता᳚म् । ते श॑म्यामा॒त्रमेक॒मह॒र्व्यैताꣳ॑ शम्यामा॒त्रमेक॒महः॑ ॥ दि॒वः स्क॑म्भ॒निर॑सि॒ प्रति॒ त्वा ऽदि॑त्या॒स्त्वग्वे॒त्त्वित्या॑ह । द्यावा॑पृथि॒व्योर् वीत्यै᳚ । धि॒षणा॑ऽसि पर्व॒त्या प्रति॑ त्वा दि॒वः स्क॑म्भ॒निर्वे॒त्त्वित्या॑ह । द्यावा॑पृथि॒व्योर् विधृ॑त्यै ।
कोर्वै (Index)
(निला॑यत॒ - विधृ॑त्यै - वी॒र्ये॑ण - स्कन्दन्ति च॒त्वारि॑ च )
3.2.6.3
धि॒षणा॑ऽसि पार्वते॒यी प्रति॑ त्वा पर्व॒तिर्वे॒त्त्वित्या॑ह । द्यावा॑पृथि॒व्योर्द्धृत्यै᳚ ॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह॒ प्रसू᳚त्यै । अ॒श्विनो᳚र् बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मद्ध्व॒र्यू आस्ता᳚म् । पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै᳚ । अधि॑वपा॒मीत्या॑ह । य॒था॒दे॒व॒त-मे॒वैना॒नधि॑ वपति ॥ धा॒न्य॑मसि धिनु॒हि दे॒वानित्या॑ह । ए॒तस्य॒ यजु॑षो वी॒र्ये॑ण
कोर्वै (Index)
(निला॑यत॒ - विधृ॑त्यै - वी॒र्ये॑ण - स्कन्दन्ति च॒त्वारि॑ च )
3.2.6.4
याव॒देका॑ दे॒वता॑ का॒मय॑ते॒ याव॒देका᳚ । ताव॒दाहु॑तिः प्रथते । न हि तदस्ति॑ । यत्ताव॑दे॒व स्यात् । याव॑ज्जु॒होति॑ ॥ प्रा॒णाय॑ त्वाऽपा॒नाय॒ त्वेत्या॑ह । प्रा॒णाने॒व यज॑माने दधाति । दी॒र्घामनु॒ प्रसि॑ति॒मायु॑षे धा॒मित्या॑ह । आयु॑रे॒वास्मि॑न् दधाति । अ॒न्तरि॑क्षादिव॒ वा ए॒तानि॒ प्रस्क॑न्दन्ति ( ) । यानि॑ दृ॒षदः॑ । दे॒वो वः॑ सवि॒ता हिर॑ण्यपाणिः॒ प्रति॑ गृह्णा॒त्वित्या॑ह॒ प्रति॑ष्ठित्यै । ह॒विषोऽस्क॑न्दाय ॥ अस॑म्ॅवपन्ती पिꣳ॑षा॒णूनि॑ कुरुता॒दित्या॑ह मेद्ध्य॒त्वाय॑ ।
कोर्वै (Index)
(निला॑यत॒ - विधृ॑त्यै - वी॒र्ये॑ण - स्कन्दन्ति च॒त्वारि॑ च )