TB 3.5.8

3 पञ्चाशत्

3.5.8 अनुवाकं 8 - इडोपाह्वानाम्

3.5.8.1
उप॑हूतꣳ रथन्त॒रꣳ स॒ह पृ॑थि॒व्या । उप॑ मा रथन्त॒रꣳ स॒ह पृ॑थि॒व्या ह्व॑यताम् । उप॑हूतं ॅवामदे॒व्यꣳ स॒हान्तरि॑क्षेण । उप॑ मा वामदे॒व्यꣳ स॒हान्तरि॑क्षेण ह्वयताम् । उप॑ हूतं बृ॒हथ्स॒ह दि॒वा । उप॑ मा बृ॒हथ्स॒ह दि॒वा ह्व॑यताम् । उप॑हूताः स॒प्त होत्राः᳚ । उप॑ मा स॒प्त होत्रा᳚ ह्वयन्ताम् । उप॑हूता धे॒नुः स॒हर्.ष॑भा । उप॑ मा धे॒नुः स॒हर्.ष॑भा ह्वयताम्
कोर्वै (Index)
(स॒हर्.ष॑भा ह्वयता॒ - मुप॑हूतꣳ - हवि॒ष्कर॑ण॒ उप॑हूतश्च॒त्वारि॑ च)
3.5.8.2
उप॑हूतो भ॒क्षः सखा᳚ । उप॑ मा भ॒क्षः सखा᳚ ह्वयताम् । उप॑हू॒ताॅ(4) हो । इडोप॑हूता । उप॑हू॒तेडा᳚ । उपो॑ अ॒स्माꣳ इडा᳚ ह्वयताम् । इडोप॑हूता । उप॑हू॒तेडा᳚ । मा॒न॒वी घृ॒तप॑दी मैत्रावरु॒णी । ब्रह्म॑ दे॒वकृ॑त॒मुप॑हूतम्
कोर्वै (Index)
(स॒हर्.ष॑भा ह्वयता॒ - मुप॑हूतꣳ - हवि॒ष्कर॑ण॒ उप॑हूतश्च॒त्वारि॑ च)
3.5.8.3
दैव्या॑ अद्ध्व॒र्यव॒ उप॑हूताः । उप॑हूता मनु॒ष्याः᳚ । य इ॒मं ॅय॒ज्ञ्मवान्॑ । ये य॒ज्ञ्प॑तिं॒ ॅवर्द्धान्॑ । उप॑हूते॒ द्यावा॑पृथि॒वी । पू॒र्व॒जे ऋ॒ताव॑री । दे॒वी दे॒वपु॑त्रे । उप॑हूतो॒ऽयं ॅयज॑मानः । उत्त॑रस्यां देवय॒ज्याया॒-मुप॑हूतः । भूय॑सि हवि॒ष्कर॑ण॒ उप॑हूतः ( ) । दि॒व्ये धाम॒न्नुप॑हूतः । इ॒दं मे॑ दे॒वा ह॒विर्जु॑षन्ता॒मिति॒ तस्मि॒न्नुप॑हूतः । विश्व॑मस्य प्रि॒यमुप॑हूतम् । विश्व॑स्य प्रि॒यस्योप॑हूत॒स्योप॑हूतः ।
कोर्वै (Index)
(स॒हर्.ष॑भा ह्वयता॒ - मुप॑हूतꣳ - हवि॒ष्कर॑ण॒ उप॑हूतश्च॒त्वारि॑ च)