अनुवाकः 11 TS 1.3.11

(A11)

(अ॒सि॒-षड्विꣳ॑शतिश्च )

अनुवाकः 11 - Complete Audio

TS 1.3.11 - स्वरानुगामी

0:00 0:00
PS1.1 स॒मु॒द्रं ग॑च्छ॒ स्वाहा॒ऽन्तरि॑क्षं गच्छ॒
PS1.2 स्वाहा॑ दे॒वꣳ स॑वि॒तारं॑ गच्छ॒
PS1.3 स्वाहा॑ऽहोरा॒त्रे ग॑च्छ॒ स्वाहा॑ मि॒त्रावरु॑णौ
PS1.4 गच्छ॒ स्वाहा॒ सोमं॑ गच्छ॒
PS1.5 स्वाहा॑ य॒ज्ञ्ं ग॑च्छ॒ स्वाहा॒
PS1.6 छन्दाꣳ॑सि गच्छ॒ स्वाहा॒ द्यावा॑पृथि॒वी
PS1.7 ग॑च्छ॒ स्वाहा॒ नभो॑ दि॒व्यं
PS1.8 ग॑च्छ॒ स्वाहा॒ऽग्निं ॅवै᳚श्वान॒रं ग॑च्छ॒
PS1.9 स्वाहा॒ऽद्भ्यस्त्वौष॑धीभ्यो॒ मनो॑ मे॒ हार्दि॑
PS1.10 यच्छ त॒नूं त्वचं॑ पु॒त्रं
PS1.11 नप्ता॑रमशीय॒ शुग॑सि॒ ( )
PS1.12 तम॒भि शो॑च॒ यो᳚ऽस्मान् द्वेष्टि॒
PS1.13 यं च॑ व॒यं द्वि॒ष्मो
PS1.14 धाम्नो॑धाम्नो राजन्नि॒तो व॑रुण नो
PS1.15 मुञ्च॒ यदापो॒ अघ्नि॑या॒ वरु॒णेति॒
PS1.16 शपा॑महे॒ ततो॑ वरुण नो
PS1.17 मुञ्च

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.3.11.1 TS 1.3.11.1
स॒मु॒द्रं ग॑च्छ॒ स्वाहा॒ऽन्तरि॑क्षं गच्छ॒ स्वाहा॑ दे॒वꣳ स॑वि॒तारं॑ गच्छ॒ स्वाहा॑ऽहोरा॒त्रे ग॑च्छ॒ स्वाहा॑ मि॒त्रावरु॑णौ गच्छ॒ स्वाहा॒ सोमं॑ गच्छ॒ स्वाहा॑ य॒ज्ञ्ं ग॑च्छ॒ स्वाहा॒ छन्दाꣳ॑सि गच्छ॒ स्वाहा॒ द्यावा॑पृथि॒वी ग॑च्छ॒ स्वाहा॒ नभो॑ दि॒व्यं ग॑च्छ॒ स्वाहा॒ऽग्निं ॅवै᳚श्वान॒रं ग॑च्छ॒ स्वाहा॒ऽद्भ्यस्त्वौष॑धीभ्यो॒ मनो॑ मे॒ हार्दि॑ यच्छ त॒नूं त्वचं॑ पु॒त्रं नप्ता॑रमशीय॒ शुग॑सि॒ ( ) तम॒भि शो॑च॒ यो᳚ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो धाम्नो॑धाम्नो राजन्नि॒तो व॑रुण नो मुञ्च॒ यदापो॒ अघ्नि॑या॒ वरु॒णेति॒ शपा॑महे॒ ततो॑ वरुण नो मुञ्च ॥
पदपाठः (Word-by-word)
स॒मु॒द्रम् । ग॒च्छ॒ । स्वाहा᳚ । अ॒न्तरि॑क्षम् । ग॒च्छ॒ । स्वाहा᳚ । दे॒वम् । स॒वि॒तार᳚म् । ग॒च्छ॒ । स्वाहा᳚ । अ॒हो॒रा॒त्रे इत्य॑हः - रा॒त्रे । ग॒च्छ॒ । स्वाहा᳚ । मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ । ग॒च्छ॒ । स्वाहा᳚ । सोम᳚म् । ग॒च्छ॒ । स्वाहा᳚ । य॒ज्ञ्म् । ग॒च्छ॒ । स्वाहा᳚ । छन्दाꣳ॑सि । ग॒च्छ॒ । स्वाहा᳚ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । ग॒च्छ॒ । स्वाहा᳚ । नभः॑ । दि॒व्यम् । ग॒च्छ॒ । स्वाहा᳚ । अ॒ग्निम् । वै॒श्वा॒न॒रम् । ग॒च्छ॒ । स्वाहा᳚ । अ॒द्भ्य इत्य॑त् - भ्यः । त्वा॒ । ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ । मनः॑ । मे॒ । हार्दि॑ । य॒च्छ॒ । त॒नूम् । त्वच᳚म् । पु॒त्रम् । नप्ता॑रम् । अ॒शी॒य॒ । शुक् । अ॒सि॒ ( ) । तम् । अ॒भीति॑ । शो॒च॒ । यः । अ॒स्मान् । द्वेष्टि॑ । यम् । च॒ । व॒यम् । द्वि॒ष्मः । धाम्नो॑ धाम्न॒ इति॒ धाम्नः॑ - धा॒म्नः॒ । रा॒ज॒न्न् । इ॒तः । व॒रु॒ण॒ । नः॒ । मु॒ञ्च॒ । यत् । आपः॑ । अघ्नि॑याः । वरु॑ण । इति॑ । शपा॑महे । ततः॑ । व॒रु॒ण॒ । नः॒ । मु॒ञ्च॒ ॥
पदसंख्या: 76
सायणभाष्यम् (Sayana Commentary)
अथ प्रथमाष्टके तृतीयप्रपाठक एकादशोऽनुवाकः)।

दशमेऽनुवाके वसाहोमो वर्णितः। एकादशे गुदकाण्डेनोपयट्संज्ञका होमा उच्यन्ते।

कल्पः – ‘आग्नीध्रादौपयजानङ्गारानाहरति होत्रीय उपयज उपयजति शामित्रान्निरूढपशुबन्ध उत्तरस्यां वेदिश्रोण्यां गुदकाण्डमेकादशधा तिर्याक्छित्त्वाऽसंभिन्दन्नपर्यावर्तयन्ननूयाजानां वषट्कृते वषट्कृत एकैकं गुदकाण्डं प्रतिप्रस्थाता हस्तेन जुहोति समुद्रं गच्छ स्वाहेत्येतैः प्रतिमन्त्रं सर्वाणि हुत्वाऽभ्यस्त्वौषधीभ्य इति बर्हिषि लेपं निमृज्य मनो मे हार्दि यच्छेति जपति’ इति।

समुद्रमिति। हे हविस्त्वं समुद्रादिनामकान्देवान्गच्छ। हे लेप त्वामप्कार्यौषधिसिद्ध्यर्थं बर्हिषि निमार्ज्मि। हृदये भवो हार्दो हर्षः सोऽस्यास्तीति हार्दि। हे समुद्रादिदेवतासमूह मे हार्दि मनः प्रयच्छ। त्वत्प्रसादात्तनूमुत्तमजातियुक्तं शरीरं त्वचं कान्तिमद्रूपं तथा गुणवन्तं पुत्रं तत्पौत्रं चाशीय प्राप्नुयाम्।

उपयजो विधत्ते– ‘यज्ञेन वै प्रजापतिः प्रजा असृजत ता उपयड्भिरेवासृजत यदुपयज उपयजति प्रजा एव तद्यजमानः सृजते’ (सं. का. ६ प्र. ४ अ. १) इति।

ज्योतिष्टोमयज्ञस्य सृष्टिसाधनत्वेऽपि साक्षात्साधनत्वमुपयजामेव। अनूयाजसमीप इज्यन्त इत्युपयजः।

पशोः पाश्चात्यभागं द्रव्यत्वेन विधत्ते– ‘जघनार्धादव द्यति जननार्धाद्धि प्रजाः प्रजायन्ते’ (सं. का. ६ प्र. ४ अ. ४) इति।

त्रेधा विभक्ते गुदकाण्डे स्थूलभागं विधत्ते–

‘स्थाविमतोऽव द्यति स्थविमतो हि प्रजाः प्रजायन्ते’ (सं. का. ६ प्र. ४ अ. १) इति।

निर्गन्तुं सुकरात्स्थूलाच्छिद्रात्प्रजा उत्पद्यन्ते।

क्रमेण च्छिन्नानां भागानां सांकर्यं वारयति– “असंभिन्दन्नव द्यति प्राणानामसंभेदाय” (सं. का. ६ प्र. ४ अ. १) इति।

अग्रभागं प्रथमतोऽवदाय पश्चान्मूलभागमित्येतादृशं विपर्यासं निषेधति– ‘न पर्यावर्तयति यत्पर्यावर्तयेदुदावर्तः प्रजा ग्राहुकः स्यात्’ (सं. का. ६ प्र. ४ अ. १) इति।

उदावर्तो रोगविशेषः।

समुद्रादिमन्त्राणां सर्वेषां प्रजोत्पत्तावुपयोगं विवक्षुः समुद्रजलस्य रेतःसाम्यमभिप्रेत्याऽऽह– ‘समुद्रं गच्छ स्वाहेत्याह रेत एव तद्दधाति’ (सं. का. ६ प्र. ४ अ. १) इति।

अन्तरिक्षशब्दस्यावकाशप्रदानेनोपयोगं दर्शयति– ‘अन्तरिक्षं गच्छ स्वाहेत्याहान्तरिक्षेणैवास्मै प्रजाः प्र जनयत्यन्तरिक्ष ह्यनु प्रजाः प्रजायन्ते’ (सं. का. ६ प्र. ४ अ. १) इति।

प्रेरकत्वेन सवितुरुपयोग इत्याह– देवसवितारं गच्छ स्वाहेत्याह सवितृप्रसूत एवास्मै प्रजाः प्र जनयति’ (सं. का. ६ प्र. ४ अ. १) इति।

उत्पत्तिकालत्वेनाहोरात्रोपयोगमाह– ‘अहोरात्रे गच्छ स्वाहेत्याहोरात्राभ्यामेवास्मै प्रजाः प्र जनयत्यहोरात्रे ह्यनु प्रजाः प्रजायन्ते’ (सं. का. ६ प्र. ४ अ. १) इति।

प्राणापानप्रदत्वेन मित्रावरुणयोगमाह– ‘मित्रावरुणौ गच्छ स्वाहेत्याह प्रजास्वेव प्राजातासु प्राणापानौ दधाति’ (सं. का. ६ प्र. ४ अ. १) इति।

देवतात्वेन सोमोपयोगमाह– ‘सोमं गच्छ स्वाहेत्याह सौम्या हि देवतया प्रजाः’ (सं. का. ६ प्र. ४ अ. १) इति।

प्रजाप्रदत्वेन यज्ञस्योपयोगमाह– ‘यज्ञं गच्छ स्वाहेत्याह प्रजा एव यज्ञियाः करोति’ (सं. का. ६ प्र. ४ अ. १) इति।

पशुप्रदत्वेन च्छन्दसामुपयोगमाह– ‘छन्दासि गच्छ स्वाहेत्याह पशवो वै छन्दासि पशूनेवाव रुन्धे’ (सं. का. ६ प्र. ४ अ. १) इति।

धारणाय द्यावापृथिव्योरुपयोगमाह–

‘द्यावापृथिवी गच्छ स्वाहेत्याह प्रजा एव प्रजाता द्यावापृथिवीभ्यामुभयत परि गृह्णाति’ (सं. का. ६ प्र. ४ अ. १) इति।

वृष्टिप्रदानेन नभस उपयोगमाह– ‘नभो दिव्यं गच्छ स्वाहेत्याह प्रजाभ्य एव प्रजाताभ्यो वृष्टिं नि यच्छति’ (सं. का. ६ प्र. ४ अ. १) इति।

प्रतिष्ठाप्रदानेन वैश्वानरस्योपयोगमाह– ‘अग्निं वैश्वानरं गच्छ स्वाहेत्याह प्रजा एव प्रजाता अस्यां प्रति ष्ठापयति’ (सं. का. ६ प्र. ४ अ. ३) इति।

अद्भ्यस्त्वौषधीभ्य इति मन्त्र उपेक्षितः।

मनो मे हार्दि यच्छेति प्रार्थनायाः प्रसङ्गमाह– ‘प्राणानां वा एषोऽव द्यति योऽवद्यति गुदस्य मनो मे हार्दि यच्छेत्याह प्राणानेव यथास्थानमुप ह्वयते’ (सं. का. ६ प्र. ४ अ. ३) इति।

गुदस्य प्राणाधारत्वेन तदवदाने सति स्थानभ्रष्टाः प्राणाः पुनर्मन्त्रेण यथास्थानं स्थापिता भवन्ति।

शुगसीति। कल्पः – ‘अग्रेण यूपं स्फ्येनोद्धत्यावोक्ष्य शुष्कस्य चाऽऽर्द्रस्य च संधौ हृदयशूलमुद्वासयति शुगसि तमभि शोच योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्यथाद्भिर्मार्जयन्ते धाम्नोधाम्नो राजन्नितो वरुण नो मुञ्च यदापो अघ्निया वरुणेति शपामहे ततो वरुण नो मुञ्चेति’ इति।

हे हृदयशूल त्वं शुगसि शोकरूपमसि। अतो द्वेष्टारं द्वेष्यं चाभिशोचाभिप्राप्य शोचय। हे वरुण त्वमितो धाम्नोधाम्नस्तत्तद्द्वेष्टृष्यस्थानाच्छोकप्रापकादस्मान्मोचय। किंच हे आपो हेऽघ्निया हे वरुणेत्येवं वयं तदाऽस्माकमिष्टप्राप्त्यनिष्टनिवारणार्थं देवं त्वां शपामहे बाधामहे। महतां प्रत्यक्षं नामग्रहणमेव तावन्महान्द्रोहः। तथा च श्रूयते – ‘यो वै वसीयासं यथानाममुपचरति पुण्यार्तिं वै स तस्मै कामयते’ इति। न केवलमत्र नामग्रहणं किंत्वस्मदपेक्षिततत्तत्कार्यसाधनप्रयासश्च। तेनोभयेन जन्यं यत्पापमस्ति हे वरुण ततः पापादस्मान्मोचय। मन्त्रावेतावुपेक्षितौ।

शूलोद्वासनं विधत्ते– ‘पशोर्वा आलब्धस्य हृदय शुगृच्छति सा हृदयशूलमभि समेति यत्पृथिव्या हृदयशूलमुद्वासयेत्पृथिवी शूचाऽर्पयेद्यदप्स्वपः शुचाऽर्यच्छुष्कस्य चाऽऽर्द्रस्य च संधावुद्वासयत्यिभयस्य शान्त्यै’ (सं. का. ६ प्र. ४ अ. १०) इति।

उद्वासनकाले ध्यानं विधत्ते– ‘यं द्विष्यात्तं ध्यायेच्छुचैवैनमर्पयति’ (सं. का. ६ प्र. ४ अ. १) इति।

अत्र विनियोगसंग्रहः – “समुद्रं गुदकाण्डस्य होमा अद्भ्यस्तु बर्हिषि।

लेपं मार्ष्टि मनो जप्यः शुक्संधावार्द्रशुष्कयोः।

त्यक्त्वा शूलं धाम्नो मृज्यं भवेत्पञ्चदशोदिताः॥१॥” इति।

अत्र मीमांसाछन्दसी न स्तः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे तृतीयपाठपके एकादशोऽनुवाकः ॥११॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 उपयष्टोपयनति गुदस्य प्रच्छेदात् - समुद्रं गच्छ स्वाहेत्येकादशभिर्मन्त्रैः ॥ समुइआदिशब्दवाच्याश्च देवताः प्रसिद्धाः । गुदावदानं चेह गच्छेत्युच्यते । समुद्रवाच्यां देवतां गच्छ, स्वाहा करोमीति शेषः, समुद्राय त्वा स्वाहुतं करोमीति । एवमन्तरिक्षादिष्वपि योज्यम् । 'समुद्रं गच्छ स्वाहेत्याह रेत एव तद्दधाति' इति ब्राह्मणम् । प्रजावृद्धिहेतुत्वादुपयजामेवमुक्तम् । 'यज्ञेन वै प्रजापतिः प्रजा असृजत ता उपयड्भिरेव' इत्यादि ब्राह्मणम् ॥
2 अन्तरिक्षं प्रजानां प्रजननं, 'अन्तरिक्षं ह्यनु प्रजाः प्र जायन्ते' ॥
3 सविता देवस्सर्वस्य प्रेरकः, तेन सवित्रा प्रसूत एवास्मै प्रजाः प्रजनयति ॥
4 अहोरात्रे प्रजानामाधारत्वेन जन्महेतू, 'अहोरात्रे ह्यनु प्रजाः प्र जायन्ते' । 'अहस्सर्वैकदेश' इत्यच्समासान्तः, 'हेमन्तशिशिरावहोरात्रे' इति निपात्यते ॥
5 प्रजानां प्राणापानौ मित्रावरुणौ । तेन 'प्रजास्वेव प्रजातासु प्राणापानौ दधाति' । 'देवताद्वन्द्वे च' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ॥
6 सोमः प्रजानां देवता, 'सौम्या हि देवतया प्रजाः' इति ॥
7 यज्ञः प्रजानामभ्युदयकारी । तेन 'प्रजा एव यज्ञियाः करोति' इति ॥
8 छन्दांसि स्वयं पशवः, तेन पशूनेवावरुन्धे यजमानः प्रजानामेव पुष्ट्यर्थम् ॥
9 द्यावापृथिव्यौ प्रजानां वृद्धिहेतू, तेन 'प्रजा एव प्रजाता द्यावापृथिवीभ्यामुभयतः परि गृह्णाति' इति । 'दिवो द्यावा' इति द्यावादेशः, पूर्ववदुभयपदप्रकृतिस्वरत्वम् ॥
10 नभस्सलिलम् । दिवे हितं दिव्यं देवेभ्यो हितं सस्याद्युत्पत्तिहेतुत्वेन यागहेतुत्वात् वर्षजलमुच्यते, 'प्रजाभ्य एव प्रजाताभ्योवृष्टिं नि यच्छति' इति । समुर्द्रे निषेकः । तस्य दिव्येव रक्षा 'भवे छन्दसि' इति यप्रत्ययः ॥
11 विश्वेषां नराणाम् सम्बन्धी अग्निर्वैश्वानरो जाठर उच्यते । तेन 'प्रजा एव प्रजाता अस्यां प्रतिष्ठापयति' इति । आयुष्मतीः करोति । 'नरे संज्ञायाम्' इति पूर्वपदस्य दीर्घत्वम् ॥
12 बर्हिषि हस्तौ निमार्ष्टि - अद्भ्यस्त्वेति ॥ हस्तगतो गुदावदानलेपः उच्यते । अपामोषधीनां च सिद्धिर्यजमानस्य स्यादिति त्वां निमार्ज्मीति शेषः । बार्हिष्युदकेन शोधयामीत्यर्थः । उक्तस्वरौ चैतौ । स त्वं मे हार्दि हर्षवन्मनो यच्छ देहि मदीयं मनो हृष्टं कुर्व्विति यावत् । हृदि भवो हार्दः हृदयविकारः प्रार्थनीयः, स च हर्षः प्रसादो वा, सोस्यास्तीति हार्दि । 'हृदयस्य हृल्लेखयदणलासेषु' इति हृद्भावः, वृषादित्वादाद्युदात्तत्वं द्रष्टव्यम् । 'प्राणानां वा एषोऽवद्यति योऽवद्यति गुदस्य मनो मे' इत्यादि ब्राह्मणम् ॥
13 धूममन्वीक्षते - तनूमिति ॥ शोभनतन्वादीनामाशासनस्य युक्तस्वात् शोभनास्तन्वादयो गृह्यन्ते । तन्वादीनि शौभनान्यशीय प्राप्नुयाम् । अश्नोतेर्लिङि 'बहुलं छन्दसि' इति शपो लुक्, सीयुडादि । 'कृषिचमितनि' इत्यादिना तनोतेरूप्रत्ययः ॥
14 हृदयशूलमुद्वासयति - शुगसीति ॥ हे हृदयशूल शुक् शोकस्त्वमसि, तस्माद्योस्मान्द्वेष्टि, यं च वयं द्विष्मस्तमभिशोच आभिमुख्येन शोचय । 'पशोर्वा आलब्धस्य हृदयं शुगृच्छति - सा हृदयशूलमभि समेति' इत्यादि ब्राह्मणम् ॥
15 सर्व एवाद्भिर्मार्जयन्ते - धाम्नोधाम्न इति ॥ धाम्नोधाम्नः स्थानात्स्थानात् । कस्य? शुगसीति प्रकृतत्वाच्छोकस्य । शोकस्थानं च द्वेष्टा द्वेष्यश्च 'योस्मान्द्वेष्टि यं च वयं द्विष्मः' इति यौ प्रकृतौ । अयमर्थः - इतः प्रकृताच्छोकस्थ स्थानात् द्वेष्टृलक्षणाद्द्वेष्यलक्षणाच्च, हे राजन् वरुण अस्मान्मुञ्च द्वेष्ट्रादिलक्षणात्सर्वस्माच्छोकस्थानादस्मान्मुञ्चेति । वीप्सायां द्विर्वचनम्, आम्रेडितस्य चानुदात्तत्वम् । किञ्च - हे वरुण ततोभिशापादस्मान्मुञ्च । कुतः? शोकाभितप्ता वयं हे आपः हे अघ्नियाः हे वरुण इति यच्छपामहे यच्छापेनास्माभिः पापमुपार्जितं तस्मादपीत्यर्थः । शापो हि प्रशस्तदेवतानामसङ्कीर्तनेन परेषामनर्थाशंसनम् । यथा - कश्चिच्छोकाभितप्त आह - हे आपः यूयमेवेह जाल्मं द्रष्टुमर्हथ; 'आपोवै सर्वा देवताः' इति मन्यामह इति । एवं गवादिष्वपि द्रष्टव्यम् । निदर्शनं चैतत् प्रशस्तदेवतानामन्यासामपि । यथा - हे इर्श्वर, हे तपन, हे विधातरिति । तत्र लौकिकानां कृताद्युदात्तानामामन्त्रणपदानामिदमनुकरणम् । ततश्च सत्यपि पदात्परत्वे आमन्त्रितनिघातो न प्रवर्तते । न ह्यत्र मार्जयमाना अबादीनामन्त्रयन्ते । शप आक्रोशे स्वरितेत्त्वादात्मनेपदम् । यद्वा - 'शप उपालम्भने' इत्यात्मनेपदम् । वाचा शरीरस्पर्शनमुपालम्भः । अतोयमर्थः - हे आपः युष्मभ्यं शपामहे नेदमस्माभिर्ज्ञातमिति । एवं यच्छपामहे सत्यमिति वा विषये शोकावेगेन ततोपि पापादस्मान्मुञ्चेति । अघ्नियाशब्दो यत्प्रत्ययान्तोन्तोदात्तः । यथा 'पतिरघ्नियानाम्' इति । तस्य षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । वरुणेत्यप्यघ्नियाशब्दानन्तरमामन्त्रितानुकरणत्वान्न निहन्यते, अन्यस्तु निहन्यत एव ॥
इति तृतीये एकादशोनुवाकः ॥