TB 3.5.6

1 पञ्चाशत्

3.5.6 अनुवाकं 6 - अज्यभागयोः पुरोनुवाक्ये

3.5.6.1
अ॒ग्निर्-वृ॒त्राणि॑ जङ्घनत् । द्र॒वि॒ण॒स्युर्-वि॑प॒न्यया᳚ । समि॑द्धः शु॒क्र आहु॑तः । जु॒षा॒णो अ॒ग्निराज्य॑स्य वेतु । त्वꣳ सो॑मासि॒ सत्प॑तिः । त्वꣳ राजो॒त वृ॑त्र॒हा । त्वं भ॒द्रो अ॑सि॒ क्रतुः॑ । जु॒षा॒णः सोम॒ आज्य॑स्य ह॒विषो॑ वेतु । अ॒ग्निः प्र॒त्नेन॒ जन्म॑ना । शुम्भा॑नस्त॒नुवꣳ॒॒ स्वाम् ( ) । क॒विर्-विप्रे॑ण वावृधे । जु॒षा॒णो अ॒ग्निराज्य॑स्य वेतु । सोम॑ गी॒र्भिष्ट्वा॑ व॒यम् । व॒र्द्धया॑मो वचो॒विदः॑ । सु॒मृ॒डी॒को न॒ आवि॑श । जु॒षा॒णः सोम॒ आज्य॑स्य ह॒विषो॑ वेतु ।
कोर्वै (Index)
(स्वाꣳ षट्च॑)