अनुवाकः 10 TS 1.3.10

(A10)

(वा॑तस्या॒-ष्टाविꣳ॑शतिश्च)

अनुवाकः 10 - Complete Audio

TS 1.3.10 - स्वरानुगामी

0:00 0:00
PS1.1 सं ते॒ मन॑सा॒ मनः॒
PS1.2 सं प्रा॒णेन॑ प्रा॒णो जुष्टं॑
PS1.3 दे॒वेभ्यो॑ ह॒व्यं घृ॒तव॒थ् स्वाहै॒न्द्रः
PS1.4 प्रा॒णो अङ्गे॑अङ्गे॒ नि दे᳚द्ध्यदै॒न्द्रो॑
PS1.5 ऽपा॒नो अङ्गे॑अङ्गे॒ वि बो॑भुव॒द्देव॑
PS1.6 त्वष्ट॒र्भूरि॑ ते॒ सꣳस॑मेतु॒ विषु॑रूपा॒
PS1.7 यथ् सल॑क्ष्माणो॒ भव॑थ देव॒त्रा
PS1.8 यन्त॒मव॑से॒ सखा॒योऽनु॑ त्वा मा॒ता
PS1.9 पि॒तरो॑ मदन्तु॒ श्रीर॑स्य॒ग्निस्त्वा᳚ श्रीणा॒त्वापः॒
PS1.10 सम॑रिण॒न् वात॑स्य-[ ]
PS2.1 त्वा॒ ध्रज्यै॑ पू॒ष्णो रꣳह्या॑
PS2.2 अ॒पामोष॑धीनाꣳ॒॒ रोहि॑ष्यै घृ॒तं घृ॑तपावानः
PS2.3 पिबत॒ वसां᳚ ॅवसापावानः पिबता॒ऽन्तरि॑क्षस्य
PS2.4 ह॒विर॑सि॒ स्वाहा᳚ त्वा॒ऽन्तरि॑क्षाय॒ दिशः॑
PS2.5 प्र॒दिश॑ आ॒दिशो॑ वि॒दिश॑ उ॒द्दिशः॒
PS2.6 स्वाहा॑ दि॒ग्भ्यो नमो॑ दि॒ग्भ्यः

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.3.10.1 TS 1.3.10.1
सं ते॒ मन॑सा॒ मनः॒ सं प्रा॒णेन॑ प्रा॒णो जुष्टं॑ दे॒वेभ्यो॑ ह॒व्यं घृ॒तव॒थ् स्वाहै॒न्द्रः प्रा॒णो अङ्गे॑अङ्गे॒ नि दे᳚द्ध्यदै॒न्द्रो॑ ऽपा॒नो अङ्गे॑अङ्गे॒ वि बो॑भुव॒द्देव॑ त्वष्ट॒र्भूरि॑ ते॒ सꣳस॑मेतु॒ विषु॑रूपा॒ यथ् सल॑क्ष्माणो॒ भव॑थ देव॒त्रा यन्त॒मव॑से॒ सखा॒योऽनु॑ त्वा मा॒ता पि॒तरो॑ मदन्तु॒ श्रीर॑स्य॒ग्निस्त्वा᳚ श्रीणा॒त्वापः॒ सम॑रिण॒न् वात॑स्य-[ ]
पदपाठः (Word-by-word)
समिति॑ । ते॒ । मन॑सा । मनः॑ । समिति॑ । प्रा॒णेनेति॑ प्र - अ॒नेन॑ । प्रा॒ण इति॑ प्र - अ॒नः । जुष्ट᳚म् । दे॒वेभ्यः॑ । ह॒व्यम् । घृ॒तव॒दिति॑ घृ॒त - व॒त् । स्वाहा᳚ । ऐ॒न्द्रः । प्रा॒ण इति॑ प्र - अ॒नः । अङ्गे॑अङ्ग॒ इत्यङ्गे᳚ - अ॒ङ्गे॒ । नीति॑ । दे॒द्ध्य॒त् । ऐ॒न्द्रः । अ॒पा॒न इत्य॑प - अ॒नः । अङ्गे॑अङ्ग॒ इत्यङ्गे᳚ - अ॒ङ्गे॒ । वीति॑ । बो॒भु॒व॒त् । देव॑ । त्व॒ष्टः॒ । भूरि॑ । ते॒ । सꣳस॒मिति॒ सं - स॒म् । ए॒तु॒ । विषु॑रूपा॒ इति॒ विषु॑ - रू॒पाः॒ । यत् । सल॑क्ष्माण॒ इति॒ स - ल॒क्ष्मा॒णः॒ । भव॑थ । दे॒व॒त्रेति॑ देव - त्रा । यन्त᳚म् । अव॑से । सखा॑यः । अन्विति॑ । त्वा॒ । मा॒ता । पि॒तरः॑ । म॒द॒न्तु॒ । श्रीः । अ॒सी॒ । अ॒ग्निः । त्वा॒ । श्री॒णा॒तु॒ । आपः॑ । समिति॑ । अ॒रि॒ण॒न्न् । वात॑स्य ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमाष्टके तृतीयप्रपठके दशमोऽनुवाकः)।

नवमेऽनुवाके वपाप्रयोगोऽभिहितः। दशमे तु वसाहोमोऽभिधीयते। सं त इति। कल्पः – ‘शमितुर्हृदयशूलमादाय तेन हृदयमुपतृद्य तं शमित्रे प्रदाय पृषदाज्येन हृदयमभिघारयति सं ते मनसा मनः सं प्राणेन प्राणो जुष्टं देवेभ्यो हव्यं घृतवत्स्वाहेति’ इति। हे हृदय ते मनस्थानीयेन पृषदाज्येन देवानां मनः संगतमस्तु। एवं प्राणेऽपि योज्यम्। हव्यं त्वां देवानां प्रियं घृतवद्यथा भवति तथा स्वाहाऽभिघारयामि। सोऽयं मन्त्र उपेक्षितः।

अभिघारणं विधित्सुरादौ वपोत्खेदप्रयुक्तच्छिद्रापिधानरूपं पश्वङ्गं पुरोडाशं विधत्ते– ‘पशुमालभ्य पुरोडाशं निर्वपति समेधमेवैनमा लभते’ (सं. का. ५ प्र. ३ अ. १०) इति।

मेधः सारः। पुरोडाशस्य व्रीहिसारत्वात्सारोपेतं पशुमालब्धवान्भवति।

निरुप्तस्य होमकालं विधत्ते– ‘वपया प्रचर्य पुरोडाशेन प्र चरत्यूर्ग्वै पुरोडाश ऊर्जमेव पशूनां मध्यतो दधात्यथो पशोरेव छिद्रमपि दधाति’ (सं. का. ६ प्र. ३ अ. १०) इति।

जातवेदो वपया गच्छ देवानिति मन्त्रेण वपां हुत्वा पश्चात्पुरोडाशहोमः। वपाहृदयादिहोमयोर्मध्यं पशूनामुदरस्थानमतस्तत्रैवोर्जं पुरोडाशरूपमन्नं स्थापितवान्भवति। किंच वपाछेदेन यत्पशोश्छिद्रं तत्पिहितं भवति।

उत्तरदेशे हृयादिहविः पचन्तं शमितारं प्रति प्रश्नमन्त्रमुत्पादयति – ‘पृषदाज्यस्यस्योपहत्य त्रिः पृच्छति शृत हवीः३ शमितरिति त्रिषत्या हि देवाः’ (सं. का. ६ प्र. ३ अ. १०) इति।

पृषदाज्यस्य पात्रगतस्यांशं स्रुवेणोपहत्य पृथक्स्वीकृत्य मन्त्रेण त्रिः पृच्छेत्। शृतं पक्वम्। प्लुतिः प्रश्नार्था। त्रिरुक्तं सत्यमिति बुद्धिर्येषां ते त्रिषत्याः। व्यतिरेकमुखेणोत्तरविधिमुन्नयति – ‘योऽशृत शृतमाह स एनसा’ (सं. का. ६ प्र. ३ अ. १०) इति।

युज्यत इति शेषः। तस्माच्छृते सत्युत्तरं ब्रूयादिति विधिः।

अत्र सूत्रम् – ‘अथ प्रतिप्रस्थाता पृषदाज्यं विहृत्य जुह्वां समानीयान्तरेण चात्वालोत्करावुदङ्ङुपनिष्क्रम्य पृच्छति शृत हवीः३ शमितरिति शमितैष उत्तरतो हृदयशूलं धारयंस्तिष्ठति स शृतमिति प्रत्याह तं तथैव द्वितीयमुत्क्रम्य पृच्छति तं तथैवेतरः प्रत्याह तं तथैव तृतीयमुत्क्रम्य पृच्छति तं तथैवेतरः प्रत्याह’ इति।

अत्र सं ते मनसा मन इत्यस्य मन्त्रस्यार्थमुपेक्ष्याभिघारणं विधत्ते – ‘प्राणापानौ वा एतौ पशूनां यत्पृषदाज्यं पशोः खलु वा आलब्धस्य हृदयमात्माऽभि समेति यत्पृषदाज्येन हृदयमभिघारयत्यात्मन्नेव पशूनां प्राणापानौ दधाति’ (सं. का. ६ प्र. ३ अ. १०) इति।

अभिसमेत्याभिमुख्येनाऽऽत्मा हृदयदेशमागच्छति।

अथ प्लक्षनामकस्य शाखामवदानाधारत्वेन विधत्ते–

‘पशुना वै देवाः सुवर्गं लोकमायन्तेऽमन्यन्त मनुष्या नोऽन्वाभविष्यन्तीति तस्य शिरश्छित्त्वा मेधं प्राक्षारयन्त्स प्रक्षोऽभवत्तत्प्रक्षस्य प्रक्षत्वं यत्प्लक्षशाखोत्तरबर्हिर्भवति समेधस्यैव पशोरव द्यति’ (सं. का. ६ प्र. ३ अ. १०) इति। पशुना सह स्वर्गं गच्छन्तो देवा मनुष्याणां स्वैः सहाऽऽगमनं मा भूदित्यभिप्रेत्य तद्वारयितुं पशोः शिरश्छित्त्वा मेधं रसं प्राक्षारयन्नस्रावयन्। स रसो भूमौ पतित्वा प्लक्षवृक्षोऽभवत्। तस्मात्क्षरणादुत्पन्नस्य प्लक्षनाम संपन्नम्। तच्छाखा बर्हिष ऊर्ध्वं स्थापनादुत्तरबर्हिरित्युच्यते। तदावस्थापनेन सरसस्यैव पशोर्हविरवत्तं भवति।

अत्र सूत्रम् – ‘जुहूपभृतोर्हिरण्यशकलमवधाय बर्हिषि प्लक्षशाखायामव–दानान्यवद्यन्संप्रेष्यति मनोतायै हविषोऽवदीयमानस्यानुब्रूहीति, हृदयस्याग्रेऽवद्यत्यथ जिह्वाया अथ वक्षसो यथाकाममितरेषां मध्यतो गुदस्यावद्यतीत्युक्तम्’ इति।

पक्कस्य हृदयादिहविष आहवनीयं प्रत्यानयने मार्गविशेषं विधत्ते– ‘पशुं वै ह्रियमाण रक्षास्यनु सचन्तेऽन्तरा यूपं चाऽऽहवनीयं च हरति रक्षासामपहत्यै’ (सं. का. ६ प्र. ३ अ. १०) इति।

अनुसचन्तेऽनुगच्छन्ति। यूपस्याऽऽहवनीयस्य च रक्षोघातित्वात्तयोरन्तराले भयं नास्ति।

होतारं प्रति प्रैषमन्त्रमुत्पादयति – ‘पशोर्वा आलब्धस्य मनोऽप क्रामति मनोतायै हविषोऽवदीयमानस्यानु ब्रूहीत्याह मन एवास्याव रुन्धे’ (सं. का. ६ प्र. ३ अ. १०) इति।

अग्निदेवता मनोता। त्व ह्यग्ने प्रथमो मनोतेति मन्त्राम्नानात्। मनस्यूता संबद्धेति मनोता।

संख्याविशिष्टान्यवदानानि विधत्ते– ‘एकादशावदानान्यव द्यति दश वै पशोः प्राणा आत्मैकादशा यावानेव पशुस्तस्याव द्यति’ (सं. का. ६ प्र. ३ अ. १०) इति।

नाभिसहितानि दश च्छिद्राणि प्राणा देह आत्माऽत एकादशसंख्यया कृत्स्नोऽपि पशुरवत्तो भवति। तान्येकादशाङ्गानि सूत्रेऽभिहितानि – ‘हृदयं जिह्वा वक्षो यकृद्वृक्यौ सव्यं दोरुभे पार्श्वे दक्षिणा श्रोणिर्गुदतृतीयमिति दैवतानि’ इति।

क्रमं विधत्ते– ‘हृदयस्याग्रेऽव द्यत्यथ जिह्वाया अथ वक्षसो यद्वै हृदयेनाभिगच्छति तज्जिह्वया वदति यज्जिह्वया वदति तदुरसोऽधि निर्वदत्येतद्वै पशोर्यथापूर्वम्’ (सं. का. ६ प्र. ३ अ. १०) इति।

लोके प्रथमं हृदयेन यन्निश्चिनोति तत्पश्चाज्जिह्वया वदति। पुनरपि तदेव निःशेषेणोच्चध्वनिना यदा वदति तदानीमुरस ऊर्ध्वदेशगतबलेन वदति। तस्माद्धृदयादीनां त्रयाणामंशक्रमेणावद्येत्। एतदेव क्रमावदानं पशोरङ्गेषु यथापूर्वं भवति। यथा लोकेऽभिवदनव्यवहारः पूर्वं प्रवृत्तस्तथैव भवति।

उत्तरेष्वङ्गेषु हृदयादिवत्प्रसक्तं क्रमं वारयति– ‘यस्यैवमवदाय यथाकाममुत्तरेषामवद्यति यथापूर्वमेवास्य पशोरवत्तं भवति’ (सं. का. ६ प्र. ३ अ. १०) इति।

उक्तप्रकारेण यस्य पशोर्हृदयादीनि त्रीण्यङ्गान्यवदायोत्तरेषामैच्छिकक्रमेऽपि पूर्वं हृदयाद्यङ्गं यथा न दोषकारि तथैवोत्तरमपि भवति।

एकादशस्वङ्गेषु गुदकाण्डरूपमङ्गमुत्तममध्यमाधमभागैस्त्रेधा विभज्य त्रिषु तेषु भागेषु मध्यमोत्तमभागयोर्विकल्पेनावदानं विधत्ते – ‘मध्यतो गुदस्याव द्यति मध्यतो हि प्राण उत्तमस्याव द्यत्युत्तमो हि प्राणो यदीतरं यदीतरमुभयमेवाजामि’ (सं. का. ६ प्र. ३ अ. १०) इति।

प्राणवायुर्मुखमध्ये वर्तते, स्वयं जीवनहेतुत्वाच्चक्षुरादिषु सर्वेषूत्तमश्च। अतो यदीतरं मध्यमभागं स्वी कुर्यात्, यदीतरमुत्तमभागं तदुभयमपि जामिकृन्न भवति, किंत्वनालस्यं दोषरहितमित्यर्थः।

हृदयाद्यवदानानि प्रशंसति– ‘जायमानो वै ब्रह्मणस्त्रिभिणवा जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारिवासी तदवदानैरेवाव दयते तदवदानानामवदानत्वम्’ (सं. का. ६ प्र. ३ अ. १०) इति।

ब्रह्मचर्येण वेदाभ्यासेन ब्रह्मचारित्वेन गुरुगृहे वसतीति ब्रह्मचारिवासी वेदाभ्यासादिभिरपाकर्तव्यं यदृणं तद्धृदयाद्यवदानैरेवापाकरोति। ऋणमवदयत एभिरित्यवदानत्वम्।

स्विष्टकृदर्थं त्र्यङ्गावदानं विधत्ते– ‘देवासुराः संयत्ता आसन्ते देवा अग्निमब्रुवन्त्वया वीरेणासुरानभिभवामेति सोऽब्रवीद्वरं वृणै पशोरुद्धारमुद्धरा इति स एतमुद्धारमुदहरत दोः पूर्वार्धस्य गुदं मध्यतः श्रोणिं जघनार्धस्य ततो देवा अभवन्पराऽसुरा यत्त्र्यङ्गाणा समवद्यति भ्रातृव्याभिभूत्यै भवत्यात्मना पराऽस्य भ्रातृव्यो भवति’ (सं. का. ६ प्र. ३ अ. १०) इति।

उद्धारमुत्कृष्टं ध्रियमाणमुत्तमं भागमुद्धरै स्वी करवाणि। पशोः पूर्वार्धस्य संबन्धि दोर्हस्तम्। मध्यतः पशुमध्यभागसंबन्धि गुदम्। अपरार्धस्य संबन्धिनीं श्रोणिम्।

वक्रगतिं विधत्ते – ‘अक्ष्णयाऽव द्यति तस्मादक्ष्णया पशवोऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै’ (सं. का. ६ प्र. ३ अ. १०) इति।

गवादयः शयनकालेऽङ्गानि पादानक्ष्णया वक्रत्वेनावस्थापयन्ति। अत्र वक्रगतिः सूत्रे दर्शिता – ‘दक्षिणं दोः सव्या श्रोणिर्गुदतृतीयमिति सौविष्टकृतानि’ इति।

विधत्ते – ‘मेदसा स्रुचौ प्रोर्णोति मेदोरूपा वै पशवा रूपमेव पशुषु दधाति’ (सं. का. ६ प्र. ३ अ. ११) इति।

जीर्णपटसदृशं हृदयवेष्टनं मेदः। स्रुचौ जुहूपभृतौ। उभयं मेदसाऽऽच्छादयेत्। सति मेदोबाहुल्ये पशवो रूपवन्तो भवन्ति।

तत्र कंचिद्विशेषं विधत्ते– ‘यूषन्नवधाय प्रोर्णोति रसो वा एष पशूनां यद्यू रसमेव पशुषु दधाति’ (सं. का. ६ प्र. ३ अ. ११) इति।

यूषशब्देन मांसेन सह पक्वं जलमुच्यते। तस्मिञ्जले मेदः प्रक्षिप्य तेनाऽऽच्छादयेत्।

ऐन्द्र इति। कल्पः – ‘अथ पशोरवदानानि संमृशत्यैन्द्रः प्राणो अङ्गेअङ्गे नि देध्यदैन्द्रोऽपानो अङ्गेअङ्गे वि बोभुवद्देव त्वष्टर्भूरि ते ससमेतु विषुरूपा यत्सलक्ष्माणो भवथ देवत्रा यन्तमवसे सखायोऽनु त्वा माता पितरो मदन्त्वति’ इति।

इन्द्रदेवताकः प्राणोऽस्य पशोस्तस्मिंस्तस्मिन्हृदयाद्यङ्गे नि देध्यन्नितरां धीयतां स्थाप्यताम्। यद्वदपानोऽपि विबोभुवद्विशेषेण भवतु। हे देव त्वष्टस्ते तवानुग्रहेण भूरि सर्वमङ्गजातं संसमेतु च्छेदनेन विश्लिष्टमपि समवेतं भवतु। हे हृदयाद्यवयवा यूयं विषुरूपा विलक्षणरूपा अपि सलक्ष्माणो हविष्ट्वेन समानलक्षणा भवथ। यद्यस्मात्पूर्वं विषुरूपास्तस्मादित ऊर्ध्वं सलक्ष्मत्वं संपादनीयम्। हे पशो देवत्रा देवेषु यन्तं गच्छन्तं त्वां सखाय इतरे पशवो माता पितरश्चानुमदन्तु। किमर्थम्। अवसे त्वन्मुखेन स्वर्गप्राप्त्या स्वकुलं सर्वं सेवितुम्।

श्रीरिति। बौधायनः – ‘अथ दक्षिणेन पार्श्वेन वसाहोमं प्रयौति कुम्बतः श्रीरस्यग्निस्त्वा श्रीणात्वापः समरिणन्वातस्य त्वा ध्रज्यै पूष्णो रह्या अपामोषधीना रोहिष्या इति’ इति।

आपस्तम्बः – ‘श्रीरसीति पार्श्वेन वसाहोमं प्रयौति वातस्य त्वा ध्रज्या इति तेनैवापि दधाति’ इति।

मांसपाकभाण्डे स्थितः स्नेहात्माको द्रवविशेषो वसा। सा च हूयत इति होमशब्दाभिधेया। पार्श्वशब्देन तत्रत्यमस्थि विवक्षितं, तस्यास्थ्नोऽग्रभागः स्थूलः कुम्बशब्दाभिधेयः। तेन वसारूपं होमद्रव्यं पात्रे गृहीतं प्रयौत्यालोडयेदिति बौधायनवाक्यार्थः।

मन्त्रार्थस्तु – हे वसे श्रीरसि आश्रयणीयाऽसि। तस्मादाहवनीयोऽग्निस्त्वां श्रीणात्वाश्रयतु स्वी करोतु। आपश्च त्वां स्मरिणन्सम्यक्प्राप्नुवन्तु तव शोषो मा भूत्। हे वसे त्वामपिदधामि। किमर्थम् वातस्य ध्रज्यै वायोर्गतये। पूष्णो रंह्यै, आदित्यस्य गतये। अप्संबन्धिनीनामोषधीनां रोहिष्यै प्ररोहार्थम्। त्वयि पिधानेन सुरक्षितायां त्वदीयहोमसुकृतेन वायुगमनादिरूपो जगद्व्यहारः सुस्थितो भवतीति स्तूयते।

आलोडनं विधत्ते– ‘पार्श्वेन वसाहोमं प्र यौति मध्यं वा एतत्पशूनां यत्पार्श्व रसं दधाति’ (सं. का. ६ प्र. ३ अ. ११) इति।

अवदानसंमर्शनमन्त्रस्य पूर्वभागे श्रुत ऐन्द्र इत्यसौ तद्धितो देवतावाचीत्याह– ‘घ्नन्ति वा एतत्पशुं यत्संज्ञपयन्त्यैन्द्रः खलु वै देवतया प्राण ऐन्द्रोऽपान ऐन्द्रः प्राणो अङ्गेअङ्गे नि देध्यदित्याह प्राणापानावेव पशुषु दधाति’ (सं. का. ६ प्र. ३ अ. ११) इति।

संज्ञपनं हननेन गलनिरोधनाद्युपघातेन संपद्यते। तेनोपद्रवेणापनीतयोः प्राणापानयोः पुनः स्थापनं कर्तव्यम्।

द्वितीयभागे त्वष्टृश्ब्दाभिप्रायमाह– ‘देव त्वष्टर्भूरि ते स समेत्वित्याह त्वाष्ट्रा हि देवतया पशवः’ (सं. का. ६ प्र. ३ अ. ११) इति।

तृतीयभागे हृदयाद्याकारेण वैलक्षण्यं हविष्ट्वेन सालक्षण्यं च प्रसिद्धमित्याह– ‘विषुरूपा यत्सलक्ष्माणो भवथेत्याह विषुरूपा ह्येते सन्तः सलक्ष्माण एतर्हि भवन्ति’ (सं. का. ६ प्र. ३ अ. ११ इति।

चतुर्थभागेऽनुमदन्तुशब्दस्याभिप्रायमाह–

‘देवत्रा यन्तमवसे सखायोऽनु त्वा माता पितरो मदन्त्वित्याहानुमतमेवैनं मात्रा पित्रा सुवर्गं लोकं गमयति’ (सं. का. ६ प्र. ३ अ. ११) इति।

श्रीरसि वातस्य त्वेत्येतौ मन्त्रावुपेक्षितौ।

घृतमिति। बौधायनः – ‘सौऽर्धर्चे याज्यायै वसाहोमं जुहोति घृतं घृतपावानः पिबत वसां वसापावानः पिबतान्तरिक्षस्य हविरसि स्वाहा त्वाऽन्तरिक्षाय स्वाहेति वषट्कृते हविर्जुहोत्येतस्य होममनु प्रतिप्रस्थाता वसाहोमोद्रेकेण दिशो जुहोति दिशः प्रदिश आदिशो विदिश उद्दिशः स्वाहा दिग्भ्यो नमो दिग्भ्य इति’ इति।

आपस्तम्बः – ‘याज्याया अर्धर्चे प्रतिप्रस्थाता वसाहोमं जुहोति घृतं घृतपावानः पिबतेत्युद्रेकेण दिशः प्रदिश इति प्रतिदिशं जुहोति मध्ये पञ्चमेन प्राञ्चमुत्तमं संस्थाप्य नमो दिग्भ्य इत्युपतिष्टते’ इति।

उद्रेकः शेषः। हे घृतपावानो देवा अत्रत्यं घृतं पिबत। एवमुत्तरत्र। हे पशो त्वमन्तरिक्षवासिनो देवगणस्य हविरस्यतोऽन्तरिक्षवासिने त्वां स्वाहा जुहोमि। दिशः प्राच्यै दिशे स्वाहेति शेषः। प्रदिशः, दक्षिणायै। एवमन्यत्रापि। षष्ठे तु मन्त्रे सर्वाभ्यो दिग्भ्यः स्वाहेति योज्यम्। मन्त्रा उपेक्षिताः।

विधत्ते– ‘अर्धर्चे वसाहोमं जुहोत्यसौ वा अर्धर्च इयमर्धर्च इमे एव रसेनानक्ति दिशो जुहोति दिश एव रसेनानक्त्यथो दिग्भ्य एवोर्ज रसमव रुन्धे’ (सं. का. ६ प्र. ३ अ. ११ इति।

याज्यायाः पूर्वोत्तरयोरर्धर्चयोरभिमानिनौ देवौ द्यावापृथिव्याविति मध्ये होमेनोभे अपि रसेनाक्ते भवतः। उद्रेकहोमेन दिग्देवतास्तृप्यन्ति। यजमानस्यापि दिशां सकाशादन्नरसप्राप्तिर्भवति।

अवदानपूर्वकं द्वौ प्रैषमन्त्रौ मैत्रावरुणं प्रत्युत्पादयति– ‘प्राणापानौ वा एतौ पशूनां यत्पृषदार्ज्यं वानस्पत्याः खलु वै देवतया पशवो यत्पृषदाज्यस्पोपहत्याऽऽह वनस्पतयेऽनु ब्रूहि वनस्पतये प्रेष्येति प्राणापानावेवं पशुषु दधाति’ (सं. का. ६ प्र. ३ अ. ११) इति।

पृषदाज्यस्योपहत्य पात्रगतं पृषदाज्यं स्रुवेण जुह्वामवदायेत्यर्थः। प्रैषयोरयमर्थः – हे मैत्रावरुण वनस्पतिदेवतायै त्वमनुब्रूहि पुरोनुवाक्यां पठ, ततो याज्यां पठितुं होतारं प्रेरयेति। एवं सति वनस्पतिदेवताकेषु पशुषु पृषदाज्यरूपौ प्राणापानौ दधाति।

अथेडार्थं तस्य तस्य हृदयाद्यङ्गस्यांशमेकत्र समवद्यतीति विधत्ते – ‘अन्यस्यान्यस्य समवत्त समवद्यति तस्मान्नानारूपाः पशवः’ (सं. का. ६ प्र. ३ अ. ११ इति।

समवत्तमवत्तशेषम्। अवदेयानामङ्गानां बहुविधत्वाद्धोमलभ्याः पशवोऽपि बहुविधाः।

सर्वेष्ववदानेषु मांसनिःस्रुतजलेनोपसेचनं विधत्ते – ‘यूष्णोप सिञ्चति रसो वा एष पशूनां यद्यू रसमेव पशुषु दधाति’ (सं. का. ६ प्र. ३ अ. ११ इति।

हविःशेषस्येडाभागस्य भक्षणायेडोपाह्वानं होतुर्विधत्ते –

‘इडामुप ह्वयते पशवो वा इडा पशूनेवोप ह्वयते चतुरुप ह्वयते चतुष्पादो हि पशवः’ (सं. का. ६ प्र. ३ अ. ११ इति।

इडादेवताया गोरूपत्वात्पशव इडेत्युक्तम्। यद्यप्येतच्चोदकादेव प्रप्तं तथाऽऽप्याघारवदिष्टिविकृतित्वद्योतनाय पुनर्विधानम्।

अत्रेडावदाने मेदसोपस्तरणाभिघारणे विधातुं तद्व्यतिरेकं निन्दति– ‘यं कामयेतापशुः स्यादित्यमेदस्कं तस्मा आ दध्यान्मेदोरूपा वै पशवो रूपेणैवैनं पशुभ्यो निर्भजत्यपशुरेव भवति’ (सं. का. ६ प्र. ३ अ. ११ इति।

स्निग्धद्रवरहितं मांसममेदस्कम्। एनं यजमानं पशूनां (शुभ्यो) निर्भजति निरस्यति। अतो यजमानः पशुरहितो भवति।

विधत्ते– ‘यं कामयेत पशुमान्त्स्यादिति मदस्वत्तस्मा आ दध्यान्मेदोरूपा वै पशवो रूपेणैवास्मै पशूनव रुन्धे पशुमानेव भवति’ (सं. का. ६ प्र. ३ अ. ११ इति।

अत्र सुत्रम् – ‘मेदसोपस्तीर्य मेदसाऽभिघारयाति’ इति।

पृषदाज्येनानूयाजहोमं विधत्ते– ‘प्रजापतिर्यज्ञमसृजत स आज्यं पुरस्तादसृजत पशुं मध्यतः पृषदाज्यं पश्चात्तस्मादाज्येन प्रयाजा इज्यन्ते पशुना मध्यतः पृषदाज्येनानूयाजास्तस्मादेतन्मिश्रमिव पश्चात्सृष्ट हि’ (सं. का. ६ प्र. ३ अ. ११ इति।

यथा प्रथमसृष्टेनाऽऽज्येन प्रथमभाविनः प्रयाजा इज्यन्ते, यथा वा मध्यतः सृष्टेन पशुना मध्यतो यजते, तथा पश्चात्सृष्टेन पृषदाज्येन पश्चाद्भाविनोऽनूयाजा यष्टव्याः। यस्मादेकं द्रव्यं न पर्याप्तमिति बुद्ध्या पश्चाद्द्रव्यान्तेरेण सहैतद्विहितं तस्मादेतत्पृषदाज्यं दधिमिश्रमेव चोदकप्राप्तम्।

त्रित्वसंख्यामपोद्य संख्यान्तरं विधात्ते– ‘एकादशानूयाजान्यजति। दश वै पशोः प्राणा आत्मैकादशो यावानेव पशुस्तमनु यजति’ (सं. का. ६ प्र. ३ अ. ११) इति।

पृषदाज्यं प्रशंसति– ‘घ्नन्ति वा एतत्पशुं यत्संज्ञपयन्ति प्राणापानौ खलु वा एतौ पशूनां यत्पृषदाज्यं यत्पृषदाज्येनानूयाजान्यजति प्राणापानावेव पशुषु दधति’ (सं. का. ६ प्र. ३ अ. ११ इति।

अत्र विनियोगसंग्रहः –

‘सं तेऽभिघार्य हृदयमैन्द्रोऽवत्ताभिमर्शनम्।

श्रीः पार्श्वेन वसां यौति वात पार्श्वावृता वसा॥१॥

घृतं वसाहुतिः षड्भिर्दिग्घोमा नम इत्यतः।

दिश्युपस्थानमत्रैते मन्त्रा द्वादश वर्णिताः॥२॥’ इति।

अथ मीमांसा।

द्वादशाध्यायस्य प्रथमपादे चिन्तितम्–

“पश्वर्थानुष्ठितैर्नास्ति पुरोडाश उपक्रिया।

अस्ति वा विध्यभावान्नो ह्यस्त्यवार्यत्वतोध्ववत्” इति।

अग्नीषोमीयस्य पशोर्यानि चोदकप्राप्तानि प्रयाजादीन्यङ्गान्यनुष्ठितानि तैः पशुपरोडाश उपकारो नास्ति। कुतः। तदुपकारबोधकस्य विधेरभावात्। चोदकस्तु दर्शपूर्णमासवत्पशुरनुष्ठेय इत्येवंरूपत्वात्वात्पशावेव तदुपकारं बोधयति। ननु पशुपुरोडाशस्यापीष्टिविकृतित्वात्तत्रापि चोदकोऽस्तीति चेद्बाढम्। अत एव भिन्नचोदकबलात्पुरोडाशोपकाराय प्रयाजाद्यङ्गानि पृथगनुष्ठेयानीति प्राप्ते ब्रूमः – यद्यपि पश्वर्थैः पुरोडाशस्योपकार इत्येतादृशं शास्रं नास्ति तथाऽप्ययमुपकारोऽर्थतः प्राप्तो न वारयितुं शक्यते। यथा प्रदीपस्य वेदिप्रकाशार्थं निर्मितस्यार्थसिद्धं मार्गप्रकाशकत्वमनिवार्यं तथा पशुतन्त्रमध्येऽनुष्ठीयमानस्य पुरोडाशस्य पश्वर्थैरङ्गैरुपकारः केन वार्येत। तस्मादन्यार्थैरस्तूपकारः।

तत्रैवान्यच्चिन्तितम्–

“आज्यभागौ पुरोडाशे न स्तः स्तो वाऽस्य चोदकः।

लुप्तस्ततो न तौ मैवं प्रयोगांशस्य लोपनात्” इति॥

तौ न पशौ करोतीति निषेधादाज्यभागयोः पशावभावेन पुरोडाशे प्रसङ्गसिद्धिर्नास्ति। ततस्तौ विचार्येते। तत्र पुरोडाश आज्यभागौ न स्त इति तावत्प्राप्तम्। कुतः। पुरोडाशविशषयस्य चोदकस्य लुप्तत्वात्। अन्यथा प्रयाजादीनामपि पुनरनुष्ठानापत्तेरिति प्राप्ते ब्रूमः – न तावत्पुरोडाशे चोदको लुप्यते। चोद(बाध)काभावात्। पूर्वोक्तप्रसङ्गसिद्धिस्तु प्रयोगवचनमेव बाधते न चोदकम्। अन्यथा प्रयाजादीनां पुरोडाशाङ्गत्वाभावेन प्रसङ्गसिद्धेरप्यवक्तव्यत्वात्। ननु प्रयोगबाधेऽप्याज्यभागौ न स्त इति चेन्न। आज्यभागौ प्रति बाधिता(का)याः प्रसङ्गसिद्धेरभावात्। ततः प्रसङ्गसिद्धाङ्गविषयप्रयोगांशस्यैव बाधादबाधितेन प्रयोगवचनांशेनाऽऽज्यभागावनुष्ठाप्येते। यथा देवदत्ते यज्ञदत्तयानमारूढे देवदत्तयानं निवर्त्यते न तु वस्त्रालंकारादि तद्वत्।

दशमाध्यायस्य तृतीयपादे चिन्तितम्–

“प्रयाजैकादशत्वादिविशेषविधिभिर्युते।

पश्वादौ सामिधेन्यादिविध्यन्तो नास्त्युतास्त्यसौ॥

विशिष्टाङ्गविधौ नासौ चोदकस्याप्रवृत्तितः।

लाघवाद्गुणमात्रस्य विधेः साऽ(सोऽ)स्त्यतिदेशतः” इति॥

अग्नीषोमीयपशावेकादश प्रयाजाः श्रुताः चातुर्मास्येषु नव प्रयाजा, वायव्यपशौ हिरण्यगर्भ इत्याघारमन्त्र इत्यादिभिर्युतेषु पश्वादिषु प्राकृतेतिकर्तव्यता सामिधेन्यादिर्नास्ति। कुतः। संख्यामन्त्रादिगुणविशिष्टस्य प्रयाजाघाराद्यङ्गास्य प्रत्यक्षविधौ सत्युपदिष्टेनैवाङ्गेन निराकाङ्क्षे पश्वादौ चोदकस्याप्रवृत्तेरिति पूर्वः पक्षः। पश्वादिविधिस्तावदितिकर्तव्यतामाकाङ्क्षाति। तत्र प्राकृताङ्गान्यतिदिश्य वा तदाकाङ्क्षा पूर्यतां विधास्यमानान्यङ्गान्तराण्युपदिश्य वेति विवक्षायां कॢप्तोपकारतया प्राकृताङ्गातिदेश एव न्याय्यः। ततश्चातिदेशतः प्राप्तप्रयाजाद्यङ्गमनूद्य गुणमात्रविधौ लाघवं भवति। गुणविशिष्टाङ्गविधौ तु गौरवं स्यात्। तस्मात्संख्यान्तरमन्त्रान्तराभ्यां पूर्वयोः संख्यामन्त्रयोर्बाधेऽपि प्रयाजाघारसामिधेन्यादीतिकर्तव्यता प्राप्नोत्येवातिदेशादिति राद्धान्तः।

दशमाध्यायस्य सप्तमे पादे चिन्तितम्–

“पशुः कृत्स्नो हविः किंवा प्रत्यङ्गं हविरन्यता।

आद्यश्चोदनया मैवमवदानपृथक्त्वतः” इति॥

अग्नीषोमीयं पशुमालभेतेत्यत्र कृत्स्नस्य पशोरेकहविष्ट्वं युक्तम्। कुतः। अग्नीषोमीयदेवतां प्रति द्रव्यत्वेन पशोश्चोदित्वात्। न हि हृदयाद्यङ्गं साक्षात्पशुर्भवतीति प्राप्ते ब्रूमः – ‘हृदयस्याग्रेऽवद्यत्यथ जिह्वाया अथ वक्षसः’ ‘दोष्णोरवद्यति पार्श्वयोरवद्यति’ इत्यादिना हृदयाद्यङ्गानामवदानानि पृथगाम्नायन्ते। अवदानं च हविष्ट्वप्रयोजकः संस्कारः। पुरोडाशादौ होतुमवदीयमानत्वदर्शनात्। हविःशब्दश्च कर्मव्युत्पत्त्या होमयोग्यं द्रव्यं ब्रूते। पश्वाकृतिचोदना तु हृदयाद्यङ्गद्वारेण देवतासंबन्धादुपपद्यते। तस्मात्प्रत्यङ्गं हविर्भेदः।

तत्रैवान्यच्चिन्तितम्–

“एकेनाङ्गेन सर्वैर्वा यद्वैकादशभिर्यजिः।

एकेन यागसंसिद्धेर्हविषां भेदतोऽखिलैः॥

एकादशभिरन्येषां परिसंख्या भवेद्यतः।

न त्रिदोषी गत्भावादशृतोक्तेश्च सोचिता” इति।

प्रत्यङ्गं हविर्भेदे स्थिते सति त्रेधा यागे संशयः। तत्रानिर्दिष्टविशेषेण येन केनाप्यङ्गेन यागः कर्तव्यस्तावतैव यागस्य सिद्धेरित्येकः पक्षः। चोदितपश्वङ्गत्वं परिगणितेषु हृदयादिष्वङ्गेषु चांसशिरःप्रभृतिषु समानम्। ततो हृदयादिवदंसादीनां हविर्भेदत्वाद्यागमन्तरेण हूयमानत्वलक्षणहविष्ट्वस्यापर्यवसानात्सर्वैरङ्गैर्याग इति द्वितीयः पक्षः। हृदयादिभिरेकादशभिरेवाङ्गैर्यागः कर्तव्यः। कुतः। अन्येषामंसादीनां परिसंख्यातत्वात्। कुतः, चोदकेन सर्वेषामङ्गानामवदाने प्राप्ते हृदयादिवाक्येनांसादयः परिसंख्यायन्ते। ननु परिसंख्यायां विधिः स्वार्थं जह्यात्परार्थः कल्पेत प्राप्तं च बाधेतेति दोषत्रयं प्रसज्येत। प्रसज्यतां नाम। सति हि गत्यन्तरे तेषां दोषत्वम्। परिसंख्यायास्तु ते त्रयः स्वरूपमिति कृत्वा न दोषतां भजन्ते। किंच द्वयानि मांसान्यभिमृशन्ति शृताशृतानीति केषांचिन्मांसानामपक्वत्वमुच्यते। पाकस्तु हविषो मांसस्य प्रतिनियतः। तस्मादशृतत्वोक्तिरंसादिपरिसंख्यां गमयति। एतदेवाभिप्रेत्यांसादिप्रतिषेधः श्रुत्या वर्ण्यते ‘नांसयोरवद्यति न शिरसः’ इत्यादिना। तस्मादेकादशभिरेव यागः कर्तव्यः।

तत्रैवान्यच्चिन्तितम्–

“इज्याशेषैरशेषैर्वा त्र्यङ्गैः स्विष्टकृतो हुतिः।

आद्यः प्रकृतिवन्मैवं पूर्वार्धेत्युक्तिशेषतः” इति॥

पशौ श्रूयते – ‘त्र्यङ्गैः स्विष्टकृतं यजति’ इति। तत्रेज्यार्थानां हृदयाद्येकादशाङ्गानां मध्ये यैः कैश्चित्त्र्यङ्गैरिज्याशेषभूतैः स्विष्टकृद्धोतव्यः। कुतः। प्रकृताविज्याशेषेण पुरोडाशेन स्विष्टकृतो हुतत्वादत्रापि चोदकेन तथात्वादिति प्राप्ते ब्रूमः – ‘दोष्णः पूर्वार्धादग्नये समवद्यति गुदस्य मध्यतः श्रोण्या जघानतः’ इति वाक्यशेषेण हृदयादिभ्य एकादशभ्योऽन्यानि त्रीण्यङ्गानि स्विष्टकृते समाम्नायन्ते। न च हृदयादिष्वपि गुदादीन्याम्नातानीति शङ्कनीयं, तद्विशेषस्य कल्पसूत्रकारेण दर्शितत्वात्। ‘हृदयं जिह्वा वक्षो यकृद्वृक्यौ सव्यं दोरुभे पार्श्वे दक्षिणा श्रोणिर्गुदतृतीयमिति दैवतानि, दक्षिणं दोः सव्या श्रोणिर्गुदतृतीयमिति सौविष्टकृतानि’ इति।

तस्मादनिज्याशेषैस्त्र्यङ्गैः स्विष्टकृद्धोमः।

अष्टमाध्यायस्य द्वितीयपादे चिन्तितम्–

“पुरोडाशस्य सांनाय्यस्य वा धर्मः पशौ यतः।

देवैक्यमाद्यस्तस्मान्नो हविर्जन्मादिसाम्यतः” इति॥

अग्नीषोमीये पशावग्नीषोमीयपुरोडाशस्य धर्मः कार्यः। कुतः। देवतैक्यादिति चेन्मैवम्। सांनाय्यं पशोरुत्पन्नं, पशुरपि पशोरुत्पन्नः, श्रपणार्थमुखा सांनाय्यपश्वोः समा। हविःसाम्यं च बलीय इत्युक्तम्। तस्मात्सांनाय्यस्य धर्मः।

अत्र च्छन्दो नास्ति॥

इति श्रीमत्सायणाचार्विरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे तृतीयप्रपाठके दशमोऽनुवाकः॥१०॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 पृषदाज्येन हृदयमभिघारयति - सन्ते मनसेति ॥ हे हृदय ते तव मनसा मनस्स्थानीयेन मननीयेन वानेन पृषदाज्येन देवानां मनस्सङ्गतमस्तु, तथा देवानामिदं स्पृहणीयमस्तु यथा तेषां मनो न जहातीति । समित्युपसर्गश्रुतेर्योग्यं क्रियापदमध्याह्रियते । किञ्च - त्वदीयेन प्राणेन प्राणस्थानीयेन प्राणसाधनेन वानेन पृषदाज्येन देवानां प्राणस्सङ्गतोस्तु । प्राणशब्दस्थाथादिस्वरेणान्तोदात्तः । एतादृशेन देवानां प्रियतमेन पृषदाज्येन त्वामभिघारयामीति भावः । त्वं च तादृशेनानेनाभिघारितं देवानां जुष्टं प्रियतमं भविष्यसि । 'षष्ठ्यर्थे चतुर्थी वक्तव्या' इति चतुर्थी । 'नित्यं मन्त्रे' इति जुष्टशब्द आद्युदात्तः । किञ्च - हव्यं घृतवत् अनेन पृषदाज्येन तवत्कृतं हवनार्हं च भविष्यसि । 'छन्दसि च' इति हवशब्दाद्यः । यद्वा - 'अचो यत्' इति यत्, तदा उञ्छादिर्द्रष्टव्यः । स्वाहा इत्थं त्वामभिघारयामीति स्वैव प्रजापतेर्वागाह । यद्वा - इर्दृशं त्वं स्वाहाकार्यं च भविष्यसीति । 'प्राणापानौ वा एतौ पशूनां यत्पृषदाज्यं पशोः खलु वा आलब्धस्य हृदयमात्माभिसमेति' इत्यादि ब्राह्मणम् ॥
2 पशोरवदानानि सम्मृशति - ऐन्द्रः प्राण इत्यनुष्टुभा षट्पदया ॥ इन्द्र इश्वरः शारीर आत्मा तस्यायमैन्द्रः प्राणः । 'ऐन्द्रः खलु वै देवतया' इति ब्राह्मणम् । सः अस्य पशोरङ्गेअङ्गे सर्वेष्ववयवेषु निदेध्यत् नियमेनात्यर्थं ध्रियतां तिष्ठत्वित्यर्थः, ऐन्द्रत्वादेव । धीङ् आधारे, यङ्लुगान्ताल्लेट्, 'लेटोऽडाटौ' इत्यडागमः, 'नाभ्यस्तस्याचि पिति सार्वधातुके' इति गुणाभावः अलघूपधस्यापि बहुळवचनात् । यद्वा - लटश्शत्रादेशः । आस्त्विति शेषः । यद्वा - विकरणव्यत्ययेन शः, ऐरनेकाचः' इति यणादेशः, 'इतश्च लोपः' । प्राणशब्द उक्तस्वरः । अङ्ग इत्यादौ च' इति सांहितायां प्रकृतिभावः, आम्रेडितस्य 'अनुदात्तं च' इत्यनुदात्तत्वम् । 'घ्नन्ति वा एतत्पशुं यत्संज्ञपयन्ति' इत्यादि ब्राह्मणम् । अपानः अधोवृत्तिर्वायुः । सोप्यैन्द्रः; 'ऐन्द्रोऽपानः' इति च ब्राह्मणम् ।सः अङ्गेअङ्गे अस्य पशोर्विबोभुवत् अत्यर्थं विभवतु तिष्ठत्विति यावत् । भवतेर्यङ्लुगन्ताल्लेडादि सर्वं पूर्ववत्, 'भूसुवोस्तिङि' इति हि [तीह?] यङ्लुगन्ते नास्ति [प्यस्ति?] । पूर्ववदपानशब्दोपि थाथादिस्वरेणान्तोदात्तः । एवं प्राणापानवत्त्वं पशोस्संपाद्यते । तेन सर्वेपि पशवः प्राणापानवन्तः कृता भवन्ति । 'प्राणापानावेव पशुषु दधाति' इति ब्राह्मणम् । हे देव त्वष्टः । पादादित्वात्प्रथमं न निहन्यते । 'नामन्त्रिते समानाधिकरणे' इति तस्याविद्यमानत्वनिषेधाद्द्वितीयं निहन्यत एव । भूरि सर्वं संसमेतु सङ्गच्छताम् । ते त्वत्तः त्वत्प्रसादादिति यावत् । 'त्वाष्ट्रा हि देवतया पशवः' इति ब्राह्मणम् । एतदुक्तं भवति, यद्विकर्तने पश्वङ्गं विच्छिन्नमवशिष्टं तत्सर्वं त्वया आर्द्रतया एकीकार्यमिति । एवं हि कृत्स्नेन पशुना यागः कृतो भवति । 'प्रसमुपोदः पादपूरणे' इति समो द्विर्वचनम् । 'अनुदात्तं च' इति द्वितीयस्यानुदात्तत्वम् । किञ्च - हे पशो सर्वेपि यूयं विषुरूपा नानारूपा अतुल्यस्वरूपा अपि सन्त इदानीं सलक्ष्माणः समानलक्षणा हवीरूपेण वावदानरूपेण वा देवान् गच्छन्तस्तुल्यस्वरूपा यद्यस्माद्भवथ । तव खलु हविष्ट्वापत्तौ सर्वेपि युष्मत्सम्बन्धिनः पशवो जात्यभेदात् हविस्स्वरूपास्सम्पद्यन्ते । 'समानस्य छन्दसि' इति सभावः । यद्वा - सह लक्ष्मणा वर्तन्त इति सलक्ष्माणस्सल्लक्षणोपेताः हविष्ट्वापत्त्या सर्वेपि यूयं भवथ । 'वोपसर्जनस्य' इति सहस्य सभावः, 'अदुपदेशात्'इति लसार्वधातुकानुदात्तत्वम् । 'विषुरूपा ह्येते सन्तस्सलक्ष्माणः एतार्हि भवन्ति' इति ब्राह्मणम् । तस्माद्देवत्रा यन्तं देवान्गच्छन्तम् । 'देवमनुष्यपुरुष' इति त्राप्रत्ययः । सखायस्समानख्याना बन्धवः । 'समाने ख्यस्सचोदात्तः' इतीञ्प्रत्ययः । ते च मातरश्च पितरश्च त्वामनुमदन्तु अनुमन्यन्तामनुमोदन्तामिति यावत् । अहो! अयमस्मत्सम्बन्धी पशुर्हवीरूपमापन्नो देवांस्तर्पयितुं याति, ततस्स्वयमपि देवो भविता, ततो वयमपि देवीभूय तेन सह स्वर्गे मोदितास्महे, ततस्सर्वं कुलमनुगृहीतं भविष्यतीति । तदेवाह - अवसे रक्षणाय तव चात्मनश्च । तृप्त्यर्थं वा, अवतिर्हि तृप्तौ च पठ्यते । तस्मादसुन् । 'अनुमतमेवैनं मात्रा पित्रा सुवर्गं लोकं गमयति' इति च ब्राह्मणम् । मदि हर्षे दैवादिकः विकरणव्यत्ययेन शप् ॥
3 पार्श्वेन होमार्थां वसां प्रयौति आलोडयति - श्रीरसीति ॥ श्रीः श्रपणीया पचनीयासि हे वसे । पक्वं हि हूयते । आलोडनजन्मा विशेषः पाकः । श्रीञ् पाके, क्रैयादिकः तस्मात्सम्पदादिलक्षणः कर्मणि क्विप्। यत एवं तस्मात् अग्निरेव स्वयमागत्य त्वां श्रीणातु पाकविशेषशालिनीं करोतु यस्सर्वस्य पाकहेतुरिति भावः । किञ्च – तथा क्रियमाणां त्वां आपस्समरिणन् सञ्गच्छन्तु त्वा मा मुचन् मा शोषं गमन् इति । री गतिरेषणयोः क्रैयादिकः उदात्तेत् प्वादिः, तस्मात् 'छन्दसि लुङ्लङ्लिटः' इति लङ्, 'प्वादीनां ह्रस्वः' इति ह्रस्वत्वम्, 'श्नाभ्यस्तयोरातः' इत्याकारलोपः । अद्भिस्सङ्गतायां मयि के गुणाः? इति चेदाह - वातस्य त्वा ध्रज्यै गमनाय । अशुष्कायां हि त्वयि यागनिर्वृत्त्या वातो गच्छति सदागतिर्भवतीत्यर्थः । तस्माद्वातस्य ध्रज्यैत्वामापस्समरिणम् इति । ध्रजघ्रजि गतौ, तस्मात् 'इन् सर्वधातुभ्यः' इतीन्प्रत्ययः । किञ्च - पूष्णः आदित्यस्य रंह्यै रंहणाय उदयाय । रहि गतौ, इदित्वान्नुम् पूर्ववदिन्प्रत्ययः, उदात्तनिवृत्तिस्वरेण पूष्णो विभक्तिरुदात्ता । किञ्च – अपां चोषधीनां च रसं रोहिष्यै रोहणाय उत्पत्तये । 'प्रयै रोहिष्यै अव्यधिष्यै' इति निपात्यते । तस्माद्वातादिप्रवृत्तये अग्निस्त्वां श्रीणातु आपश्च त्वां समरिणन् इति । 'ऊडिदम्' इत्यादिना अद्भ्यो विभक्तिरुदात्ता । ओषधिशब्दो दासीभारादित्वादाद्युदात्तः । 'पार्श्वेन वसाहोमं प्रयौति मध्यं वा एतत्पशूनाम्' इत्यादि ब्राह्मणम् । यद्वा - श्रीः श्रयणीया पार्श्वेन मिश्रयितव्यासि । 'क्विब्वचि' इत्यादिना श्रयतेः क्विपि दीर्घत्वम् । तस्मादाहवनीयोग्निस्त्वां श्रीणातु सेवतां भक्षयतु । श्रयतेर्व्यत्ययेन श्नाप्रत्ययः, धातोश्च दीर्घत्वम् । आपश्च समरिणन् त्वय्येकीभवन्तु । मा मुचन्नित्येवमर्थं त्वां मिश्रयामीति शेषः, पुनश्च त्वाशब्दश्रुतेः । एवं क्रियमाणे के गुणा लोकस्य? इत्याह - वातस्येत्यादि ॥ सुबोधम् ॥
4 वसां जुहोति - घृतमिति ॥ हे घृतपावानो घृतस्य पातारो देवा यूयं घृतं वसागतं पिबत । हे वसापावानः वसायाः पातारः, यूयमपि वसां पिबत । पिबतेः 'आतो मनिन्' इत्यादिना वनिप् । हे वसे त्वमन्तरिक्षस्य अन्तरिक्षवासिनो देवगणस्य हविरसि । यस्मादेवं तस्मात् अन्तरिक्षाय त्वां स्वाहाकरोमीति शेषः ॥
5 वसाहोमोद्रेकेण दिशो जुहोति दिग्भ्यो जुहोति - दिशः प्रादिश इति ॥ यद्यप्येकैव नित्या सर्वगता दिक्, तथाप्युपाधिभेदेन सा भिद्यते, यथा - यत्रादित्य उदेति सा प्राची, यत्रास्तमेति सा प्रतीची, यत्र दृश्यमानो गच्छति सा दक्षिणा, यत्रादृश्यमानो गच्छति सोदीची, अवाग्गता अधरा, उद्गता ऊर्ध्वेत्यादि । तत्र दिक्शब्देनाविशेषात्सर्वासां ग्रहणम् । प्रदिगादयस्तु शब्दा विशेषवचनाः । या इति चाध्याह्नियते । अयमर्थः - प्रदिगादिविशेषभिन्ना या दिशः ताभ्यो दिग्भ्यस्स्वाहा स्वाहुतोयं वसाशेषोस्तु । नमश्चास्तु ताभ्यो दिग्भ्यः । अत्र प्रधानभूताः दिशः प्राच्यादयः प्रदिशः । आस्थिता दिशः आदिशः या जन्तुभिरास्थीयन्ते । आगता वा अधोदिशो मध्यदिशश्च । विगता विविधस्वभावा दिशो विदिशः । ताः पुनर्दक्षिणपूर्वादयः कोणदिशः । उद्गता दिश उद्दिशः ऊर्ध्वदिशः । सर्वत्र 'परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । यद्वा - प्राधान्येन दिशन्तीति प्रदिशः आगत्य दिशन्तीत्यादिशः । विविधं दिशन्तीति विदिशः । ऊर्ध्वं दिशन्तीत्युद्दिशः । ऋत्विगादिना दिशेः क्विन्, कृदुत्तरपदप्रकृतिस्वरत्वम् । ईदृश्यो या दिशस्ताभ्यस्स्वाहा नमश्च दिग्भ्य इति । 'सावेकाचः' इति विभक्तेरुदात्तत्वम् । 'दिशो जुहोति दिश एव रसेनानक्ति' इति ब्राह्मणम् ॥
इति तृतीये दशमोनुवाकः ॥
पञ्चशत् 2 #
TS 1.3.10.2 TS 1.3.10.2
त्वा॒ ध्रज्यै॑ पू॒ष्णो रꣳह्या॑ अ॒पामोष॑धीनाꣳ॒॒ रोहि॑ष्यै घृ॒तं घृ॑तपावानः पिबत॒ वसां᳚ ॅवसापावानः पिबता॒ऽन्तरि॑क्षस्य ह॒विर॑सि॒ स्वाहा᳚ त्वा॒ऽन्तरि॑क्षाय॒ दिशः॑ प्र॒दिश॑ आ॒दिशो॑ वि॒दिश॑ उ॒द्दिशः॒ स्वाहा॑ दि॒ग्भ्यो नमो॑ दि॒ग्भ्यः ॥
पदपाठः (Word-by-word)
त्वा॒ । ध्रज्यै᳚ । पू॒ष्णः । रꣳह्यै᳚ । अ॒पाम् । ओष॑धीनाम् । रोहि॑ष्यै । घृ॒तम् । घृ॒त॒पा॒वा॒न॒ इति॑ घृत - पा॒वा॒नः॒ । पि॒ब॒त॒ । वसा᳚म् । व॒सा॒पा॒वा॒न॒ इति॑ वसा - पा॒वा॒नः॒ । पि॒ब॒त॒ । अ॒न्तरि॑क्षस्य । ह॒विः । अ॒सि॒ । स्वाहा᳚ । त्वा॒ । अ॒न्तरि॑क्षाय । दिशः॑ । प्र॒दिश॒ इति॑ प्र - दिशः॑ । आ॒दिश॒ इत्या᳚ - दिशः॑ । वि॒दिश॒ इति॑ वि - दिशः॑ । उ॒द्दिश॒ इत्यु॑त् - दिशः॑ । स्वाहा᳚ । दि॒ग्भ्य इति॑ दिक् - भ्यः । नमः॑ । दि॒ग्भ्य इति॑ दिक् - भ्यः ॥
पदसंख्या: 28