TB 3.5.2

3 पञ्चाशत्

3.5.2 अनुवाकं 2 - सामिधेनीम्रन्वाह

3.5.2.1
प्र वो॒ वाजा॑ अ॒भिद्य॑वः । ह॒विष्म॑न्तो घृ॒ताच्या᳚ । दे॒वाञ्जि॑गाति सुम्न॒युः ॥ अग्न॒ आया॑हि वी॒तये᳚ । गृ॒णा॒नो ह॒व्यदा॑तये । नि होता॑ सथ्सि ब॒र॒.हिषि॑ ॥ तं त्वा॑ स॒मिद्भि॑रङ्गिरः । घृ॒तेन॑ वर्द्धयामसि । बृ॒हच्छो॑चा यविष्ठ्य ॥ स नः॑ पृ॒थु श्र॒वाय्य᳚म्
कोर्वै (Index)
(श्र॒वाय्य॑ - मिधीम॒ - ह्यसि॑ स॒प्त च॑)
3.5.2.2
अच्छा॑ देव विवाससि । बृ॒हद॑ग्ने सु॒वीर्य᳚म् ॥ ई॒डेन्यो॑ नम॒स्य॑स्ति॒रः । तमाꣳ॑सि दर्.श॒तः । सम॒ग्निरि॑द्ध्यते॒ वृषा᳚ ॥ वृषो॑ अ॒ग्निः समि॑द्ध्यते । अश्वो॒ न दे॑व॒वाह॑नः । तꣳ ह॒विष्म॑न्त ईडते ॥ वृष॑णं त्वा व॒यं ॅवृषन्न्॑ । वृषा॑णः॒ समि॑धीमहि
कोर्वै (Index)
(श्र॒वाय्य॑ - मिधीम॒ - ह्यसि॑ स॒प्त च॑)
3.5.2.3
अग्ने॒ दीद्य॑तं बृ॒हत् ॥ अ॒ग्निं दू॒तं ॅवृ॑णीमहे । होता॑रं ॅवि॒श्ववे॑दसम् । अ॒स्य य॒ज्ञ्स्य॑ सु॒क्रतु᳚म् ॥ स॒मि॒द्ध्यमा॑नो अद्ध्व॒रे । अ॒ग्निः पा॑व॒क ईड्यः॑ । शो॒चिष्के॑श॒स्तमी॑महे ॥ समि॑द्धो अग्न आहुत । दे॒वान्. य॑क्षि स्वद्ध्वर । त्वꣳ हि ह॑व्य॒वाडसि॑ ( ) ॥ आजु॑होत दुव॒स्यत॑ । अ॒ग्निं प्र॑य॒त्य॑द्ध्व॒रे । वृ॒णी॒द्ध्वꣳ ह॑व्य॒वाह॑नम् ॥ त्वं ॅवरु॑ण उ॒त मि॒त्रो अ॑ग्ने । त्वां ॅव॑र्द्धन्ति म॒तिभि॒र्वसि॑ष्ठाः । त्वे वसु॑ सुषण॒नानि॑ सन्तु । यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ।
कोर्वै (Index)
(श्र॒वाय्य॑ - मिधीम॒ - ह्यसि॑ स॒प्त च॑)