TB 3.5.7

6 पञ्चाशत्

3.5.7 अनुवाकं 7 - हविषां याज्यानुवाक्याः

3.5.7.1
अ॒ग्निर्-मू॒र्द्धा दि॒वः क॒कुत् । पतिः॑ पृथि॒व्या अ॒यम् । अ॒पाꣳ रेताꣳ॑सि जिन्वति । भुवो॑ य॒ज्ञ्स्य॒ रज॑सश्च ने॒ता । यत्रा॑ नि॒युद्भिः॒ सच॑से शि॒वाभिः॑ । दि॒वि मू॒र्द्धानं॑ दधिषे सुव॒र्॒.षाम् । जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह᳚म् । प्रजा॑पते॒ न त्वदे॒तान्य॒न्यः । विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । यत्-का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु
कोर्वै (Index)
(अ॒स्त्व॒ - ध॒त्तꣳ॒ - र॒यिं - च॑र्.षणि॒प्राः - सोम॑स्य प्रि॒या धामा॒ - नीषः॒ षट्च॑)
3.5.7.2
व॒यꣳ स्या॑म॒ पत॑यो रयी॒णाम् । स वे॑द पु॒त्रः पि॒तरꣳ॒॒ स मा॒तर᳚म् । स सू॒नुर्भु॑व॒थ्स भु॑व॒त्पुन॑र्मघः । स द्यामौर्णो॑द॒न्तरि॑क्षꣳ॒॒ स सुवः॑ । स विश्वा॒ भुवो॑ अभव॒थ्स आऽभ॑वत् । अग्नी॑षोमा॒ सवे॑दसा । सहू॑ती वनतं॒ गिरः॑ । सं दे॑व॒त्रा ब॑भूवथुः । यु॒वमे॒तानि॑ दि॒वि रो॑च॒नानि॑ । अ॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम्
कोर्वै (Index)
(अ॒स्त्व॒ - ध॒त्तꣳ॒ - र॒यिं - च॑र्.षणि॒प्राः - सोम॑स्य प्रि॒या धामा॒ - नीषः॒ षट्च॑)
3.5.7.3
यु॒वꣳ सिन्धूꣳ॑ र॒भिश॑स्ते-रव॒द्यात् । अग्नी॑षोमा॒-वमु॑ञ्चतं गृभी॒तान् । इन्द्रा᳚ग्नी रोच॒ना दि॒वः । परि॒ वाजे॑षु भूषथः । तद्वां᳚ चेति॒ प्रवी॒र्य᳚म् । श्नथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाज᳚म् । इन्द्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् । इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य॒ भूरेः᳚ । सह॑स्तमा॒ सह॑सा वाज॒यन्ता᳚ । एन्द्र॑ सान॒सिꣳ र॒यिम्
कोर्वै (Index)
(अ॒स्त्व॒ - ध॒त्तꣳ॒ - र॒यिं - च॑र्.षणि॒प्राः - सोम॑स्य प्रि॒या धामा॒ - नीषः॒ षट्च॑)
3.5.7.4
स॒जित्वा॑नꣳ सदा॒सह᳚म् । वर्.षि॑ष्ठमू॒तये॑ भर । प्रस॑साहिषे पुरुहूत॒ शत्रून्॑ । ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु । इन्द्राभ॑र॒ दक्षि॑णेना॒ वसू॑नि । पतिः॒ सिन्धू॑नामसि रे॒वती॑नाम् । म॒हाꣳ इन्द्रो॒ य ओज॑सा । प॒र्जन्यो॑ वृष्टि॒माꣳ इ॑व । स्तोमै᳚र्व॒थ्सस्य॑ वावृधे । म॒हां इन्द्रो॑ नृ॒वदाच॑र्.षणि॒प्राः
कोर्वै (Index)
(अ॒स्त्व॒ - ध॒त्तꣳ॒ - र॒यिं - च॑र्.षणि॒प्राः - सोम॑स्य प्रि॒या धामा॒ - नीषः॒ षट्च॑)
3.5.7.5
उ॒त द्वि॒बर्.हा॑ अमि॒नः सहो॑भिः । अ॒स्म॒द्रिय॑ग्वावृधे वी॒र्या॑य । उ॒रुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र्भूत् । पि॒प्री॒हि दे॒वाꣳ उ॑श॒तो य॑विष्ठ । वि॒द्वां ऋतूꣳर्. ऋ॑तुपते यजे॒ह । ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने । त्वꣳ होतॄ॑णाम॒स्याय॑जिष्ठः ॥ अ॒ग्निꣳ स्वि॑ष्ट॒कृत᳚म् । अया॑ड॒ग्निर॒ग्नेः प्रि॒या धामा॑नि । अया॒ट्थ्सोम॑स्य प्रि॒या धामा॑नि
कोर्वै (Index)
(अ॒स्त्व॒ - ध॒त्तꣳ॒ - र॒यिं - च॑र्.षणि॒प्राः - सोम॑स्य प्रि॒या धामा॒ - नीषः॒ षट्च॑)
3.5.7.6
अया॑ड॒ग्नेः प्रि॒या धामा॑नि । अया᳚ट्प्र॒जाप॑तेः प्रि॒या धामा॑नि । अया॑ड॒ग्नीषोम॑योः प्रि॒या धामा॑नि । अया॑डिन्द्राग्नि॒योः प्रि॒या धामा॑नि । अया॒डिन्द्र॑स्य प्रि॒या धामा॑नि । अया᳚ण्महे॒न्द्रस्य॑ प्रि॒या धामा॑नि । अया᳚ड्दे॒वाना॑-माज्य॒पानां᳚ प्रि॒या धामा॑नि । यक्ष॑द॒ग्नेर्. होतुः॑ प्रि॒या धामा॑नि । यक्ष॒थ्स्वं म॑हि॒मान᳚म् । आय॑जता॒मेज्या॒ इषः॑ ( ) । कृ॒णोतु॒ सो अ॑द्ध्व॒रा जा॒तवे॑दाः । जु॒षताꣳ॑ ह॒विः । अग्ने॒ यद॒द्य वि॒शो अ॑द्ध्वरस्य होतः । पाव॑क शोचे॒ वेष्ट्वꣳ हि यज्वा᳚ । ऋ॒ता य॑जासि महि॒ना वि यद्भूः । ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ।
कोर्वै (Index)
(अ॒स्त्व॒ - ध॒त्तꣳ॒ - र॒यिं - च॑र्.षणि॒प्राः - सोम॑स्य प्रि॒या धामा॒ - नीषः॒ षट्च॑)