“आ प्या॑यस्व॒{1}” “सं ते᳚ {2}” ॥ “इ॒ह त्वष्टा॑रमग्रि॒यं{3}” “तन्न॑स्तु॒रीप᳚म् {4}” ॥ दे॒वानां॒ पत्नी॑रुश॒तीर॑वन्तु नः । प्राव॑न्तु नस्तु॒जये॒ वाज॑सातये । याः पार्थि॑वासो॒ या अ॒पामपि॑ व्र॒ते । ता नो॑ देवीः सुहवाः॒ शर्म॑ यच्छत ॥ उ॒त ग्ना वि॑यन्तु दे॒वप॑त्नीः । इ॒न्द्रा॒ण्य॑ग्नाय्य॒श्विनी॒ राट् । आ रोद॑सी वरुणा॒नी शृ॑णोतु । वि॒यन्तु॑ दे॒वीर्य ऋ॒तुर्जनी॑नाम् ( ) ।
कोर्वै (Index)
(जनी॑ना - +म॒ष्टौ च॑)