TB 3.5.4

1 पञ्चाशत्

3.5.4 अनुवाकं 4 - स्रुचावादापयति

3.5.4.1
अ॒ग्निर्. होता॒ वेत्व॒ग्निः । हो॒त्रं ॅवे᳚त्तु प्रावि॒त्रम् । स्मो व॒यम् । सा॒धु ते॑ यजमान दे॒वता᳚ । घृ॒तव॑ती-मद्ध्वर्यो॒ स्रुच॒माऽस्य॑स्व । दे॒वा॒युवं॑ ॅवि॒श्ववा॑राम् । ईडा॑महै दे॒वाꣳ ई॒डेन्यान्॑ । न॒म॒स्याम॑ नम॒स्यान्॑ । यजा॑म य॒ज्ञियान्॑ ।
कोर्वै (Index)
(अ॒ग्निर्. होता॒ नव॑)