TB 3.2.8

12 पञ्चाशत्

3.2.8 अनुवाकं 8 - पुरोडाशानिष्पादनम्

3.2.8.1
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह॒ प्रसू᳚त्यै । अ॒श्विनो᳚र् बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मद्ध्व॒र्यू आस्ता᳚म् । पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै᳚ । सम्ॅव॑पा॒मीत्या॑ह । य॒था॒ दे॒व॒तमे॒वैना॑नि॒ सम्ॅव॑पति ॥ समापो॑ अ॒द्भिर॑ग्मत॒ समोष॑धयो॒ रसे॒नेत्या॑ह । आपो॒ वा ओष॑धीर्-जिन्वन्ति । ओष॑धयो॒ऽपो जि॑न्वन्ति । अ॒न्या वा ए॒तासा॑म॒न्या जि॑न्वन्ति
कोर्वै (Index)
(अ॒न्या जि॑न्वन्-त्यनुवि॒सृत्यै॒-वमा॒-हाशा᳚न्त-आह॒-गुप्त्यै॑-छ॒न्नं - ब्रह्मा᳚-ब्रवीद्-द्वि॒तीय॑म॒भ्य॑पातय॒थ्-सूर्या॑भिनिम्रुक्ते-दे॒वाः)
3.2.8.2
तस्मा॑दे॒वमा॑ह । सꣳ रे॒वती॒र्-जग॑तीभि॒र्-मधु॑मती॒र्-मधु॑मतीभिः सृज्यद्ध्व॒मित्या॑ह । आपो॒ वै रे॒वतीः᳚ । प॒शवो॒ जग॑तीः । ओष॑धयो॒ मधु॑मतीः । आप॒ ओष॑धीः प॒शून् । ताने॒वास्मा॑ एक॒धा सꣳ॒॒सृज्य॑ । मधु॑मतः करोति । अ॒द्भ्यः परि॒ प्रजा॑ताः स्थ॒ सम॒द्भिः पृ॑च्यद्ध्व॒मिति॑ प॒र्याप्ला॑वयति । यथा॒ सुवृ॑ष्ट इ॒माम॑नु वि॒सृत्य॑
कोर्वै (Index)
(अ॒न्या जि॑न्वन्-त्यनुवि॒सृत्यै॒-वमा॒-हाशा᳚न्त-आह॒-गुप्त्यै॑-छ॒न्नं - ब्रह्मा᳚-ब्रवीद्-द्वि॒तीय॑म॒भ्य॑पातय॒थ्-सूर्या॑भिनिम्रुक्ते-दे॒वाः)
3.2.8.3
आप॒ ओष॑धीर्म॒हय॑न्ति । ता॒दृगे॒व तत् ॥ जन॑यत्यै त्वा॒ सम्ॅयौ॒मीत्या॑ह । प्र॒जा ए॒वैतेन॑ दाधार । अ॒ग्नये᳚ त्वा॒ऽग्नीषोमा᳚भ्या॒मित्या॑ह॒ व्यावृ॑त्त्यै । म॒खस्य॒ शिरो॒ऽसीत्या॑ह । य॒ज्ञो वै म॒खः । तस्यै॒तच्छिरः॑ । यत् पु॑रो॒डाशः॑ । तस्मा॑दे॒वमा॑ह
कोर्वै (Index)
(अ॒न्या जि॑न्वन्-त्यनुवि॒सृत्यै॒-वमा॒-हाशा᳚न्त-आह॒-गुप्त्यै॑-छ॒न्नं - ब्रह्मा᳚-ब्रवीद्-द्वि॒तीय॑म॒भ्य॑पातय॒थ्-सूर्या॑भिनिम्रुक्ते-दे॒वाः)
3.2.8.4
घ॒र्मो॑ऽसि वि॒श्वायु॒रित्या॑ह । विश्व॑मे॒वायु॒र् यज॑माने दधाति । उ॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञ्प॑तिः प्रथता॒मित्या॑ह । यज॑मानमे॒व प्र॒जया॑ प॒शुभिः॑ प्रथयति । त्वचं॑ गृह्णी॒ष्वेत्या॑ह । सर्व॑मे॒वैनꣳ॒॒ सत॑नुं करोति । अथा॒प आ॒नीय॒ परि॑ मार्ष्टि । माꣳ॒॒स ए॒व तत् त्वचं॑ दधाति । तस्मा᳚त् त्व॒चा माꣳ॒॒सं छ॒न्नम् ॥ घ॒र्मो वा ए॒षोऽशा᳚न्तः
कोर्वै (Index)
(अ॒न्या जि॑न्वन्-त्यनुवि॒सृत्यै॒-वमा॒-हाशा᳚न्त-आह॒-गुप्त्यै॑-छ॒न्नं - ब्रह्मा᳚-ब्रवीद्-द्वि॒तीय॑म॒भ्य॑पातय॒थ्-सूर्या॑भिनिम्रुक्ते-दे॒वाः)
3.2.8.5
अ॒र्द्ध॒मा॒से᳚ऽर्द्धमासे॒ प्रवृ॑ज्यते । यत् पु॑रो॒डाशः॑ । स ई᳚श्व॒रो यज॑मानꣳ शु॒चा प्र॒दहः॑ । पर्य॑ग्नि करोति । प॒शुमे॒वैन॑मकः । शान्त्या॒ अप्र॑दाहाय । त्रिः पर्य॑ग्नि करोति । त्र्या॑वृ॒द्धि य॒ज्ञ्ः । अथो॒ रक्ष॑सा॒मप॑हत्यै ॥ अ॒न्तरि॑तꣳ॒॒ रक्षो॒ऽन्तरि॑ता॒ अरा॑तय॒ इत्या॑ह
कोर्वै (Index)
(अ॒न्या जि॑न्वन्-त्यनुवि॒सृत्यै॒-वमा॒-हाशा᳚न्त-आह॒-गुप्त्यै॑-छ॒न्नं - ब्रह्मा᳚-ब्रवीद्-द्वि॒तीय॑म॒भ्य॑पातय॒थ्-सूर्या॑भिनिम्रुक्ते-दे॒वाः)
3.2.8.6
रक्ष॑सा-म॒न्तर्.हि॑त्यै । पु॒रो॒डाशं॒ ॅवा अधि॑श्रितꣳ॒॒ रक्षाꣳ॑स्यजिघाꣳसन्न् । दि॒वि नाको॒ नामा॒ग्नी र॑क्षो॒हा । स ए॒वास्मा॒द्-रक्षाꣳ॒॒स्यपा॑हन्न् । दे॒वस्त्वा॑ सवि॒ता श्र॑पय॒त्वित्या॑ह । स॒वि॒तृप्र॑सूत ए॒वैनꣳ॑ श्रपयति । वर्.षि॑ष्ठे॒ अधि॒ नाक॒ इत्या॑ह । रक्ष॑सा॒मप॑हत्यै । अ॒ग्निस्ते॑ त॒नुवं॒ माऽति॑ धा॒गित्या॒हान॑तिदाहाय । अग्ने॑ ह॒व्यꣳ र॑क्ष॒स्वेत्या॑ह॒ गुप्त्यै᳚
कोर्वै (Index)
(अ॒न्या जि॑न्वन्-त्यनुवि॒सृत्यै॒-वमा॒-हाशा᳚न्त-आह॒-गुप्त्यै॑-छ॒न्नं - ब्रह्मा᳚-ब्रवीद्-द्वि॒तीय॑म॒भ्य॑पातय॒थ्-सूर्या॑भिनिम्रुक्ते-दे॒वाः)
3.2.8.7
अवि॑दहन्तः श्रपय॒तेति॒ वाचं॒ ॅविसृ॑जते । य॒ज्ञ्मे॒व ह॒वीꣳष्य॑भि-व्या॒हृत्य॒ प्रत॑नुते । पु॒रो॒रुच॒मवि॑दाहाय॒ शृत्यै॑ करोति ॥ म॒स्तिष्को॒ वै पु॑रो॒डाशः॑ । तं ॅयन्नाभि॑वा॒सये᳚त् । आ॒विर्म॒स्तिष्कः॑ स्यात् । अ॒भिवा॑सयति । तस्मा॒द्-गुहा॑ म॒स्तिष्कः॑ । भस्म॑ना॒ऽभि वा॑सयति । तस्मा᳚न् माꣳ॒॒सेनास्थि॑ छ॒न्नम्
कोर्वै (Index)
(अ॒न्या जि॑न्वन्-त्यनुवि॒सृत्यै॒-वमा॒-हाशा᳚न्त-आह॒-गुप्त्यै॑-छ॒न्नं - ब्रह्मा᳚-ब्रवीद्-द्वि॒तीय॑म॒भ्य॑पातय॒थ्-सूर्या॑भिनिम्रुक्ते-दे॒वाः)
3.2.8.8
वे॒देना॒भि वा॑सयति । तस्मा॒त् केशैः॒ शिरः॑ छ॒न्नम् । अख॑लतिभावुको भवति । य ए॒वं ॅवेद॑ ॥ प॒शोर्वै प्र॑ति॒मा पु॑रो॒डाशः॑ । स नाय॒जुष्क॑-मभि॒वास्यः॑ । वृथे॑व स्यात् । ई॒श्व॒रा यज॑मानस्य प॒शवः॒ प्रमे॑तोः ॥ सं ब्रह्म॑णा पृच्य॒स्वेत्या॑ह । प्रा॒णा वै ब्रह्म॑
कोर्वै (Index)
(अ॒न्या जि॑न्वन्-त्यनुवि॒सृत्यै॒-वमा॒-हाशा᳚न्त-आह॒-गुप्त्यै॑-छ॒न्नं - ब्रह्मा᳚-ब्रवीद्-द्वि॒तीय॑म॒भ्य॑पातय॒थ्-सूर्या॑भिनिम्रुक्ते-दे॒वाः)
3.2.8.9
प्रा॒णाः प॒शवः॑ । प्रा॒णैरे॒व प॒शून्थ् संपृ॑णक्ति । न प्र॒मायु॑का भवन्ति । यज॑मानो॒ वै पु॑रो॒डाशः॑ । प्र॒जा प॒शवः॒ पुरी॑षम् । यदे॒वम॑भि वा॒सय॑ति । यज॑मानमे॒व प्र॒जया॑ प॒शुभिः॒ सम॑र्द्धयति ॥ दे॒वा वै ह॒विर् भृ॒त्वाऽब्रु॑वन्न् । कस्मि॑न्नि॒दं म्र॑क्ष्यामह॒ इति॑ । सो᳚ऽग्निर॑ब्रवीत्
कोर्वै (Index)
(अ॒न्या जि॑न्वन्-त्यनुवि॒सृत्यै॒-वमा॒-हाशा᳚न्त-आह॒-गुप्त्यै॑-छ॒न्नं - ब्रह्मा᳚-ब्रवीद्-द्वि॒तीय॑म॒भ्य॑पातय॒थ्-सूर्या॑भिनिम्रुक्ते-दे॒वाः)
3.2.8.10
मयि॑ त॒नूः संनिध॑द्ध्वम् । अ॒हं ॅव॒स्तं ज॑नयिष्यामि । यस्मि॑न् म्र॒क्ष्यद्ध्व॒ इति॑ । ते दे॒वा अ॒ग्नौ त॒नूः सं न्य॑दधत । तस्मा॑दाहुः । अ॒ग्निः सर्वा॑ दे॒वता॒ इति॑ । सोऽङ्गा॑रेणा॒पः । अ॒भ्य॑पातयत् । तत॑ एक॒तो॑ऽजायत । स द्वि॒तीय॑म॒भ्य॑पातयत्
कोर्वै (Index)
(अ॒न्या जि॑न्वन्-त्यनुवि॒सृत्यै॒-वमा॒-हाशा᳚न्त-आह॒-गुप्त्यै॑-छ॒न्नं - ब्रह्मा᳚-ब्रवीद्-द्वि॒तीय॑म॒भ्य॑पातय॒थ्-सूर्या॑भिनिम्रुक्ते-दे॒वाः)
3.2.8.11
ततो᳚ द्वि॒तो॑ऽजायत । स तृ॒तीय॑-म॒भ्य॑पातयत् । तत॑-स्त्रि॒तो॑ऽजायत । यद॒द्भ्योऽजा॑यन्त । तदा॒प्याना॑माप्य॒त्वम् । यदा॒त्मभ्यो ऽजा॑यन्त । तदा॒त्म्याना॑-मात्म्य॒त्वम् ॥ ते दे॒वा आ॒प्येष्व॑मृजत । आ॒प्या अ॑मृजत॒ सूर्या᳚भ्युदिते । सूर्या᳚भ्युदितः॒ सूर्या॑भिनिम्रुक्ते
कोर्वै (Index)
(अ॒न्या जि॑न्वन्-त्यनुवि॒सृत्यै॒-वमा॒-हाशा᳚न्त-आह॒-गुप्त्यै॑-छ॒न्नं - ब्रह्मा᳚-ब्रवीद्-द्वि॒तीय॑म॒भ्य॑पातय॒थ्-सूर्या॑भिनिम्रुक्ते-दे॒वाः)
3.2.8.12
सूर्या॑भिनिम्रुक्तः कुन॒खिनि॑ । कु॒न॒खी श्या॒वद॑ति । श्या॒वद॑न्नग्रदिधि॒षौ । अ॒ग्र॒दि॒धि॒षुः प॑रिवि॒त्ते । प॒रि॒वि॒त्तो वी॑र॒हणि॑ । वी॒र॒हा ब्र॑ह्म॒हणि॑ । तद्ब्र॑ह्म॒हणं॒ नात्य॑च्यवत । अ॒न्त॒र्वे॒दि निन॑य॒त्यव॑रुद्ध्यै । उल्मु॑केना॒भि गृ॑ह्णाति शृत॒त्वाय॑ । शृ॒तका॑मा इव॒ हि दे॒वाः ( ) ।
कोर्वै (Index)
(अ॒न्या जि॑न्वन्-त्यनुवि॒सृत्यै॒-वमा॒-हाशा᳚न्त-आह॒-गुप्त्यै॑-छ॒न्नं - ब्रह्मा᳚-ब्रवीद्-द्वि॒तीय॑म॒भ्य॑पातय॒थ्-सूर्या॑भिनिम्रुक्ते-दे॒वाः)