अनुवाकः 2 TS 1.3.2

(A2)

( ह॒न्ते-न्द्रा॑य॒ द्वे च॑ )

अनुवाकः 2 - Complete Audio

TS 1.3.2 - स्वरानुगामी

0:00 0:00
PS1.1 र॒क्षो॒हणो॑ वलग॒हनो॑ वैष्ण॒वान् ख॑नामी॒दम॒हं
PS1.2 तं ॅव॑ल॒गमुद्व॑पामि॒ यं नः॑
PS1.3 समा॒नो यमस॑मानो निच॒खाने॒दमे॑न॒मध॑रं करोमि॒
PS1.4 यो नः॑ समा॒नो योऽस॑मानोऽराती॒यति॑
PS1.5 गाय॒त्रेण॒ छन्द॒साऽव॑बाढो वल॒गः किमत्र॑
PS1.6 भ॒द्रं तन्नौ॑ स॒ह वि॒राड॑सि
PS1.7 सपत्न॒हा स॒म्राड॑सि भ्रातृव्य॒हा स्व॒राड॑स्यभिमाति॒हा
PS1.8 वि॑श्वा॒राड॑सि॒ विश्वा॑सां ना॒ष्ट्राणाꣳ॑ ह॒न्ता
PS1.9 - [ ]
PS2.1 र॑क्षो॒हणो॑ वलग॒हनः॒ प्रोक्षा॑मि वैष्ण॒वान्
PS2.2 र॑क्षो॒हणो॑ वलग॒हनोऽव॑ नयामि वैष्ण॒वान्
PS2.3 यवो॑ऽसि य॒वया॒स्मद् द्वेषो॑ य॒वयारा॑ती
PS2.4 रक्षो॒हणो॑ वलग॒हनोऽव॑ स्तृणामि वैष्ण॒वान्
PS2.5 र॑क्षो॒हणो॑ वलग॒हनो॒ऽभि जु॑होमि वैष्ण॒वान्
PS2.6 र॑क्षो॒हणौ॑ वलग॒हना॒वुप॑ दधामि वैष्ण॒वी
PS2.7 र॑क्षो॒हणौ॑ वलग॒हनौ॒ पर्यू॑हामि वैष्ण॒वी
PS2.8 र॑क्षो॒हणौ॑ वलग॒हनौ॒ परि॑ स्तृणामि
PS2.9 वैष्ण॒वी र॑क्षो॒हणौ॑ वलग॒हनौ॑ वैष्ण॒वी
PS2.10 बृ॒हन्न॑सि बृ॒हद्ग्रा॑वा बृह॒तीमिन्द्रा॑य॒ (
PS2.11 ) वाचं॑ ॅवद

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.3.2.1 TS 1.3.2.1
र॒क्षो॒हणो॑ वलग॒हनो॑ वैष्ण॒वान् ख॑नामी॒दम॒हं तं ॅव॑ल॒गमुद्व॑पामि॒ यं नः॑ समा॒नो यमस॑मानो निच॒खाने॒दमे॑न॒मध॑रं करोमि॒ यो नः॑ समा॒नो योऽस॑मानोऽराती॒यति॑ गाय॒त्रेण॒ छन्द॒साऽव॑बाढो वल॒गः किमत्र॑ भ॒द्रं तन्नौ॑ स॒ह वि॒राड॑सि सपत्न॒हा स॒म्राड॑सि भ्रातृव्य॒हा स्व॒राड॑स्यभिमाति॒हा वि॑श्वा॒राड॑सि॒ विश्वा॑सां ना॒ष्ट्राणाꣳ॑ ह॒न्ता - [ ]
पदपाठः (Word-by-word)
र॒क्षो॒हण॒ इति॑ रक्षः - हनः॑ । व॒ल॒ग॒हन॒ इति॑ वलग - हनः॑ । वै॒ष्ण॒वान् । ख॒ना॒मि॒ । इ॒दम् । अ॒हम् । तम् । व॒ल॒गमिति॑ वल - गम् । उदिति॑ । व॒पा॒मि॒ । यम् । नः॒ । स॒मा॒नः । यम् । अस॑मानः । नि॒च॒खानेति॑ नि - च॒खान॑ । इ॒दम् । ए॒न॒म् । अद्ध॑रम् । क॒रो॒मि॒ । यः । नः॒ । स॒मा॒नः । यः । अस॑मानः । अ॒रा॒ती॒यति॑ । गा॒य॒त्रेण॑ । छन्द॑सा । अव॑बाढ॒ इत्यव॑ - बा॒ढः॒ । व॒ल॒ग इति॑ वल - गः । किम् । अत्र॑ । भ॒द्रम् । तत् । नौ॒ । स॒ह । वि॒राडिति॑ वि - राट् । अ॒सि॒ । स॒प॒त्न॒हेति॑ सपत्न - हा । स॒म्राडिति॑ सम् - राट् । अ॒सि॒ । भ्रा॒तृ॒व्य॒हेति॑ भ्रातृव्य - हा । स्व॒राडिति॑ स्व - राट् । अ॒सि॒ । अ॒भि॒मा॒ति॒हेत्य॑भिमाति - हा । वि॒श्वा॒राडिति॑ विश्व - राट् । अ॒सि॒ । विश्वा॑साम् । ना॒ष्ट्राणा᳚म् । ह॒न्ता ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमाष्टके तृतीयप्रपाठके द्वितीयोऽनुवाकः)।

प्रथमेऽनुवाके सदोनिर्माणमुक्तम्। एतावता षट्त्रिंशता पदैः परिमितायां महावेद्यां निर्मातव्यानि उत्तरवेदिहविर्धानसदांसि संपन्नानि। तस्याश्च महावेद्या उत्तरदक्षिणभागस्थयोराग्नीध्रीयमार्जालीययोर्मन्त्रा न सन्त्यतो निर्मितेषु स्थानेष्वभ्यन्तरे यदन्यत्समन्त्रकं निर्मातव्यं भवति तदभिधेयम्। तत्रोत्तरवेद्यां सर्वस्याभिहितत्वाद्धविर्धानाभ्यन्तर उपरवा द्वितीयानुवाक उच्यन्ते।

रक्षोहण इति। कल्पः — “दक्षिणस्य हविर्धानस्याधस्तात्पुरोक्षं चतुर उपरवानवान्तरदेशेषु प्रादेशमुखान्प्रादेशान्तरालान्करोति रक्षोहणो वलगहनो वैष्णवान्खनामीति खनति” इति।

विष्णुर्देवता येषामुपरवाणां ते वैष्णवाः। जीर्णकटपटादिखण्डबद्धा अस्थिनखरोमपादपांसुप्रभृतयो विरोधिनां मारणार्थं ये भूमौ निखन्यन्ते ते वलगास्तान्घ्नन्तीति वलगहनः। रक्षांसि घ्नन्तीति रक्षोहणः। तादृशानुपरवनामकान्गर्तान्खनामि।

विधत्ते —

‘शिरो वा एतद्यज्ञस्य यद्धविर्धानं प्राणा उपरवा हविर्धाने खायन्त तस्माच्छीर्षन्प्राणाः’ (सं. का. ६ प्र. २ अ. ११) इति।

उपरवबिलानां श्रोत्रनासिकादिच्छिद्रगतप्राणस्थानीयत्वाच्छिरःस्थानीये हविर्धाने खननं युक्तम्।

विधत्ते —

‘अधस्तात्खायन्ते तस्मादधस्ताच्छीष्णेः’ [सं. का. ६ प्र. २ अ. ११] इति।

यस्माद्धविर्धानस्याधोभागे भूमावुपरवास्तस्माल्लोकेऽपि शिरस्यूर्ध्वकपालदध एव प्राणसंचारः।

वैष्णवानिति तद्धितो देवतावाचीत्याह —

‘रक्षोहणो वलगहनो वैष्णवान्खनामीत्याह वैष्णवा हि देवतयोपरवाः’ (सं. का. ६ प्र. २ अ. ११) इति।

वितस्तित्रयप्रमाणं विधत्ते –

‘असुरा वै निर्यन्तो देवानां प्राणेषु वलगान्न्यखनन्तान्बाहुमात्रेऽन्वविन्दन्तस्माद्बाहुमात्राः खायन्ते’ (सं. का. ६ प्र. २ अ. ११) इति।

निर्यन्तः पलायनोद्युक्ताः। प्राणविनाशनिमित्तम्। न्यखनन्निति नितरां भूमावन्तर्धापितवन्तः।

इदमहमिति। बौधायनः — ‘अथैभ्यः पांसूनुद्वपतीदमहं तं वलगमुद्वपामि यं नः समानो यमसमानो निचखानेदमेनमधरं करोमि यो नः समानो योऽसमानोऽरातीयति गायत्रेण छन्दसाऽवबाढो वलग इति” इति।

आपस्तम्बो मन्त्रभेदमाह — ‘इदमहं तं वलगमुद्वपामीत्युदुप्योपरवाः खन्यन्तेऽवबाधते गायत्रेण छन्दसाऽवबाढो वलग इति” इति।

अस्मान्विनाशयितुं विद्यावित्तसौभाग्यादिभिः समानोऽसमानो वा यं वलगं निचखान तं वलगमहमिदमुद्वपामि। किंचास्मानुद्दिश्य समानोऽसमानो वा यः कोऽप्यरातिवदाचरति एनमिदमधरं यजमानपादस्याधोवर्तिनं करोमि।

गायत्रच्छन्दोभिमानिदेवेन वलगोऽवबाधितः। अशेषशात्रुसंग्रहाय समानासमानशब्दावुभावप्युपादेयावित्याह —

‘इदमहं तं वलगमुद्वपामि यं नः समानो यमसमानो निचखानेत्याह द्वौ वाव पुरुषौ यश्चैव समानो यश्चासमानो यमेवास्मै तौ वलगं निखनतस्तमेवोद्वपति” (सं. का. ६ प्र. २ अ. ११) इति।

चतुर्णामुपरवाणामधस्तादेकीकरणं विधत्ते —

‘सं तृणत्ति तस्मात्संतृण्णा अन्तरतः प्राणाः’ (सं. का. ६ प्र. २ अ. ११) इति।

प्राणापानचक्षुःश्रोत्रादयः सर्वेऽपि शरीरस्याभ्यन्तरे हृद्येकीभूय वर्तन्ते।

तदुपरि चतुर्णां पृथक्करणं विधत्ते —

‘न सं भिनत्ति तस्मादसंभिन्नाः प्राणाः’ (सं. का. ६ प्र. २ अ. ११) इति।

संभेद एकीभावस्तं न कुर्यात्। प्राणाश्च बहिः स्वस्वगोलकेषु तिष्ठन्तो नैकी भवन्ति।

किमत्रेति। कल्पः — ‘दक्षिणपूर्वं यजमानोऽवमृशति, उत्तरापरमध्वर्युरथ यजमानः पृच्छति अध्वर्यो किमत्रेति, भद्रामितीतरः प्रत्याह, तन्नौ सहेत्युक्त्वा’ इति। अध्वर्यो, इत्यध्याह्रियते। अत्रोपरवेष्वस्मदुपयुक्तं किमस्तीति प्रश्नः। भद्रं सोमाभिषवद्वारेण भजनीयं सर्वमस्तीत्युत्तरम्। तद्भमावयोः सह भवेदिति यजमानोक्तिः।

विराडिति। कल्पः — ‘अथैनानभिमृशति विराडसि सपत्नहा सम्राडसि भ्रातृव्यहा स्वराडस्यभिमातिहा विश्वाराडसि विश्वासां नाष्ट्राणा हन्तेति’ इति।

दक्षिणपूर्वमुपक्रम्य प्रदक्षिणक्रमेण चतुर्षु चत्वारो मन्त्राः। विविधं राजते सम्यग्राजते स्वयमेव राजते विष्वेषु राजत इति विराडादयः। विरुद्धेन्द्रियवृत्तिरान्तरः शत्रुः। ततो बाह्यो विरुद्धजातिः। ततोऽपि बाह्यो ग्रामसीमादौ विवदमानोऽन्यगोत्रजः। ततोऽपि बाह्याः परराष्ट्रसेनाः सर्वनाशहेतवः। एतच्चतुष्टयं सपत्नादिशब्दैर्विवक्षितम्।

रक्षोहण इति। कल्पः — ‘अथैनानद्भिः प्रोक्षति रक्षोहणो वलगहनः प्रोक्षामि वैष्णवानिति सर्वानेवानुपूर्वमथैतेष्वपोऽवनयति रक्षोहणो वलगहनोऽवनयामि वैष्णवानिति सर्वेष्वनुपूर्वमथैतेषु यवान्प्रस्कन्दयति यवोऽसि यवयास्मद्द्वेषो यवयारातीरिति सर्वेष्वनुपूर्वमथैनान्बर्हिषाऽवस्तृणाति रक्षोहणो वलगहनोऽव स्तृणामि वैष्णानिति सर्वानेवानुपूर्वमथैनान्हिरण्यमन्तर्धाय स्रुवाहुत्याऽभिजुहोति रक्षोहणो वलगहनोऽभि जुहोमि वैष्णवानिति सर्वानेवानुपूर्वम्’ इति।

किमत्रेत्यादिमन्त्रा उपेक्षिताः।

प्रोक्षणशेषस्य जलस्योपरवदेशेऽवनयनं विधत्ते —

‘अपोऽव नयति तस्मादार्द्रा अन्तरतः प्राणाः’ (सं. का. ६ प्र. २ अ. ११) इति।

मुखनासिकाचक्षुरादिगोलकेषु द्रवदर्शनात्प्राणानामार्द्रत्वम्।

अवनीते जले यवप्रक्षेपं विधत्ते —

‘यवमतीरव नयत्यूर्ग्वै यवः प्राणा उपरवाः प्राणेष्वेवोर्जं दधाति’ (सं. का. ६ प्र. २ अ. ११) इति।

या अपोऽवनयति ता यवयुक्ताः कुर्यादिति योजना।

उपरवेषु दर्भप्रक्षेपणं विधत्ते —

‘बर्हिरव स्तृणाति तस्माल्लोमशा अन्तरतः प्राणाः’ (सं. का. ६ प्र. २ अ. ११) इति।

अक्षिपक्ष्मनासिकादिषु लोमदर्शनाल्लोमशत्वम्।

होमं विधत्ते —

‘आज्येन व्याघारयति तेजो वा आज्यं प्राणा उपरवाः प्राणेष्वेव तेजो दधाति’ (सं. का. ६ प्र. २ अ. ११) इति।

रक्षोहणाविति। कल्पः — ‘अथास्यैते फलके दीर्घसोमे संतृण्णे भवतोऽसंतृण्णे एकाहे ते संसृष्टे उपदधाति रक्षोहणौ वलगहनावुप दधामि वैष्णवी इत्यथैने शङ्कुभिः परिणिहन्ति द्वाभ्यां पुरस्ताद्द्वाभ्यां पश्चाद्द्वाभ्यामभितोऽनवसर्पणाय प्रदक्षिणं पुरीषेण पर्यूहति रक्षोहणौ वलगहनौ पर्यूहामि वैष्णवी इत्यथैनं बर्हिषा परिस्तृणाति रक्षोहणौ वलगहनौ परि स्तृणामि वैष्णवी इत्यथैने अभिमृशति रक्षोहणौ वलगहनौ वैष्णवी इति’ इति।

फलकविशेषविवक्षया रक्षोहणाविति पुंलिङ्गनिर्देशः। हनूत्वेन ब्राह्मणे निरूप्यमाणत्वाद्वैष्णवी इति स्त्रीलिङ्गनिर्देशः।

बृहन्निति। कल्पः — ‘अथैने चर्मफलकयोः प्राचीनग्रीवमत्तरलोमोपस्तृणाति यज्ञं प्रतिष्ठेति वा तूष्णीं वा तिरश्चर्मफलके ग्राव्णोद्वादयति बृहन्नसि बृहद्ग्रावा बृहतीमिन्द्राय वाचं वदेति’ इति।

उद्वादयति पाषाणेन फलके शब्दं जनयेत्। हे पाषाण त्वं वीर्येण बृहन्महानसि। किंच बृहन्तोऽवयवभूता ग्रावाणो यस्य स च त्वं बृहद्ग्रावाऽसि। इन्द्रार्थमिन्द्रो यथा शृणोति तथा बृहतीमुच्चध्वनिमस्मद्यज्ञविषयां वाचं वद। त एते मन्त्रा उपेक्षिताः।

फलकयोरत्यन्तसंश्लेषं निषेधति —

‘हनू वा एते यज्ञस्य यदधिषवणे न सं तृणत्त्यसंतृण्णे हि हनू’ [सं. का. ६ प्र. २ अ. ११] इति।

हनू मुखस्याऽऽधारफलके सोमाभिषवाधारफलके। संतर्दनं रज्जुबन्धनादिना दृढसंश्लेषस्तमत्र न कुर्यात्।

तद्द्विरात्रादौ प्रसङ्गाद्विधत्ते –

‘अथो खलु दीर्घसोमे संतृद्ये धृत्यै’ (सं. का. ६ प्र. २ अ. ११) इति। आवृत्तत्वात्सोमस्य दीर्घत्वम्। अभिषवबाहुल्याद्दार्ढ्यार्थं तत्र संतर्दनम्।

अथ रूपकेणोपरवान्प्रशंसन्प्रसङ्गात्सनिमित्तं सदसि सोमभक्षणं विधत्ते —

‘शिरो वा एतद्याज्ञस्य यद्धविर्धानं प्राणा उपरवा हनू अधिषवणे जिह्वा चर्म ग्रावाणो दन्ता मुखमाहवनीयो नासिकोत्तरवेदिरुदर सदो यदा खलु वै जिह्वया दत्स्वधि खादत्यथ मुखं गच्छति यदा मुखं गच्छत्यथोदरं गच्छति तस्माद्धविर्धाने चर्मन्नधि ग्रावभिषुत्याऽऽहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्ति’ [सं. का. ६ प्र. २ अ. ११] इति।

अत्राभिषवहोमौ विधेयस्य भक्षणस्य निमित्तम्।

पुनरप्युपरवस्तुत्यै प्रकारान्तरेण रूपकं परिकल्प्य तद्वेदनं प्रशंसति —

‘यो वै विराजो यज्ञमुखे दोहं वेद दुह एवैनामियं वै विराट्तस्यै त्वक्चर्मोधोऽधिषवणे स्तना उपरवा ग्रावाणो वत्सा ऋत्विजो दुहन्ति सोमः पयो य एवं वेद दुह एवैनाम्’ (सं. का. ६ प्र. २ अ. ११) इति।

अग्निष्टोमे द्वादशसु स्तोत्रेषु विद्यमाना ऋच आवर्त्यमानाः सत्यो नवतिः संपद्यन्ते। तत्र नवसु दशकेषु प्रत्येकं विराट्छन्दोऽक्षरसंख्याऽस्तीत्ययं यज्ञो विराडित्युच्यते। एतदेवाभिप्रेत्य सप्तमकाण्डस्य प्रथमानुवाके समाम्नायते ‘विराजमभिसंपद्यते’ इति। सोऽयं यज्ञो विराडत्र कामधेनुत्वेन निरूप्यते। इयं च महावेदिरेव विराडाख्या धेनुस्तस्या धेनोर्या त्वक्तदिदमास्तृतं चर्म। ऊध आपीनभारः। तद्रूपं फलकद्वयम्। एवमन्यद्योज्यम्। परेद्युः कर्तव्यस्य यज्ञस्यायं कल्पः प्रारम्भोऽन्तःपातित्वान्मुखं, तस्मिन्मुखे विराजो धेनोर्दोहनप्रकारं यो वेद स एनां कामधेनुं सर्वथा दुग्धे। य एवं वेद दुह एवैनामिति पुनर्वचनमुपसंहारार्थम्। सेयमुपरवप्रशंसेति केचित्। स्वतन्त्रोपास्तिविधिरित्यन्ये। यथा सप्तमकाण्डान्तेऽश्वमेधप्रकरणे — ‘उषा वा अश्वस्य मेध्यस्य शिरः’ इति स्वतन्त्रोपास्तिराम्नाता तद्वत्। तस्याश्च स्वातन्त्र्यं बृहदारण्यकस्याऽऽदौ विस्पष्टम्। एतादृशानां वाक्यानां कर्मप्रकरणादुत्कर्ष उत्तरमीमांसायां गुणोपसंहारे मनश्चिदाद्यधिकरणे निर्णीतः। तस्मात्दुत्कर्षे स्वातन्त्र्यमनुत्कर्षे तु स्तुतित्वेनोपरववाक्याङ्गत्वमित्याकारद्वयमभ्युपेयम्। अवेष्टेश्चातुर्मास्यानां च राजसूयान्तःप्रयोगबहिष्प्रयोगो(गौ) यथा तद्वदेतद्द्रष्टव्यम्।

अत्र विनियोगसंग्रहः —

“खनेदुपरवान्रक्ष इदं तन्मृदमुद्वपेत्।

गाय तत्रावबाधेत किं स्वामी पृच्छतीतरः॥१॥

भद्रमित्याह तन्नावित्याह स्वामीतरं प्रति।

विराट्चतुर्भिः संस्पर्शो रक्षः पञ्चस्फुटक्रिया॥२॥

रक्षोऽधिषवणाख्ये तु फलके स्थापयेत्तथा।

पर्युह्य परितः स्तृत्वा मन्त्रयेच्च बृहन्निति॥

उपांशु सवनाश्मानं सा(नेऽश्मना वा)दयेद्विंशतिर्मता॥३॥’ इति॥

अथ मीमांसा।

तृतीयाध्यायस्याष्टमपादे चिन्तितम् —

‘भद्रं तन्नौ सहेत्येतत्कस्मिन्स्वामिनि युज्यते।

द्वित्वश्रुत्या भवेदेतदध्वर्युयजमानयोः’ इति॥

ज्योतिष्टोमे हविर्धानमण्डपे सोपाभिषवाधारयोः फलकयोरधस्ताच्चतसृष्वाग्नेय्यादिविदिक्षु चत्वार उपरवनामका गर्ता बाहुमात्रखाता अधोभागे परस्परमिलिता ऊर्ध्वभागे परस्परं प्रादेशमात्रव्यवहिता वर्तन्ते। तेष्वेकस्मिन्नुपरवे यजमानो दक्षिणहस्तं प्रसारयति। तथैवाध्वर्युरन्यस्मिन्स्वहस्तं प्रसार्याधस्ताद्यजमानहस्तं गृह्णाति। तदा यजमानः किमत्रेत्यनेन मन्त्रेण फलं पृच्छति। अध्वर्युश्च भद्रमित्यनेन मन्त्रेणोत्तरं ब्रूते। ततो यजमानस्तन्नौ सहेत्यनेन मन्त्रेण तत्फलं स्वकीयत्वेन स्वी करोति। तस्माद्यजमानस्यैतदिति चेन्मैवम्। नावित्यनेन द्विवचनेन सहेत्यनेन चोभयगामितयैव स्वीकारात्।

तत्रैव तृतीयपादे चिन्तितम् —

‘संतृद्ये दीर्घसोमे तत्प्रकृतौ विकृतावुत।

दीर्घस्य सोम इत्युक्तेः प्रकृतावस्तु तर्दनम्॥

सामानाधिकरण्यस्य षष्ठीतो बलवत्त्वतः।

दैर्घ्ययुक्तेऽन्य(क्तोक्थ्य)संस्थादावुत्कर्षोऽन्यत्र बाधनात्’ इति॥

ज्योतिष्टोमे श्रूयते — ‘दीर्घसोमे संतृद्ये धृत्यै’ इति। सोम-

यागविशेषो दीर्घसोमः। तस्मिन्सोमाभिषवाधारयोरधिषवणफलकयोः संतर्दनं कार्यम्। अन्योन्यवियोगेन शैथिल्यं मा भूदिति दृष्टसंश्लेषः संतर्दनम्। तदेतत्प्रकरणबलात्प्रकृतौ विनिविशते। न च तत्र दीर्घसोमत्वानुपपत्तिः। दीर्घस्य सोम इत्येवं दीर्घत्वस्य यजमानविशेषणत्वेनाप्युपपत्तेरिति प्राप्ते ब्रूमः — षष्ठीसमासात्कर्मधारयो बलीयानिति वक्ष्यते। तथा सति दीर्घत्वं सोमस्य धर्मो न तु यजमानस्य। नन्वेवमपि प्रकृतिभूतस्य सोमस्येष्टिपश्वपेक्षया दीर्घत्वमस्त्येवेति चेन्न। सोमशब्देनैव तदवगतौ दीर्घशब्दवैयर्थ्यात्। न हीष्टिपश्वपेक्षया ह्रस्वः कश्चित्सोमोऽस्ति यस्य व्यावृत्तये दीर्घशब्दः प्रयुज्येत। तस्मात्प्रकृतिरूपं ह्रस्वसोमं व्यावर्तयितुमयं दीर्घशब्दः। विकृतिषूक्थ्यादिषु ग्रहाधिक्येन दीर्घत्वम्। तस्माद्वाक्येन प्रकरणं बाधित्वा विकृतिषु तन्निवेशः प्रकृतौ तु दीर्घशब्दस्य बाधः पूर्वमुक्तः। संतर्दनबाधश्च साक्षाच्छ्रूयते — “हनू वा एते यज्ञस्य यदधिषवणे न संतृणत्त्यसंतृष्णे हि हनू” इति। तस्मान्न प्रकृतौ निवेशः।

तत्रैव पञ्चमपादे चिन्तितम् —

“आख्यावचोवषट्कारा एव किं भक्षहेतवः।

किंवाऽभिषवहोमौ च तत्राऽऽद्योऽस्तूक्तया दिशा॥

हविर्धानेऽभिषुत्याथ हुत्वा सदसि भक्षयेत्।

इति श्रुतत्वतस्तौ च भक्षहेतू यथेतरे” इति॥

प्रैतु होतुश्चमस इत्यत्र समाख्या भक्षहेतुः, हारियोजनवाक्यं, वषट्कर्तुः प्रथमभक्ष इत्यत्र वषट्कार इत्येवमुक्तत्वात्त्रय एव इति चेन्मैवम्। “हविर्धाने (चर्मन्नधि) ग्रावभिरभिषुत्याऽऽहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्ति” इति श्रूयते। उत्तरवेद्याः प्रतीचीने सदसः प्राचीने मण्डपेऽभिषवः। उत्तरवेद्यां होमः। सदसि भक्षणम्। तत्राभिषवहोमयोर्वचनान्तरप्राप्तयोरभि(वि)धेयतया तौ निमित्तत्वेनानूद्य भक्षणं विधीयते। तस्मात्समाख्यादिवदेतयोरपि [भक्ष]हेतुत्वमस्ति।

षष्ठाध्यायस्य चतुर्थपादे चिन्तितम् —

“अभिषुत्य ततो हुत्वा खादेदेकैकहतुना(ता)।

संहत्य वा निमित्तोक्तौ साहित्याविधितोऽग्रिमः॥

होमाभिषवकर्ताऽत्र भक्षाङ्गत्वेन चोद्यते।

निमित्तताऽऽर्थिकी तस्मात्साहित्यं हेतुगं मतम्’ इति॥

ज्योतिष्टोमे श्रूयते — ‘हविर्धाने चर्मन्नधि ग्रावभिरभिषुत्याऽऽहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्ति’ इति। तत्राभिषवहोमयोरकैक एव भक्षहेतुः। साहित्यस्याविधेयत्वात्। अभिषवहोमावत्र निमित्तत्वेनोच्येते। तत्र साहित्यविधौ वाक्यं भिद्येत। अभिषवहोमौ भक्षहेतू। तौ च सहितावित्येवं तद्भेदः। तस्मात्साहित्यस्याविधेयत्वादभिषवहोमयोः प्रत्येकं भक्षणनिमित्तत्वमिति प्राप्ते ब्रूमः – नात्र निमित्तमुपन्यस्यते, किंतु होमाभिषवयोः कर्ता भक्षणं प्रत्यङ्गत्वेन पूर्वमप्राप्तत्वाद्विधीयते। तथा सत्यभिषवहोमयोर्यन्निमित्तत्वं प्रतीयते तदार्थिकमिति वाक्यभेददोषाभावात्साहित्यं प्रतीयमानं विवक्षितमिति सहितयोरेव तयोर्निमित्तत्वम्।

अत्र सर्वेषां यजुष्ट्वान्नास्ति च्छन्दः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे तृतीयप्रपाठके द्वितीयोऽनुवाकः॥२॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)

उपरवान्खनति पूर्वयोर्दक्षिणमेवाग्रे - रक्षोहण इति ॥ हन्तेः 'बहुलं छन्दसि' इति क्विप्, 'एकाजुत्तरपदे णः' इति णत्वम् । 'सर्वे विधयस्छन्दसि विकल्प्यन्ते' इत्युपधालोपो न क्रियते । कृदुत्तरपदप्रकृतिस्वरत्वम् । वलो नामासुरमुख्यः, तद्गामिनस्तद्भृत्या वलगाः । यद्वा - वृणोतीति वलो मेघः । कपिलकादित्वाल्लत्वम् । स इव छादयन्तो ये गच्छन्ति ते वलगाः असुरविशेषाः । यद्वा - जीर्णकटपटादिखण्डसम्भृताः अस्थिनखरोम पादपांसुप्रभृतयः प्राणिनां मारणार्थं ये भूमौ निखन्यन्ते ते वलगाः । ते हि प्राणिनां बाधकतया वलगामिनो वलवल्लक्ष्या भवन्ति । 'अन्यत्रापि दृश्यते' इति गमेर्डः । तेषां हन्तारो वलगहनः । इर्दृशान्विष्णुदेवत्यानुपरवान् खनामि । 'वैष्णवा हि देवतयोपरवाः' इति ब्राह्मणम् । देवानां नासिकादिप्रास्थानीया उपरवाः । 'शिरो वा एतद्यज्ञस्य यद्धविर्धानं प्राणा उपरवाः' इति ब्राह्मणम् । ते च खन्यमाना रक्षांसि वलगांश्च निघ्नन्तीति । 'असुरा वै निर्यन्तः' इति ब्राह्मणम् ॥

2 पांसूनुद्वपति - इदमहमिति ॥ इदमिति क्रियाविशेषणम् । तं वलगमहमिदमुद्वपामि उद्धृत्य बहिः प्रक्षिपामि । कमित्याह – नः अस्माकं समानस्तुल्यः यं वलगं निचखान । 'तिङि चोदात्तवति' इति गतेरनुदात्तत्वम् । उदात्तवता तिङा' इति समासः । य चास्माकमसमानः अतुल्यः ऊनः उत्कृष्टो वा वलग निचखान, तमुद्वपामीति । 'द्वौ वाव पुरुषौ यश्चैव समानो यश्चासमानः' इत्यादि ब्राह्मणम् । किञ्च – एनमहमधरं अधोगतिं करोमि । इदमिति पूर्ववत्क्रियाविशेषणम् । कमित्याह - योस्माकं समानो यश्चासमानो जनः अरातीयति अरातिरिवाचरति । यद्वा - अस्मानरातीयति यस्समानोसमानो वा । 'उपमानादाचारे' इति क्यच् । गायत्रेण छन्दसा उद्वपामि । गायत्र्येव गायत्रम् । 'छन्दसः प्रत्ययविधाने नपुंसके स्वार्थ उपसङ्ख्यानम्' इत्यण्प्रत्ययः । एवं दक्षिणपूर्वमारभ्य सवेर्भ्य उद्वपति । त्रैष्टुभेन जागतेनानुष्टुभेनेति विशेषोन्यत्र ॥
8 यजमानस्याधस्तात्पदपांसूनुद्वपति - अवबाढ इति ॥ यजमानस्य पादयोरधस्तात् बाढो बद्धो वलगोस्तु । बाहृ प्रयत्ने, 'क्षुब्धस्वान्त' इत्यत्र निपातितः, 'गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् ॥
4 उपरवान्क्रमेणावमृशतोध्वर्युयजमानौ । ते चाधस्तात्सतृण्णाः । 'तस्मात्सतृण्णा अन्तरतः प्राणाः' इति ब्राह्मणम् । बहिरसतृण्णाः । 'न सम्भिनत्ति तस्मादसभिन्नाः प्राणाः' इति ब्राह्मणम् । पूर्वयोर्दक्षिणमेवाध्वर्युरवमृशत्युत्तरं यजमानः । अथ यजमानः पृच्छति - अध्वर्यो किमत्रेति ॥
5 इतर आह - भद्रमिति ॥ भद्रं भजनीयं कल्याणम् । भदि कल्याणे, रन्प्रत्ययः, उपधालोपश्च ॥
6 यजमान आह - तन्नौ सहेति ॥ तद्भद्रमावयोस्सहैवास्तु । अथाध्वर्युः पृच्छति - यजमान किमत्रेति । भद्रमित्यादि यथायथम् । एवं सर्वत्र ॥
7 -10उपरवानभिमृशति सर्वानेवानुर्पूवं - विराडिति ॥ विविधं राजतीति विराट् । 'सत्सूद्विष' इति क्विप्, कृदुत्तरपदप्रकृतिस्वरत्वम् । सपत्राश्शत्रवस्तेषां हन्ता । 'बहुलं छन्दसि' इति क्विप्। यस्मात्त्वं विविधं दीप्यसे तस्मात्सपत्नहा । सङ्गतं दीप्यत इति सम्राट् । 'मो राजि समः क्वौ' इति मस्य मः । यस्मादेवं तस्मात्त्वं भ्रातृव्यहा । भ्रातृव्यास्सपत्नाः । 'व्यन् सपत्ने' इति व्यन्प्रत्ययः । तेषां हन्ता बाह्याभ्यन्तरभेदेन नित्यानित्यभेदेन वा शत्रूणां पृथगभिधानम् । स्वायत्तं दीप्यस इति स्वराट् । यस्मादेवं तस्मात्त्वं अभिमातिहा । अभिमातिः पाप्मा । मन्यतेः क्तिनि नित्यमप्यनुनासिकलोपं बाधित्वा व्यत्ययेन 'अनुनासिकस्य क्विझलोः' इति दीर्घत्वम् । ततः 'अनुदात्तोपदेश' इत्यादिनानुनासिकलोपः । तया हन्ता । महाबलेन हि पाप्मा निहन्तुं शक्यते । विश्वेषु लोकेषु राजतीति विश्वाराट् । 'विश्वस्य वसुराटोः' इति दीर्घः । यस्मादेवं तस्माद्विश्वासां नाष्ट्राणां नाशयितॄणां दैवादिप्रवृत्तीनां हन्ता नाशयिता त्वमसि । नशेर्ण्यन्तात् 'दादिभ्यश्छन्दसि' इति त्रन्प्रत्ययः 'तितुत्रतथ' इतीट्प्रतिषेधः, णिलोपे उदात्तनिवृत्तिस्वरेण त्रन उदात्तत्वम्, 'व्रश्च' इत्यादिना षत्वम् ॥
11 उपरवान्प्रोक्षति - रक्षोहण इति ॥ युष्मान् प्रोक्षामीति सम्बन्धः ॥
12 उपरवेष्वपोवनयति - रक्षोहण इति ॥ एवंविधान् युष्मान्, अधस्तादपोवनयामि प्रापयामि आद्भिस्संयोजयामि । अवनयतिस्वभावादद्भिरेव गम्यते । नयतेश्च द्विकर्मकत्वाद्युष्मानपोवनयामीति भवति, युष्मास्वपोवनयामीति यावत्; यथा - 'अजां नयति ग्रामम्' इति । 'तस्मादार्द्रा अन्तरतः प्राणाः' इति ब्राह्मणम् ॥
13 तेषु यवान्प्रस्कन्दयति - यवोसीति ॥ व्याख्यातम् । 'प्राणेष्वेवोर्जं दधाति' इति ब्राह्मणम् ॥
14 उपरवान् बर्हिषावस्तृणाति - रक्षोहण इति ॥ युष्मानवस्तृणामीत्यधस्ताच्छादयामीत्यर्थः । शिष्टं स्पष्टम् । 'तस्माल्लोमशा अन्तरतः प्राणाः' इति ब्राह्मणम् ॥
15 हिरण्यमन्तर्धाय स्रुवाहुत्या उपरवानभिजुहोति - रक्षोहण इति ॥ युष्मानभिजुहोमीति युष्मानाज्येन व्याघारयामीति । 'प्राणेष्वेव तेजो दधाति' इति ब्राह्मणम् ॥
16 अधिषवणफलके उपदधाति - रक्षोहणाविति ॥ एवंगुणे युवामुपदधामीति । वैष्णवी वैष्णव्यौ । 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । 'हनू वा एते यज्ञस्य यदधिषवणे' इत्यादि ब्राह्मणम् ॥
17 अधिषवणफलके प्रदक्षिणं पुरीषेण पर्यूहति - रक्षोहणाविति ॥ युवां पर्यूहामीति पुरीषेण परितः पूरयित्वा द्रढयामीति । 'उपसर्गादस्यत्यूह्योर्वा वचनम्' इति परस्मैपदम् ॥
18 एते बर्हिषा परिस्तृणाति - रक्षोहणाविति ॥ युवां परिस्तृणामीति ॥
19 एते अभिमृशति - रक्षोहणौ वलगहनौ वैष्णवी इति ॥
20 फलके ग्राव्णोद्वादयति - बृहन्निति ॥ हे ग्रावन् बृहन्महानसि वीर्येण । शतृवद्भावात् 'उगिदचाम्' इति नुम् । न परं वीर्येण, अपि तु शरीरेणापि बृहन्नसीत्याह - बृहद्ग्रावा महापाषाणः । अवयवभूता ग्रावाणोपि गृह्यन्ते । यद्वा - गृणन्तीति ग्रावाणः शब्दकारिणोवयवाः, बृहन्तो ग्रावाणो यस्य । गॄ निगरणे, क्वनिप्, आडागमः । यस्मादेवं तस्मादिन्द्रार्थं बृहतीं वाचं वद, यथेन्द्र इमां वाचं श्रुत्वा आगच्छति । शतृवद्भावात् 'उगितश्च' इति ङीप् । 'बृहन्महतोरुपसङ्ख्यानम्' इति नद्या उदात्तत्वम् । 'शिरो वा एतद्यज्ञस्य यद्धविर्धानं प्राणा उपरवा हनू अधिषवणे जिह्वा चर्म ग्रावाणो दन्ताः' इत्यादि ब्राह्मणम् । एतदुक्तं भवति - शिरस्स्थानीये हविर्धाने प्राणस्थानीयेषूपरवेषु हनूस्थानीयाभ्यामधिषवणफलकाभ्यां परिगृहीते जिह्वास्थानीये चर्मणि दन्तस्थानीयैः ग्रावभिः खादनस्थानीयमभिषवं कृत्वा मुखस्थानीये आहवनीये हुत्वा प्रत्यग्गत्वा उदरस्थानीये सदसि भक्षयन्तीति । 'यो वै विराजो यज्ञमुखे' इत्यादि च ॥
इति तृतीये द्वितीयोनुवाकः ॥
पञ्चशत् 2 #
TS 1.3.2.2 TS 1.3.2.2
र॑क्षो॒हणो॑ वलग॒हनः॒ प्रोक्षा॑मि वैष्ण॒वान् र॑क्षो॒हणो॑ वलग॒हनोऽव॑ नयामि वैष्ण॒वान् यवो॑ऽसि य॒वया॒स्मद् द्वेषो॑ य॒वयारा॑ती रक्षो॒हणो॑ वलग॒हनोऽव॑ स्तृणामि वैष्ण॒वान् र॑क्षो॒हणो॑ वलग॒हनो॒ऽभि जु॑होमि वैष्ण॒वान् र॑क्षो॒हणौ॑ वलग॒हना॒वुप॑ दधामि वैष्ण॒वी र॑क्षो॒हणौ॑ वलग॒हनौ॒ पर्यू॑हामि वैष्ण॒वी र॑क्षो॒हणौ॑ वलग॒हनौ॒ परि॑ स्तृणामि वैष्ण॒वी र॑क्षो॒हणौ॑ वलग॒हनौ॑ वैष्ण॒वी बृ॒हन्न॑सि बृ॒हद्ग्रा॑वा बृह॒तीमिन्द्रा॑य॒ ( ) वाचं॑ ॅवद ॥
पदपाठः (Word-by-word)
र॒क्षो॒हण॒ इति॑ रक्षः - हनः॑ । व॒ल॒ग॒हन॒ इति॑ वलग - हनः॑ । प्रेति॑ । उ॒क्षा॒मि॒ । वै॒ष्ण॒वान् । र॒क्षो॒हण॒ इति॑ रक्षः - हनः॑ । व॒ल॒ग॒हन॒ इति॑ वलग - हनः॑ । अवेति॑ । न॒या॒मि॒ । वै॒ष्ण॒वान् । यवः॑ । अ॒सि॒ । य॒वय॑ । अ॒स्मत् । द्वेषः॑ । य॒वय॑ । अरा॑तीः । र॒क्षो॒हण॒ इति॑ रक्षः - हनः॑ । व॒ल॒ग॒हन॒ इति॑ वलग - हनः॑ । अवेति॑ । स्तृ॒णा॒मि॒ । वै॒ष्ण॒वान् । र॒क्षो॒हण॒ इति॑ रक्षः - हनः॑ । व॒ल॒ग॒हन॒ इति॑ वलग - हनः॑ । अ॒भीति॑ । जु॒हो॒मि॒ । वै॒ष्ण॒वान् । र॒क्षो॒हणा॒विति॑ रक्षः - हनौ᳚ । व॒ल॒ग॒हना॒विति॑ वलग - हनौ᳚ । उपेति॑ । द॒धा॒मि॒ । वै॒ष्ण॒वी इति॑ । र॒क्षो॒हणा॒विति॑ रक्षः - हनौ᳚ । व॒ल॒ग॒हना॒विति॑ वलग - हनौ᳚ । परीति॑ । ऊ॒हा॒मि॒ । वै॒ष्ण॒वी इति॑ । र॒क्षो॒हणा॒विति॑ रक्षः - हनौ᳚ । व॒ल॒ग॒हना॒विति॑ वलग - हनौ᳚ । परीति॑ । स्तृ॒णा॒मि॒ । वै॒ष्ण॒वी इति॑ । र॒क्षो॒हणा॒विति॑ रक्षः - हनौ᳚ । व॒ल॒ग॒हना॒विति॑ वलग - हनौ᳚ । वै॒ष्ण॒वी इति॑ । बृ॒हन्न् । अ॒सि॒ । बृ॒हद्ग्रा॒वेति॑ बृ॒हत् - ग्रा॒वा॒ । बृ॒ह॒तीम् । इन्द्रा॑य ( ) । वाच᳚म् । व॒द॒ ॥
पदसंख्या: 52