अनुवाकः 6 TS 1.3.6

(A6)

(उ॒श्म॒सी॒-पोष॒मे-का॒न्नविꣳ॑श॒तिश्च॑)

अनुवाकः 6 - Complete Audio

TS 1.3.6 - स्वरानुगामी

0:00 0:00
PS1.1 पृ॒थि॒व्यै त्वा॒न्तरि॑क्षाय त्वा दि॒वे
PS1.2 त्वा॒ शुन्ध॑तां ॅलो॒कः पि॑तृ॒षद॑नो॒
PS1.3 यवो॑ऽसि य॒वया॒स्मद् द्वेषो॑ य॒वयारा॑तीः
PS1.4 पितृ॒णाꣳ सद॑नमसि स्वावे॒शो᳚-ऽस्यग्रे॒गा ने॑तृ॒णां
PS1.5 ॅवन॒स्पति॒रधि॑ त्वा स्थास्यति॒ तस्य॑
PS1.6 वित्ताद् दे॒वस्त्वा॑ सवि॒ता मद्ध्वा॑ऽनक्तु
PS1.7 सुपिप्प॒लाभ्य॒-स्त्वौष॑धीभ्य॒ उद्दिवꣳ॑ स्तभा॒नाऽन्तरि॑क्षं पृण
PS1.8 पृथि॒वीमुप॑रेण दृꣳह॒ ते ते॒
PS1.9 धामा᳚न्युश्मसी - [ ]
PS2.1 ग॒मद्ध्ये॒ गावो॒ यत्र॒ भूरि॑शृङ्गा अ॒यासः॑
PS2.2 अत्राह॒ तदु॑रुगा॒यस्य॒ विष्णोः᳚ प॒रमं
PS2.3 प॒दमव॑ भाति॒ भूरेः᳚
PS2.4 विष्णोः॒ कर्मा॑णि पश्यत॒ यतो᳚
PS2.5 व्र॒तानि॑ पस्प॒शे
PS2.6 इन्द्र॑स्य॒ युज्यः॒ सखा᳚
PS2.7 तद्-विष्णोः᳚ पर॒मं प॒दꣳ सदा॑
PS2.8 पश्यन्ति सू॒रयः॑
PS2.9 दि॒वीव॒ चक्षु॒रात॑तं
PS2.10 ब्र॒ह्म॒वनिं॑ त्वा क्षत्र॒वनिꣳ॑ सुप्रजा॒वनिꣳ॑
PS2.11 रायस्पोष॒वनिं॒ पर्यू॑हामि॒ ब्रह्म॑ दृꣳह
PS2.12 क्ष॒त्रं दृꣳ॑ह प्र॒जां दृꣳ॑ह
PS2.13 रा॒यस्पोषं॑ ( ) दृꣳह
PS2.14 परि॒वीर॑सि॒ परि॑ त्वा॒ दैवी॒र्विशो᳚
PS2.15 व्ययन्तां॒ परी॒मꣳ रा॒यस्पोषो॒ यज॑मानं
PS2.16 मनु॒ष्या॑ अ॒न्तरि॑क्षस्य त्वा॒ साना॒वव॑
PS2.17 गूहामि

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.3.6.1 TS 1.3.6.1
पृ॒थि॒व्यै त्वा॒न्तरि॑क्षाय त्वा दि॒वे त्वा॒ शुन्ध॑तां ॅलो॒कः पि॑तृ॒षद॑नो॒ यवो॑ऽसि य॒वया॒स्मद् द्वेषो॑ य॒वयारा॑तीः पितृ॒णाꣳ सद॑नमसि स्वावे॒शो᳚-ऽस्यग्रे॒गा ने॑तृ॒णां ॅवन॒स्पति॒रधि॑ त्वा स्थास्यति॒ तस्य॑ वित्ताद् दे॒वस्त्वा॑ सवि॒ता मद्ध्वा॑ऽनक्तु सुपिप्प॒लाभ्य॒-स्त्वौष॑धीभ्य॒ उद्दिवꣳ॑ स्तभा॒नाऽन्तरि॑क्षं पृण पृथि॒वीमुप॑रेण दृꣳह॒ ते ते॒ धामा᳚न्युश्मसी - [ ]
पदपाठः (Word-by-word)
पृ॒थि॒व्यै । त्वा॒ । अ॒न्तरि॑क्षाय । त्वा॒ । दि॒वे । त्वा॒ । शुन्ध॑ताम् । लो॒कः । पि॒तृ॒षद॑न॒ इति॑ पितृ - सद॑नः । यवः॑ । अ॒सि॒ । य॒वय॑ । अ॒स्मत् । द्वेषः॑ । य॒वय॑ । अरा॑तीः । पि॒तृ॒णाम् । सद॑नम् । अ॒सि॒ । स्वा॒वे॒श इति॑ सु - आ॒वे॒शः । अ॒सि॒ । अ॒ग्रे॒गा इत्य॑ग्रे - गाः । ने॒तृ॒णाम् । वन॒स्पतिः॑ । अधीति॑ । त्वा॒ । स्था॒स्य॒ति॒ । तस्य॑ । वि॒त्ता॒त् । दे॒वः । त्वा॒ । स॒वि॒ता । मद्ध्वा᳚ । अ॒न॒क्तु॒ । सु॒पि॒प्प॒लाभ्य॒ इति॑ सु - पि॒प्प॒लाभ्यः॑ । त्वा॒ । ओष॑धीभ्य॒ इत्योष॑ध - भ्यः॒ । उदिति॑ । दिव᳚म् । स्त॒भा॒न॒ । एति॑ । अ॒न्तरि॑क्षम् । पृ॒ण॒ । पृ॒थि॒वीम् । उप॑रेण । दृꣳ॒॒ह॒ । ते । ते॒ । धामा॑नि । उ॒श्म॒सि॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डे तृतीयप्रपाठके षष्ठोऽनुवाकः)।

पञ्चमेऽनुवाके यूपच्छेदो वर्णितः। छिन्नस्य यूपस्य स्थापनं षष्ठेऽनुवाके वर्ण्यते। पृथिव्या इति। कल्पः — “ यूप एष प्रक्षालितः प्रपन्नः संपन्नचषालः प्रागवटादुपशेते तमुत्तरेणाऽऽहवनीयं तिष्ठन्पराञ्चं प्रोक्षति पृथिव्यै त्वाऽन्तारिक्षाय त्वा दिवे त्वेति ” इति।

प्रोक्षामीति शेषः। चषालो यूपाग्रे प्रतिमुच्यमानः कटकः।

लोकत्रयाभिमानिदेवताप्रीत्यर्थं प्रोक्षणमित्वाह —

“ पृथिव्यै त्वाऽन्तारिक्षाय त्वा दिवे त्वेत्याहैभ्य एवैनं लोकेभ्यः प्रोक्षति ” [सं॰ का॰ ६ प्र॰ ३ अ॰ ४] इति।

नात्रौदुम्बर्या इवाग्रमारभ्याधोमुखप्रोक्षणं किंतु मूलमारभ्योर्ध्वमुखमिति विधत्ते —

‘ पराञ्चं प्रोक्षति पराङिव हि सुवर्गो लोकः ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।

शुन्धतामिति। कल्पः — ‘ अवटेऽपोऽवनयति शुन्धतां लोकः पितृषदन इति, यवान्प्रस्कन्दयति यवोऽसि यवयास्मद्द्वेषो यवयारातीरिति, बर्हिर्हस्तं व्यतिषज्यावस्तृणाति पितृणा सदनसीति ” इति।

यूपस्थापनार्थो योऽवटस्तास्मिन्प्रोक्षणशेषं निनीय यवान्प्रक्षिप्य बर्हिर्मुष्टेरर्धं प्रागग्रमर्धमुदगग्रमित्येवं व्यतिषज्य वर्हिरवस्तृणीयात्।

एतानर्थान्विधत्ते — ‘ क्रूरीमव वा एतत्करोति यत्खनत्यपोऽव नयति शान्त्यै यवमतीरव नयत्यूर्ग्वै यवो यजमानेन यूपः संमितो यावानेव यजमानस्तावतीमेवास्मिन्नूर्जं दधाति पितृणा सदनमसीति ब्रर्हिरव स्तृणाति पितृदेवत्य ह्येतद्यन्निखातं यद्बर्हिरनवस्तीर्य मिनुयात्पितृदेवत्यो निखातः स्याद्बर्हिरवस्तीर्य मिनोत्यस्यामेवैनं मिनोति, ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।

यद्यप्यत्र यूपावटखननं नाऽऽम्नातं तथाऽप्यौदुम्बर्यामाम्नातं तस्येहानुवृत्तिमभिप्रेत्य यत्खनतीत्यनूद्यते। तदनुवृत्तये समानविषयत्वं प्रत्यभिज्ञापयितुं तत्र विहितमप्यवनयनादिकं पुनरत्र विधीयते।

स्वावेश इति। कल्पः – “ यूपशकलमवास्यति स्वावेशोऽस्यग्रेगा नेतृणां वनस्पतिरधि त्वा स्थास्यति तस्य वित्तादिति ” इति।

शोभन आवेशो यूपोवस्थितिलक्षणो यस्मिन्प्रथमशकले स स्वावेशः। हे शकल त्वं स्वावेशोऽसि। यूपस्य त्रयो नेतारः प्रथमशकलः स्वरुश्चषालश्चेति। तेषां नेतृणां मध्ये त्वमग्रेगा प्रथमभावी। वनस्पतिरूपो यूपस्त्वामधिष्ठास्यति। तस्य वित्तात्, तं यूपमनुजानीहि।

विधत्ते — “ यूपशकलमवास्यति सतेजसमेवैनं मिनोति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।

यत्पूर्वोक्तं स्वधितेर्वृक्षस्य बिभ्यतः प्रथमेन शकलेन सह तेजः परापततीति शकले प्रक्षिप्ते सति तेन तेजसा सहितमेवैनं यूपं स्थापितवान्भवति।

देवस्त्वेति। कल्पः — “ अथ प्रवृह्य चषालं यूपस्याग्रमनक्ति देवस्त्वा सविविता मध्वाऽनक्त्विति ” इति।

मध्वा मधुरेण तेजोरूपेणाऽऽज्येन।

तदिदं दर्शयति — “ देवस्त्वा सविता मध्वाऽनक्त्वित्याह तेजसैवैनमनक्ति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।

सुपिप्पलाभ्य इति। कल्पः – “ अन्तरश्च बाह्यतश्च स्वभ्यक्तं कृत्वा चषालं प्रतिमुञ्चति सुपिप्पलाभ्य इति ” इति।

यूपस्याग्रभागः पूर्वमाच्छिन्नो रायः सुवीर इति मन्त्रेण च्छिन्नस्तेन निष्पादितश्चतुरङ्गुलोछ्रितः सच्छिद्रश्चषालः। हे चषाल त्वां यूपाग्रे प्रतिमुञ्चामि। किमर्थम्। शोभनफलसंयुक्तौषध्यर्थम्।

विधत्ते — “ सपिप्पलाभ्यस्त्वौषधीभ्य इति चषालं प्रति मुञ्चति तस्माच्छीर्षत ओषधयः फलं गृह्णन्ति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।

यस्मात्फलार्थमग्रे चषालः प्रतिमुक्तस्तमस्माच्छिरस्यग्रे फलग्रहणम्।

विधत्ते — “ अनक्ति तेजो वा आज्यं यजमानेनाग्निष्ठाऽश्रिः संमिता यदग्निष्ठामश्रिमनक्ति यजमानमेव तेजसाऽनक्त्यान्तमनक्त्यान्तमेव यजमानं तेजसाऽनक्ति ” [सं॰ का॰ ६ प्र॰ ३ अ॰ ४ ] इति।

तक्षणेन निष्पादितास्वष्टासु यूपाश्रिषु मध्ये येयमाहवनीयाग्निसमीपे स्थिता साऽग्निष्ठा तामाज्येनानक्ति। तदिदमञ्जनममन्त्रकमिति बौधायनस्य मतम्। अथ स्रुवेणाग्निष्ठामश्रिमभिघारयन्नाह यूपायाज्यमानायानुब्रूहीत्येतावत एवाभिधानात्।

आपस्तम्बस्तु समन्त्रकतामाह – “ देवस्त्वा सविता मध्वाऽनक्त्विति स्रुवेण संततमविच्छिन्दन्नग्निष्ठामश्रिमनक्त्योपरात् ” इति।

अवटे क्षिप्यमाणो मूलभाग उपरम्। मूलतोऽतष्टमुपरमिति।

विधत्ते — “ सर्वतः परि मृशत्यपरिवर्गमेवास्मिन्तेजो दधाति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।

यजमाने कमप्यवयवमवर्जयित्वा तेजो दधाति।

अद्दिवमिति। कल्पः – ‘ उच्छ्रयत्युद्दिव स्तभानाऽन्तरिक्षं पृण पृथिवीमुपरेण दृहोति ” इति।

वाक्यत्रयप्रयोजनमाह — “ उद्दिव स्तभानाऽन्तरिक्षं पृणेत्याहैषां लोकानां विधृत्यै ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।

बौधायनः — “ अथैनं वैष्णवीभ्यामृग्भ्यां कल्पयति ते ते धामानि विष्णोः कर्माणि पश्यतेति द्वाभ्यां स यत्राग्निष्ठामश्रिमाहवनीये संपादयति तद्यूपस्य चषालं परीक्षयति तद्विष्णोः परमं पद सदा पश्यन्ति सूरयः। दिवीव चक्षुराततमिति ” इति।

आपस्तम्बः — “ ते ते धामानीत्यवटेऽवदधाति विष्णोः कर्माणि पश्यतेति द्वाभ्यामाहवनीयेनाग्निष्ठा संमिनेति ” इति।

आद्यो मन्त्र एवमाम्नातः —

ते ते धामानीति। ते तानि, ते तव धामानि स्थानानि उश्मसि कामयामहे गमध्ये गन्तुं, गावो गन्तारः, भूरिशृङ्गा बहुदीप्तयः, अयासोऽनपायाः, अह, एव। उरगायस्य महात्मभिर्गीयमानस्य, भूरेर्महतः। हे यूपाभिमानिन्विष्णो तव तानि स्थानानि गन्तुं कामयामहे। येषु गन्तारो बहुदीप्तयो वर्तन्ते न कदाचिदपयन्ति। एष्वेव स्थानेषु महात्मभिर्गीयमानस्य महतो विष्णोस्तत्परमं पदमवभाति। तादृशस्थानप्राप्तिहेतवे कर्मणे यूपोऽस्मिन्नवटे तिष्ठतु।

विधत्ते — ‘ वैष्णव्यर्चा कल्पयति वैष्णवो वै देवतया यूपः स्वयैवैनं देवतया कल्पयति ’ (सं॰ का॰ ६ प्र॰ २ अ॰ १०) इति।

ते ते धामानीत्यसौ वैष्णवी। कल्पयति उच्छ्रयेत्।

मन्त्रान्तरं त्वेवमाम्नातम् — विष्णोरिति। हे जना विष्णोः कर्माणि सृष्टिस्थितिसंहारचरितानि पश्यत, यतो यैः कर्मभिर्व्रतानि भवदीयलौकिकवैदिककर्माणि पस्पशे सृष्टवान्निर्मितवान्। स विष्णुरिन्द्रस्य युज्यो योग्यः सखा।

तद्विष्णोरिति। तद्विष्णोरिति मन्त्रस्यायमर्थः — सूरयो विद्वांसो वेदान्तपारंगता विष्णोस्तत्परमं पदं स्वरूपं सदा पश्यन्ति। कीदृशं दिव्याकाशे निरावरणे प्रसृतं चक्षुरिवाऽऽततं व्याप्तम्। तादृशस्य विष्णोरनुग्रहाद्वैष्णवस्य यूपस्याग्निष्ठामश्रिमाहवनीयेन संमितां स्थापयामीत्यर्थः।

अस्मिन्स्थापने विष्णोः कर्माणि तद्विष्णोरिति मन्त्रद्वयं विनियुङ्क्ते —

‘ द्वाभ्यां कल्पयति द्विपाद्यजमानः प्रतिष्ठित्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।

ते ते धामानीत्यादीनां त्रयाणां मन्त्राणां पदार्था उपेक्षिताः।

अग्निष्ठाश्रिस्थापने पूर्वपक्षं दर्शयति —

‘यं कामयेत तेजसैनं देवताभिरिन्द्रियेण व्यर्धयेयमित्यग्निष्ठां तस्याश्रिमाहवनीयादित्थं वेत्थं वाऽति नावयेत्तेजसैवैनं देवताभिरिन्द्रियेण व्यर्धयति’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।

तक्षणवेलायामष्टास्वश्रिषु कांचिदाश्रिमियमाग्निष्ठेति प्रज्ञातां कुर्यात्। तामश्रिं यूपस्य पश्चिमभागे स्थितादा(तमा)हवनीयमतिलङ्घ्य दक्षिणत उत्तरतो वा नावयेत्प्रापयेत्। तथा सति तेजआदिभिर्व्यर्धयति वियोजयति।

सिद्धान्तं दर्शयति —

‘ यं कामयेत तेजसैनं देवताभिरिन्द्रियेण समर्धयेयमित्यग्निष्ठां तस्याश्रिमाहवनीयेन सं मिनुयात्तेजसैवैनं देवताभिरिन्द्रियेण समर्धयति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति। संमिनुयात्संमुखां स्थापयेत्।

ब्रह्मवनिमिति। कल्पः — ‘ अथैनं प्रदक्षिणं पर्यूहति ब्रह्मवनिं त्वा क्षत्रावनि सुप्रजावनि रायस्पोषवनिं पर्यूहामीति, मैत्रावरुणदण्डेन संहन्ति ब्रह्म दृह क्षत्रं दृह प्रजां दृह रायस्पोषं दृहेति ’ इति।

मन्त्रयोः स्पष्टार्थतां दर्शयति — ‘ब्रह्मवनिं त्वा क्षत्रवनिमित्याह यथायजुरेवैतत्” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।

परिवीरिति। कल्पः — ‘ प्रदक्षिणं परिव्ययति परिवीरसि परि त्वा दैवीर्विशो व्ययन्तां परीम रायस्पोषो यजमानं मनुष्या इति ’ इति।

हे यूप त्वं परिवीरसि परितो रशनया वीतो वेष्टितोऽसि। दैवीर्विशो देवसंबन्धिन्यः प्रजा मरुद्गणादयस्त्वां परितो व्ययन्तां वेष्टयन्तु। तद्वदिमं यजमानं धनपुत्रभृत्यादिमनुष्याश्च परिव्ययन्तु।

अन्तरिक्षस्येति। कल्पः — ‘ स्वरुमादायान्तरिक्षस्य त्वा सानावव गूहामीत्युत्तरेणाग्निष्ठां मध्यमे रशनागुणेऽवगूहति ’ इति।

हे स्वरो त्वामन्तरिक्षलोकमध्यवर्तिनो रशनागुणस्य सानौ पार्श्वेऽवगूढं करोमि मन्त्रयोरर्थ उपेक्षितः।

विधत्ते — ‘ परि व्ययत्यूर्ग्वै रशना यजमानेन यूपः संमिता यजमानमेवोर्जा समर्धयति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।

ओषधिविशेषैर्दर्भैरुत्पन्नत्वाद्रशनाया ऊर्ग्रूपत्वम्। तया यूपस्य संबन्धे सति यूपप्रमाणहेतुर्यजमान एवान्नेन समृद्धो भवति। रशनाया मध्यमगुणस्य देशं विधत्ते ‘नाभिदघ्ने परि व्ययति नाभिदघ्न एवास्मा ऊर्जं तधाति तस्मान्नाभिदघ्न ऊर्जा भुञ्जते’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति। अस्मा अस्य यजमानस्य नाभिदघ्न उदर ऊर्जं स्थापयति। ततः सर्वे तत्रोर्जा भुञ्जते भुक्तामूर्जं धारयन्ति।

नाभिदघ्नप्रशंसार्थं निन्द्यं पक्षमुपन्यस्यति — ‘यं कामयेतोर्जैनं व्यर्धयेयमित्यूर्ध्वां वा तस्यावाचीं वाऽवोहेदूर्जैवैनं व्यर्धयति’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।

उदरसदृशान्नाभिदघ्नादूर्ध्वमधो वा रशनावेष्टने यजमानमन्नेन वियोजयति।

कामनाभेदेन देशविशेषं विधत्ते — ‘यदि कामयेत वर्षुकः पर्जन्यः स्यादित्यवाचीमवोहद्वृष्टिमेव नियच्छति यदि कामयेतावर्षुकः स्यादित्यूर्ध्वामुदूहेद्वृष्टिमेवाद्यच्छति’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।

नाभिदघ्नदेशादवाचीनमधोदेशे बद्धां पुनरप्यवोहेदपकर्षेत्तेन वृष्टिं नियच्छति न्यग्भावेन प्रवर्तयति। ऊर्ध्वप्रदेशे बद्धां पुनरप्युदूहेदुत्कर्षेत्तेन वृष्टिमुद्यच्छति ऊर्ध्वं प्रवर्तयति निवारयतीत्यर्थः।

यूपं सर्वदेवताप्रीतिहेतुतया स्तौति — ‘ पितॄणां निखातं मनुष्याणामूर्ध्वं निखातादा रशनाया ओषधीना रशना विश्वेषां देवानामूर्ध्व रशनाया आ चषालादिन्द्रस्य चषाल साध्यानामतिरिक्त स वा एष सर्वदेवत्यो यद्यूपो यद्यूपं मिनोति सर्वा एव देवताः प्रीणाति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।

निखातमुपरं पितॄणां प्रियं, निखातरशनादेशयोर्मध्यं मनुष्याणां रशनादेश ओषधीनां, तद्देशचषालयोर्मध्यं विश्वेषां देवानां चषालदेश इन्द्रस्य, अतिरिक्तं तु साध्यानाम्। तच्च सूत्रे दर्शितम् — ‘ यावदुत्तममङ्गुलिकाण्डं तावदूर्ध्वं चषालाद्यूपस्यातिरिक्तं द्व्यङ्गुलं त्र्यङ्गुलं वा ’ इति।

पुनरपि स्वर्गलोकावगतिहेतुतया यूपं स्तौति —

यज्ञेन वै देवाः सुवर्गं लोकमायन्तेऽमन्यन्त मनुष्या नोऽन्वाभविष्यन्तीति ते यूपेन योपयित्वा सुवर्गं लोकमायन्तमृषयो यूपेनैवानु प्राजानन्तद्यूपस्य यूपत्वं यद्यूपं मिनोति सुवर्गस्य लोकस्य प्रज्ञात्यै ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ४] इति।

देवाः पुरा कदाचिद्यज्ञं कृत्वा तेन यज्ञेन स्वर्गं गच्छन्तो मनुष्या अप्यस्मानन्वागत्यास्मत्सदृशास्ते भविष्यन्तीति मत्वा यूपेन मनुष्यान्योपयित्वा मोहयित्वा स्वयमेव स्वर्गं गताः। यूपः सर्वदेवत्य इत्यज्ञात्वा काष्ठमात्ररूप इति बुद्धिर्मोहः। ऋषयस्तु यूपमाहात्म्यस्यातीन्द्रियस्यापि द्रष्टारस्तेनैव विदिततत्त्वेन यूपेन देवाननु तं स्वर्गं प्रज्ञातवन्तः। तत्तस्मान्मनुष्यमोहनहेतुत्वाद्यूपस्य यूपत्वं यूपनाम संपन्नम्। ‘ यू(यु)प विमोहने ’ इत्यस्माद्धातोर्यूपशब्दो निष्पन्नः। एवं च सति विदतमाहात्म्यस्य यूपस्य स्थापनेन स्वर्गः प्रज्ञायते।

आहवनीयात्पूर्वदेशे यूपस्थापनाय विधत्ते — ‘ पुरस्तान्मिनोति पुरस्ताद्धि यज्ञस्य प्रज्ञायते प्रज्ञात हि तद्यदतिपन्न आहुरिदं कार्यमासीदिति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।

अत्र सूत्रम् — ‘अग्रेणाऽऽहवनीयं यूपावटं परिलिखत्यर्धमन्तर्वेद्यर्धं बहिर्वेदि’ इति। विधिवाक्ये पुरस्ताच्छब्दः पूर्वदेशवाची। अर्थवादे तु पूर्वकालवाची। यज्ञस्य संबन्धि यत्कर्तव्यमङ्गजातं तत्सर्वमनुष्ठानात्पूर्वमेव प्रज्ञायते। तथा च ब्राह्मणान्तरे — ‘आ चतुर्थात्कर्मणोऽभिसमीक्षेतेदं करिष्यामीदं करिष्यामि’ इति। यत्तु पूर्वं न ज्ञातं तत्पश्चाद्बुद्धमपि सदज्ञातमेव यस्माल्लोके विस्मरणेनान्यथाकरणेन वा कस्मिंश्चिदनुष्ठेयेऽतिपन्ने विनष्टे सति पश्चात्क्लिश्यन्त आहुरिदं गमनादिकमध्ययनादिकं वा तस्मिन्नेव दिने कार्यमासीन्न चास्माभिस्तदानीं प्रज्ञातमिति। तस्मात्पूर्वकालस्य प्रज्ञानार्हत्वेन प्रशस्तत्वात्पूर्वदेशोऽपि पूर्वत्साम्येन प्रशस्तः।

यदुक्तं चषालादतिरिक्तं साध्यानामिति तत्समर्थ्यते —

“ साध्या वै देवा यज्ञमत्यमन्यन्त तान्यज्ञो नास्पृशत्तान्यद्यज्ञस्यातिरिक्तमासीत्तदस्पृशदतिरिक्तं वा एतद्यज्ञस्य यदग्नावग्निं मथित्वा प्रहरत्यतिरिक्तमेतद्यूपस्य यदूर्ध्वं चषालत्तेषां तद्भागधेयं तानेव तेन प्रीणाति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।

साध्यनामका देवाः पुरा यज्ञं क्लृप्तं यज्ञभागमतिलङ्घ्याधिको भागोऽस्माकमस्त्वित्यमन्यन्त। तानधिकं लिप्समानान्यज्ञो नास्पृशत्। तर्हि किमस्पृशत्। यद्यज्ञस्यातिरिक्तमिहाऽऽसीत्तत्तानस्पृशत्। किमतिरिक्तम्। यदग्नावग्निं मथित्वा प्रहरणमस्ति एतदन्ययज्ञेऽभावादिहातिरिक्तम्। यदपि चषालादूर्ध्वं यूपाग्रमेतदपि यजमानपरिमाणादधिकत्वादतिरिक्तम्। तदुभयं साध्यानां प्रीतिहेतुः।

यूपप्रसङ्गात्स्वकाले स्वरुहोमं विधत्ते —

‘ देवा वै सस्थिते सोमे प्र स्रुचोऽहरन्प्र यूपं तेऽमन्यन्त यज्ञवेशसं वा इदं कुर्म इति ते प्रस्तर स्रुचां निष्क्रयणमपश्यन्त्स्वरुं यूपस्य सस्थिते सोमे प्र प्रस्तर हरति जुहोति स्वरुमयज्ञवेशसाय ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।

पुरा देवाः समाप्ते सोमयज्ञे स्रुचो यूपं चाग्नौ प्राहरन्नग्नौ प्रहर्तुं संकल्पितवन्तः। ततो यज्ञविनाशो मा भूदिति विचार्य प्रस्तरेण स्रुचः स्वरुणा यूपं च निष्क्रीतवन्तः। तस्मात्सोमसमाप्तौ प्रस्तरमग्नौ प्रहरेत्स्वरुं च जुहुयात्। स्वरुर्यूपतक्षणे प्रथमः शकलः। तथा च सूत्रम् —

‘ अवतक्षणानां स्वरुमधिमन्थनशकलम् ’ इति।

अत्र विनियोगसंग्रहः —

‘ पृथिषट्कं पुरेवात्र स्वावे प्रथमपातितम्।

शकलं चावटे क्षिप्त्वा देवोऽग्निष्ठाश्रिकाञ्चनम् ॥१॥

सुप्यारोपश्चषालाग्रे ह्युद्दि यूपं समुच्छ्रयेत्।

ते तेऽवटे क्षिपेद्विष्णोर्द्वाभ्यां यूपस्य कल्पनम् ॥२॥

ब्रह्मद्वयं गतं यूपो [पे] रज्ज्वा संवेष्टनं परि।

अन्त स्वरुं तत्र गूहेदिति सप्तदशेरिताः ॥३॥ ” इति।

अथ मीमांसा।

तृतीयाध्यायस्य सप्तमपादे चिन्तितम् —

अन्तर्वेदि मिनोत्यर्धं यूपाङ्गमुत लक्षयेत्।

देशं यूपाङ्गभावेन वेदिभागोऽत्र चोद्यते॥

बहिर्वेद्यर्धमित्येतद्वाक्यं भिद्येत तद्विधौ।

मीयमानस्य यूपस्य तावान्देशोऽत्र लक्ष्यते ” इति॥

अग्नीषोमीये पशौ यूपं मिनोतीति प्रकृत्य श्रूयते — ‘अर्धमन्तर्वेदि मिनोत्यर्धं बहिर्वेदि ’ इति।

यूपं स्थापयितुं कियाद्विस्तारवानवटोऽपेक्षित इति बुभुत्सायां तन्निर्णयायैतन्मूलस्य स्थौल्यमङ्गुल्यादिभिर्मातव्यम्। तस्य च मीयमानस्य वेद्यभ्यन्तरभागोऽङ्गत्वेन विधीयत इति चेन्मैवम्। यथा संस्कृतो वेद्यभ्यन्तरभागोऽधर्मन्तर्वेदीत्यनेन वाक्येन विधीयते तद्वदसंस्कृतो वेदिबहिर्भागोऽप्यर्धं बहिर्वेदीत्यनेन वाक्येन विधातव्यः। ततो वाक्यं भिद्येत। यदा तु वेदेरभ्यन्तरबाह्यभागाभ्यामुपलक्षितोऽसंस्कृतो लौकिको देशो मीयमानयूपोचितो विधीयते तदा नास्ति वाक्यभेदः। तस्माल्लौकिकदेश एवात्र यूपाङ्गत्वेन विधीयते न तु संस्कृतवेदिभागः।

अथ च्छन्दः — ते ते धामानीति त्रिष्टुप्। विष्णोः कर्माणि तद्विष्णोरित्युभे गायत्र्यौ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे तृतीयप्रपाठके षष्ठोऽनुवाकः ॥६॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 -3यूपं पराञ्चं प्रोक्षति - पृथिव्यै त्वेति ॥ व्याख्यातम् । प्रोक्षामीति शेषः । पृथिव्यादीनां स्थित्यर्थं त्वां प्रोक्षामिति ॥
4 अवटेऽपोऽवनयति - शुन्धतामिति ॥ व्याख्यातम् ॥
5 यवान्प्रस्कन्दयति - यवोसीति ॥ व्याख्यातमेव । 'ऊर्ग्वै यवो यजमानेन यूपस्सम्मितः' इत्यादि ब्राह्मणम् ॥
6 बर्हिर्हस्तं व्यतिषज्यावस्तृणाति - पितृणामिति ॥ व्याख्यातमेव । 'यद्बर्हिरनवस्तीर्य मिनुयात्पितृदेवत्यो निखातस्स्यात्' इति ब्राह्मणम् ॥
7 यूपशकलमवास्यति - स्वावेश इति ॥ सुष्ठु आविश्यते स्थीयतेस्मिन्निति स्वावेशः । अधिकरणे घञ्, थाथादिसूत्रेणोत्तरपदान्तोदात्तत्वम् । यूपस्य सुखासनमसीत्यर्थः । नेतारो यागस्य निर्वोढारः यूपशकलाः । 'छन्दस्युभयथा' इति 'नामि' इति दीघाभावः । 'नामन्यतरस्याम्' इति नाम उदात्तत्वम् । तेषां मध्ये अग्रेगास्त्वमसि अग्रे प्रथमं यूपात् गच्छति परापततीत्यग्रेगाः । 'यः प्रथमश्शकलः परापतेत्तमप्याहरेत्' इति गृहीतत्वात् । यद्वा - नेतृणामग्रे गच्छतीत्यग्रेगाः मुख्य इत्यर्थ प्रथमपतितत्वादेव । यद्वा - नेतॄणां मध्ये अग्रे गच्छति यागसाधनत्वं यूपादपि पूर्वमुपयुज्यमानत्वादवटप्रवेशेन । 'जनसनखनक्रमगमो विट्' इति विटप्रत्ययः, ' विड्वनोरनुनासिकस्यात्' इत्यात्वम्, 'तत्पुरुषे कृति बहुळम्' इत्यलुक्, कृदुत्तरपदप्रकृतिस्वरत्वम् । यद्वा - यूपस्य ये नेतारः परिष्कर्तारः प्रथमशकलस्स्वरुश्चषालमिति, तेषां मध्ये अग्रे प्रथमं यूपं गच्छतीति । किञ्च - वनस्पतिविकारो यूपः, विकृतौ प्रकृतिशब्दः । पारस्करप्रभृतित्वात्सुट्, 'उभे वनस्पत्यादिषु युगपत्' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । स त्वामधि स्थास्यति त्वयि स्थास्यति, यूपस्यापि धारकोसीत्यर्थः । 'अधिशीङ्स्थासां कर्म', इत्याधारस्य कर्मसंज्ञा । तस्थ वित्तात् तद्विजानानीहि तं ते महिमानमवगन्तुमर्हसीति । 'क्रियाग्रहणं कर्तव्यम्' इति सम्प्रदानत्वात् 'चतुर्थ्यर्थे बहुलं छन्दसि' इति चतुर्थ्यर्थे षष्ठी । 'यूपशकलमवास्यति स तेजसमेवैनं मिनोति' इति ब्राह्मणम् । 'स्वधितेर्वृक्षस्य बिभ्यतः प्रथमेन शकलेन सह तेजः परापतति' इत्यादिब्राह्मणेन तस्य तेजस्त्वमवगन्तव्यम् ॥
8 यूपस्याग्रमनक्ति - देवस्त्वेति ॥ व्याख्यातम् ॥
9 चषालं प्रतिमुञ्चाति - सुपिप्पलाभ्य इति ॥ व्याख्यातमेव । शोभनफलानामोषधीनामर्थाय त्वां चषालं यूपस्याग्रे प्रतिमुञ्चामीति शेषः । 'तस्माच्छीर्षत ओषधयः फलं गृह्णन्ति' इति ब्राह्मणम् ॥
10 यूपमुच्छ्रयति - उद्दिवमिति ॥ व्याख्यातम् । अतष्टः प्रदेश उपरः, 'मूलतोऽतष्टमुपरम्' इति । उपरमते तक्षणमस्मिन्निति । 'उपसर्गे च संज्ञायाम्' इति जनेर्विधीयमानो डप्रत्ययः बहुलवचनाद्रमेरपि भवति, कृदुत्तरपदप्रकृतिस्वरत्वं बाधित्वा अव्ययपूवर्पदप्रकृतिस्वरत्वम्, व्युत्पत्त्यनवधारणाच्च नावगृह्यते । तेन पृथिवी दृंह दृढां कुरु ॥
11 यूपं वैष्णवीभ्यामृग्भ्यां कल्प्यति स्थापयति - ते धामानि ... विष्णोः कर्माणि पश्यतेति ॥ तत्र प्रथमा चतुष्पदा त्रिष्टुप् । द्वितीया त्रिपदा गायत्री ।'वैष्णव्यर्चा कल्पयति वैष्णवो वै देवतया' इत्यादि ब्राह्मणम् । 'द्वाभ्यां कल्पयति' इत्यादि च । वैष्णवत्वाद्यूपो विष्णुरूपेण स्तूयते । त इति द्वितीयाबहुवचनस्य 'सुपां सुलुक्' इति शे आदेशः, प्रगृह्यत्वाभावो व्यत्ययेन, लिङ्गविभक्तिव्यत्ययेन वा । हे विष्णो तव तानि धामानि स्थानानि गमध्ये गन्तुं यजमानो गच्छेदिति यावत् । तुमर्थे अध्येन्प्रत्ययः, अध्यैप्रत्ययस्य वा वर्णव्यत्ययेन एकारः । तव तानि धामानि गन्तुं उश्मसि उश्मः कामयामहे । वष्ठेर्ग्रहिज्यादिना सम्प्रसारणम्, 'इदन्तो मसिः', 'अन्येषामपि दृश्यते' इति तस्य संहितायां दीर्घः । कानीत्याह – यत्र येषु धामसु गावो रश्मयः भूरिशृङ्गाः बह्वग्राः, अयासः गमनशीलाः । एतेः पचाद्यच्, 'आज्जसेरसुक्' । यत्र बहुमुखा रश्मयो विसर्पन्तीति । यद्वा - यत्र गावो गन्तारो जनाः । 'गमेर्डो' इति डोप्रत्ययः । भूरिशृङ्गाः महादीप्तयो भवन्तीति । दीप्तिनामसु हि शृङ्गाणीत्यध्यायान्ते पठ्यते । पुनश्च विशेष्यन्ते - अयासः अनपायाः अप्रच्यूताः । यातेरसुनि याः, नञ्बहुव्रीहौ 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । धामानि पुनर्विशेष्यन्ते - अत्राह अत्रैव । अहेत्यवधारणे । येष्वेव धामसु उरुगायस्य उरुभिर्महात्माभिर्गीयत इत्युरिगायः । गायतेः कर्मणि घञ्, थाथादिस्वरेणोत्तरपदान्तोदात्तत्वम् । भूरेः महतो महाबलस्य विष्णोः विश्वं व्याप्नुवतः । 'विशेः किच्च' इति नुप्रत्ययः, तत्र हि निदिति वर्तते । यस्त्वं महाबलो महात्मभिस्स्तूयमानो विश्वं व्याप्नुवन्नभूः 'विचक्रमाणस्त्रेधोरुगायः' इति मन्त्रप्रसिद्धः तस्य तव तत्तादृशविक्रमकृत् परममुत्तमं पदंम् तदप्येष्वेव धामसु अवभाति दीप्यते, तस्मात्तानि धामानि गन्तुमुश्म इति । एवं प्रत्यक्षकृतोयं मन्त्रः । द्वितीयस्तेशब्दोस्मिन्पक्षे युष्मदादेशः । यद्वा - परोक्षकृत एवायम् । ते ते इति वीप्सा । तानि तानि धामानि गन्तुमुश्मः । 'नित्यवीप्सयोः' इति शेप्रत्ययान्तस्य द्विर्व- चनम्, ' अनुदात्तं च` इति द्वितीयस्यानुदात्तत्वम् । स्पष्टमन्यत् ॥
12 अथ द्वितीया ॥ विष्णोः कर्माणि चरितानि पश्यत हे जनाः । कीदृशानीत्याह - यतः यैः । 'इतराभ्योपि दृश्यन्ते' इति तृतीयान्तात्तसिः । व्रतानि युष्मदीयानि कर्माणि यैः कर्मभिः पस्पशे स्पृशति बध्नातीति वा युष्मासु । स्पश बाधनादौ स्वरितेत्, 'छन्दसि लुङ्लङ्लिटः' इति लिट् । शर्पूर्वाः खयश्शिष्यन्ते इति पकारशेषः । पुनश्च विशेष्यते - इन्द्रस्य युज्यः योग्यस्सखा । योगो युक् । सम्पदादित्वाद्युजेः क्विप् । युजि साधुर्युज्यः । 'तत्र साधुः' इति यत्, 'यतोऽनावः' इत्याद्युदात्तत्वम् । यद्वा - युञ्जाना युजः योगिनः । 'सत्सूद्विष' इत्यादिना क्विप् । तत्र भवः । दिगादिर्द्रष्टव्यः । तादृशस्यास्य तादृशानि कर्माणि पश्यतेति ॥
13 चषालमीक्षते - तद्विष्णोरिति त्रिपदया गायत्र्या ॥ 'विष्णोः परमं पदमवभाति भूरेः' इति यत्पूर्वोक्तं तदेव हि विष्णोः परमं पदं सदा सर्वदा सूरयः मेधाविनः पश्यन्तीति । कीदृशं? दिवि चक्षुरिवाततम् । सर्वेषां चक्शुस्स्थानीयं सूर्यमण्डलमिह चक्षुरुच्यते । आततं समन्ताद्विस्तारितप्रकाशं, सवत्र प्रकाशत्वात् । 'गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् । दिवि सूर्यमण्डलमिव यदात्मप्रकाशस्वरूपं तत्सूरयस्सदा हृदि पश्यन्ति । तस्मात्त्वमपि विष्णोः परमपदस्थानीयं चषालं पश्येति ॥
14 प्रदक्षिणं पुरीषेण पर्यूहति - ब्रह्मवनमिति ॥ व्याख्यातम् ॥
15 मैत्रावरुणदण्डेन संहन्ति - ब्रह्म दृंहेति ॥ व्याख्यातमेव ॥
16 रशनया त्रिः प्रदक्षिणं परिव्ययति - परिवीरसीति ॥ परिवीयत इति परिवीः । 'अन्येभ्योपि दृश्यते' इति कर्मणि क्विप्, यजादित्वात्सम्प्रसारणम्, 'हलः' इति दीर्घः, कृदुत्तरपदप्रकृतिस्वरत्वम् । परितो रशनया वेष्टनीयोसि हे यूप । अतस्त्वां दैवीः दैव्यो विशः देवानां स्वभूताः प्रजाः मरुदादयः, 'मरुतो वै देवानां विशः' इति । 'देवाद्यञञौ' इति देवशब्दादञ्, 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । परिव्ययन्तां सर्वतोऽनया रशनय वेष्टयन्तु । इमं च यजमानं रायो धनस्य पोषः मनुष्याश्च परिवेष्टयन्तु, आढ्यः प्रजानामुपजीव्यश्च भवत्वित्यर्थः । 'ऊडिदम्' इत्यादिना रैशब्दात् षष्ठ्या उदात्तत्वम्, 'षष्ठ्याः पतिपुत्र' इति विसर्जनीयस्य सत्वम्, 'अदुपदेशात्' इति लसार्वधातुकानुदात्तत्वे धातुस्वरेण यजमानशब्द आद्युदात्तः । 'ऊर्ग्वै रशना' इत्यादि ब्राह्मणम् ॥
17 मध्यमे रशनागुणे स्वरुमवगूहति - अन्तरिक्षस्य त्वेति ॥ मध्यमत्वसाधर्म्यात् अन्तरिक्षस्थानीयस्य मध्यमस्य रशनागुणस्य स्थाने त्वामवगूहामि सुगुप्तं स्थापयामि हे स्वरो । कीडृशे स्थाने? सानौ समुन्नते स्वस्थानत्वादेव समुच्छ्रिते । यद्वा - सननीयः सानुः मध्यमेन गुणेन सम्भक्ते प्रदेशे 'दॄसनिजनि' इत्यादिना सनो ञुण्प्रत्ययः । 'ऊदुपधाया गोहः' इत्यूकारः ॥
इति तृतीये षष्ठोनुवाकः ॥
पञ्चशत् 2 #
TS 1.3.6.2 TS 1.3.6.2
ग॒मद्ध्ये॒ गावो॒ यत्र॒ भूरि॑शृङ्गा अ॒यासः॑ । अत्राह॒ तदु॑रुगा॒यस्य॒ विष्णोः᳚ प॒रमं प॒दमव॑ भाति॒ भूरेः᳚ ॥ विष्णोः॒ कर्मा॑णि पश्यत॒ यतो᳚ व्र॒तानि॑ पस्प॒शे । इन्द्र॑स्य॒ युज्यः॒ सखा᳚ ॥ तद्-विष्णोः᳚ पर॒मं प॒दꣳ सदा॑ पश्यन्ति सू॒रयः॑ । दि॒वीव॒ चक्षु॒रात॑तं ॥ ब्र॒ह्म॒वनिं॑ त्वा क्षत्र॒वनिꣳ॑ सुप्रजा॒वनिꣳ॑ रायस्पोष॒वनिं॒ पर्यू॑हामि॒ ब्रह्म॑ दृꣳह क्ष॒त्रं दृꣳ॑ह प्र॒जां दृꣳ॑ह रा॒यस्पोषं॑ ( ) दृꣳह परि॒वीर॑सि॒ परि॑ त्वा॒ दैवी॒र्विशो᳚ व्ययन्तां॒ परी॒मꣳ रा॒यस्पोषो॒ यज॑मानं मनु॒ष्या॑ अ॒न्तरि॑क्षस्य त्वा॒ साना॒वव॑ गूहामि ॥
पदपाठः (Word-by-word)
ग॒मद्ध्ये᳚ । गावः॑ । यत्र॑ । भूरि॑शृङ्गा॒ इति॒ भूरि॑ - शृ॒ङ्गाः॒ । अ॒यासः॑ ॥ अत्र॑ । अह॑ । तत् । उ॒रु॒गा॒यस्येत्यु॑रु - गा॒यस्य॑ । विष्णोः᳚ । प॒र॒मम् । प॒दम् । अवेति॑ । भा॒ति॒ । भूरेः᳚ ॥ विष्णोः᳚ । कर्मा॑णि । प॒श्य॒त॒ । यतः॑ । व्र॒तानि॑ । प॒स्प॒शे ॥ इन्द्र॑स्य । युज्यः॑ । सखा᳚ ॥ तत् । विष्णोः᳚ । प॒र॒मम् । प॒दम् । सदा᳚ । प॒श्य॒न्ति॒ । सू॒रयः॑ ॥ दि॒वि । इ॒व॒ । चक्षुः॑ । आत॑त॒मित्या - त॒त॒म् ॥ ब्र॒ह्म॒वनि॒मिति॑ ब्रह्म - वनि᳚म् । त्वा॒ । क्ष॒त्र॒वनि॒मिति॑ क्षत्र - वनि᳚म् । सु॒प्र॒जा॒वनि॒मिति॑ सुप्रजा - वनि᳚म् । रा॒य॒स्पो॒ष॒वनि॒मिति॑ रायस्पोष - वनि᳚म् । परीति॑ । ऊ॒हा॒मि॒ । ब्रह्म॑ । दृꣳ॒॒ह॒ । क्ष॒त्रम् । दृꣳ॒॒ह॒ । प्र॒जामिति॑ प्र - जाम् । दृꣳ॒॒ह॒ । रा॒यः । पोष᳚म् ( ) । दृꣳ॒॒ह॒ । प॒रि॒वीरिति॑ परि - वीः । अ॒सि॒ । परीति॑ । त्वा॒ । दैवीः᳚ । विशः॑ । व्य॒य॒न्ता॒म् । परीति॑ । इ॒मम् । रा॒यः । पोषः॑ । यज॑मानम् । म॒नु॒ष्याः᳚ । अ॒न्तरि॑क्षस्य । त्वा॒ । सानौ᳚ । अवेति॑ । गू॒हा॒मि॒ ॥
पदसंख्या: 69