पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
दशमेऽनुवाके वसाहोमो वर्णितः। एकादशे गुदकाण्डेनोपयट्संज्ञका होमा उच्यन्ते।
कल्पः – ‘आग्नीध्रादौपयजानङ्गारानाहरति होत्रीय उपयज उपयजति शामित्रान्निरूढपशुबन्ध उत्तरस्यां वेदिश्रोण्यां गुदकाण्डमेकादशधा तिर्याक्छित्त्वाऽसंभिन्दन्नपर्यावर्तयन्ननूयाजानां वषट्कृते वषट्कृत एकैकं गुदकाण्डं प्रतिप्रस्थाता हस्तेन जुहोति समुद्रं गच्छ स्वाहेत्येतैः प्रतिमन्त्रं सर्वाणि हुत्वाऽभ्यस्त्वौषधीभ्य इति बर्हिषि लेपं निमृज्य मनो मे हार्दि यच्छेति जपति’ इति।
समुद्रमिति। हे हविस्त्वं समुद्रादिनामकान्देवान्गच्छ। हे लेप त्वामप्कार्यौषधिसिद्ध्यर्थं बर्हिषि निमार्ज्मि। हृदये भवो हार्दो हर्षः सोऽस्यास्तीति हार्दि। हे समुद्रादिदेवतासमूह मे हार्दि मनः प्रयच्छ। त्वत्प्रसादात्तनूमुत्तमजातियुक्तं शरीरं त्वचं कान्तिमद्रूपं तथा गुणवन्तं पुत्रं तत्पौत्रं चाशीय प्राप्नुयाम्।
उपयजो विधत्ते– ‘यज्ञेन वै प्रजापतिः प्रजा असृजत ता उपयड्भिरेवासृजत यदुपयज उपयजति प्रजा एव तद्यजमानः सृजते’ (सं. का. ६ प्र. ४ अ. १) इति।
ज्योतिष्टोमयज्ञस्य सृष्टिसाधनत्वेऽपि साक्षात्साधनत्वमुपयजामेव। अनूयाजसमीप इज्यन्त इत्युपयजः।
पशोः पाश्चात्यभागं द्रव्यत्वेन विधत्ते– ‘जघनार्धादव द्यति जननार्धाद्धि प्रजाः प्रजायन्ते’ (सं. का. ६ प्र. ४ अ. ४) इति।
त्रेधा विभक्ते गुदकाण्डे स्थूलभागं विधत्ते–
‘स्थाविमतोऽव द्यति स्थविमतो हि प्रजाः प्रजायन्ते’ (सं. का. ६ प्र. ४ अ. १) इति।
निर्गन्तुं सुकरात्स्थूलाच्छिद्रात्प्रजा उत्पद्यन्ते।
क्रमेण च्छिन्नानां भागानां सांकर्यं वारयति– “असंभिन्दन्नव द्यति प्राणानामसंभेदाय” (सं. का. ६ प्र. ४ अ. १) इति।
अग्रभागं प्रथमतोऽवदाय पश्चान्मूलभागमित्येतादृशं विपर्यासं निषेधति– ‘न पर्यावर्तयति यत्पर्यावर्तयेदुदावर्तः प्रजा ग्राहुकः स्यात्’ (सं. का. ६ प्र. ४ अ. १) इति।
उदावर्तो रोगविशेषः।
समुद्रादिमन्त्राणां सर्वेषां प्रजोत्पत्तावुपयोगं विवक्षुः समुद्रजलस्य रेतःसाम्यमभिप्रेत्याऽऽह– ‘समुद्रं गच्छ स्वाहेत्याह रेत एव तद्दधाति’ (सं. का. ६ प्र. ४ अ. १) इति।
अन्तरिक्षशब्दस्यावकाशप्रदानेनोपयोगं दर्शयति– ‘अन्तरिक्षं गच्छ स्वाहेत्याहान्तरिक्षेणैवास्मै प्रजाः प्र जनयत्यन्तरिक्ष ह्यनु प्रजाः प्रजायन्ते’ (सं. का. ६ प्र. ४ अ. १) इति।
प्रेरकत्वेन सवितुरुपयोग इत्याह– देवसवितारं गच्छ स्वाहेत्याह सवितृप्रसूत एवास्मै प्रजाः प्र जनयति’ (सं. का. ६ प्र. ४ अ. १) इति।
उत्पत्तिकालत्वेनाहोरात्रोपयोगमाह– ‘अहोरात्रे गच्छ स्वाहेत्याहोरात्राभ्यामेवास्मै प्रजाः प्र जनयत्यहोरात्रे ह्यनु प्रजाः प्रजायन्ते’ (सं. का. ६ प्र. ४ अ. १) इति।
प्राणापानप्रदत्वेन मित्रावरुणयोगमाह– ‘मित्रावरुणौ गच्छ स्वाहेत्याह प्रजास्वेव प्राजातासु प्राणापानौ दधाति’ (सं. का. ६ प्र. ४ अ. १) इति।
देवतात्वेन सोमोपयोगमाह– ‘सोमं गच्छ स्वाहेत्याह सौम्या हि देवतया प्रजाः’ (सं. का. ६ प्र. ४ अ. १) इति।
प्रजाप्रदत्वेन यज्ञस्योपयोगमाह– ‘यज्ञं गच्छ स्वाहेत्याह प्रजा एव यज्ञियाः करोति’ (सं. का. ६ प्र. ४ अ. १) इति।
पशुप्रदत्वेन च्छन्दसामुपयोगमाह– ‘छन्दासि गच्छ स्वाहेत्याह पशवो वै छन्दासि पशूनेवाव रुन्धे’ (सं. का. ६ प्र. ४ अ. १) इति।
धारणाय द्यावापृथिव्योरुपयोगमाह–
‘द्यावापृथिवी गच्छ स्वाहेत्याह प्रजा एव प्रजाता द्यावापृथिवीभ्यामुभयत परि गृह्णाति’ (सं. का. ६ प्र. ४ अ. १) इति।
वृष्टिप्रदानेन नभस उपयोगमाह– ‘नभो दिव्यं गच्छ स्वाहेत्याह प्रजाभ्य एव प्रजाताभ्यो वृष्टिं नि यच्छति’ (सं. का. ६ प्र. ४ अ. १) इति।
प्रतिष्ठाप्रदानेन वैश्वानरस्योपयोगमाह– ‘अग्निं वैश्वानरं गच्छ स्वाहेत्याह प्रजा एव प्रजाता अस्यां प्रति ष्ठापयति’ (सं. का. ६ प्र. ४ अ. ३) इति।
अद्भ्यस्त्वौषधीभ्य इति मन्त्र उपेक्षितः।
मनो मे हार्दि यच्छेति प्रार्थनायाः प्रसङ्गमाह– ‘प्राणानां वा एषोऽव द्यति योऽवद्यति गुदस्य मनो मे हार्दि यच्छेत्याह प्राणानेव यथास्थानमुप ह्वयते’ (सं. का. ६ प्र. ४ अ. ३) इति।
गुदस्य प्राणाधारत्वेन तदवदाने सति स्थानभ्रष्टाः प्राणाः पुनर्मन्त्रेण यथास्थानं स्थापिता भवन्ति।
शुगसीति। कल्पः – ‘अग्रेण यूपं स्फ्येनोद्धत्यावोक्ष्य शुष्कस्य चाऽऽर्द्रस्य च संधौ हृदयशूलमुद्वासयति शुगसि तमभि शोच योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्यथाद्भिर्मार्जयन्ते धाम्नोधाम्नो राजन्नितो वरुण नो मुञ्च यदापो अघ्निया वरुणेति शपामहे ततो वरुण नो मुञ्चेति’ इति।
हे हृदयशूल त्वं शुगसि शोकरूपमसि। अतो द्वेष्टारं द्वेष्यं चाभिशोचाभिप्राप्य शोचय। हे वरुण त्वमितो धाम्नोधाम्नस्तत्तद्द्वेष्टृष्यस्थानाच्छोकप्रापकादस्मान्मोचय। किंच हे आपो हेऽघ्निया हे वरुणेत्येवं वयं तदाऽस्माकमिष्टप्राप्त्यनिष्टनिवारणार्थं देवं त्वां शपामहे बाधामहे। महतां प्रत्यक्षं नामग्रहणमेव तावन्महान्द्रोहः। तथा च श्रूयते – ‘यो वै वसीयासं यथानाममुपचरति पुण्यार्तिं वै स तस्मै कामयते’ इति। न केवलमत्र नामग्रहणं किंत्वस्मदपेक्षिततत्तत्कार्यसाधनप्रयासश्च। तेनोभयेन जन्यं यत्पापमस्ति हे वरुण ततः पापादस्मान्मोचय। मन्त्रावेतावुपेक्षितौ।
शूलोद्वासनं विधत्ते– ‘पशोर्वा आलब्धस्य हृदय शुगृच्छति सा हृदयशूलमभि समेति यत्पृथिव्या हृदयशूलमुद्वासयेत्पृथिवी शूचाऽर्पयेद्यदप्स्वपः शुचाऽर्यच्छुष्कस्य चाऽऽर्द्रस्य च संधावुद्वासयत्यिभयस्य शान्त्यै’ (सं. का. ६ प्र. ४ अ. १०) इति।
उद्वासनकाले ध्यानं विधत्ते– ‘यं द्विष्यात्तं ध्यायेच्छुचैवैनमर्पयति’ (सं. का. ६ प्र. ४ अ. १) इति।
अत्र विनियोगसंग्रहः – “समुद्रं गुदकाण्डस्य होमा अद्भ्यस्तु बर्हिषि।
लेपं मार्ष्टि मनो जप्यः शुक्संधावार्द्रशुष्कयोः।
त्यक्त्वा शूलं धाम्नो मृज्यं भवेत्पञ्चदशोदिताः॥१॥” इति।
अत्र मीमांसाछन्दसी न स्तः॥