दे॒वं ब॒र्॒.हिः । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु । दे॒वो नरा॒शꣳ सः॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु । दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृत् । सु॒द्रवि॑णा म॒न्द्रः क॒विः । स॒त्यम॑न्माऽऽय॒जी होता᳚ । होतु॑र्. होतु॒राय॑जीयान् । अग्ने॒ यान्-दे॒वानया᳚ट् । याꣳ अपि॑प्रेः ( ) । ये ते॑ हो॒त्रे अम॑थ्सत । ताꣳ स॑स॒नुषीꣳ॒॒ होत्रां᳚ देवं ग॒माम् । दि॒वि दे॒वेषु॑ य॒ज्ञ्मेर॑ये॒मम् । स्वि॒ष्ट॒कृच्चाग्ने॒ होताऽभूः᳚ । व॒सु॒वने॑ वसु॒धेय॑स्य नमोवा॒के वीहि॑ ।
कोर्वै (Index)
(अपि॑प्रेः॒ पञ्च॑ च)