स॒त्यं प्रप॑द्ये । ऋ॒तं प्रप॑द्ये । अ॒मृतं॒ प्रप॑द्ये । प्र॒जाप॑तेः प्रि॒यां त॒नुव॒मना᳚र्तां॒ प्रप॑द्ये । इ॒दम॒हं प॑ञ्चद॒शेन॒ वज्रे॑ण । द्वि॒षन्तं॒ भ्रातृ॑व्य॒मव॑क्रामामि । यो᳚ऽस्मान् द्वेष्टि॑ । यं च॑ व॒यं द्वि॒ष्मः । भूर्भुवः॒ सुवः॑ । हिम् ।
कोर्वै (Index)
(स॒त्यं दश॑)