TB 3.2.7

6 पञ्चाशत्

3.2.7 अनुवाकं 7 - कपालोपधानम्

3.2.7.1
धृष्टि॑रसि॒ ब्रह्म॑ य॒च्छेत्या॑ह॒ धृत्यै᳚ ॥ अपा᳚ग्ने॒ ऽग्निमा॒मादं॑ जहि॒ निष्क्र॒व्यादꣳ॑ से॒धा दे॑व॒यजं॑ ॅव॒हेत्या॑ह । य ए॒वामात्क्र॒व्यात् । तम॑प॒हत्य॑ । मेद्ध्ये॒ऽग्नौ क॒पाल॒मुप॑दधाति ॥ निर्द॑ग्धꣳ॒॒ रक्षो॒ निर्द॑ग्धा॒ अरा॑तय॒ इत्या॑ह । रक्षाꣳ॑स्ये॒व निर्द॑हति । अ॒ग्नि॒वत्युप॑दधाति । अ॒स्मिन्ने॒व लो॒के ज्योति॑र्द्धत्ते । अङ्गा॑र॒मधि॑-वर्तयति
कोर्वै (Index)
(व॒र्त॒य॒ति॒ - दिव॑मे॒वैतेन॑ दृꣳहति - स॒म्भव॑ति॒ - तꣳ सꣳस्कृ॑तमा॒त्मानं॒ - द्वाद॑श॒ - सꣳस्थि॑ते॒ त्रीणि॑ च)
3.2.7.2
अ॒न्तरि॑क्ष ए॒व ज्योति॑र्द्धत्ते । आ॒दि॒त्यमे॒वामुष्मि॑न् ॅलो॒के ज्योति॑र्द्धत्ते । ज्योति॑ष्मन्तोऽस्मा इ॒मे लो॒का भ॑वन्ति । य ए॒वं ॅवेद॑ ॥ ध्रु॒वम॑सि पृथि॒वीं दृꣳ॒॒हेत्या॑ह । पृ॒थि॒वीमे॒वैतेन॑ दृꣳहति । ध॒र्त्रम॑स्य॒न्तरि॑क्षं दृꣳ॒॒हेत्या॑ह । अ॒न्तरि॑क्षमे॒वैतेन॑ दृꣳहति । ध॒रुण॑मसि॒ दिवं॑ दृꣳ॒॒हेत्या॑ह । दिव॑मे॒वैतेन॑ दृꣳहति
कोर्वै (Index)
(व॒र्त॒य॒ति॒ - दिव॑मे॒वैतेन॑ दृꣳहति - स॒म्भव॑ति॒ - तꣳ सꣳस्कृ॑तमा॒त्मानं॒ - द्वाद॑श॒ - सꣳस्थि॑ते॒ त्रीणि॑ च)
3.2.7.3
धर्मा॑सि॒ दिशो॑ दृꣳ॒॒हेत्या॑ह । दिश॑ ए॒वैतेन॑ दृꣳहति । इ॒माने॒वैतैर् लो॒कान् दृꣳ॑हति । दृꣳ ह॑न्तेऽस्मा इ॒मे लो॒काः प्र॒जया॑ प॒शुभिः॑ । य ए॒वं ॅवेद॑ ॥ त्रीण्यग्रे॑ क॒पाला॒न्युप॑दधाति । त्रय॑ इ॒मे लो॒काः । ए॒षां ॅलो॒काना॒माप्त्यै᳚ । एक॒मग्रे॑ क॒पाल॒मुप॑दधाति । एकं॒ ॅवा अग्रे॑ क॒पालं॒ पुरु॑षस्य स॒भंव॑ति
कोर्वै (Index)
(व॒र्त॒य॒ति॒ - दिव॑मे॒वैतेन॑ दृꣳहति - स॒म्भव॑ति॒ - तꣳ सꣳस्कृ॑तमा॒त्मानं॒ - द्वाद॑श॒ - सꣳस्थि॑ते॒ त्रीणि॑ च)
3.2.7.4
अथ॒ द्वे । अथ॒ त्रीणि॑ । अथ॑ च॒त्वारि॑ । अथा॒ष्टौ । तस्मा॑द॒ष्टाक॑पालं॒ पुरु॑षस्य॒ शिरः॑ । यदे॒वं क॒पाला᳚न्युप॒ दधा॑ति । य॒ज्ञो वै प्र॒जाप॑तिः । य॒ज्ञ्मे॒व प्र॒जाप॑तिꣳ॒॒ सꣳस्क॑रोति । आ॒त्मान॑मे॒व तथ् सꣳस्क॑रोति । तꣳ सꣳस्कृ॑तमा॒त्मान᳚म्
कोर्वै (Index)
(व॒र्त॒य॒ति॒ - दिव॑मे॒वैतेन॑ दृꣳहति - स॒म्भव॑ति॒ - तꣳ सꣳस्कृ॑तमा॒त्मानं॒ - द्वाद॑श॒ - सꣳस्थि॑ते॒ त्रीणि॑ च)
3.2.7.5
अ॒मुष्मि॑न् ॅलो॒केऽनु॒परै॑ति ॥ यद॒ष्टावु॑प॒ दधा॑ति । गा॒य॒त्रि॒या तथ् संमि॑तम् । यन्नव॑ । त्रि॒वृता॒ तत् । यद् दश॑ । वि॒राजा॒ तत् । यदेका॑दश । त्रि॒ष्टुभा॒ तत् । यद्द्वाद॑श
कोर्वै (Index)
(व॒र्त॒य॒ति॒ - दिव॑मे॒वैतेन॑ दृꣳहति - स॒म्भव॑ति॒ - तꣳ सꣳस्कृ॑तमा॒त्मानं॒ - द्वाद॑श॒ - सꣳस्थि॑ते॒ त्रीणि॑ च)
3.2.7.6
जग॑त्या॒ तत् । छन्दः॑ संमितानि॒ स उ॑प॒दध॑त् क॒पाला॑नि । इ॒मान् ॅलो॒कान॑नुपू॒र्वं दिशो॒ विधृ॑त्यै दृꣳहति । अथायुः॑ प्रा॒णान् प्र॒जां प॒शून्. यज॑माने दधाति । स॒जा॒तान॑स्मा अ॒भितो॑ बहु॒लान् क॑रोति ॥ चितः॒ स्थेत्या॑ह । य॒था॒ य॒जुरे॒वैतत् ॥ भृगू॑णा॒मङ्गि॑रसां॒ तप॑सा तप्यद्ध्व॒मित्या॑ह । दे॒वता॑ना-मे॒वैना॑नि॒ तप॑सा तपति । तानि॒ ततः॒ सꣳस्थि॑ते ( ) । यानि॑ घ॒र्मे क॒पाला᳚न् युपचि॒न्वन्ति॑ वे॒धस॒ इति॒ चतु॑ष्पदय॒र्चा विमु॑ञ्चति । चतु॑ष्पादः प॒शवः॑ । प॒शुष्वे॒वोपरि॑ष्टा॒त् प्रति॑तिष्ठति ।
कोर्वै (Index)
(व॒र्त॒य॒ति॒ - दिव॑मे॒वैतेन॑ दृꣳहति - स॒म्भव॑ति॒ - तꣳ सꣳस्कृ॑तमा॒त्मानं॒ - द्वाद॑श॒ - सꣳस्थि॑ते॒ त्रीणि॑ च)