TB 3.2.5

11 पञ्चाशत्

3.2.5 अनुवाकं 5 - व्रीह्यवघातः

3.2.5.1
इन्द्रो॑ वृ॒त्रम॑हन्न् । सो॑ऽपः । अ॒भ्य॑म्रियत । तासां॒ ॅयन्मेद्ध्यं॑ ॅय॒ज्ञियꣳ॒॒ सदे॑व॒मासी᳚त् । तदपोद॑क्रामत् । ते द॒र्भा अ॑भवन्न् । यद्-द॒र्भैर॒प उ॑त्पु॒नाति॑ । या ए॒व मेद्ध्या॑ य॒ज्ञियाः॒ सदे॑वा॒ आपः॑ । ताभि॑रे॒वैना॒ उत्पु॑नाति । द्वाभ्या॒मुत्पु॑नाति
कोर्वै (Index)
(द्वाभ्या॒मुत् पु॑नाति - र॒श्मयो॑ - नय॒न्त्यग्रे॑ य॒ज्ञ्प॑तिं - ॅय॒ज्ञो - ऽदि॑ति॒ - रस्क॑न्दाय - गृह्णा॒मीत्या॑ह - व॒देत्या॑ह॒ - विजि॑त्या॒ - अप॑हत्या॒ - अस्क॑न्दाय॒ त्रीणि॑ च)
3.2.5.2
द्वि॒पाद्-यज॑मानः॒ प्रति॑ष्ठित्यै ॥ दे॒वो वः॑ सवि॒तोत्-पु॑ना॒त्वित्या॑ह । स॒वि॒तृप्र॑सूत ए॒वैना॒ उत्पु॑नाति । अच्छि॑द्रेण प॒वित्रे॒णेत्या॑ह । अ॒सौ वा आ॑दि॒त्योऽच्छि॑द्रं प॒वित्र᳚म् । तेनै॒वैना॒ उत्पु॑नाति । वसोः॒ सूर्य॑स्य र॒श्मिभि॒रित्या॑ह । प्रा॒णा वा आपः॑ । प्रा॒णा वस॑वः । प्रा॒णा र॒श्मयः॑
कोर्वै (Index)
(द्वाभ्या॒मुत् पु॑नाति - र॒श्मयो॑ - नय॒न्त्यग्रे॑ य॒ज्ञ्प॑तिं - ॅय॒ज्ञो - ऽदि॑ति॒ - रस्क॑न्दाय - गृह्णा॒मीत्या॑ह - व॒देत्या॑ह॒ - विजि॑त्या॒ - अप॑हत्या॒ - अस्क॑न्दाय॒ त्रीणि॑ च)
3.2.5.3
प्रा॒णैरे॒व प्रा॒णान्थ् संपृ॑णक्ति । सा॒वि॒त्रि॒यर्चा । स॒वि॒तृप्र॑सूतं मे॒ कर्मा॑स॒दिति॑ । स॒वि॒तृप्र॑सूतमे॒वास्य॒ कर्म॑ भवति । प॒च्छो गा॑यत्रि॒या त्रि॑ष्षमृद्ध॒त्वाय॑ ॥ आपो॑ देवीरग्रेपुवो अग्रेगुव॒ इत्या॑ह । रू॒प-मे॒वासा॑मे॒तन्-म॑हि॒मानं॒ ॅव्याच॑ष्टे । अग्र॑ इ॒मं ॅय॒ज्ञ्ं न॑य॒ताग्रे॑ य॒ज्ञ्प॑ति॒मित्या॑ह । अग्रे॑ ए॒व य॒ज्ञ्ं न॑यन्ति । अग्रे॑ य॒ज्ञ्प॑तिम्
कोर्वै (Index)
(द्वाभ्या॒मुत् पु॑नाति - र॒श्मयो॑ - नय॒न्त्यग्रे॑ य॒ज्ञ्प॑तिं - ॅय॒ज्ञो - ऽदि॑ति॒ - रस्क॑न्दाय - गृह्णा॒मीत्या॑ह - व॒देत्या॑ह॒ - विजि॑त्या॒ - अप॑हत्या॒ - अस्क॑न्दाय॒ त्रीणि॑ च)
3.2.5.4
यु॒ष्मानिन्द्रो॑ ऽवृणीत वृत्र॒तूये॑ यू॒यमिन्द्र॑मवृणीद्ध्वं ॅवृत्र॒तूर्य॒ इत्या॑ह । वृ॒त्रꣳ ह॑ हनि॒ष्यन्निन्द्र॒ आपो॑ वव्रे । आपो॒ हेन्द्रं॑ ॅवव्रिरे । स॒ज्ञां-मे॒वासा॑मे॒तथ्-सामा॑नं॒ ॅव्याच॑ष्टे ॥ प्रोक्षि॑ताः॒ स्थेत्या॑ह । तेनापः॒ प्रोक्षि॑ताः ॥ अ॒ग्नये॑ वो॒ जुष्टं॒ प्रोक्षा᳚-म्य॒ग्नीषोमा᳚भ्या॒-मित्या॑ह । य॒था॒ दे॒व॒तमे॒वैना॒न् प्रोक्ष॑ति । त्रिः प्रोक्ष॑ति । त्र्या॑वृ॒द्धि य॒ज्ञ्ः
कोर्वै (Index)
(द्वाभ्या॒मुत् पु॑नाति - र॒श्मयो॑ - नय॒न्त्यग्रे॑ य॒ज्ञ्प॑तिं - ॅय॒ज्ञो - ऽदि॑ति॒ - रस्क॑न्दाय - गृह्णा॒मीत्या॑ह - व॒देत्या॑ह॒ - विजि॑त्या॒ - अप॑हत्या॒ - अस्क॑न्दाय॒ त्रीणि॑ च)
3.2.5.5
अथो॒ रक्ष॑सा॒मप॑हत्यै । शुन्ध॑द्ध्वं॒ दैव्या॑य॒ कर्म॑णे देवय॒ज्याया॒ इत्या॑ह । दे॒व॒य॒ज्याया॑ ए॒वैना॑नि शुन्धति । त्रिः प्रोक्ष॑ति । त्र्या॑वृ॒द्धि य॒ज्ञ्ः । अथो॑ मेद्ध्य॒त्वाय॑ । अव॑धूतꣳ॒॒ रक्षोऽव॑धूता॒ अरा॑तय॒ इत्या॑ह । रक्ष॑सा॒-मप॑हत्यै । अदि॑त्या॒स्त्वग॒सीत्या॑ह । इ॒यं ॅवा अदि॑तिः
कोर्वै (Index)
(द्वाभ्या॒मुत् पु॑नाति - र॒श्मयो॑ - नय॒न्त्यग्रे॑ य॒ज्ञ्प॑तिं - ॅय॒ज्ञो - ऽदि॑ति॒ - रस्क॑न्दाय - गृह्णा॒मीत्या॑ह - व॒देत्या॑ह॒ - विजि॑त्या॒ - अप॑हत्या॒ - अस्क॑न्दाय॒ त्रीणि॑ च)
3.2.5.6
अ॒स्या ए॒वैन॒त् त्वचं॑ करोति । प्रति॑ त्वा पृथि॒वी वे॒त्त्वित्या॑ह॒ प्रति॑ष्ठित्यै ॥ पु॒रस्ता᳚त् प्रती॒चीन॑ग्रीव॒-मुत्त॑रलो॒मोप॑स्तृणाति मेद्ध्य॒त्वाय॑ । तस्मा᳚त् पु॒रस्ता᳚त् प्र॒त्यञ्चः॑ प॒शवो॒ मेध॒मुप॑तिष्ठन्ते । तस्मा᳚त् प्र॒जा मृ॒गं ग्राहु॑काः । य॒ज्ञो दे॒वेभ्यो॒ निला॑यत । कृष्णो॑ रू॒पं कृ॒त्वा । यत् कृ॑ष्णाजि॒ने ह॒विर॑द्ध्यव॒हन्ति॑ । य॒ज्ञादे॒व-तद्-य॒ज्ञ्ं प्रयु॑ङ्क्ते । ह॒विषोऽस्क॑न्दाय ।
कोर्वै (Index)
(द्वाभ्या॒मुत् पु॑नाति - र॒श्मयो॑ - नय॒न्त्यग्रे॑ य॒ज्ञ्प॑तिं - ॅय॒ज्ञो - ऽदि॑ति॒ - रस्क॑न्दाय - गृह्णा॒मीत्या॑ह - व॒देत्या॑ह॒ - विजि॑त्या॒ - अप॑हत्या॒ - अस्क॑न्दाय॒ त्रीणि॑ च)
3.2.5.7
अ॒धि॒षव॑णमसि वानस्प॒त्यमित्या॑ह । अ॒धि॒षव॑ण-मे॒वैन॑त् करोति । प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वे॒त्त्वित्या॑ह सय॒त्वाय॑ ॥ अ॒ग्नेस्त॒नू-र॒सीत्या॑ह । अ॒ग्नेर्वा ए॒षा त॒नूः । यदोष॑धयः । वा॒चो वि॒सर्ज॑न॒मित्या॑ह । य॒दा हि प्र॒जा ओष॑धीना-म॒श्नन्ति॑ । अथ॒ वाचं॒ ॅविसृ॑जन्ते । दे॒ववी॑तये त्वा गृह्णा॒मीत्या॑ह
कोर्वै (Index)
(द्वाभ्या॒मुत् पु॑नाति - र॒श्मयो॑ - नय॒न्त्यग्रे॑ य॒ज्ञ्प॑तिं - ॅय॒ज्ञो - ऽदि॑ति॒ - रस्क॑न्दाय - गृह्णा॒मीत्या॑ह - व॒देत्या॑ह॒ - विजि॑त्या॒ - अप॑हत्या॒ - अस्क॑न्दाय॒ त्रीणि॑ च)
3.2.5.8
दे॒वता॑भिरे॒वैन॒थ् सम॑र्द्धयति ॥ अद्रि॑रसि वानस्प॒त्य इत्या॑ह । ग्रावा॑ण-मे॒वैन॑त् करोति । स इ॒दं दे॒वेभ्यो॑ ह॒व्यꣳ सु॒शमि॑ शमि॒ष्वेत्या॑ह॒ शान्त्यै᳚ ॥ हवि॑ष्कृ॒देहीत्या॑ह । य ए॒व दे॒वानाꣳ॑ हवि॒ष्कृतः॑ । तान्. ह्व॑यति । त्रिर्ह्व॑यति । त्रिष॑त्या॒ हि दे॒वाः ॥ इष॒मा व॒दोर्ज॒मा व॒देत्या॑ह
कोर्वै (Index)
(द्वाभ्या॒मुत् पु॑नाति - र॒श्मयो॑ - नय॒न्त्यग्रे॑ य॒ज्ञ्प॑तिं - ॅय॒ज्ञो - ऽदि॑ति॒ - रस्क॑न्दाय - गृह्णा॒मीत्या॑ह - व॒देत्या॑ह॒ - विजि॑त्या॒ - अप॑हत्या॒ - अस्क॑न्दाय॒ त्रीणि॑ च)
3.2.5.9
इष॑मे॒वोर्जं॒ ॅयज॑माने दधाति । द्यु॒मद्व॑दत व॒यꣳ स॑घां॒तं जे॒ष्मेत्या॑ह॒ भ्रातृ॑व्याभिभूत्यै ॥ मनोः᳚ श्र॒द्धादे॑वस्य॒ यज॑मानस्यासुर॒घ्नी वाक् । य॒ज्ञा॒यु॒धेषु॒ प्रवि॑ष्टाऽऽसीत् । तेऽसु॑रा॒ याव॑न्तो यज्ञायु॒धाना॑मु॒द्वद॑ता-मु॒पाशृ॑ण्वन्न् । ते परा॑ऽभवन्न् । तस्मा॒थ् स्वानां॒ मद्ध्ये॑ऽव॒साय॑ यजेत । याव॑न्तोऽस्य॒ भ्रातृ॑व्या यज्ञायु॒धाना॑-मु॒द्वद॑ता-मुपशृ॒ण्वन्ति॑ । ते परा॑ भवन्ति । उ॒च्चैः स॒माह॑न्त॒वा आ॑ह॒ विजि॑त्यै
कोर्वै (Index)
(द्वाभ्या॒मुत् पु॑नाति - र॒श्मयो॑ - नय॒न्त्यग्रे॑ य॒ज्ञ्प॑तिं - ॅय॒ज्ञो - ऽदि॑ति॒ - रस्क॑न्दाय - गृह्णा॒मीत्या॑ह - व॒देत्या॑ह॒ - विजि॑त्या॒ - अप॑हत्या॒ - अस्क॑न्दाय॒ त्रीणि॑ च)
3.2.5.10
वृ॒ङ्क्त ए॑षामिन्द्रि॒यं ॅवी॒र्य᳚म् । श्रेष्ठ॑ एषां भवति ॥ व॒र्॒.ष वृ॑द्धमसि॒ प्रति॑ त्वा व॒र्॒.षवृ॑द्धं ॅवे॒त्त्वित्या॑ह । व॒र्॒.षवृ॑द्धा॒ वा ओष॑धयः । व॒र्॒.षवृ॑द्धा इ॒षीकाः॒ समृ॑द्ध्यै । य॒ज्ञ्ꣳ रक्षाꣳ॒॒स्यनु॒ प्रावि॑शन्न् । तान्य॒स्ना प॒शुभ्यो॑ नि॒रवा॑दयन्त । तुषै॒रोष॑धीभ्यः ॥ परा॑पूतꣳ॒॒ रक्षः॒ परा॑पूता॒ अरा॑तय॒ इत्या॑ह । रक्ष॑सा॒मप॑हत्यै
कोर्वै (Index)
(द्वाभ्या॒मुत् पु॑नाति - र॒श्मयो॑ - नय॒न्त्यग्रे॑ य॒ज्ञ्प॑तिं - ॅय॒ज्ञो - ऽदि॑ति॒ - रस्क॑न्दाय - गृह्णा॒मीत्या॑ह - व॒देत्या॑ह॒ - विजि॑त्या॒ - अप॑हत्या॒ - अस्क॑न्दाय॒ त्रीणि॑ च)
3.2.5.11
रक्ष॑सां भा॒गो॑ऽसीत्या॑ह । तुषै॑रे॒व रक्षाꣳ॑सि नि॒रव॑दयते । अ॒प उप॑स्पृशति मेद्ध्य॒त्वाय॑ । वा॒युर्वो॒ वि वि॑न॒क्त्वित्या॑ह । प॒वित्रं॒ ॅवै वा॒युः । पु॒नात्ये॒वैनान्॑ । अ॒न्तरि॑क्षादिव॒ वा ए॒ते प्रस्क॑न्दन्ति । ये शूर्पा᳚त् । दे॒वो वः॑ सवि॒ता हिर॑ण्यपाणिः॒ प्रति॑गृह्णा॒त्वित्या॑ह॒ प्रति॑ष्ठित्यै । ह॒विषोऽस्क॑न्दाय ( ) । त्रिष्फ॒लीक॑र्त॒वा आ॑ह । त्र्या॑वृ॒द्धि य॒ज्ञ्ः । अथो॑ मेद्ध्य॒त्वाय॑ ।
कोर्वै (Index)
(द्वाभ्या॒मुत् पु॑नाति - र॒श्मयो॑ - नय॒न्त्यग्रे॑ य॒ज्ञ्प॑तिं - ॅय॒ज्ञो - ऽदि॑ति॒ - रस्क॑न्दाय - गृह्णा॒मीत्या॑ह - व॒देत्या॑ह॒ - विजि॑त्या॒ - अप॑हत्या॒ - अस्क॑न्दाय॒ त्रीणि॑ च)