अनुवाकः 5 TS 1.3.5

(A5)

(यं-दश॑ च)

अनुवाकः 5 - Complete Audio

TS 1.3.5 - स्वरानुगामी

0:00 0:00
PS1.1 अत्य॒न्यानगां॒ नान्यानुपा॑गाम॒र्वाक्त्वा॒ परै॑रविदं प॒रोऽव॑रै॒स्तं
PS1.2 त्वा॑ जुषे वैष्ण॒वं दे॑वय॒ज्यायै॑
PS1.3 दे॒वस्त्वा॑ सवि॒ता मद्ध्वा॑ऽन॒क्त्वोष॑धे॒ त्राय॑स्वैनꣳ॒॒
PS1.4 स्वधि॑ते॒ मैनꣳ॑ हिꣳसी॒र् दिव॒मग्रे॑ण॒
PS1.5 मा ले॑खीर॒न्तरि॑क्षं॒ मद्ध्ये॑न॒ मा
PS1.6 हिꣳ॑सीः पृथि॒व्या सं भ॑व॒
PS1.7 वन॑स्पते श॒तव॑ल्.शो॒ वि रो॑ह
PS1.8 स॒हस्र॑वल्.शा॒ वि व॒यꣳ रु॑हेम॒
PS1.9 यं ( ) त्वा॒ऽयꣳ
PS1.10 स्वधि॑ति॒स्तेति॑जानः प्रणि॒नाय॑ मह॒ते सौभ॑गा॒याच्छि॑न्नो॒
PS1.11 रायः॑ सु॒वीरः॑

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.3.5.1 TS 1.3.5.1
अत्य॒न्यानगां॒ नान्यानुपा॑गाम॒र्वाक्त्वा॒ परै॑रविदं प॒रोऽव॑रै॒स्तं त्वा॑ जुषे वैष्ण॒वं दे॑वय॒ज्यायै॑ दे॒वस्त्वा॑ सवि॒ता मद्ध्वा॑ऽन॒क्त्वोष॑धे॒ त्राय॑स्वैनꣳ॒॒ स्वधि॑ते॒ मैनꣳ॑ हिꣳसी॒र् दिव॒मग्रे॑ण॒ मा ले॑खीर॒न्तरि॑क्षं॒ मद्ध्ये॑न॒ मा हिꣳ॑सीः पृथि॒व्या सं भ॑व॒ वन॑स्पते श॒तव॑ल्.शो॒ वि रो॑ह स॒हस्र॑वल्.शा॒ वि व॒यꣳ रु॑हेम॒ यं ( ) त्वा॒ऽयꣳ स्वधि॑ति॒स्तेति॑जानः प्रणि॒नाय॑ मह॒ते सौभ॑गा॒याच्छि॑न्नो॒ रायः॑ सु॒वीरः॑ ॥
पदपाठः (Word-by-word)
अतीति॑ । अ॒न्यान् । अगा᳚म् । न । अ॒न्यान् । उपेति॑ । अ॒गा॒म् । अ॒र्वाक् । त्वा॒ । परैः᳚ । अ॒वि॒द॒म् । प॒रः । अव॑रैः । तम् । त्वा॒ । जु॒षे॒ । वै॒ष्ण॒वम् । दे॒व॒य॒ज्याया॒ इति॑ देव - य॒ज्यायै᳚ । दे॒वः । त्वा॒ । स॒वि॒ता । मद्ध्वा᳚ । अ॒न॒क्तु॒ । ओष॑धे । त्राय॑स्व । ए॒न॒म् । स्वधि॑त॒ इति॒ स्व - धि॒ते॒ । मा । ए॒न॒म् । हिꣳ॒॒सीः॒ । दिव᳚म् । अग्रे॑ण । मा । ल॒खीः॒ । अ॒न्तरि॑क्षम् । मद्ध्ये॑न । मा । हिꣳ॒॒सीः॒ । पृ॒थि॒व्या । समिति॑ । भ॒व॒ । वन॑स्पते । श॒तव॑ल्.श॒ इति॑ श॒त - व॒ल्॒.शः॒ । वीति॑ । रो॒ह॒ । स॒हस्र॑वल्.शा॒ इति॑ स॒हस्र॑ - व॒ल्॒.शाः॒ । वीति॑ । व॒यम् । रु॒हे॒म॒ । यम् ( ) । त्वा॒ । अ॒यम् । स्वधि॑ति॒रिति॒ स्व - धि॒तिः॒ । तेति॑जानः । प्र॒णि॒नायेति॑ प्र - नि॒नाय॑ । म॒ह॒ते । सौभ॑गाय । अच्छि॑न्नः । रायः॑ । सु॒वीर॒ इति॑ सु - वीरः॑ ॥
पदसंख्या: 60
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डे तृतीयप्रपाठके पञ्चमोऽनुवाकः)।

चतुर्थेऽनुवाके वैसर्जनहोमेऽवान्तरदीक्षां विसृज्याग्नीषोमयोराग्नीध्रीये हविर्धाने च प्रणयनमुक्तम्। अथ पञ्चममारभ्यैकादशान्तेषु सप्तस्वनुवाकेषु प्रणीतयोस्तयोरग्नीषोमयोः पशुर्वक्तव्यः। तत्रास्मिन्पञ्चमेऽनुवाके पश्वङ्गयूपस्य च्छेदनमभिधीयते। अत्यन्यानिति। बौधायनः — ‘पुनः पूर्वया द्वारोपनिष्क्रम्य तां दिशं यन्ति यत्रास्य यूपस्तष्टो भवति यत्र वा वेत्स्यन्मन्यते स यः समे भूम्यै स्वाद्योने रूढो बहुपर्णो बहुशाखोऽप्रतिशुष्काग्रः प्रत्यङ्ङुपनतस्तमुपतिष्ठते — अत्यन्यानगां नान्यनुपागामर्वाक्त्वा परैरविदं परोऽवरैस्तं त्वा जुषे वैष्णवं देवयज्याया इति’ इति।

आपस्तम्बः – ‘अतिक्रम्य यूप्यान्यं जोषयते तमभिमन्त्रयतेऽत्यन्यानगामित्यथैनमुपस्पृशति तं त्वा जुषे वैष्णवं देवयज्याया इति’ इति।

वृक्षा द्विविधा यूप्या अयूप्याश्च। पलाशखदिरादयो यूप्याः। निम्बजम्बीरादयस्त्वयूप्याः। हे पुरोवर्तियूप्यवृक्ष त्वत्तोऽन्यान्कांश्चिद्यूप्यानपि समप्रदेशजन्मादिलक्षणरहितानत्यगाम्। अन्यांस्त्वयूप्यान्नोपागाम्। त्वां त्वविदं लब्धवानस्मि। कीदृशं, परैरर्वागुत्कृष्टैर्लक्षणैः प्रत्यासन्नं तल्लक्षणयुक्तमित्यर्थः। पुनः कीदृशं, परोऽवरैर्निकृष्टैर्लक्षणैर्दूरवर्तिनं तद्रहितमित्यर्थः। हे वृक्ष तं त्वां विष्णुदेवताकं देवयजनार्थं सेवे।

विधत्ते —

‘वैष्णव्यर्चा हुत्वा यूपमच्छैति वैष्णवो वै देवतया यूपः स्वयैवैनं दवेतयाऽच्छैति’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।

उरु विष्णो वि क्रमस्वेति स्रुवेणाऽऽहवनीये यूपाहुतिं हुत्वा ततो यूपं प्राप्तुं गच्छेत्।

यथोक्तमन्त्रार्थे प्रसिद्धिं दर्शयति —

“अत्यन्यानगां नान्यानुपागामित्याहाति ह्यन्यानेति नान्यानुपैत्यर्वाक्त्वा परैरविदं परोऽवरैरित्याहार्वाग्घ्येनं परैर्विन्दति परोऽवरैस्तं त्वा जुषे वैष्णवं देवयज्याया इत्याह देवयज्यायै ह्येनं जुषते” [सं॰ का॰ ६ प्र॰ ३ अ॰ ३] इति।

देवस्त्वेति। कल्पः “देवस्त्वा सविता मध्वाऽनक्त्विति स्रुवेण सर्वतो मूलं पर्यणाक्त्योषधे त्रायस्वैनमित्यूर्ध्वाग्रं दर्भद्वयमन्तर्धाय स्वधिते मैन हिसीरिति स्वधितिना प्रहरति” इति। मध्वा मधुरेणाऽऽज्येन।

एतदेवाभिप्रेत्याऽऽह –

“देवस्त्वा सविता मध्वाऽनक्त्वित्याह तेजसैवैनमनक्त्योषधे त्रायस्वैन स्वधिते मैन हिसीरित्याह वज्रो वै स्वधितिः शान्त्यै” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।

विधत्ते — “स्वधितेर्वृक्षस्य बिभ्यतः प्रथमेन शकलेन सह तेजः परा पतति यः प्रथमः शकलः परापतेत्तमप्या हरेत्सतेजसमेवैनमा हरति” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।

स्वधितिभयात्पतितस्य वृक्षतेजस आहरणायेहाऽऽद्यशकलाहरणम्।

दिवमिति। कल्पः — “प्राञ्चं वोदञ्चं वा प्रयन्तमनुमन्त्रयते दिवमग्रेण मा लेखीरन्तरिक्षं मध्येन हिसीः पृथिव्या सं भवेति” इति।

हे छिन्नवृक्ष त्वं पतन्दिवं मा लेखीर्मा विदारीः पृथिव्या संभव संयुज्यावतिष्ठस्व।

अप्रसक्तप्रतिषेधबुद्धिं वारयति —

“इमे वै लोका यूपात्प्रयतो बिभ्यति दिवमग्रेण मा लेखीरन्तरिक्षं मध्येन मा हिसीरित्याहैभ्य एवैनं लोकेभ्यः शमयति” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।

प्रयतः पततः।

वनस्पत इति। कल्पः “अथाऽऽव्रश्चने हिरण्यं निधाय संपरिस्तीर्याभिजुहोति वनस्पते शतवल्शो वि रोह स्वाहेति” इति।

विधत्ते — “वनस्पते शतवल्शो वि रोहेत्याव्रश्चने जुहोति तस्मादाव्रश्चनाद्वृक्षाणां भूयास उत्तिष्ठन्ति” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।

आवृश्च्यते वृक्षो यस्मान्मूलादित्याव्रश्चनम्। भूयांसो बहवो वल्शाः शाखाविशेषाः।

सहस्रेति। कल्पः “सहस्रवल्शा वि वय रुहेमेत्यात्मानं प्रत्यभिमृश्य” इति।

विरोहैवेत्याशीरर्थो विवक्षित इत्याह —

“सहस्रवल्शा वि वय रुहेमेत्याहाऽऽशिषमेवैतामा शास्ते ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।

यं त्वेति। कल्पः — “ अन्वग्र शाखां प्रसूदयति यं त्वाऽय स्वधितिस्तेतिजानः प्रणिनाय महते सौभगायेति ” इति।

हे छिन्नवृक्ष तेतिजानस्तीक्ष्णोऽयं स्वधितिर्यं त्वां महते सौभगाय दर्शनीयत्वाय तिर्यक्शाखाछेदनेन प्रणिनाय प्रकृष्टं यूपत्वं प्रापयामास। ततस्तादृशेन त्वया छेदनान्न भेतव्यम्।

अच्छिन्न इति। कल्पः — “ अच्छिन्नो रायः सुवीर इत्यग्रं परिवासयति ” इति।

हे यूप त्वमच्छिन्नो भव। मन्त्रसामर्थ्येन च्छेदनव्यथा तव मा भूत्। कीदृशस्त्वं, सुवीरः शोभना वीरा यजमानपुत्रपौत्रादयो येन त्वया लभ्यन्ते स त्वं सुवीरः। तादृशस्त्वं रायो धनानि यजमानाय देहि। यं त्वाऽयमच्छिन्न इत्येतौ मन्त्रावुपेक्षितौ।

योऽयं यूपार्थो वृक्षच्छेदः पूर्वमुक्तस्तत्र च्छेदे छेद्यं वृक्षस्य प्रदेशं विधत्ते –

“अनक्षसङ्गं वृश्चेत् ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।

छिन्नावशिष्टस्य मूलस्योपरि गच्छतः शकटस्याक्षो यथा न प्रसज्यते तथा नीचं मूलमवस्थाप्य च्छिन्द्यात्।

विपक्षे बाधकमाह —

“ यदक्षसङ्गं वृश्चेदध ईषं यजमानस्य प्रमायुक स्यात् ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।

यदि च्छिन्ने वृक्षमूले शकटस्याक्षः प्रसज्येत तदा यजमानस्य संबन्धि गोवत्सादिकमीषाया अधो मरणशीलं भवेत्। शकटस्य प्राचीनं दीर्घकाष्ठमीषा

शाखाया यूपार्थं छेदनं निन्दति —

“यं कामयेताप्रतिष्ठितः स्यादित्यारोहं तस्मै वृश्चेदेष वै वनस्पतीनामप्रतिष्ठितोऽप्रतिष्ठित एव भवति ” [सं॰ का॰ ६ प्र॰ ३ अ॰ ३] इति।

वृक्षमारुह्य जायत इत्यारोहः शाखा। स च भूमावनुत्पन्नत्वादप्रतिष्ठितः। तस्य यूपत्वे यजमानोऽप्रतिष्ठित एव भवति।

अपर्णमपि निन्दति —

“यं कामयेतापशुः स्यादित्यपर्णं तस्मै शुष्काग्रं वृश्चेदेव वै वनस्पतीनामपशव्योऽपशुरेव भवति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।

वनस्पतीनां मध्य एव पर्णरहितः शुष्काग्रश्चापशव्यः पशुभ्यो न हितः।

बहुपर्णं विधत्ते — ‘ यं कामयेत पशुमान्त्स्यादिति बहुपर्णं तस्मै बहुशाखं वृश्चेदेष वै वनस्पतीनां पशव्यः पशुमानेव भवति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।

भूमौ समप्रदेशे स्वबीजादुत्पन्नं विधत्ते — “ प्रतिष्ठितं वृश्चेत्प्रतिष्ठाकामस्यैष वै वनस्पतीनां प्रतिष्ठितो यः समे भूम्यै स्वाद्योने रूढः प्रत्येव तिष्ठति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।

स्वाद्योनेरित्यनेन वृक्षजन्या शाखा व्यवर्त्यते।

पश्चिमदिश्यानतं विधत्ते — “ यः प्रत्यङ्ङुपनतस्तं वृश्चेत्स हि मेधमभ्युपनतः ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।

मेधो यज्ञः। स चोत्तरवेद्यां क्रियमाणो यूपस्थानात्प्रत्यङ् भवति। अतो मेधमभिलक्ष्यैवोपनतः।

यूपस्य काम्यानि परिमाणानि विधत्ते — “ पञ्चारत्निं तस्मै वृश्चेद्यं कामयेतोपैनमुत्तरो यज्ञो नमेदिति पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञ उपैनमुत्तरो यज्ञो नमति षडरत्निं प्रतिष्ठाकामस्य षड् वा ऋतव ऋतुष्वेव प्रति तिष्ठति सप्तारत्निं पशुकामस्य सप्तपदा शक्वरी पशवः शक्वरी पशूनेवाव रुन्धे नवारत्निं तेजस्कामस्य त्रिवृता स्तोमेन संमितं तेजस्त्रिवृत्तेजस्व्येव भवत्येकादशारत्निमिन्द्रियकामस्यैकादशाक्षरा त्रिष्टुगिन्द्रियं त्रिष्टुगिन्द्रियाव्येव भवति पञ्चदशारत्निं भ्रातृव्यवतः पञ्चदशो वज्रो भ्रातृव्याभिभूत्यै सप्तदशारत्निं प्रजाकामस्य सप्तदशः प्रजापतिः प्रजापतेराप्त्या एकविशत्यरत्नीं प्रतिष्ठाकामस्यैकविशः स्तोमानां प्रतिष्ठा प्रतिष्ठित्यै ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।

चतुर्विंशतिरङ्गुलयोऽरत्निः। उत्तरो यज्ञः सोमविकृतिः।

विधत्ते —

“ अष्टाश्रिर्भवत्यष्टाक्षरा गायत्री तेजो गायत्री गायत्री यज्ञमुखं तेजसैव गायत्रिया यज्ञमुखेन संमितः ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।

गायत्र्यास्तेजस्त्वमग्निना सहोत्पन्नत्वात्। यज्ञमुखत्वं प्रातःसवने प्रयोज्यत्वात्। अतोऽष्टसंख्याद्वारा तेजोगायत्रीयज्ञमुखैः समानो भवति। तस्मात्तक्षणेन यूपस्याष्टावश्रयः कार्याः।

अत्र विनियोगसंग्रहः —

“ अति वृक्षं मन्त्रयित्वा तं त्वा यूपतरुं स्पृशेत्।

देवस्तन्मूलमभ्यज्य ह्योष दर्भान्तरायतः ॥१॥

स्वधि च्छिन्द्याद्दिवं प्राच्यां पातयेद्वन शेषिते।

मूले हुत्वा सहेत्यात्मस्पर्शो यं त्वाऽङ्गकानि च।

अच्छीत्यग्रं च संछिन्द्याद्दश मन्त्रा उदीरिताः ॥२॥ इति।

अथ मीमांसा।

पञ्चमाध्यायस्य प्रथमपादे चिन्तितम् —

“ यूपच्छेदापकर्षः किं तदन्ते श्रुत एव वा।

प्रयाजवत्तदन्तत्वान्नयनं चापकृष्यताम्॥

अग्नीषोमप्रणयनं सौमिकं पाशुकी छिदा।

प्रयाजाघारवैषम्याच्छ्रुतमात्रापकर्षणम् ”॥ इति।

ज्योतिष्टोमे वैसर्जनहोमकाले प्राचीनवंशगतो वह्निराग्नीध्रीये प्रणेतव्यः। सोमश्च प्राचीनवंशे पूर्वं स्थापित इदानीं हविर्धाने प्रणेतव्यः। तयोरुभयोः प्रणयनादूर्ध्वं यूपच्छेद आम्नातः। तदेतत्सर्वं सुत्यादिनात्प्राचीन औपवसथ्ये दिने प्राप्तम्। तत्र यूपच्छेदो दिनत्रयात्पूर्वस्मिन्दीक्षाकालेऽपकृष्टः। दीक्षासु यूपं छिनत्तीति तद्विधानात्। तम्मिन्नपकृष्टे प्रयाजन्यायेन तदन्ताङ्गसमूहस्यापकर्षात्प्रणयनमप्यपकृष्यतामिति प्राप्ते ब्रूमः – प्रयाजाधारादीनामेकमेव प्रधानं प्रत्यङ्गत्वेनैकप्रयोगन्तःपातित्वादवश्यंभावी परस्परक्रम इति प्रयाजापकर्षे तदन्ताङ्गसमूहापकर्षो युक्तः। इह तु प्रणयनं सोमयागाङ्गम्। यूपच्छेदस्त्वग्नीषोमीयपशोरङ्गमिति प्रणयनच्चेदनयोर्नान्योन्यक्रमोऽपेक्षितः। तस्माछ्रुतस्य यूपच्छेदनमात्रस्यापकर्षः।

एकादशाध्यायस्य तृतीयपादे चिन्तितम् —

“ अग्नीषोमीयमुख्येषु यूपो भिन्नोऽथ तन्त्रता।

उपदेशातिदेशाभ्यां भिन्नो नो कालभेदतः ”॥ इति।

ज्योतिष्टोमे पशवोऽग्नीषोमीयसवनीयानुबन्ध्यास्त्रयो विहिताः। तेषु यूपभेदो युक्तः। कुतः। अग्नीषोमीये प्रत्यक्षवचनेन तदुपदेशादितरयोश्चोदकाभ्यामतिदेशादिति प्राप्ते ब्रूमः — न तावदग्नीषोमीयपशोः कर्मणः काले यूपस्योत्पत्तिः। (किंतु) ततः प्रागेव यूपोत्पत्तिकालः। दीक्षासु यूपं छिनत्ति क्रीते वा राजनीति तत्कालविधानात्। अत आधानवत्सर्वार्थत्वं संभवति। यथा स्वकाले संपन्नमाधानं तत्तद्वाक्यविशेषैस्तेषु तेषु कर्मसु संबध्यते तथा स्वकाले छेदनादिना निष्पन्नो यूपः प्रत्यक्षचोदकोक्तिभ्यां तत्र तत्र विनियुज्यते। तस्मात्तन्त्रेण यूपः संपादनीयः।

तत्रैव द्वितीयपादे चिन्तितम् —

“ यूपैकादशिनी यूपाहुतेर्भेदोऽथ तन्त्रता।

सामीप्यभेदादाद्योऽन्त्यः सामीप्यं दृष्टिगं यतः ”॥ इति।

यूपैकादशिन्यां चोदकप्राप्ता यूपाहुतिः प्रतियूपं भिद्यते। कुतः। यूपस्यान्तिकेऽग्निं मथित्वा यूपाहुतिं जुहोतीति तद्विधानात्सामीप्यानां च भेदादिति प्राप्ते ब्रूमः — न तावदत्यन्तसामीप्यं संभवति यूपदाहप्रसङ्गात्। अतो यावता व्यवधानेन यूपा दृष्टिगोचरा भवन्ति तावतो देशस्य समीपत्वमभ्युपेयम्। तथा सति देशैक्यसंभवादाहुतेस्तन्त्रता।

षष्ठस्य तृतीयपादे चिन्तितम् —

“ अमुख्ये संस्कृते मुख्यलाभे किं ग्राह्यमेतयोः।

अमुख्यस्तक्षणाद्यूपः खादिरस्तक्षणात्पुनः ”॥ इति।

यदा यूपार्थं खदिरमलब्ध्वा कदरे तक्षणादिसंस्कृते सति पश्चान्मुख्यः खदिरो यदि पशुनियोजनात्प्रागेव लभ्यते तदा तक्षणादिसंस्कृतः प्रतिनीधिः कदर एव ग्राह्यः, असंस्कृतात्संस्कृतस्य प्रशस्तत्वादिति चेन्त्मैवम्। मुख्ये खदिरे लब्धे पुनस्तक्षणादिसंस्कारः कर्तव्यः। तथा सति संस्कृतस्य मुख्यस्य लाभात्प्रतिनिधिः संस्कृतोऽपि परित्याज्यः।

तत्रैवान्यच्चिन्तितम् —

“ पशौ नियुक्ते खदिरलाभे कार्यं पुनर्न वा।

साद्गुण्याय पुनः कार्यं मुख्यावृत्तिर्गुणान्न हि ”॥ इति।

यदा संस्कृते प्रतिनिधौ पशुर्नियुज्यते तत ऊर्ध्वं खदिरो यदि लभ्येत तदाऽपि पूर्वन्यायेन मुख्यलाभात्साद्गुण्याय मुख्ये यूपे पुनर्नियोजनं कार्यमिति चेन्मैवम्। गुणभूतो यूपः, पशुनियोजनं प्रधानं, न हि गुणानुसारेण प्रधानस्याऽऽवृत्तिर्युक्ता। त्समान्न नियोजनं पुनः कार्यम्।

तत्रैवान्यच्चिन्तितम् —

“ अमुख्यमुख्ये संस्कारयोग्यायोग्ये तदा तु किम्।

आद्यो बहुगुणालोपान्न मुख्यायास्तु लोपनम् ”॥ इति।

यदाऽमुख्यः कदरः स्थूलत्वात्तक्षणादिसंस्कारयोग्यः, मुख्यस्तु खदिरः सूक्ष्मत्वादयोग्यस्तदा तक्षणादिबहुगुणलोपो मा भूदिति प्रतिनिधिरेवाऽऽदरणीय इति चेन्मैवम्। मुख्यसिद्धये गुणलोपस्य सोढुं शक्यत्वात्। तस्मात्कृशोऽपि मुख्य एवोपादेयः।

तत्रैवान्यच्चिन्तितम् —

“ नियोजनेऽप्ययोग्यश्चेत्खदिरः किं तदा भवेत्।

मुख्यत्वेन स एव स्यात्तद्वैयर्थ्येन हीतरः ”॥ इति॥

यदा त्वत्यन्तकृशत्वात्तक्षणादिरहितोऽपि खदिरो नियोजनेऽप्ययोग्यस्तदाऽपि मुख्यत्वात्खदिर एवोपादेय इति चेन्मैवम्। उपात्तस्य प्रयोजनाभावान्नियोजनयोग्यः प्रतिनिधिरेव ग्राह्यः।

अत्र नास्ति च्छन्दः।।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे तृतीयप्रपाठके पञ्चमोऽनुवाकः ॥५॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अतः परं पाशुकं काण्डं सोमार्षेयमेव । यूपार्थं वृक्षमुपतिष्ठते - अत्यन्यानिति द्वादशाक्षरत्निपदया महाबृहत्या । ताण्डिन एतां सतोबृहतीमाहुः, ऊर्ध्वबृहर्तीं बह्वृचाः ॥ हे वृक्ष अन्यानितरान्कांश्चिद्वृक्षानहमत्यगाम् अतिक्रम्य गतोस्मि । के पुनस्ते? ये यूपार्हाः पलाशादयः 'समे जातमशाखाजम्' इत्यादिलक्षणहीनाः । तानुपगम्यैव वैगुण्यदर्शनेन अत्यजम् । अथान्यान्कांश्चिद्वृक्षान्नोपागां नैवोपगतोस्मि । के पुनस्ते? ये अयूपार्हा निम्बायय । सोहं युपार्हं लक्षाणवन्तं च त्वामेवाविदं लब्धवानस्मि । ???? । अस्य गुणवत्त्वमाह - परैरिति । परैरुत्कृष्टैस्समजातत्वादिभिर्लक्षणैरर्वाक् अविदूरे वर्तमानं सर्वलक्षणयुक्तमिति यावत् । अवरैर्निकृष्टैर्विषमजातत्वादिभिरसल्लक्षणैः परः परस्ताद्दूरे वर्तमानं असल्लक्षणैरस्पृष्टमित्यथाः । 'विभाषा परावराभ्याम्' इत्यतसुचि तकारस्य छान्दसो लोपः । यद्वा - पूर्वादिभ्यो विधीयमोसिप्रत्ययो बहुलवचनात्परशब्दादपि भवति, तत्र प्रत्ययस्वरेणान्तोदात्तत्वम्, परशब्दो हि 'स्वाङ्गाशिटामदन्तानाम्' इत्याद्युदात्तः, 'शिडिति सर्वनामान्युच्यन्ते । 'एकान्याभ्यां समर्थाभ्याम्' इति प्रथमा तिङ्विभक्तिर्न निहन्यते । तं ताडृ त्वा देवयज्यै देवयागार्थं जुषे सेवे गृह्णामीत्यर्थः । वैष्णवं विष्णुदेवत्यं,'वैष्णवो वै देवतया यूपः' इति । 'छन्दसि निष्टर्क्य' इत्यादिना देवयज्याशब्दो यप्रत्ययान्तो निपातितः । 'अति ह्यन्यानेति नान्यानुपैति' इत्यादि ब्राह्मणम् ॥
2 यूपमाज्येनानक्ति - देवस्त्वेति ॥ हे वृक्ष देवस्सविता सर्वस्य प्रेरकस्त्वां मध्वा मदनीयेन मधुरेणाज्येन अनक्तु स्निग्धं करोतु । 'फलिपाटिनमिमनिजनाङ्गुक्पाटिनाकिधतश्च' इति मन्यतेरुप्रत्ययः, धकारश्चान्तादेशः, तत्र च उरित्यनुवर्तते । 'जसादिषु वा वचनं छन्दसि प्राङ्णौ चड्युपधायाः' इति नाभावाभावः । मधुशब्देन चाज्यमुच्यते, 'तेजसैवैनमनक्ति` इति ब्राह्मणदर्शनात् । `तेजो वा आज्यम्' इति ॥
3 ऊर्ध्वाग्रं बार्हिरनूच्छ्रयति - ओषधे त्रायस्वैनमिति ॥ हे ओषधे बर्हिरेनं यूपार्थं वृक्षं त्रायस्व रक्ष यागसाधनत्वापादनेन वृक्षत्वान्मोचयित्वा उत्तमां गतिं गमय ॥
4 स्वधितिना तिर्यञ्चं प्रहरति - स्वधिति मैनं हिंसीरिति ॥ हे स्वधिते त्वमप्येनं मा हिंसीः उत्तमामेव गतिं गमय । व्याख्यातौ च प्रागेवेतौ मन्त्रौ । 'अनक्षसङ्गं वृश्चेत्' इत्यादि ब्राह्मणम् ॥
5 पतन्तमनुमन्त्रयते - दिवमग्रेणेति ॥ आत्मीयेनाग्रेण दिवं मा लेखीः मा विदारीः । 'नेटि' इति वृद्धिप्रतिषेधः । तथात्मीयेन मदेनान्तरिक्षं मा हिंसीः । पृथिव्या च सम्भव संयुजस्व पृथिवीमपि मा प्रहासीः; प्रमाणानतिरेकस्सम्भवः; पृथिवीमतिक्रम्य मा गाः । यथा - त्वदीयैरग्रमध्यमूलैर्विदारणाभिघातविपाटनकारिभिः लोकत्रयं न नश्यति तथा पतेत्यर्थः । पृथिवीशब्दो ङीषन्तोन्तोदात्तः, तेन 'उदात्तयणो हल्पूर्वात्' । इति विभक्तेरुदात्तत्वम् । 'इमे वै लोकाः' इत्यादि बाह्मणम् ॥
6 आव्रश्चने हिरण्यं निधाय सम्परिस्तीर्याभिजुहोति - वनस्पत इति त्रैष्टुभैकपदया ॥ बर्हिराच्छेदनाभिमर्शनेन व्याख्यातप्रायमिदम् । पारस्करादिर्वनस्पतिशब्दः । 'तस्मादाव्रश्चनात्' इति ब्राह्मणम् ॥
7 आत्मानं प्रत्यभिमृशति - सहसवल्शा इति त्रिष्टुभैकपदया ॥ इदमपि प्रागेव व्याख्यतम् ॥
8 अन्वग्रं शाखाः प्रसूयति - यं त्वेति द्विपदया त्रिष्टुभा ॥ तेतिजानो नीशितधारोयं स्वधितिः । तिज निशातने, यङ्क्लुगन्ताल्लटो व्यत्ययेनात्मनेपदं शानच् । 'अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । यं त्वां यूपार्थं वृक्षं प्राणिनाय प्रकर्षेण नयति शाखा प्रसाध्य विशिष्टं रूपं प्रापयति । 'छन्दसि लुङ्लङ्लिटः' इति लिट् । किमर्थं? महते सौभगाय सुभगत्वाय सुश्रीकत्वाय । उद्गात्रादिषु ' सुभगं मन्त्रे' इति पाठात् भावे अञ्प्रत्ययः । स खलु त्वमसीति शेषः । सत्वमस्मद्यज्ञं साधयेति वा ॥
9 चतुरङ्गुलमग्रं चषालाय प्रच्छेदयति - अच्छिन्न इति ॥ अच्छिन्नः । अद्व्ययपूर्वपदप्रकृतिस्वरत्यम् । रायः धनानि देहीति शेषः । यद्वा - अच्छिन्नो धनस्य सुवीरश्च भवेत्यध्याहारः । 'ऊडिदं' इत्यादिना तृतीयादेर्विभक्तेरुदात्तत्वं व्यत्ययेन न क्रियते । ईदृशस्त्वमेव नो रायः । शोभना वीराः पुत्रपौत्रादयोस्य यजमानस्य येन भवन्ति स सुवीरः । 'वीरवीर्यौ च' इत्युत्तरपदाद्युतात्त्वन् । यस्मात्त्वया यजमानस्य आयुष्मन्तः पूत्रादय उत्पद्यन्ते, तस्मात्तेषामभिवृद्ध्यर्थं अविच्छेदेन धनानि देहीति ॥
इति तृतीये पण्चमोनुवाकः ॥