अनुवाकः 9 TS 1.3.9

(A9)

(अ॒द्भ्यो-वीहि॒-पञ्च॑ च)

अनुवाकः 9 - Complete Audio

TS 1.3.9 - स्वरानुगामी

0:00 0:00
PS1.1 वाक्त॒ आ प्या॑यतां प्रा॒णस्त॒
PS1.2 आ प्या॑यतां॒ चक्षु॑स्त॒ आ
PS1.3 प्या॑यताꣳ॒॒ श्रोत्रं॑ त॒ आ
PS1.4 प्या॑यतां॒ ॅया ते᳚ प्रा॒णाञ्छुग्ज॒गाम॒
PS1.5 या चक्षु॒र्या श्रोत्रं॒ ॅयत्ते᳚
PS1.6 क्रू॒रं ॅयदास्थि॑तं॒ तत्त॒ आ
PS1.7 प्या॑यतां॒ तत्त॑ ए॒तेन॑ शुन्धतां॒
PS1.8 नाभि॑स्त॒ आ प्या॑यतां पा॒युस्त॒
PS1.9 आ प्या॑यताꣳ शु॒द्धाश्च॒रित्राः॒ शम॒द्भ्यः
PS1.10 - [ ]
PS2.1 शमोष॑धीभ्यः॒ शं पृ॑थि॒व्यै शमहो᳚भ्या॒-मोष॑धे॒
PS2.2 त्राय॑स्वैनꣳ॒॒ स्वधि॑ते॒ मैनꣳ॑ हिꣳसी॒
PS2.3 रक्ष॑सां भा॒गो॑ऽसी॒दम॒हꣳ रक्षो॑ऽध॒मं तमो॑
PS2.4 नयामि॒ यो᳚ऽस्मान् द्वेष्टि॒ यं
PS2.5 च॑ व॒यं द्वि॒ष्म इ॒दमे॑नमध॒मं
PS2.6 तमो॑ नयामी॒षे त्वा॑ घृ॒तेन॑
PS2.7 द्यावापृथिवी॒ प्रोर्ण्वा॑था॒-मच्छि॑न्नो॒ रायः॑ सु॒वीर॑
PS2.8 उ॒र्व॑न्तरि॑क्ष॒मन्वि॑हि॒ वायो॒ वीहि॑ (
PS2.9 ) स्तो॒कानाꣳ॒॒ स्वाहो॒र्द्ध्वन॑भसं मारु॒तं
PS2.10 ग॑च्छतं

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.3.9.1 TS 1.3.9.1
वाक्त॒ आ प्या॑यतां प्रा॒णस्त॒ आ प्या॑यतां॒ चक्षु॑स्त॒ आ प्या॑यताꣳ॒॒ श्रोत्रं॑ त॒ आ प्या॑यतां॒ ॅया ते᳚ प्रा॒णाञ्छुग्ज॒गाम॒ या चक्षु॒र्या श्रोत्रं॒ ॅयत्ते᳚ क्रू॒रं ॅयदास्थि॑तं॒ तत्त॒ आ प्या॑यतां॒ तत्त॑ ए॒तेन॑ शुन्धतां॒ नाभि॑स्त॒ आ प्या॑यतां पा॒युस्त॒ आ प्या॑यताꣳ शु॒द्धाश्च॒रित्राः॒ शम॒द्भ्यः - [ ]
पदपाठः (Word-by-word)
वाक् । ते॒ । एति॑ । प्या॒य॒ता॒म् । प्रा॒ण इति॑ प्र - अ॒नः । ते॒ । एति॑ । प्या॒य॒ता॒म् । चक्षुः॑ । ते॒ । एति॑ । प्या॒य॒ता॒म् । श्रोत्र᳚म् । ते॒ । एति॑ । प्या॒य॒ता॒म् । या । ते॒ । प्रा॒णानिति॑ प्र - अ॒नान् । शुक् । ज॒गाम॑ । या । चक्षुः॑ । या । श्रोत्र᳚म् । यत् । ते॒ । क्रू॒रम् । यत् । आस्थि॑त॒मित्या - स्थि॒त॒म् । तत् । ते॒ । एति॑ । प्या॒य॒ता॒म् । तत् । ते॒ । ए॒तेन॑ । शु॒न्ध॒ता॒म् । नाभिः॑ । ते॒ । एति॑ । प्या॒य॒ता॒म् । पा॒युः । ते॒ । एति॑ । प्या॒य॒ता॒म् । शु॒द्धाः । च॒रित्राः᳚ । शम् । अ॒द्भ्य इत्य॑त् - भ्यः ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डे तृतीयप्रपाठके नवमोऽनुवाकः)।

अष्टमेऽनुवाके संज्ञपनमुक्तम्। संज्ञपिसस्य पशोर्वपोत्खेदनमभिधीयते।

वाक्त इति। बौधायनः – ‘सानुपूर्वं पशोः प्राणानाप्याययति वाक्त आ प्यायतामिति वाचं, प्राणस्त आ प्यायतामिति प्राणं, चक्षुस्त आ प्यायतामिति चक्षुः श्रोत्रं त आ प्यायतामिति श्रोत्रं तानेव पुनः संमृशति या ते प्रणाञ्छुग्जगाम या चक्षुर्या श्रोत्रं यत्ते क्रूरं यदास्थितं तत्त आ प्यायतां तत्त एतेन शुन्धतामिति नाभिस्त आ प्यायतामिति नाभिं, पायुस्त आ प्यायतामिति पायुं, संप्रगृह्य पदः प्रक्षालयति शुद्धाश्चरित्राः शमद्भ्यः शमोषधीभ्यः शं पृथिव्या इति, शमहोभ्यामिति शिष्टा दक्षिणतोऽनुपृष्ठं निनयेत्’ इति।

आपस्तम्बोऽत्र कंचिद्विशेषमाह – ‘या ते प्रणाञ्छुग्जगामेति हृदयदेशं शुद्धाश्चरित्रा इति पादानेकैकमाप्याय्य जपति शमद्भ्य इति पुरा स्तोकानां भूमेः प्रापणाच्छमोषधीभ्यः शं पृथिव्या इति भूम्यां शेषं निनीय’ इति।

हे पशो त्वदीयं वागिन्द्रियं गोलकपरित्यागशोकं संत्यज्य स्वीकरिष्यमाणदेवतादेहे सुखेनाऽऽप्यायतां वर्धताम्। एवमन्यत्रापि। किंच निर्याणकाले हृदयपुण्डरीके संकुचितांस्तव प्राणवायूंश्चक्षुरादीन्द्रियाणि च यः शोको जगाम, यच्च बन्धनमुखनिरोधनादिकं क्रूरमस्माभिः कृतं, यदपि छेदादिकमास्थितं कर्तुमुपस्थितं तव तत्सवर्माप्यायतां शाम्यतु। किंच तव तत्प्रणादिकमेतेन जलेन शुन्धतां भाविदेहप्रवेशाय शुद्धं भवतु। चरत्येभिरिति चरित्राः पादास्तेऽपि शुद्धाः सन्तु। याभिरद्भिः प्रोक्षणं क्रियते, याश्चौषधयो बर्हिःस्वरूपेण पशोरधः स्थापिताः, या च पृथिवी म्रियमाणं पशुं बिभर्ति, यौ चाहोरात्रौ पशुमारणकाल उपस्थितौ, तेषां सर्वेषां शं सुखं भवतु।

शोकप्रसक्तिं दर्शयन्व्याचष्टे – ‘पशोर्वा आलब्धस्य प्राणाञ्छुगृच्छति वाक्त आ प्यायतां प्रणस्त आ प्यायतामित्याह प्राणेभ्य एवास्य शुच शमयति’ (सं. का. ६ प्र. ३ अ. ९) इति।

शुगव्यथां विधत्ते – ‘सा प्राणेभ्योऽधि पृथिवी शुक् प्र विशति शमहोभ्यामिति नि नयत्यहोरात्राभ्यामेव पृथिव्यै शुच शमयति’ (सं. का. ६ प्र. ३ अ. ९) इति।

प्राणेभ्योऽपनीता शुक्पृथिवीमधिष्ठाय तदीयदेवताशरीरे प्रविशति। एवं कालादौ प्रवेशः। प्रविष्टायाः शुचः शान्तिर्निनयनेन भवति।

ओषध इति। कल्पः – ‘ओषधे त्रायस्वैनमित्युपाकरणयोरवशिष्टं दक्षिणेन नाभिमन्तर्धाय स्वधिते मैन हिसीरिति स्वधितिना पार्श्वतस्तिर्यगाच्छ्यति’ इति।

मा हिसीरित्येतस्याभिप्रायमाह – ‘ओषधे त्रायस्वैन स्वधिते मैन हिसीरित्याह वज्रौ वै स्वधितिः शान्त्यै’ (सं. का. ६ प्र. ६ अ. ९) इति।

विधत्ते – ‘पार्श्वत आ च्छ्यति मध्यतो हि मनुष्या आच्छ्यन्ति तिरश्चीनमा च्छ्यत्यनूचीन हि मनुष्या आच्छ्यन्ति व्यावृत्त्यै’ (सं. का. ६ प्र. ३ अ. ९) इति।

वपोत्खेदनार्थं दक्षिणपार्श्वे छिन्द्यात्। मांसाहारास्तु मनुष्या नाभिदेशे छिन्दन्ति। तत्राप्यनूचीनं पशोर्दैर्घ्यमनुसृत्य तदुभयवैलक्षण्यमिह कार्यम्।

रक्षसामिति। बौधायनः – ‘अथैतस्यैव बर्हिषोऽणिमत्सचते स्थविमदुभयतो लोहितेनाङ्क्त्वेमां दिशं निरस्यति रक्षसां भागोऽसीदमह रक्षोऽधमं तमो नयामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इदमेनमधमं तमो नयामीति’ इति।

आपस्तम्बः – ‘बर्हिषोऽग्रं सव्येन पाणिनाऽऽदत्तेऽथ मध्यं यत आच्छ्यति तदुभयतो लोहितेनाङ्क्त्वा रक्षसां भागोऽसीत्युत्तरमपरमवान्तरदेशं निरस्याथैनत्सव्येन पदाऽधितिष्टतीदमह रक्ष इति’ इति।

विधत्ते – ‘रक्षसा भागोऽसीति स्थविमतो बर्हिरक्त्वाऽपास्यत्यस्नैव रक्षासि निरवदयते’ (सं. का. ६ प्र. ३ अ. ९) इति।

स्थूलस्य भावः स्थविमा तस्मात्सप्तम्यर्थे तसिल्। स्थविमतः। स्थविमशब्देन बर्हिषो मूलभागः स्थूलत्वादुपलक्ष्यते। तस्मिन्भागे रक्तेन बर्हिरङ्क्त्वा निरस्येत्। तथा सत्यसृजैव रक्षांसि निःशेषेण भागवन्ति कृत्वाऽपनयति।

द्वितीयमन्त्रं व्याचष्टे – ‘इदमह रक्षोऽधमं तमो नयामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्याह द्वौ वाव पुरुषौ यं चैव द्वेष्टि यश्चैनं द्वेष्टि तावुभावधमं तमो नयति’ (सं. का. ६ प्र. ३ अ. ९) इति।

अधमं तमो महद्दुःखम्।

‘इषे त्वेति। कल्पः – इषे त्वेति वपामुत्खिदति घृतेन द्यावापृथिवी प्रोर्ण्वाथामिति वपया द्विशूलां प्रच्छाद्य’ इति।

हे वपे यजमानस्य देवतायाश्चेष्यमाणान्नसिद्धयर्थं त्वामुत्खिदामि। हे शूलद्वयरूपे द्यावापृथिवीतुल्ये वपाश्रपण्यौ घृतसमानया वपया भवदीयस्वरूपं प्रोर्ण्वाथामाच्छादयतम्।

विधत्ते – ‘इषे त्वेति वपामुत्खिदतीच्छत इव ह्येष यो यजते’ (सं. का. ६ प्र. ३ अ. ९) इति।

अत्र शूलाग्रेण वपां भिन्द्यान्न वेति विचारं हृदि निधाय पक्षद्वयेऽपि दूषणमुपन्यस्यति–

‘यदुपतृन्द्याद्रुद्रोऽस्य पशून्घातुकः स्याद्यन्नोपतृन्द्यादयता स्यात्’ (सं. का. ६ प्र. ३ अ. ९) इति।

भेदनमन्तरेण धृताऽपि नियन्तुमशक्यत्वादितस्ततः पतेत्।

दोषद्वयास्पृष्टं पक्षान्तरं विधत्ते–

‘अन्ययोपतृणत्यन्यया न धृत्यै’ (सं. का. ६ प्र. ३ अ. ९) इति।

एकया शाखया भिन्द्यादितरया न भिन्द्यात्तथा सति धृताऽपि भवति रुद्रश्च न हिनस्ति।

वपाशब्दशूलशब्दौ परित्यज्य घृतशब्दप्रयोगस्य द्यावापृथिवीशब्दप्रयोगस्य

च तात्पर्यमाह – ‘घृतेन द्यावापृथिवी प्रोर्ण्वाथामित्याह द्यावापृथिवी एव रसेनानक्ति’ (सं. का. ६ प्र. ३ अ. ९) इति।

अच्छिन्न इति। कल्पः – ‘अधस्तात्परिवासयत्यच्छिन्नो रायः सुवीर इति’ इति।

अयं वपाभागश्छिद्यमानोऽपि मन्त्रसामर्थ्येन व्यथानुत्पत्तेर्न च्छिन्नः। कीदृशो भागः। शोभना वीरा यजमानस्य पुत्रपौत्रादयो यस्य स सुवीरः। तादृशो रायो धनानि प्रयच्छतु।

स्पष्टार्थतामाह – ‘अच्छिन्नो रायः सुवीर इत्याह यथायजुरेवैतत्’ (सं. का. ६ प्र. ३ अ. ९) इति।

उर्विति। कल्पः – ‘उर्वन्तरिक्षमन्विहीत्यभिप्रव्रजति’ इति।

हे वपे त्वमुत्खेदनरूपस्य क्रौर्यस्य शान्तये विस्तीर्णमन्तरिक्षमनुप्रविश्याऽऽहवनीयदेशं गच्छ।

इममेवार्थं दर्शयति – ‘क्रूरमिव वा एतत्करोति यद्वपामुत्खिदत्युर्वन्तरिक्षमन्विहीत्याह शान्त्यै’ (सं. का. ६ प्र. ३ अ. ९) इति।

वपाश्रपण्योः स्पर्शं विधत्ते – ‘प्र वा एषोऽस्माल्लोकाच्च्यवते यः पशुं मृत्यवे नीयमानमन्वारभते वपाश्रपणी पुनरन्वारभतेऽस्मिन्नेव लोके प्रति तिष्ठति’ (सं. का. ६ प्र. ३ अ. ९) इति।

वपायाः पुरतः पशोरिव वह्निं विधत्ते– ‘अग्निना पुरस्तादेति रक्षसामपहत्या अथो देवता एव हव्येनान्वेति’ (सं. का. ६ प्र. ३ अ. ९) इति।

अग्नेः सर्वदेवतात्मकत्वात्तस्य पृष्ठतो वपानयने सर्वा अपि देवता हव्येनानुगता भवन्ति।

वायविति। कल्पः – ‘आहवनीयस्यान्तिमेष्वङ्गारेषु वपायै। प्रतितप्यमानायै बर्हिषोऽग्रमुपास्यति वायो वीहि स्तोकानामिति’ इति।

द्विशूलया शाखया धार्यमाणाया उपरि त्वामु ते दधिर इति मन्त्रेणाऽऽज्ये हुते सति तत्सकाशात्पतन्तो बिन्दवः स्तोकाः। हे वायो तान्स्तोकान्वीहि विभक्तान्कुरु पिबेत्यर्थः।

व्यतिरेकमुखेणाऽऽहवनीयस्योत्तरपार्श्ववर्तिष्वङ्गारेषु वपायाः श्रपणं विधत्ते– ‘नान्तममङ्गारमतिहरेद्यदन्तममङ्गारमतिहरेद्देवता अति मन्येत’ (सं. का. ६ प्र. ३ अ. ९) इति।

अङ्गारस्य सर्वदेवतात्मकत्वेन तदवज्ञया देवता एवावज्ञाता भवन्ति। तस्मादस्मिन्नेवाङ्गारे वपां श्रपयेत्।

वीहीत्यत्र विशब्दस्यार्थं दर्शयति – ‘वायो वीहि स्तोकानामित्याह तस्माद्विभक्ताः स्तोका अव पद्यन्ते’ (सं. ६ का. ६ प्र. ३ अ. ९) इति।

पतन्तीत्यर्थः। वपाया अधस्ताद्बर्हिरग्रस्थापनविधिमर्थवादेनोन्नयति– ‘अग्रं वा एतत्पशूनां यद्वपाऽग्रमोषधीनां बर्हिरग्रेणैवाग्र समर्धयत्यथो ओषधीष्वेव पशून्प्रति ष्ठापयति’ (सं. का. ६ प्र. ३ अ. ९) इति।

अग्रं श्रेष्ठम्। ओषध्यग्रेण बर्हिषा पश्वग्ररूपाया वपायाः समृद्ध्यर्थमोषधीषु पशुप्रतिष्ठापनार्थं बर्हिरग्रं वपाया अधः स्थापयेदित्यर्थः।

अथान्तिमप्रयाजार्थं मैत्रावरुणं प्रत्यध्वर्योः प्रैषमन्त्रमुत्पादयति– ‘स्वाहाकृतीभ्यः प्रेष्येत्याह यज्ञस्य समिष्ट्यै’ (सं. का. ६ प्र. अ. ९) इति।

स्वाहाशब्दबहुला कृतिर्मन्त्रप्रयोगो यासामन्तिमप्रयाजदेवतानां ताः स्वाहाकृतयस्तदर्थं हे मैत्रावरुण होतारं प्रेरय। मैत्रावरुणस्तु होता यक्षदग्निं स्वाहाऽऽज्यस्येत्यादिमन्त्रेण होतारं प्रेष्यति। स च होता सद्यो जातो व्यमिमीत यज्ञमित्यादिकां याज्यां पठति। ततोऽध्वर्युरन्तिमप्रयाजं यजति। एवमयं प्रैषो यज्ञस्य सम्यगिष्ट्यै संपद्यते।

प्रयाजशेषेण हविरभिघारणं विधत्ते– ‘प्राणापानौ वा एतौ पशूनां यत्पृषदाज्यमात्मा वपा पृषदाज्यमभिघार्य वपामभि घारयत्यात्मन्नेव पशूनां प्राणापानौ दधाति’ (सं. का. ६ प्र. ३ अ. ९) इति।

दधिमिश्रमाज्यं पृषदाज्यम्। पृषदाज्यस्य वपायाश्चाभिघारणेन वपारूपे पश्वात्मनि पृषदाज्यरूपौ पशूनां प्राणापानौ स्थापयति।

स्वाहेति। कल्पः – ‘प्रतिप्रस्थाताऽऽहवनीये वपाश्रपणी प्रहरति स्वाहोर्ध्वनभसं मारुतं गच्छतमिति प्राचीं द्विशूलां प्रतीचीमेकशूलाम्’ इति।

हे वपाश्रपण्यौ युवां स्वाहुते सत्यावूर्ध्वनभःसंज्ञकं मरुत्पुत्रं गच्छतम्।

तत्प्राप्तावुपयोगं दर्शयति– ‘स्वाहोर्ध्वनभसं मारुतं गच्छतमित्याहोर्ध्वनभा ह स्म वै मारुतो देवनां वपाश्रपणी प्र हरति तेनैवैने प्र हरति’ (सं. का. ६ प्र. ३ अ. ९) इति।

व्यत्यस्ताग्रतां विधत्ते– ‘विषूची प्र हरति तस्माद्विष्वञ्चौ प्राणापानौ’ (सं. का. ६ प्र. ३ अ. ९) इति।

प्राण ऊर्ध्ववृत्तिरपानोऽधोवृत्तिरित्युभयोर्व्यत्यासः।

अत्र विनियोगसंग्रहः –

“वागष्टाऽऽप्यायने शेषं शमहो निनयेद्भुवि।

ओष स्वधि यथापूर्वं रक्ष दर्भं सलोहितम्॥१॥

त्यजेदिदं बाधनीयमिष उत्खिद्यते वपा।

घृते श्रपण्यावाच्छाद्ये अच्छि सा कृत्यते वपा॥२॥

उरु पूर्वानलं गत्या वायो दर्भमधः क्षिपेत्।

स्वाहा श्रपण्युपक्षेपो मन्त्रा एकोनविंशतिः॥३॥” (इति)॥

अत्र मीमांसाछन्दसी न स्तः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे–

दीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे तृतीयप्रपाठके

नवमोऽनुवाकः॥९॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 पत्नी अनुर्पूवं पशोः प्राणानाप्याययति । तत्र वाचमाप्याययति - वाक्त इति ॥ हे पशो त्वदीया वाक् वाक्स्थानं आप्यायतां शुध्यतु; बुद्धिहेतौ शुद्धौ प्यायतिर्लक्षणया वर्तते । यद्वा - जननान्तरे देवत्वं गतस्य वा तव वाक् वर्धताम् । 'पशोर्वा आलब्धस्य प्राणान्' इत्यादि ब्राह्मणम् ॥
2 प्राणानाप्याययति - प्राणस्त इति ॥ स्पष्टम् । थाथादिस्वरेण प्राणशब्दोन्तोदात्तः ॥
3 चक्षुराप्याययति - चसुस्त इति ॥ गतम् ॥
4 श्नोत्रमाप्याययति - श्रोत्रं त इति ॥ सुबोधम् ॥
5 पुनर्वागादीनभिमृशति - या ते प्राणानिति बृहत्या पच्चपदया अष्टर्तुवसुषडष्टाक्षरया ॥ हे पशो त्वदीयान्प्राणान् या शुक् जगाम प्राप या चक्षुर्जगाम या च श्रोत्रं जगाम, यच्च ते क्रूरमस्माभिः कृतम् । किं पुनस्तत्? निकर्तनमेव । यच्चान्यद्रक्षःप्रभृति मांसलोभेन त्वामास्थितं आश्रित्य स्थितम् । 'गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् । तत्ततः । 'सुपां सुलुक्' इति पञ्चम्या लुक् । ततश्शुचः क्रूरादास्थातुश्च त्वदीय प्राणादिकं सर्वमाप्यायतां तस्मादनिष्टरूपान्निर्मुक्तं वर्धताम् । किञ्च – तस्मादेव निर्मुक्तमेतेन प्रक्षालनेन शुन्धतां शुद्धं भवतु । व्यत्ययेनात्मनेपदम् ॥
6 नाभिं सम्मृशति - नाभिस्त इति ॥ गतम् ॥
7 पायुं सम्मृशति - पायुस्त इति ॥ गतमेव ॥
8 सम्प्रगृह्य पदः प्रक्षाळयति सहैव - शुद्धा इति ॥ चरित्राश्चरणाः । 'आर्तिलूधूसूखनसहचर इत्रः' इतीत्रप्रत्ययः । ते शुद्धाः अनेन क्षाळनेन भवन्त्वितिशेषः । शं सुखं शान्तिर्वा । शाम्यतेर्विच् । अद्भ्य ओषदीभ्यः पृथिव्याश्च हेतुभ्यः, अस्य पशोश्शं भवत्विति शेषः । तादर्थ्ये वा चतुर्थी, अबाद्यर्थं शमस्त्विति । 'ऊडिदम्' इत्यादिना अद्भ्यो विभक्तेरुदात्तत्वम् । ओषधिशब्दो दासीभारादिः, 'ओषधेश्च विभक्तावप्रथमायाम्' इति दीर्घः । 'उदात्तयणो हर्ल्पूवात्' इति पृथिव्या विभक्तेरुदात्तत्वम् ॥
9 अवशिष्टा दक्षिणतोनुपृष्ठमपो निनयति - शमहोभ्यामिति ॥ अहोभ्यां अह्ना रात्र्या च हेतुभ्यां पृथिव्याश्शं भवतु । कुत एतत्? तस्या अनन्तरप्रकृतत्वात् । 'अहोरात्राभ्यामेव पृथिव्यै शुचं शमयति' इति च ब्राह्मणम् । अहस्सहचरिता रात्रिरप्यहरित्युच्यते, तत एकशेषः । यद्वा - व्यत्ययेन विरूपयोरप्येकशेषः प्रवर्तते । 'सा प्राणेभ्योधि पृथिवीम्' इत्यादि बाह्मणम् ॥
10 वपाग्रहणदेशे प्राचीनाग्रं बर्हिर्निदधाति - ओषधे त्रायस्वैनमिति ॥ व्याख्यातम् ॥
11 स्वधितिं निदधाति - स्वधिते मैनं हिंसीरिति ॥ व्याख्यातमेव ॥
12 उपाकरणबर्हिषोर्मूलं लोहितेनाङ्क्त्वा इमां दिशं निरस्यति - रक्षसां भागोसीति ॥ रक्षसां भागस्त्वमसि । भागशब्दः 'कर्षात्वतः' इत्यन्तोदात्तः । यत्पुनरिह लोहितभक्षणे व्यापृतं रक्षस्तदिदमधमं निकृष्टं तमो नरकं अहमध्वर्युर्नयामि प्रापयामि । किञ्च - योस्मान्द्वेष्टि यं च वयं द्विष्मस्तमप्येनं द्वेष्टारं द्वेष्यं च इदमेव प्रसिद्धं अधमं तमो नरकाख्यं नयामि । 'द्वौ वाव पुरुषौ' इत्यादि ब्राह्मणम् ॥
13 वपामुत्खिदति - इषे त्वेति ॥ इट् अन्नं, थजमानस्यैषणीयत्वात् । 'इच्छत इव ह्येष यो यजते' इत्यादि ब्राह्मणम् ॥ यद्वा - कर्मसिद्धं स्वर्गादिकं कर्मनिर्वृत्तिं वा इच्छतीतीट् यजमानः, तदर्थं तस्याभिमतसिद्ध्यर्थं त्वामुत्खिदामीति शेषः ॥
14 वपया वपाश्रपण्यौ प्रोर्णोति - घृतेनेति ॥ हे द्यावापृथिवी द्यावापृथिव्यौ द्यावम्पृथिव्यात्मके वपाश्रपण्यौ । 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । द्यावापृथिव्यात्मना वपाश्रपण्यौ स्तूयेते । यद्वा - द्योतनात् द्यौः । दिवेर्डिविप्रत्ययः । पृथुत्वात्पृथिवी । प्रथेष्षिवन्प्रत्ययः । हे इड्र्श्यौ वपाश्रपण्यौ घृतेन स्निग्धत्वाद्घृततुल्यया वपयात्मानं प्रोर्ण्वाथां प्रकर्षेणाच्छादयतम् । यद्वा - घृतेन सलिलेन सर्वं जगत्प्रोर्ण्वाथाम् । अथवा - द्यावापृथिव्यावेवोच्येते । हे द्यावापृथिव्यौ घृतस्थानीयया वपया वपाश्रपण्यौ प्रोर्ण्वाथाम् । एवं वा - हे द्यावापृथिव्यौ घृतेन सलिलेन विश्वं प्रोर्ण्वाथाम् । अनेन वपाश्रपण्याच्छादनेन आत्मानमेव प्रोर्ण्वाथाम् । 'द्यावाष्टथिवी एव रसेनानक्ति' इति ब्राह्मणम् ॥ 'दिवो द्यावा' इति द्यावादेशः ॥
15 अधस्ताद्वपरं परिवासयति - अच्छिन्न इति ॥ व्याख्यातम् ॥
16 एति - उर्वन्तरिक्षमन्विहीति ॥ व्याख्यातमेव । हे वपे उत्खेदनविबाधिते अधुना महान्तमन्तरिक्षाख्यं पन्थानं अनुगच्छेति विशेषः । 'क्रूरमिव वा एतत्करोति यद्वपामुत्खिदति' इत्यादि ब्राह्मणम् ॥
17 आहवनीयस्यान्तिमेष्वङ्गारेषु वपायै प्रतितप्यमानायै अधस्ताद्बर्हिषोग्रमुपास्यति - वायविति ॥ हे वायो स्तोकानां वीहि स्तोकान्वीहि । 'क्रियाग्रहणं कर्तव्यम्' इति सम्प्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । वीहि विविधं गच्छ पृथक्पृथक्सर्वान्स्तोकान्विभजेति यावत् । 'तस्माद्विभक्ता स्तोका अव पद्यन्ते' इति ब्राह्मणम् । प्रथमं स्तोकान्गृह्णाति, ततो वृष्टिरूपेण विसृजति, ततो महाजलेन विभ्राजति, ततस्तोकात्मना अवपद्यन्ते पृथिव्यामाप इति । एवं बर्हिरग्रदहनजन्मा वायुरामन्त्र्यते 'अग्नं वा एतत्पशूनां यद्वपाग्रम्' इत्यादि ब्राह्मणम् ॥
18 वपाश्रपण्यौ प्रहरति - स्वाहेति ॥ हे वपाश्रपण्यौ युवां स्वाहा स्वाहुते भूत्वा ऊर्ध्वनभसं ऊर्ध्वनभस्संज्ञं मारुतं गच्छतं, यथा तेनैव प्रहृते स्याताम् । ऊर्ध्वं नभत इत्यूर्ध्वनभाः । णभ हिंसायां, अत्र तु गतिकर्मा, तस्मात् 'गतिकारकयोरपि पूर्वप दप्रकृतिस्वरत्वं च' इत्यसुन्प्रत्ययः । 'ऊर्ध्वनभा ह स्म वै मारुतो देवानाम्' इत्यादि ब्राह्मणम् ॥
इति तृतीये नवमोनुवाकः ॥
पञ्चशत् 2 #
TS 1.3.9.2 TS 1.3.9.2
शमोष॑धीभ्यः॒ शं पृ॑थि॒व्यै शमहो᳚भ्या॒-मोष॑धे॒ त्राय॑स्वैनꣳ॒॒ स्वधि॑ते॒ मैनꣳ॑ हिꣳसी॒ रक्ष॑सां भा॒गो॑ऽसी॒दम॒हꣳ रक्षो॑ऽध॒मं तमो॑ नयामि॒ यो᳚ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इ॒दमे॑नमध॒मं तमो॑ नयामी॒षे त्वा॑ घृ॒तेन॑ द्यावापृथिवी॒ प्रोर्ण्वा॑था॒-मच्छि॑न्नो॒ रायः॑ सु॒वीर॑ उ॒र्व॑न्तरि॑क्ष॒मन्वि॑हि॒ वायो॒ वीहि॑ ( ) स्तो॒कानाꣳ॒॒ स्वाहो॒र्द्ध्वन॑भसं मारु॒तं ग॑च्छतं ॥
पदपाठः (Word-by-word)
शम् । ओष॑धीभ्य॒ इत्योषा॑ध - भ्यः॒ । शम् । पृ॒थि॒व्यै । शम् । अहो᳚भ्या॒मित्यहः॑ - भ्या॒म् । ओष॑धे । त्राय॑स्व । ए॒न॒म् । स्वधि॑त॒ इति॒ स्व - धि॒ते॒ । मा । ए॒न॒म् । हिꣳ॒॒सीः॒ । रक्ष॑साम् । भा॒गः । अ॒सि॒ । इ॒दम् । अ॒हम् । रक्षः॑ । अ॒ध॒मम् । तमः॑ । न॒या॒मि॒ । यः । अ॒स्मान् । द्वेष्टि॑ । यम् । च॒ । व॒यम् । द्वि॒ष्मः । इ॒दम् । ए॒न॒म् । अ॒ध॒मम् । तमः॑ । न॒या॒मि॒ । इ॒षे । त्वा॒ । घृ॒तेन॑ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ द्यावा - पृ॒थि॒वी॒ । प्रेति॑ । ऊ॒र्ण्वा॒था॒म् । अच्छि॑न्नः । रायः॑ । सु॒वीर॒ इति॑ सु - वीरः॑ । उ॒रु । अ॒न्तरि॑क्षम् । अन्विति॑ । इ॒हि॒ । वायो॒ इति॑ । वीति॑ । इ॒हि॒ ( ) । स्तो॒काना᳚म् । स्वाहा᳚ । ऊ॒र्द्ध्वन॑भस॒मित्यू॒र्द्ध्व - न॒भ॒स॒म् । मा॒रु॒तम् । ग॒च्छ॒त॒म् ॥
पदसंख्या: 55