पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ प्रथमकाण्डे तृतीयप्रपाठके षष्ठोऽनुवाकः)।
पञ्चमेऽनुवाके यूपच्छेदो वर्णितः। छिन्नस्य यूपस्य स्थापनं षष्ठेऽनुवाके वर्ण्यते। पृथिव्या इति। कल्पः — “ यूप एष प्रक्षालितः प्रपन्नः संपन्नचषालः प्रागवटादुपशेते तमुत्तरेणाऽऽहवनीयं तिष्ठन्पराञ्चं प्रोक्षति पृथिव्यै त्वाऽन्तारिक्षाय त्वा दिवे त्वेति ” इति।
प्रोक्षामीति शेषः। चषालो यूपाग्रे प्रतिमुच्यमानः कटकः।
लोकत्रयाभिमानिदेवताप्रीत्यर्थं प्रोक्षणमित्वाह —
“ पृथिव्यै त्वाऽन्तारिक्षाय त्वा दिवे त्वेत्याहैभ्य एवैनं लोकेभ्यः प्रोक्षति ” [सं॰ का॰ ६ प्र॰ ३ अ॰ ४] इति।
नात्रौदुम्बर्या इवाग्रमारभ्याधोमुखप्रोक्षणं किंतु मूलमारभ्योर्ध्वमुखमिति विधत्ते —
‘ पराञ्चं प्रोक्षति पराङिव हि सुवर्गो लोकः ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
शुन्धतामिति। कल्पः — ‘ अवटेऽपोऽवनयति शुन्धतां लोकः पितृषदन इति, यवान्प्रस्कन्दयति यवोऽसि यवयास्मद्द्वेषो यवयारातीरिति, बर्हिर्हस्तं व्यतिषज्यावस्तृणाति पितृणा सदनसीति ” इति।
यूपस्थापनार्थो योऽवटस्तास्मिन्प्रोक्षणशेषं निनीय यवान्प्रक्षिप्य बर्हिर्मुष्टेरर्धं प्रागग्रमर्धमुदगग्रमित्येवं व्यतिषज्य वर्हिरवस्तृणीयात्।
एतानर्थान्विधत्ते — ‘ क्रूरीमव वा एतत्करोति यत्खनत्यपोऽव नयति शान्त्यै यवमतीरव नयत्यूर्ग्वै यवो यजमानेन यूपः संमितो यावानेव यजमानस्तावतीमेवास्मिन्नूर्जं दधाति पितृणा सदनमसीति ब्रर्हिरव स्तृणाति पितृदेवत्य ह्येतद्यन्निखातं यद्बर्हिरनवस्तीर्य मिनुयात्पितृदेवत्यो निखातः स्याद्बर्हिरवस्तीर्य मिनोत्यस्यामेवैनं मिनोति, ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
यद्यप्यत्र यूपावटखननं नाऽऽम्नातं तथाऽप्यौदुम्बर्यामाम्नातं तस्येहानुवृत्तिमभिप्रेत्य यत्खनतीत्यनूद्यते। तदनुवृत्तये समानविषयत्वं प्रत्यभिज्ञापयितुं तत्र विहितमप्यवनयनादिकं पुनरत्र विधीयते।
स्वावेश इति। कल्पः – “ यूपशकलमवास्यति स्वावेशोऽस्यग्रेगा नेतृणां वनस्पतिरधि त्वा स्थास्यति तस्य वित्तादिति ” इति।
शोभन आवेशो यूपोवस्थितिलक्षणो यस्मिन्प्रथमशकले स स्वावेशः। हे शकल त्वं स्वावेशोऽसि। यूपस्य त्रयो नेतारः प्रथमशकलः स्वरुश्चषालश्चेति। तेषां नेतृणां मध्ये त्वमग्रेगा प्रथमभावी। वनस्पतिरूपो यूपस्त्वामधिष्ठास्यति। तस्य वित्तात्, तं यूपमनुजानीहि।
विधत्ते — “ यूपशकलमवास्यति सतेजसमेवैनं मिनोति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
यत्पूर्वोक्तं स्वधितेर्वृक्षस्य बिभ्यतः प्रथमेन शकलेन सह तेजः परापततीति शकले प्रक्षिप्ते सति तेन तेजसा सहितमेवैनं यूपं स्थापितवान्भवति।
देवस्त्वेति। कल्पः — “ अथ प्रवृह्य चषालं यूपस्याग्रमनक्ति देवस्त्वा सविविता मध्वाऽनक्त्विति ” इति।
मध्वा मधुरेण तेजोरूपेणाऽऽज्येन।
तदिदं दर्शयति — “ देवस्त्वा सविता मध्वाऽनक्त्वित्याह तेजसैवैनमनक्ति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
सुपिप्पलाभ्य इति। कल्पः – “ अन्तरश्च बाह्यतश्च स्वभ्यक्तं कृत्वा चषालं प्रतिमुञ्चति सुपिप्पलाभ्य इति ” इति।
यूपस्याग्रभागः पूर्वमाच्छिन्नो रायः सुवीर इति मन्त्रेण च्छिन्नस्तेन निष्पादितश्चतुरङ्गुलोछ्रितः सच्छिद्रश्चषालः। हे चषाल त्वां यूपाग्रे प्रतिमुञ्चामि। किमर्थम्। शोभनफलसंयुक्तौषध्यर्थम्।
विधत्ते — “ सपिप्पलाभ्यस्त्वौषधीभ्य इति चषालं प्रति मुञ्चति तस्माच्छीर्षत ओषधयः फलं गृह्णन्ति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
यस्मात्फलार्थमग्रे चषालः प्रतिमुक्तस्तमस्माच्छिरस्यग्रे फलग्रहणम्।
विधत्ते — “ अनक्ति तेजो वा आज्यं यजमानेनाग्निष्ठाऽश्रिः संमिता यदग्निष्ठामश्रिमनक्ति यजमानमेव तेजसाऽनक्त्यान्तमनक्त्यान्तमेव यजमानं तेजसाऽनक्ति ” [सं॰ का॰ ६ प्र॰ ३ अ॰ ४ ] इति।
तक्षणेन निष्पादितास्वष्टासु यूपाश्रिषु मध्ये येयमाहवनीयाग्निसमीपे स्थिता साऽग्निष्ठा तामाज्येनानक्ति। तदिदमञ्जनममन्त्रकमिति बौधायनस्य मतम्। अथ स्रुवेणाग्निष्ठामश्रिमभिघारयन्नाह यूपायाज्यमानायानुब्रूहीत्येतावत एवाभिधानात्।
आपस्तम्बस्तु समन्त्रकतामाह – “ देवस्त्वा सविता मध्वाऽनक्त्विति स्रुवेण संततमविच्छिन्दन्नग्निष्ठामश्रिमनक्त्योपरात् ” इति।
अवटे क्षिप्यमाणो मूलभाग उपरम्। मूलतोऽतष्टमुपरमिति।
विधत्ते — “ सर्वतः परि मृशत्यपरिवर्गमेवास्मिन्तेजो दधाति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
यजमाने कमप्यवयवमवर्जयित्वा तेजो दधाति।
अद्दिवमिति। कल्पः – ‘ उच्छ्रयत्युद्दिव स्तभानाऽन्तरिक्षं पृण पृथिवीमुपरेण दृहोति ” इति।
वाक्यत्रयप्रयोजनमाह — “ उद्दिव स्तभानाऽन्तरिक्षं पृणेत्याहैषां लोकानां विधृत्यै ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
बौधायनः — “ अथैनं वैष्णवीभ्यामृग्भ्यां कल्पयति ते ते धामानि विष्णोः कर्माणि पश्यतेति द्वाभ्यां स यत्राग्निष्ठामश्रिमाहवनीये संपादयति तद्यूपस्य चषालं परीक्षयति तद्विष्णोः परमं पद सदा पश्यन्ति सूरयः। दिवीव चक्षुराततमिति ” इति।
आपस्तम्बः — “ ते ते धामानीत्यवटेऽवदधाति विष्णोः कर्माणि पश्यतेति द्वाभ्यामाहवनीयेनाग्निष्ठा संमिनेति ” इति।
आद्यो मन्त्र एवमाम्नातः —
ते ते धामानीति। ते तानि, ते तव धामानि स्थानानि उश्मसि कामयामहे गमध्ये गन्तुं, गावो गन्तारः, भूरिशृङ्गा बहुदीप्तयः, अयासोऽनपायाः, अह, एव। उरगायस्य महात्मभिर्गीयमानस्य, भूरेर्महतः। हे यूपाभिमानिन्विष्णो तव तानि स्थानानि गन्तुं कामयामहे। येषु गन्तारो बहुदीप्तयो वर्तन्ते न कदाचिदपयन्ति। एष्वेव स्थानेषु महात्मभिर्गीयमानस्य महतो विष्णोस्तत्परमं पदमवभाति। तादृशस्थानप्राप्तिहेतवे कर्मणे यूपोऽस्मिन्नवटे तिष्ठतु।
विधत्ते — ‘ वैष्णव्यर्चा कल्पयति वैष्णवो वै देवतया यूपः स्वयैवैनं देवतया कल्पयति ’ (सं॰ का॰ ६ प्र॰ २ अ॰ १०) इति।
ते ते धामानीत्यसौ वैष्णवी। कल्पयति उच्छ्रयेत्।
मन्त्रान्तरं त्वेवमाम्नातम् — विष्णोरिति। हे जना विष्णोः कर्माणि सृष्टिस्थितिसंहारचरितानि पश्यत, यतो यैः कर्मभिर्व्रतानि भवदीयलौकिकवैदिककर्माणि पस्पशे सृष्टवान्निर्मितवान्। स विष्णुरिन्द्रस्य युज्यो योग्यः सखा।
तद्विष्णोरिति। तद्विष्णोरिति मन्त्रस्यायमर्थः — सूरयो विद्वांसो वेदान्तपारंगता विष्णोस्तत्परमं पदं स्वरूपं सदा पश्यन्ति। कीदृशं दिव्याकाशे निरावरणे प्रसृतं चक्षुरिवाऽऽततं व्याप्तम्। तादृशस्य विष्णोरनुग्रहाद्वैष्णवस्य यूपस्याग्निष्ठामश्रिमाहवनीयेन संमितां स्थापयामीत्यर्थः।
अस्मिन्स्थापने विष्णोः कर्माणि तद्विष्णोरिति मन्त्रद्वयं विनियुङ्क्ते —
‘ द्वाभ्यां कल्पयति द्विपाद्यजमानः प्रतिष्ठित्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
ते ते धामानीत्यादीनां त्रयाणां मन्त्राणां पदार्था उपेक्षिताः।
अग्निष्ठाश्रिस्थापने पूर्वपक्षं दर्शयति —
‘यं कामयेत तेजसैनं देवताभिरिन्द्रियेण व्यर्धयेयमित्यग्निष्ठां तस्याश्रिमाहवनीयादित्थं वेत्थं वाऽति नावयेत्तेजसैवैनं देवताभिरिन्द्रियेण व्यर्धयति’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
तक्षणवेलायामष्टास्वश्रिषु कांचिदाश्रिमियमाग्निष्ठेति प्रज्ञातां कुर्यात्। तामश्रिं यूपस्य पश्चिमभागे स्थितादा(तमा)हवनीयमतिलङ्घ्य दक्षिणत उत्तरतो वा नावयेत्प्रापयेत्। तथा सति तेजआदिभिर्व्यर्धयति वियोजयति।
सिद्धान्तं दर्शयति —
‘ यं कामयेत तेजसैनं देवताभिरिन्द्रियेण समर्धयेयमित्यग्निष्ठां तस्याश्रिमाहवनीयेन सं मिनुयात्तेजसैवैनं देवताभिरिन्द्रियेण समर्धयति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति। संमिनुयात्संमुखां स्थापयेत्।
ब्रह्मवनिमिति। कल्पः — ‘ अथैनं प्रदक्षिणं पर्यूहति ब्रह्मवनिं त्वा क्षत्रावनि सुप्रजावनि रायस्पोषवनिं पर्यूहामीति, मैत्रावरुणदण्डेन संहन्ति ब्रह्म दृह क्षत्रं दृह प्रजां दृह रायस्पोषं दृहेति ’ इति।
मन्त्रयोः स्पष्टार्थतां दर्शयति — ‘ब्रह्मवनिं त्वा क्षत्रवनिमित्याह यथायजुरेवैतत्” (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
परिवीरिति। कल्पः — ‘ प्रदक्षिणं परिव्ययति परिवीरसि परि त्वा दैवीर्विशो व्ययन्तां परीम रायस्पोषो यजमानं मनुष्या इति ’ इति।
हे यूप त्वं परिवीरसि परितो रशनया वीतो वेष्टितोऽसि। दैवीर्विशो देवसंबन्धिन्यः प्रजा मरुद्गणादयस्त्वां परितो व्ययन्तां वेष्टयन्तु। तद्वदिमं यजमानं धनपुत्रभृत्यादिमनुष्याश्च परिव्ययन्तु।
अन्तरिक्षस्येति। कल्पः — ‘ स्वरुमादायान्तरिक्षस्य त्वा सानावव गूहामीत्युत्तरेणाग्निष्ठां मध्यमे रशनागुणेऽवगूहति ’ इति।
हे स्वरो त्वामन्तरिक्षलोकमध्यवर्तिनो रशनागुणस्य सानौ पार्श्वेऽवगूढं करोमि मन्त्रयोरर्थ उपेक्षितः।
विधत्ते — ‘ परि व्ययत्यूर्ग्वै रशना यजमानेन यूपः संमिता यजमानमेवोर्जा समर्धयति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
ओषधिविशेषैर्दर्भैरुत्पन्नत्वाद्रशनाया ऊर्ग्रूपत्वम्। तया यूपस्य संबन्धे सति यूपप्रमाणहेतुर्यजमान एवान्नेन समृद्धो भवति। रशनाया मध्यमगुणस्य देशं विधत्ते ‘नाभिदघ्ने परि व्ययति नाभिदघ्न एवास्मा ऊर्जं तधाति तस्मान्नाभिदघ्न ऊर्जा भुञ्जते’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति। अस्मा अस्य यजमानस्य नाभिदघ्न उदर ऊर्जं स्थापयति। ततः सर्वे तत्रोर्जा भुञ्जते भुक्तामूर्जं धारयन्ति।
नाभिदघ्नप्रशंसार्थं निन्द्यं पक्षमुपन्यस्यति — ‘यं कामयेतोर्जैनं व्यर्धयेयमित्यूर्ध्वां वा तस्यावाचीं वाऽवोहेदूर्जैवैनं व्यर्धयति’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
उदरसदृशान्नाभिदघ्नादूर्ध्वमधो वा रशनावेष्टने यजमानमन्नेन वियोजयति।
कामनाभेदेन देशविशेषं विधत्ते — ‘यदि कामयेत वर्षुकः पर्जन्यः स्यादित्यवाचीमवोहद्वृष्टिमेव नियच्छति यदि कामयेतावर्षुकः स्यादित्यूर्ध्वामुदूहेद्वृष्टिमेवाद्यच्छति’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
नाभिदघ्नदेशादवाचीनमधोदेशे बद्धां पुनरप्यवोहेदपकर्षेत्तेन वृष्टिं नियच्छति न्यग्भावेन प्रवर्तयति। ऊर्ध्वप्रदेशे बद्धां पुनरप्युदूहेदुत्कर्षेत्तेन वृष्टिमुद्यच्छति ऊर्ध्वं प्रवर्तयति निवारयतीत्यर्थः।
यूपं सर्वदेवताप्रीतिहेतुतया स्तौति — ‘ पितॄणां निखातं मनुष्याणामूर्ध्वं निखातादा रशनाया ओषधीना रशना विश्वेषां देवानामूर्ध्व रशनाया आ चषालादिन्द्रस्य चषाल साध्यानामतिरिक्त स वा एष सर्वदेवत्यो यद्यूपो यद्यूपं मिनोति सर्वा एव देवताः प्रीणाति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
निखातमुपरं पितॄणां प्रियं, निखातरशनादेशयोर्मध्यं मनुष्याणां रशनादेश ओषधीनां, तद्देशचषालयोर्मध्यं विश्वेषां देवानां चषालदेश इन्द्रस्य, अतिरिक्तं तु साध्यानाम्। तच्च सूत्रे दर्शितम् — ‘ यावदुत्तममङ्गुलिकाण्डं तावदूर्ध्वं चषालाद्यूपस्यातिरिक्तं द्व्यङ्गुलं त्र्यङ्गुलं वा ’ इति।
पुनरपि स्वर्गलोकावगतिहेतुतया यूपं स्तौति —
यज्ञेन वै देवाः सुवर्गं लोकमायन्तेऽमन्यन्त मनुष्या नोऽन्वाभविष्यन्तीति ते यूपेन योपयित्वा सुवर्गं लोकमायन्तमृषयो यूपेनैवानु प्राजानन्तद्यूपस्य यूपत्वं यद्यूपं मिनोति सुवर्गस्य लोकस्य प्रज्ञात्यै ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ४] इति।
देवाः पुरा कदाचिद्यज्ञं कृत्वा तेन यज्ञेन स्वर्गं गच्छन्तो मनुष्या अप्यस्मानन्वागत्यास्मत्सदृशास्ते भविष्यन्तीति मत्वा यूपेन मनुष्यान्योपयित्वा मोहयित्वा स्वयमेव स्वर्गं गताः। यूपः सर्वदेवत्य इत्यज्ञात्वा काष्ठमात्ररूप इति बुद्धिर्मोहः। ऋषयस्तु यूपमाहात्म्यस्यातीन्द्रियस्यापि द्रष्टारस्तेनैव विदिततत्त्वेन यूपेन देवाननु तं स्वर्गं प्रज्ञातवन्तः। तत्तस्मान्मनुष्यमोहनहेतुत्वाद्यूपस्य यूपत्वं यूपनाम संपन्नम्। ‘ यू(यु)प विमोहने ’ इत्यस्माद्धातोर्यूपशब्दो निष्पन्नः। एवं च सति विदतमाहात्म्यस्य यूपस्य स्थापनेन स्वर्गः प्रज्ञायते।
आहवनीयात्पूर्वदेशे यूपस्थापनाय विधत्ते — ‘ पुरस्तान्मिनोति पुरस्ताद्धि यज्ञस्य प्रज्ञायते प्रज्ञात हि तद्यदतिपन्न आहुरिदं कार्यमासीदिति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
अत्र सूत्रम् — ‘अग्रेणाऽऽहवनीयं यूपावटं परिलिखत्यर्धमन्तर्वेद्यर्धं बहिर्वेदि’ इति। विधिवाक्ये पुरस्ताच्छब्दः पूर्वदेशवाची। अर्थवादे तु पूर्वकालवाची। यज्ञस्य संबन्धि यत्कर्तव्यमङ्गजातं तत्सर्वमनुष्ठानात्पूर्वमेव प्रज्ञायते। तथा च ब्राह्मणान्तरे — ‘आ चतुर्थात्कर्मणोऽभिसमीक्षेतेदं करिष्यामीदं करिष्यामि’ इति। यत्तु पूर्वं न ज्ञातं तत्पश्चाद्बुद्धमपि सदज्ञातमेव यस्माल्लोके विस्मरणेनान्यथाकरणेन वा कस्मिंश्चिदनुष्ठेयेऽतिपन्ने विनष्टे सति पश्चात्क्लिश्यन्त आहुरिदं गमनादिकमध्ययनादिकं वा तस्मिन्नेव दिने कार्यमासीन्न चास्माभिस्तदानीं प्रज्ञातमिति। तस्मात्पूर्वकालस्य प्रज्ञानार्हत्वेन प्रशस्तत्वात्पूर्वदेशोऽपि पूर्वत्साम्येन प्रशस्तः।
यदुक्तं चषालादतिरिक्तं साध्यानामिति तत्समर्थ्यते —
“ साध्या वै देवा यज्ञमत्यमन्यन्त तान्यज्ञो नास्पृशत्तान्यद्यज्ञस्यातिरिक्तमासीत्तदस्पृशदतिरिक्तं वा एतद्यज्ञस्य यदग्नावग्निं मथित्वा प्रहरत्यतिरिक्तमेतद्यूपस्य यदूर्ध्वं चषालत्तेषां तद्भागधेयं तानेव तेन प्रीणाति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
साध्यनामका देवाः पुरा यज्ञं क्लृप्तं यज्ञभागमतिलङ्घ्याधिको भागोऽस्माकमस्त्वित्यमन्यन्त। तानधिकं लिप्समानान्यज्ञो नास्पृशत्। तर्हि किमस्पृशत्। यद्यज्ञस्यातिरिक्तमिहाऽऽसीत्तत्तानस्पृशत्। किमतिरिक्तम्। यदग्नावग्निं मथित्वा प्रहरणमस्ति एतदन्ययज्ञेऽभावादिहातिरिक्तम्। यदपि चषालादूर्ध्वं यूपाग्रमेतदपि यजमानपरिमाणादधिकत्वादतिरिक्तम्। तदुभयं साध्यानां प्रीतिहेतुः।
यूपप्रसङ्गात्स्वकाले स्वरुहोमं विधत्ते —
‘ देवा वै सस्थिते सोमे प्र स्रुचोऽहरन्प्र यूपं तेऽमन्यन्त यज्ञवेशसं वा इदं कुर्म इति ते प्रस्तर स्रुचां निष्क्रयणमपश्यन्त्स्वरुं यूपस्य सस्थिते सोमे प्र प्रस्तर हरति जुहोति स्वरुमयज्ञवेशसाय ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ४) इति।
पुरा देवाः समाप्ते सोमयज्ञे स्रुचो यूपं चाग्नौ प्राहरन्नग्नौ प्रहर्तुं संकल्पितवन्तः। ततो यज्ञविनाशो मा भूदिति विचार्य प्रस्तरेण स्रुचः स्वरुणा यूपं च निष्क्रीतवन्तः। तस्मात्सोमसमाप्तौ प्रस्तरमग्नौ प्रहरेत्स्वरुं च जुहुयात्। स्वरुर्यूपतक्षणे प्रथमः शकलः। तथा च सूत्रम् —
‘ अवतक्षणानां स्वरुमधिमन्थनशकलम् ’ इति।
अत्र विनियोगसंग्रहः —
‘ पृथिषट्कं पुरेवात्र स्वावे प्रथमपातितम्।
शकलं चावटे क्षिप्त्वा देवोऽग्निष्ठाश्रिकाञ्चनम् ॥१॥
सुप्यारोपश्चषालाग्रे ह्युद्दि यूपं समुच्छ्रयेत्।
ते तेऽवटे क्षिपेद्विष्णोर्द्वाभ्यां यूपस्य कल्पनम् ॥२॥
ब्रह्मद्वयं गतं यूपो [पे] रज्ज्वा संवेष्टनं परि।
अन्त स्वरुं तत्र गूहेदिति सप्तदशेरिताः ॥३॥ ” इति।
तृतीयाध्यायस्य सप्तमपादे चिन्तितम् —
अन्तर्वेदि मिनोत्यर्धं यूपाङ्गमुत लक्षयेत्।
देशं यूपाङ्गभावेन वेदिभागोऽत्र चोद्यते॥
बहिर्वेद्यर्धमित्येतद्वाक्यं भिद्येत तद्विधौ।
मीयमानस्य यूपस्य तावान्देशोऽत्र लक्ष्यते ” इति॥
अग्नीषोमीये पशौ यूपं मिनोतीति प्रकृत्य श्रूयते — ‘अर्धमन्तर्वेदि मिनोत्यर्धं बहिर्वेदि ’ इति।
यूपं स्थापयितुं कियाद्विस्तारवानवटोऽपेक्षित इति बुभुत्सायां तन्निर्णयायैतन्मूलस्य स्थौल्यमङ्गुल्यादिभिर्मातव्यम्। तस्य च मीयमानस्य वेद्यभ्यन्तरभागोऽङ्गत्वेन विधीयत इति चेन्मैवम्। यथा संस्कृतो वेद्यभ्यन्तरभागोऽधर्मन्तर्वेदीत्यनेन वाक्येन विधीयते तद्वदसंस्कृतो वेदिबहिर्भागोऽप्यर्धं बहिर्वेदीत्यनेन वाक्येन विधातव्यः। ततो वाक्यं भिद्येत। यदा तु वेदेरभ्यन्तरबाह्यभागाभ्यामुपलक्षितोऽसंस्कृतो लौकिको देशो मीयमानयूपोचितो विधीयते तदा नास्ति वाक्यभेदः। तस्माल्लौकिकदेश एवात्र यूपाङ्गत्वेन विधीयते न तु संस्कृतवेदिभागः।