अनुवाकः 8 TS 1.3.8

(A8)

(दे॒वन॒-चतु॑श्चत्वारिꣳशच्च)

अनुवाकः 8 - Complete Audio

TS 1.3.8 - स्वरानुगामी

0:00 0:00
PS1.1 आ द॑द ऋ॒तस्य॑ त्वा
PS1.2 देवहविः॒ पाशे॒नाऽऽर॑भे॒ धर्.षा॒ मानु॑षान॒द्भ्यस्त्वौष॑धीभ्यः॒
PS1.3 प्रोक्षा᳚म्य॒पां पे॒रुर॑सि स्वा॒त्तं चि॒थ्
PS1.4 सदे॑वꣳ ह॒व्यमापो॑ देवीः॒ स्वद॑तैनꣳ॒॒
PS1.5 सं ते᳚ प्रा॒णो वा॒युना॑
PS1.6 गच्छताꣳ॒॒ सं ॅयज॑त्रै॒रङ्गा॑नि॒ सं
PS1.7 ॅय॒ज्ञ्प॑तिरा॒शिषा॑ घृ॒तेना॒क्तौ प॒शुं त्रा॑येथाꣳ॒॒
PS1.8 रेव॑तीर् य॒ज्ञ्प॑तिं प्रिय॒धाऽऽ* वि॑श॒तोरो॑
PS1.9 अन्तरिक्ष स॒जूर् दे॒वेन॒ -
PS1.10 [ ]
PS2.1 वाते॑ना॒स्य ह॒विष॒स्त्मना॑ यज॒ सम॑स्य
PS2.2 त॒नुवा॑ भव॒ वर्.षी॑यो॒ वर्.षी॑यसि
PS2.3 य॒ज्ञे य॒ज्ञ्पतिं॑ धाः पृ॑थि॒व्याः
PS2.4 सं॒पृचः॑ पाहि॒ नम॑स्त आतानाऽन॒र्वा
PS2.5 प्रेहि॑ घृ॒तस्य॑ कु॒॒ल्यामनु॑ स॒ह
PS2.6 प्र॒जया॑ स॒ह रा॒यस्पोषे॒णा ऽऽपो॑
PS2.7 देवीः शुद्धायुवः शु॒द्धा यू॒यं
PS2.8 दे॒वाꣳ ऊ᳚ढ्वꣳ शु॒द्धा व॒यं
PS2.9 परि॑विष्टाः परिवे॒ष्टारो॑ वो भूयास्म

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.3.8.1 TS 1.3.8.1
आ द॑द ऋ॒तस्य॑ त्वा देवहविः॒ पाशे॒नाऽऽर॑भे॒ धर्.षा॒ मानु॑षान॒द्भ्यस्त्वौष॑धीभ्यः॒ प्रोक्षा᳚म्य॒पां पे॒रुर॑सि स्वा॒त्तं चि॒थ् सदे॑वꣳ ह॒व्यमापो॑ देवीः॒ स्वद॑तैनꣳ॒॒ सं ते᳚ प्रा॒णो वा॒युना॑ गच्छताꣳ॒॒ सं ॅयज॑त्रै॒रङ्गा॑नि॒ सं ॅय॒ज्ञ्प॑तिरा॒शिषा॑ घृ॒तेना॒क्तौ प॒शुं त्रा॑येथाꣳ॒॒ रेव॑तीर् य॒ज्ञ्प॑तिं प्रिय॒धाऽऽ* वि॑श॒तोरो॑ अन्तरिक्ष स॒जूर् दे॒वेन॒ - [ ]
पदपाठः (Word-by-word)
एति॑ । द॒दे॒ । ऋ॒तस्य॑ । त्वा॒ । दे॒व॒ह॒वि॒रिति॑ देव - ह॒विः॒ । पाशे॑न । एति॑ । र॒भे॒ । धर्.ष॑ । मानु॑षान् । अ॒द्भ्य इत्य॑त् - भ्यः । त्वा॒ । ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ । प्रेति॑ । उ॒क्षा॒मि॒ । अ॒पाम् । पे॒रुः । अ॒सि॒ । स्वा॒त्तम् । चि॒त् । सदे॑व॒मिति॒ स - दे॒व॒म् । ह॒व्यम् । आपः॑ । दे॒वीः॒ । स्वद॑त । ए॒न॒म् । समिति॑ । ते॒ । प्रा॒ण इति॑ प्र - अ॒नः । वा॒युना᳚ । ग॒च्छ॒ता॒म् । समिति॑ । यज॑त्रैः । अङ्गा॑नि । समिति॑ । य॒ज्ञ्प॑ति॒रिति॑ य॒ज्ञ् - प॒तिः॒ । आ॒शिषेत्या᳚ - शिषा᳚ । घृ॒तेन॑ । अ॒क्तौ । प॒शुम् । त्रा॒ये॒था॒म् । रेव॑तीः । य॒ज्ञ्प॑ति॒मिति॑ य॒ज्ञ् - प॒ति॒म् । प्रि॒य॒धेति॑ प्रिय - धा । एति॑ । वि॒श॒त॒ । उरो॒ इति॑ । अ॒न्त॒रि॒क्ष॒ । स॒जूरिति॑ स - जूः । दे॒वेन॑ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डे तृतीयप्रपाठकेऽष्टमोऽनुवाकः)।

सप्तमेऽनुवाके पशोरुपाकरणं प्राधान्येनोक्तम्। अथोपाकृतस्य विशसनमष्टमेऽनुवाके विधीयते।

आ दद इति। बौधायनः – ‘अथ रशनामादत्ते देवस्य त्वा सवितुः प्रसवेऽश्वितोबार्हुभ्यां पूष्णो हस्ताभ्यामा दद इति ’ इति।

अत्राऽऽम्नात आ दद इति मन्त्रो देवस्य त्वेत्यनेन पूर्यते।

आपस्तम्बः — ‘ सावित्रेण रशनामादाय पशोर्दक्षिणे बाहौ परिवीयोर्ध्वमुत्कृष्यर्तस्य त्वा देवहविः पाशेनाऽऽरभ इति दक्षिणेऽर्धशिरसि पाशेनाक्ष्णया प्रतिमुच्य धर्षा मानुषानित्युत्तरतो यूपस्य नियुनक्ति दक्षिणत ऐकादशिनान् ’ इति।

हे रशने त्वामाददे। हे देवहविः पशो, ऋतस्य यज्ञस्य सिद्ध्यर्थं त्वां पाशेनावबध्नामि। हे विनियुज्यमानपशो देवत्वप्राप्त्या मानुषानुपद्रवांस्ताडनादीन्धर्षाभिभव।

विधत्ते — ‘ देवस्य त्वा सवितुः प्रसव इति रशानामा दत्ते प्रसूत्या अश्विनोर्बाहुभ्यामित्याहाश्विनौ हि देवानामध्वर्यू आस्तां पूष्णो हस्ताम्यामित्याह यत्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।

ऋतशब्दार्थमाह — ‘ऋतस्य त्वा देवहविः पाशेनाऽऽरभ इत्याह सत्यं वा ऋत सत्येनैवैनमृतेनाऽऽरभते’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।

अवश्यंभाविफलोपेतत्वाद्यज्ञस्वरूपं सत्यं, तेन निमित्तेनैनं पशुं बध्नाति।

बन्धनप्रकारं विधत्ते — ‘ अक्ष्णया परि हरति वध्य हि प्रत्यञ्चं प्रतिमुञ्चन्ति व्यावृत्त्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।

अक्ष्णया पूर्वोक्तया दक्षिणपादादिशिरोभागपर्यन्तया वक्रया परिहरति वेष्टयति। लोके तु मांसभक्षिणो वध्यं पशुं प्रत्यञ्चं स्वाभिमुखमवस्थाप्य गले पाशं प्रतिमुञ्चन्ति। अतस्तद्व्यावृत्तये वक्रबन्धनम्।

विधत्ते — ‘ धर्षा मानुषानिति नि युनिक्ति धृत्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।

नियुनक्ति निरन्तरं बध्नीयात्। तञ्च बन्धनं धृत्यर्थं पलायननिवारणार्थम्।

अद्भ्य इति। कल्पः — ‘ अद्भ्यस्त्वौषधीभ्यः प्रोक्षामीति प्रोक्षति, अपां पेरुरसीति पाययति, स्वात्तं चित्सदेव हव्यमापो देवीः स्वदतैनमित्युपरिष्टादधस्तात्सर्वतश्च प्रोक्ष्य ’ इति।

हे पशो त्वामद्भिरोषधीभिश्च प्रोक्षामि। दर्मैरपामुत्पूतत्वादस्त्योषधीनामपि प्रोक्षणसाधनत्वम्।

पातृस्वीकृताभ्यां तृणोदकाभ्यां पशोरुत्पन्नत्वेनोभयेन प्रोक्षणं युक्तमित्याह — अद्भ्यस्त्वौषधीभ्यः प्रोक्षामीत्याहाद्भ्यो ह्येष ओषधीभ्यः संभवति यत्पशुः ’ [का॰ ६ प्र॰ ३ अ॰ ६] इति।

पेरुशब्दः पातृवाचीत्याह — ‘ अपां पेरुरसीत्याहैष ह्यपां पाता यो मेधायाऽऽरभ्यते ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।

यज्ञार्थमालभ्यमानस्य पशोरित ऊर्ध्वमुदकपानाभावादिदानीमेव पातृत्वम्। हे आपो देव्यः स्वात्तं चित्स्वादुभूतमपि सदेवं देवतार्थं हव्यं होतुं योग्यमेनं पशुं स्वदत स्वादुं कुरुत।

अनेन मन्त्रेण स्वादुता भवतीत्याह — ‘ स्वात्तं चित्सदेव हव्यमापो देवीः स्वदतैनमित्याह स्वदयत्येवैनम् ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।

त्रिभिर्मन्त्रैरनुष्ठेयानि विधत्ते — ‘ उपरिष्टात्प्रोक्षत्युपरिष्टादेवैनं मेध्यं करोति पाययत्यन्तरत एवैनं मेध्यं करोत्यधस्तादुपोक्षति सर्वत एवैनं मेध्यं करोति ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ६] इति।

अथ होतारं प्रत्यध्वर्योः प्रैषमुत्पादयति –

‘अग्निना वै होत्रा देवा असुरानभ्यभवन्नग्नये सामिध्यमानायानु ब्रूहीत्याह भ्रातृव्याभिभूत्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।

अग्निः समिद्धो भ्रातृव्यानभिभवति।

अग्निसमिन्धनाय होत्राऽनूच्यमानानामृचां चोदकप्राप्तां पञ्चदशसंख्यामपोद्य सप्तदशसंख्यां विधत्ते – ‘ सप्तदश सामिधेनीरन्वाह सप्तदशः प्रजापतिः प्रजापतेराप्त्यै ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ६] इति।

आश्रावयेत्यादिभिरक्षरैः प्रजापतेः सप्तदशत्वम्।

तमेव विधिमनूद्य प्रशंसति — ‘ सप्तदशान्वाह द्वादश मासाः पञ्चर्तवः स संवत्सरः संवत्सरं प्रजा अनु प्र जायन्ते प्रजानां प्रजननाय ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ७] इति।

हेमन्तशिशिरयोः समासेनेति बह्वृचब्राह्मणाम्नानादृतूनां पञ्चसंख्या। प्रजाः संवत्सरं गर्भे स्थित्वा पश्चात्प्रजायन्ते।

अमन्त्रकं प्रथममाघारं विधत्ते — ‘ देवा वै सामिधेनीरनूच्य यज्ञं नान्वपश्यन्स प्रजापतिस्तूष्णीमाघारमाघारयत्ततो वै देवा यज्ञमन्वपश्यन्यत्तूष्णीमाघारामाघारयति यज्ञस्यानुख्यात्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।

बहुनियमोपेते सामिधेन्यनुवचने व्यापृता बुद्धिः श्रान्ता सती पश्चात्कर्तव्यं यज्ञं नान्वपश्यत्। ततः प्रजापतिस्तूष्णीमाघारेण मन्त्रविषयव्यापारजन्यं बुद्धेः श्रममपनीतवान्।

तमेव विधियनूद्य प्रशंसति — ‘ असुरेषु वै यज्ञ आसीत्तं देवास्तूष्णी होमेनावृञ्जत यत्तूष्णीमाघारमाघारयति भ्रातृव्यस्यैव तद्यज्ञं वृङ्क्ते ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।

असुरा गूढचारिणो भूत्वा देवैरनुष्ठितमवगत्य स्वयमपि तथैवानुतिष्ठन्ति। तथा च श्रुत्यन्तरम् — ‘ देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत ’ इति। तं वृत्तान्तमवगत्य देवा गूढचारिणां समीपे प्रथममाघारममन्त्रकं हुतवन्तः तं दृष्टवन्तोऽसुराः सहसा गत्वा कृत्स्नं यज्ञं तूष्णीं कृत्वा नाशितवन्तः। तमभिप्रेत्य तं देवास्तूष्णीं होमेनावृञ्जतेत्युच्यते।

त्रयाणां परिधीनां मार्जनं प्रत्येकं तदावृत्तिं च विधत्ते — ‘ परिधीन्त्सं मार्ष्टि पुनात्येवैनान्त्रिस्त्रिः सं मार्ष्टि त्र्यावृद्धि यज्ञोऽथो रक्षसामपहत्यै द्वादश सं पद्यन्ते द्वादश मासाः संवत्सरः संवत्सरमेव प्रीणात्यथो संवत्सरमेवास्मा उप दधाति सुवर्गस्य लोकस्य समष्ट्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।

परिधिषु पतितस्य भस्मादेरपनयनेन ते शुद्धा भवन्ति। तिस्र आवृत्तयो यस्यासौ त्र्यावुत्। त्रिः प्रथमामन्वाहेत्यदिषु तत्प्रसिद्धम्। त्र्यावृत्त्या तदादरं दृष्टवा रक्षसां भयातिशयो भवति। त्रिषु परिधिषु नव संमार्जनान्युक्तानि।

अत्रानुक्तैस्त्रिभिर्वह्निसंमार्जनैः सह द्वादशसंपत्तिः। अत एव दर्शपूर्णमासब्राह्मणे श्रूयते।

‘ परिधीन्त्संमार्ष्टि पुनात्येवैनान्त्रिर्मध्यमं त्रयो वै प्राणाः प्राणानेवाभिजयति त्रिदर्क्षिणार्ध्यं त्रय इमे लोका इमानेव लोकानभिजयति त्रिरुत्तरार्ध्यं त्रयो वै देवयानाः पन्थानस्तानेवाभिजयति त्रिरुपवाजयति त्रयो वै देवलोका देवलोकानेवाभिजयति द्वादश संपद्यन्ते ’ इति।

तया संख्यया संवत्सरदेवतां तोषयति। किंचास्य यजमानस्य स्वर्गप्रापणाय तां संवत्सरदेवतामुपदधाति समीपे समानयति।

पूर्वं स्रौवाधारो विहितः। अथ स्रुच्याघारं विधत्ते — ‘ शिरो वा एतद्यज्ञस्य यदाघारोऽग्निः सर्वा देवता यदाघारमाघारयति शीर्षत एव यज्ञस्य यजमानः सर्वा देवता अव रुन्धे ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।

आघारस्य होमेषु प्रथमभावित्वेन शिरोरूपत्वम्। यद्यपि पशोरिष्टिर्विकृतिवदेवाऽऽघारद्वयं प्राप्नोति तथाऽपि तद्विकृतित्वमेव निश्चेतुं तदीयलिङ्गत्वेनात्र त्पुनर्विहितम्।

सं त इति।कल्पः — ‘ स्रुच्यमाघार्य प्रत्याक्रम्य जुह्वा पशुं समनक्ति सं ते प्राणो वायुना गच्छतामिति शिरसि, सं यजत्रैरङ्गानीत्यंसोच्चलयोः, सं यज्ञपतिराशिषेति श्रोण्याम् ’ इति।

उच्चलशब्देन ककुदुच्यते। हे पशो ते तव प्राणो वायुना संगच्छताम्। हृदयाद्यङ्गानि यजत्रैर्यागविशेषैः संयुज्यन्ताम्। यज्ञपतिराशिषा संयुज्यताम्।

स्रुचाऽऽघारशेषेण पश्वञ्जनं विधत्ते — ‘ शिरो वा एतद्यज्ञस्य यदाघार आत्मा पशुराघारमाघार्य पशु समनक्त्यात्मन्नेव यज्ञस्य शिरः प्रति दधाति ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ७] इति।

आत्मा ग्रीवाया अधोवर्तिदेहः।

प्राणस्य बाह्ये वायुसंगमो युक्त इत्याह – ‘ सं ते प्राणो वायुना गच्छतामित्याह वायुदेवत्यो वै प्राणो वायावेवास्य प्राणं जुहोति ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ७] इति।

अस्य यज्ञस्य फलेन वायुना यजमानो युज्यत इत्येतमर्थमन्त्यमन्त्रे दर्शयति – ‘ सं यजत्रैरङ्गानि सं यज्ञपतिराशिषेत्याह यज्ञपतिमेवाऽऽस्याशिषं गमयति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।

मध्यममन्त्रेण हृदयाद्यङ्गानि यागविशेषैर्योजयतीत्येतावदुन्नेयम्।

पूर्वं शिरस्यञ्जनं विहितम्। इदानीं ककुदि श्रोण्यां चाञ्जनं विधत्ते। अथवा पूर्वविधेः साधारणत्वात्तमेवानूद्य प्रशंसति — ‘ विश्वरूपो वै त्वाष्ट्र उपरिष्टात्पशुमभ्यवमीत्तस्मादुपरिष्टात्पशोर्नावद्यन्ति यदुपरिष्टात्पशु समनक्ति मेध्यमेवैनं करोति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।

त्वष्टुः पुत्रो विश्वरूपः पशुमभि प्राप्योपरिष्टात्पृष्ठभागे वमनमकरोत्। तस्माद्याज्ञिका हृदयादिवदुपरिभागान्नावद्यन्ति। तं भागमञ्जनेन शुद्धं करोति।

विधत्ते — ‘ ऋत्विजो वृणीते छन्दास्येव वृणीते ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।

वक्ष्यमाणसंख्यासाम्यादृत्विजां छन्दस्त्वम्।

सप्तत्वसंख्यां विधत्ते — ‘ सप्त वृणीते सप्त ग्राम्याः पशवः सप्ताऽऽरण्याः सप्त छन्दास्युभयस्यावरुद्ध्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।

होताऽऽग्नीध्रोऽध्वर्युर्मैत्रावरुणो ब्राह्मणाच्छंसी पोता नेष्टेति [ सप्तर्त्विजः ]। सप्तग्राम्यादिकं व्याख्यातम्।

चोदकप्राप्तेषु संख्यां विधत्ते — ‘ एकादश प्रयाजान्यजति दश वै पशोः प्राणा आत्मैकादशो यावानेव पशुस्तं प्र यजति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।

प्राणशब्देन तदाधारभूतानि च्छिद्राण्युच्यन्ते। तानि च शिरसि सप्त, अधस्ताद् द्वे, नाभिर्दशमी। आत्मा देहः। अत एकादशसंख्याया कृत्स्नं पशुं प्रयजति।

अन्तिमप्रयाजस्य कालान्तरं विधत्ते — ‘ वपामेकः परि शय आत्मैवाऽऽत्मानं परि शये ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।

वपां परि वपाहोमसमीपे शये शेते तस्मिन्काले यजेदित्यर्थः। चरमः प्रयाजो देहत्वेन निरूपितात्वात्पशोरात्मा, वपाऽपि मुख्यावयवत्वादात्माऽतस्तयोः सामीप्यं युक्तम्। घृतेनेति। कल्पः — ‘ जुह्वा स्वरुस्वधिती अनक्ति, द्विः स्वरुं सकृत्स्वधितेरन्यतरां धारां स्वरुमन्तर्धाय स्वधितिना पशुं समनक्ति घृतैनाक्तौ पशुं त्रायेथामिति शिरसि ’ इति।

हे स्वरुस्वधिती इति संबोधनीयम्।

स्वरुस्वधितिघृतानामुपयोगं दर्शयति — ‘ वज्रो वै स्वधितिर्वज्रो यूपशकलो घृतं खलु वै देवा वज्रं कृत्वा सोममघ्नन्घृतेनाक्तौ पशुं त्रायेथामित्याह वज्रेणैवैनं वशे कृत्वाऽऽलभते ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।

त्रिविधेन वज्रेणैनं पशुं वशीकृत्य मारयति —

विधत्ते — ‘ पर्यग्नि करोति सर्वहुतमेवैनं करोत्यस्कन्दयास्कन्न हि तद्यद्धुतस्य स्कन्दति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।

अत्र प्रकारः सूत्रेऽभिहितः – ‘ आहवनीयादुल्मुकमादायाऽग्नीघ्रः परिवाजायति कविरिति त्रिः प्रदक्षिणं पर्यग्नि करोति पशुं यूपमाहवनीयं शामित्रदेशं चात्वालमाज्यानि चेत्येके ’ इति। तेन पर्यग्निकरणेनैनं पशुं सर्वमपि हुतमेव करोति। तद्धुतत्वं स्कन्दनदोषराहित्याय भवति। होमादूर्ध्वं स्कन्दनेऽपि तद्दोषो न भवति।

आवृत्तिं विधत्ते — ‘ त्रिः पर्याग्ने करोति त्र्यावृद्धि यज्ञोऽथो रक्षसामपहत्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।

रेवतीरिति। कल्पः — ‘ रेवतीर्यज्ञपतिं प्रियधाऽऽविशतेति वपाश्रपणीभ्यां पशुमन्वारभेते अध्वर्युर्यजमानश्च ’ इति।

हे रेवतीर्घनवन्तः पश्ववयवा यजमानं प्रति प्रियधारिण्यो भवत, हविष्ट्वेन यज्ञमाविशत।

अत्र विचारं दर्शयति — ‘ ब्रह्मवादिनो वदन्त्यन्वारभ्य पशू३र्नान्वारभ्या३ इति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।

प्रथमपक्षे दोषमाह — ‘ मृत्यवे वा एष नीयते यत्पशुस्तं यदन्वारभेत प्रमायुको यजमानः स्यात् ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।

द्वितीयपक्षे दोषमाह — ‘ अथो खल्वाहुः सुवर्गाय वा एष लोकाय नीयते यत्पशुरिति यन्नान्वारभेत सुवर्गाल्लोकाद्यजमानो हीयेत ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।

दोषद्वयपरिहाराय प्रकारन्तरं विधत्ते — ‘ वपाश्रपणीभ्यामन्वारभते तन्नेवान्वारब्धं नेवानन्वारब्धम् ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ८] इति।

याभ्यां दारुमयीभ्यां वपा पच्यते ते वपाश्रपण्यौ।

प्रैषमन्त्रमुत्पादयति — ‘ उप प्रेष्य होतर्हव्या देवेभ्य इत्याहेषित हि कर्म क्रियते ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।

हे होतर्देवेभ्यो वपादीनि हव्यानि कर्तुमुपप्रेष्य पशुसमीपे शमितॄन्प्रेरय। लोके हि प्रभुणा प्रेषितं कर्म सहसा क्रियते।

मन्त्रस्तु स्पष्टार्थ इत्याह — ‘ रेवतीर्यज्ञपतिं प्रियधाऽऽविशतेत्याह यथायजुरेवैतत् ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।

कल्पः — ‘ आहवनीयादुल्मुकमादायाऽऽग्नीध्रः पूर्वः प्रतिपद्यते शमिता पशुं नयत्युरो अन्तरिक्षेत्यन्तरा चात्वलोत्करावुदञ्चं पशुं नयति ’ इति।

मन्त्रस्त्वेवमाम्नातः

उर इति। अत्रान्तरिक्षशब्देन पशोः श्रोत्रादिच्छिद्रेष्ववस्थित इन्द्रियसमुदाय उपलक्ष्यते। हे उरो अन्तरिक्ष विस्तीर्णेन्द्रियसमुदायास्य पशोरभिमानिदेवेन वातेन प्राणवायुना त्मना जीवात्मना च सजूः सह हविषो यज हविर्देहि। किंचास्य पशोस्तनुवा भविष्यता देवशरीरेण संभव संयुज्यस्व। हे वर्षीयोऽतिविस्तीर्णेन्द्रियसमुदाय वर्षीयस्यतिविस्तीर्णे यज्ञे यज्ञपतिं यजमानं धाः स्थापय। मन्त्रोऽयमुपेक्षितः।

विधत्ते — ‘ अग्निना पुरस्तादेति रक्षसामपहत्यै ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ८] इति।

उल्मुकेन सह पशोः पुरस्तादाग्नीध्रो गच्छेत्।

पृथिव्या इति। कल्पः — ‘ अभिपर्यग्निकृते देश उल्मुकं निदधाति स शामित्रस्तं दक्षिणेन प्रत्यञ्चं पशुमवस्थाप्य पृथिव्याः संपृचः पाहीति बर्हिरुपास्यत्युपाकरणयोरन्यतरत् ’ इति।

हे बर्हिर्भूसंपर्कात्पालय।

विधत्ते — ‘ पृथिव्याः संपृचः पाहीति बर्हिरुपास्यत्यस्कन्दायास्कन्न हि तद्यद्बर्हिषि स्कन्दत्यथो बर्हिषदमेवैनं करोति ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ८] इति।

पशुसंबन्धि यदङ्गं बर्हिषि स्कन्देत्तद्भूमावपतनादस्कन्नमेव। अथ कथंचिदधः पतितेप्येनं बर्हिषदमेव करोति।

विधत्ते — ‘ पराङा वर्ततेऽध्वर्युः पशोः संज्ञप्यमानात्पशुभ्य एव तन्निह्नुत आत्मनोऽनाव्रस्काय ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।

अध्वर्युर्मार्यमाणं पशुमदृष्ट्वा ततः पराङ्मुखः प्रत्यवर्तेत। तेन पशुभ्यो निह्नुते पशुं न मारयामीत्येवमपलपति। स चापलापः स्वस्य दोषाभावाय भवति।

वेदनं प्रशंसति — ‘ गच्छति श्रियं प्र पशुनाप्नोति य एवं वेद ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।

अत्र सूत्रम् — ‘ प्रत्यक्शिरसमुदीचीनपादममायुं कृण्वन्तं संज्ञपयेत्युक्त्वा पराङावर्ततेऽध्वर्युः ’ इति।

नम इति। कल्पः – ‘ ततः प्रतिप्रस्थाता पत्निमुदानयति नमस्त आतनेति पत्न्यादित्यमुपतिष्ठते ’ इति।

आ समन्तात्तानो व्याप्तिर्यस्य सूर्यरश्मेः स आतानः।

एतदेव दर्शयति — ‘ पश्चाल्लोका वा एषा प्राच्युदानीयते यत्पत्नी नमस्त आतानेत्याहाऽऽदित्यस्य वै रश्मय आतानास्तेभ्य एव नमस्करोति ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ८] इति।

पश्चात्प्रतीच्यां दिशि निर्मिता शाला लोको निवासस्थानं यस्याः सा पश्चाल्लोका। तादृशी यदा प्राचीं गच्छति तदानीमाभिमुख्येन सूर्यरश्मिर्भवतीति तन्नमस्कारो युक्तः।

अनर्वेति। बौधायनः – ‘ अथैनामन्तरेण चात्वालोत्करावुदगुपनिष्क्रमय्य प्राचीमुदानयन्वाचयत्यनर्वा प्रेहि घृतस्य कुल्यामनु सह प्रजया सह रायस्पोषेणेत्यागतामध्वर्युरप्सु वाचयत्यापो देवीः शुद्धायुवः शुद्धा यूयं देवा ऊड्ढ्व शुद्धा वयं परिविष्ठाः परिवेष्टारो वो भूयास्मेति ’ इति।

आपस्तम्बः — ‘ अनर्वा प्रेहीति प्राचीमुदानयत्यनुमन्त्रयत इत्येके। आपो देवीः शुद्धायुव इति चात्वाले पत्न्यपोऽवमृशति ’ इति।

हे पत्नि त्वमनर्वा शत्रुरहिता सती घृतप्रवाहमनु प्रजया सह धनपुष्ट्या च सह प्रयाहि। घृतस्य कुल्यामित्यनेन सर्ववस्तुसंपूर्णं स्थानमुपलक्ष्यते। हे आपो देव्यो यूयं देवानूड्ढ्वं यागप्रदेशे प्रापयत। कीदृश्यो यूयम्। शुद्धायुवः शुद्धिमस्मदीयामिच्छन्तीति शुद्धायुवः। यूयं तु

स्वत एव शुद्धाः। वयमपि युष्माभिः परिवेष्टिताः शुद्धाः सन्तो युष्माकं परिवेष्टारो भूयास्म।

एतौ मन्त्रौ व्याचष्टे — ‘ अनर्वा प्रेहीत्याह भ्रातृव्यो वा अर्वा भ्रातृव्यापनुत्त्यै घृतस्य कुल्यामनु सह प्रजया सह रायस्पोषेणेत्याहाऽऽशिषमेवैतामा शास्त आपो देवीः शुद्धायुव इत्याह यथायजुरेवैतत् ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ८) इति।

अत्र विनियोगसंग्रहः –

“ आ ददे रज्जुमादाय ऋत बध्नाति तं पशुम्।

धर्ष यूपे नियुङ्क्तेऽद्भ्यः प्रोक्ष्यापां पायदेदपः॥१॥

स्वात्तं सर्वत्र संप्रोक्ष्य सं ते मूर्ध्नि समञ्जनम्।

सं यांसयोः सं य पश्चाद्घृते सस्वरुशस्त्रके॥२॥

रेव श्रपण्युपस्पर्श उरो उत्तरतो नयेत्।

पृथि बर्हिरवस्थाप्य नमः पत्नी रविं भजेत्।

अन पत्नीं नयेदापः स्पृश(शे)न्मन्त्रास्तु षोडश ॥३॥ ” इति ।

अथ मीमांसा।

द्वितीयाध्यायस्य प्रथमपादे चिन्तितम् —

“ गच्छतामिति शब्दस्यानुषङ्गोऽस्ति न वोपरी।

सं यज्ञपतिरित्यत्र योग्यत्वात्सोऽस्ति पूर्ववत्॥

तदेकवचनं मध्यमन्त्रोङ्गानीत्यनेन हि।

नान्वेति तद्व्यवायेन नोपर्यप्यनुषज्यते ” इति।

अग्नीषोमीयपशौ श्रूयते — ‘ सं ते प्राणो वायुना गच्छता सं यजत्रैरङ्गानि सं यज्ञपतिराशिषा ’ इति।

अयमर्थः – भोः पशो तव प्राणवायुर्वायुना संगच्छतां तव हृदयाद्यङ्गानि यागविशषैः संयुज्यन्तां यज्ञपतिराशिषा संयुज्यतामिति। तत्र यज्ञपतिरित्यास्मिंस्तृतीयमन्त्रे समित्युपसर्गस्य कियापदाकाङ्क्षत्वारत्प्रथममन्त्रगतस्य गच्छतामिति पदस्यैकवचनान्तस्य यज्ञपतिशब्देनान्वेतुं योग्यत्वात्पूर्ववद्बुद्धिस्थत्वेन संनिहितत्वादाकाङ्क्षासंनिधियोग्यतानां सद्भावेन क्रियापदमनुषज्यत इति प्राप्ते ब्रूमः — मध्यममन्त्रे बहुवचनान्तेनाङ्गानीत्यनेनान्वेतुमयोग्यत्वात्तद्व्यवायेन बुद्धिसंनिधिलोपान्नास्त्यनुषङ्गः। ततो द्वितीयतृतीयमन्त्रयोर्यथोचितं वाक्यशेषोऽध्याहर्तव्यः।

अष्टमाध्यायस्य प्रथमपादे चिन्तितम् —

“ न पशावैष्टिकः स्याद्वा न कपालाद्यभावतः।

स्याद्व्यक्तद्रव्यदेवत्वप्रयाजस्रुच्यसाम्यतः ” इति।

अग्नीषोमीयपशावैष्टिको विध्यन्तो नास्ति। कुतः। पूर्ववदत्र निर्वापकपालादिलिङ्गाभावदिति चेन्मैवम्। आग्नेयमष्टाकपालमित्यत्रोत्पत्तिवाक्ये यथा द्रव्यदेवते व्यक्ते तथाऽग्नीषोमीयं पशुमित्यत्रापि। न तु सोमेन यजेतेत्यत्रेव देवताया अव्यक्तत्वम्। तदेतद्व्यक्तद्रव्यदेवत्वमेकं लिङ्गम्। एकादश प्रयाजान्यजतीति प्रयाजवत्त्वं द्वितीयम्। स्रुच्यमाघार्य जुह्वा पशुमनक्तीत्याघाराञ्जने लिङ्गान्तरे। आलम्भो लिङ्गान्तरम्। इष्टावपीषामालभत इति दर्शनात्। तस्मादस्ति पशावैष्टिको विध्यन्तः।

“ प्रयाजेष्वपकर्षोऽनुयाजेषूत्कर्ष इत्यमू।

श्रुतमात्रे तदन्तेषु तदाद्येषु च वाऽग्रिमः॥

अन्येषां मुख्यकालत्वान्मैवं व्युत्क्रमशक्तितः।

प्रयाजान्ते ह्यनु [नू] याजादिके चैतौ समूहके ” इति।

अग्नीषोमीयपशो प्रयाजानामपकर्षः श्रूयते — ‘ तिष्ठन्तं पशुं प्रयजन्ति ’ इति। प्रकृतौ हविष्यासादिते पश्चात्प्रयाजा इज्यन्ते। इहापि पशुसंज्ञपनादूर्ध्वं

हविष्यासादिते पश्चादेव प्रयाजाश्चोदकेन प्राप्ताः। ते चात्र वचनाज्जीवत्येव पशावपकृष्यन्ते। तथा सवनीयपशावनुयाजानामुत्कर्षः श्रूयते — “आग्निमारुतादूर्ध्वमनुयाजैश्चरन्ति ” इति। तत्र प्रयाजमात्रस्यापकर्षः श्रुतः। अनुयाजमात्रस्योत्कर्षः। तावुभौ श्रुत्यनुसारेण तथैवाङ्गीकर्तव्यौ। यदि प्रयाजान्तस्याङ्गकलापस्यापकर्षः स्यात्तदा प्रयाजेभ्यः पूर्वभाविनामाघारसामिधेन्यादीनां ततोऽऽयपकर्षादत्यन्तव्यवहितानां प्रधानकालीनत्वं न स्यात्। प्रयाजमात्रेऽपकृष्टे सत्याघारादीनां मुख्यकालीनत्वं न लुप्यते। एवमनुयाजमात्र उत्कृष्टे तत ऊर्ध्वभाविनां सूक्तवाकशंयुवाकदीनामनुत्कर्षात्प्रधानसंनिधिर्न विनश्यति। तस्मात्प्रयाजमात्रस्यापकर्षोऽनुयाजमात्रास्यौत्कर्ष इति प्राप्ते ब्रूमः — प्रकृतौ पदार्थानुष्ठानक्रमस्य क्लृप्तत्वात्सक्रमाणामेव पदार्थानां चोदकेनातिदेशाद्व्युत्क्रमे सति पूर्वेण पदार्थेनोत्तरपदार्थस्य, बुद्धावनुपस्थापितत्वादनुष्ठानमेव लुप्येत। तस्मात्प्रयाजान्तस्य कर्मसमूहस्यापकर्षः, अनुयाजादेरङ्गसमूहस्योत्कर्षः।

तत्रैव तृतीयपादे चिन्तितम् —

“ एकादश प्रयाजाः किं प्रत्येकं स्यादुतान्यथा।

संख्यावृद्धिरिहाऽऽद्योऽस्तु प्रतिमुख्यं गुणो यतः॥

प्रत्येकं समुदाये वा स्वरूपेण न सिध्यति।

संख्यावृद्धिः प्रयोगात्तु साऽऽवृत्त्या संभविष्यति ” इति।

अग्निषोमीयपशौ श्रूयते — ‘ एकादश प्रयाजान्यजति ’ इति। तत्र चोदकप्राप्तेषु पञ्चसु प्रयाजेष्वेकैकस्य प्रयाजस्येयमेकादशत्वसंख्या युक्ता। कुतः प्रयाजानुद्दिश्य संख्यागुणे विहिते सति प्रतिप्रधानं गुणस्याभ्युपेयत्वादिति प्राप्ते ब्रूमः — न ह्येकैकस्य प्रयाजस्य स्वरूपमात्रमुपजीव्येयमेकादशत्वसंख्या संपादयितुं शक्या। नापि पञ्चप्रयाजसमुदायस्य स्वरूपे साऽस्ति। तस्मात्प्रयोगद्वारा सा संपादनीया। प्रयोगस्य चाऽऽवर्तयितुं शक्यत्वात्। पञ्च प्रयाजान्द्विरावर्त्य पुनरपि चरमप्रयाजे सकृदावर्तिते सत्येकादशत्वसंख्या संपद्यते।

अथ छन्दः।

उरो अन्तरिक्षेति त्रिष्टुप्। आपो देवीः शुद्धायुव इत्यनुष्टुप्॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे तृतीयप्रपाठकेऽष्टमोऽनुवाकः ॥८॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ पशुरशनामादत्ते - आ दद इति ॥ गृह्नामीत्यर्थः । अस्य शेषभूतस्सावित्रो 'देवस्य त्वा' इत्यादिना व्याख्यात एव ॥
2 तया अक्ष्णया पशुमभिनिदधाति - ऋतस्य त्वेति ॥ हे देवहविः देवानां हविर्भूत पशो, ऋतस्य सत्यस्य यज्ञस्य वा पाशेन बन्धिकयानया रशनया त्वामालभे बध्नामि । यद्वा - ऋतस्य यज्ञस्यार्थाय त्वां पाशेन बध्नामि । 'सत्यं वा ऋतम्' इत्यादि ब्राह्मणम्, 'अक्ष्णया परि हरति' इत्यादि च ॥
3 तेन यूपे पशुं नियुनक्ति - धर्षा मानुषानिति ॥ मश्येभ्य आगता उपद्रवा मानुषाः । अत्र 'हलस्तद्धितस्य' इति यलोपः, वृषादित्वादाद्युदात्तत्वम् । उत्सादिर्वा द्रष्टव्यः । तान् धर्ष अभिभव यागसाधनत्वेन देवत्वप्राप्त्या मानुषोपद्रवरहितो भवेत्यर्थः । धृष प्रसहने, चौरादिक उदात्तेदाधृषीयः । प्रसहनमभिभवः । 'द्व्यचोतस्तिङः' इति संहितायां दीर्घत्वम् । यद्वा - मनुष्या एव मानुषाः । 'मनोर्जातौ' इत्यञ् । तान् धर्ष देवत्वप्राप्त्यैव ॥
4 पशुं प्रोक्षति - अद्भ्यस्त्वेति ॥ तादर्थ्ये चतुर्थी, आप ओषधयश्च भूयासुरित्येवमथर्म् । हे पशो त्वां प्रोक्षामि प्रकर्षेण सिञ्चामि । पशोरपामोषधीनां कार्यत्वात्कार्यकारणयोश्चाभिन्नत्वात् कार्यभूतपशुप्रोक्षणेन तत्कारणानां सिद्धिरिति भावः । ' अद्भ्यो ह्येष ओषधीभ्यस्सम्भवति यत्पशुः' इति च ब्राह्मणम् । यद्वा - अद्भ्य ओषधीभ्यश्च जातं त्वां प्रोक्षामि; कारणेन हि कार्याणां शुद्धिः । पवित्रेणोत्पूतत्वादोषधिसम्बन्धोप्यस्ति । 'ऊडिदम्' इत्यादिना अद्भ्यः परस्या विभक्तेरुदात्तत्वम् । ओषधिशब्दस्य दासीभारादित्वार्त्पूवपदप्रकृतिस्वरत्वम् । ओषशब्दो घञन्त आद्युदात्तः ॥
5 पाययति - अपां पेरुरसीति ॥ हे पशो अपां पेरु पातासि त्वं, ततः इमाः पिबेति गम्यते । यद्वा - असीति पञ्चमो लकारः, अपां पाता भव । पूर्ववदद्भ्योविभक्तेरुदात्तत्वम् । पा पाने, 'मापो रुरिच्च' इति पिबतेरुप्रत्ययः इकारश्च, पेरुः । 'एष ह्यपां पाता' इत्यादि ब्राह्मणं । पानेन चान्तश्शुद्धिः क्रियते । 'पाययत्यन्तरत एवैनम्मेध्यं करोति' इति च ब्राह्मणम् ॥
6 अधस्तादुपोक्षति - स्वात्तमिति द्विपदया गायत्र्या ॥ स्वात्तमास्वाद्यमानं स्वादुभूतमित्यर्थः । स्वाद आस्वादने । 'आदितश्च' इति चकारस्यानुक्तसमुच्चयार्थत्वादाश्वस्तादिवदिडाभावः । चिदित्यप्यर्थे, एवार्थे वा; पूर्वमेव स्वादुं सन्तमेनं हव्यं पशुं स्वदत आस्वादयत स्वादुतमं कुरुत । ष्वद स्वर्द आस्वादने अनुदात्तेत्, तस्मात् ण्यन्ताल्लोटि 'बहुलं सज्ञाछन्दसोः' इति णेर्लुक् । 'अणावकर्मकात्' इति परस्मैपदम्, स्वदमानस्य पशोश्चित्तवत्त्वात् । 'स्वदयत्येवैनम्' इति च ब्राह्मणम् । हे आपो देवीः देव्यः । 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । अत्र आप इति पादादित्वान्न निहन्यते, षाष्ठिकमामन्त्रिताद्युदात्तत्वं प्रवर्तते । 'विभाषितं विशेषवचने बहुवचनम्' इति तस्याविद्यमानत्वनिषेधाद्देवीरिति निहन्यते । 'आमन्त्रितं पूर्वमविद्यमानवत्' इति तयोर्द्वयोरप्यविद्यमानत्वेन पादादिभूतं स्वदतेति तिङन्तं न निहन्यते । एनादेशोनुदात्त एव । हव्यं पशुर्विशेष्यते - सदेवं देवसहितं देवाधिष्ठितम् । 'तेन सहेति तुल्ययोगे' इति बहुव्रीहिः, 'वोपसर्जनस्य' इति सभावः । सदेवत्वस्यानाशासनीयत्वात् तेन 'प्रकृत्याशिष्यगोवत्सहल' इति प्रकृतिभावाभावः । पुनश्च विशेष्यते - हव्यं हविर्भूतम् । जुहोतेः 'अचो यत्' इति यत्, उञ्छादिर्द्रष्टव्यः । यद्वा - हवमर्हतीति हव्यं । 'छन्दसि च' इति यत्प्रत्ययः ॥
7 जुह्वा पशुं समनक्ति ललाटे ककुदि श्रोण्यां च – सन्ते प्राण इति पुरउष्णिहा त्रिपदया द्वादशवस्वष्टाक्षरया ॥ तत्र ललाटे समनक्ति - सन्ते प्राणो वायुना गच्छतामिति । हे पशो त्वदीयः प्राणो वायुः वायुना वरिष्ठेन भूतात्मना सह सङ्गच्छतामेकीभवतु । 'समोगमृच्छि' इत्यात्मनेपदम् । 'वायुदेवत्यो वै' इत्यादि ब्राह्मणम् ॥
8 ककुदि समनक्ति - सं यजत्रैरिति ॥ त्वदीयान्यङ्गानि हृदयादीनि यजत्रैर्यागैस्सङ्गच्छन्तां यागसाधनानि भवन्तु । यद्वा - यागसाधनैस्सङ्गच्छन्तां यागसाधनमध्ये वर्तन्ताम् । गच्छन्तामिति लौकिको वाक्यशेषः, अनुषङ्गस्याभावात् । 'अमिनक्षियजिवधिपतिभ्योऽत्रन्' इति यजेरत्रन्प्रत्ययः । 'विश्वरूपो वै त्वाष्ट्र उपारिष्टात् पशुमभ्यवमीत्' इत्यादि ब्राह्मणम् ॥
9 दक्षिणस्यां श्रोण्यां समनक्ति - सं यज्ञपतिरिति ॥ यज्ञपतिर्यजमान आशिषा प्रार्थनापदेन सङ्गच्छताम् । लौकिक एव वाक्यशेषः, लोकिकेन बहुवचनेन वैदिकस्य व्यवहितत्वात् । 'पत्यावैश्वर्य' इति यज्ञपतिशब्दे पूर्वपदस्य प्रकृतिस्वरत्वम् । आङ्पूर्वाच्छासेः क्विपि इत्वे कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
10 स्वधितिं स्वरुं च जुह्वामङ्क्त्वा ताभ्यां पशुं समनक्ति - घृतेनेति ॥ हे स्वरो स्वधिते घृतेन प्रयाजशेषेणानेन अक्तौ सन्तौ पशुं त्रायेथाण् समञ्जनेन रक्षतम् । 'वज्रो वै स्वधितिर्वज्रो यूपशकलः' इत्यादि ब्राह्मणम् ॥
11 पशुमुदञ्चन्नीयमानमनुमन्त्रयते - रेवतीर्यज्ञपतिमिति यजुरादिकया उरो अन्तरिक्षेति पञ्चपदया रुद्रेशवसुमुनिस्वराक्षरया ॥ क्षीरादिरयिमन्तः पशवो रेवतशिब्देनोच्यन्ते । 'पशवो वै रेवतीः' इति च ब्राह्मणम् । 'रयेर्मतौ बहुलम्' इति सम्प्रसारणम्, 'संज्ञायाम्' इति मतुपो वत्वम्, 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम्, आमन्त्रिताद्युदात्तत्वम् । अवयवेषु समुदायशब्दस्तद्धर्मश्चोपचर्यते । हे रेवतीः रयिमन्तः पश्ववयवाः, यज्ञपीतं यजमानं, प्रियधा प्रियं धारयन्त्य आविशत यजमानस्य यागसिद्ध्यर्थं अवदानात्मना प्रीतिपूर्वकं तिष्ठत । प्रियं दधातीति दधातेः 'आतेनुपसर्गे कः' इति कः, टाप्, कृदुत्तरपदप्रकृतिस्वरत्वम्, 'सुपां सुलुक्' इति जसो लुक् । यद्वा - प्रियधा प्रियस्य धारणेन आविशत प्रियं धारयित्वैव यजमाने तिष्ठत । प्रियस्य धानं प्रियधा । तृतीयैकवचने आतो लोपे उदात्तनिवृत्तिस्वरत्वम् । यद्वा - व्यत्ययेन असङ्ख्याया अपि विधार्थे धाप्रत्ययः । प्रियप्रकारेणेत्यर्थः । यज्ञदेवता वा यज्ञपतिस्तां प्रीतिर्पूवकं भक्ष्यत्वेन सयुग्भावेन वा आविशत । यद्वा - सर्वे पशव उच्यन्ते - वयमस्माकमेको हन्तुं नीयत इति उद्वेगं मा कार्ष्ट । यजमानस्योपभोगाय प्रीतिपूर्वकं तस्मिन्वर्तध्वम् । अन्तरिक्षशब्देन पशोस्सुषिराणि श्रोत्रादीनीन्द्रियाण्युच्यन्ते; समुदायापेक्षमेकवचनम् । हे उरो विस्तीर्ण अन्तरिक्ष श्रोत्रादीन्द्रियसमुदाय त्वं सजूः समानप्रीतिर्भूत्वा । 'समानस्य छन्दसि' इति सभावः, 'ससजुषोः' इति रुत्वम्, 'त्रिचक्रादीनामन्तः' इत्युत्तरपदान्तोदात्तत्वम् । केन सजूः? देवेन दीप्तिमता वातेन पशुप्रायेन । किञ्च – त्मना आत्मना पशुक्षेत्रज्ञेन च सजूः । 'मन्त्रेष्वाङ्यादेरात्मनः' इत्याकारलोपः । एवमाभ्यामपि सह त्वं समानप्रीतिर्भूत्वास्य हविषो यज इदं पश्वात्मकं हविर्देहि यागार्थमिदानीं सर्वेपि यूयमनुजानीतेत्यर्थः । 'क्रियाग्रहणं कर्तव्यम्' इति कर्मणस्सम्प्रदानत्वात् 'चतुर्थ्यर्थे बहुलम् छन्दसि' इति षष्ठी । यजतिर्दानकर्मा । उरो इति पादादित्वान्निघाताभावे षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । 'नामन्त्रिते समानाधिकरणे' इति तस्याविद्यमानवत्त्वनिषेधात्परमामन्त्रितं निहन्यते । किञ्च - अस्य पशोस्तन्वा शरीरेण सम्भव संयुजस्व । देवभूयस्याप्यस्य पशोश्शरीरं मा हिंसीः । अपि च - हे वर्षीयः प्रवृद्धतरश्रोत्रादीन्द्रियसमुदाय वर्षीयसि प्रवृद्धतरे यज्ञे यज्ञपतिं यजमानं धाः धारय अविघ्नेन स्थापय । हविष्यमस्य अनुभावय शीघ्रं यज्ञं निर्वर्तय । यद्वा - यज्ञफले स्थापय यागसाधनद्वारेण यनमानं यज्ञफलभाजं कुरु । अथवा - अस्य हविषो यजेति पूर्वं हविषः प्रार्थना कृता, अधुना तदेव हविरुच्यते - हे हविः अस्य पशोस्तन्वा सम्भव पौष्कल्येन सम्पद्यस्व । पुनरपि तदेवामन्त्र्यते - हे वर्षीयो हविः वर्षीयसि यज्ञे यागसाधनद्वारेण यज्ञपतिमविघ्नेन स्थापय । धा इति दधाटेर्लेटि, 'बहुलं छन्दसि' इति शपो लुक्, 'इतश्च लोपः परस्मैपदेषु' इतीकारलोपः । तनुवेति 'तन्वादीनां छन्दसि बहुळम्' इत्युवङादेशः । यज्ञपतिशब्द उक्तस्वरः ॥
12 पशुनिहननस्थाने निहन्यमानाय बर्हिरुपास्यति - पृथिव्या इति ॥ प्रस्तरनिधाने व्याख्यातम् । अत्रैवं वा - पृथिवीसम्पर्कदोषात्पशुं रक्षेति । 'पृथिव्यास्सम्पृचः पाहीति बर्हिरुपास्यत्यस्कन्दायास्कन्नꣳहि तद्यद्बर्हिषि स्कन्दति' इति च ब्राह्मणम् । यद्वा - पृथिवीसाम्पर्कादन्यान्पशून्रक्षेति ॥
13 पत्नीमादित्यमुदीक्षयति - नमस्त आतानेति ॥ हे आतान आदिव्य तुभ्यं नम इदमस्तु । आतन्वन्ति विस्तारयान्ति विश्वं जगदित्यातानाः आदित्यरश्मयः । 'आदित्यस्य वै रश्मय आतानास्तेभ्य एव नमस्करोति' इति ब्राह्मणम् । 'पश्चाल्लोका वा एषा प्राच्युदानयिते यत्पत्नी' इति च । तनोतेराङ्पूर्वात्पचाद्यच् । यद्वा - आतन्यन्ते विस्तार्यन्ते भास्करेणेत्यातानाः रश्मयः । कर्मणि घञ्, थाथादिस्वरेणोत्तरपदान्तोदात्तत्वम् । अत्र तु तद्वानादित्य एवातान इत्युच्यते ॥
14 प्राचीमुदानयन्वाचयति - अनर्वा प्रेहीति ॥ कुत्सितमरणं गमनमर्वा; 'भ्रातृव्यो वा अर्वा' इति च ब्राह्मणम् । 'अवद्यावमाधमार्वरेफाः कुत्सिते' इत्यर्तेः कनिन् प्रययोर्वादेशश्च निपात्यते तद्रहित अनर्वा । बहुव्रीहौ 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । यस्मात्त्वमनर्वा अनवद्या सदा भर्तुर्वशंगता तस्मात्प्रेहि प्राचीं गच्छ, प्राच्यां हि स्वर्गो लोकः । प्रशब्देन प्राक्त्वं द्योत्यते, यथा 'प्रेयमगात्' इति । अधुना परमसुखस्वरूपस्वर्गप्राप्तिहेतुत्वं गमनस्याह - घृतस्य कुल्या मन्विति । घृतकुल्योपलक्षितस्वर्गाख्यस्थानविशेषो घृतकुल्याशब्देनोच्यते, तामनुगच्छ तत्र गच्छेत्यर्थः । अनोर्लक्षणे कर्मप्रवचनीयत्वम् । किमेकाकिनी सती? । नेत्याह - सह प्रजया सह रायस्पोषेण गच्छ । यद्वा - किं केवलं घृतकुल्योपलक्षितं स्थानमेव प्राप्यते? नेत्याह – सह प्रजया सह रायस्पोषेण प्रजां धनपोषं च प्राप्नुहीति । प्रजाशब्दः कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः ॥ 'ऊडिदम्' इति रैशब्दात्परस्या विभक्तेरुदात्तत्वम् ॥
15 अपोवेक्षमाणां पत्नीं वाचयति - आपो देवीरिति चतुष्पदयानुष्टुभा विद्युन्मालया ॥ हे आपो देवीः देव्यः । 'वा छन्दसि' इति 'पूर्वसवर्णदीर्घत्वम् । शुद्धायुवः शुद्धा आपः शुद्धान् देशकालादीनिच्छन्ति आत्मनः परेषां वा । 'छन्दसि परेच्छायामपि' इति क्यच्, 'नच्छन्दस्यपुत्रस्य' इतीत्वप्रतिषेधे 'अकृत्सार्वधातुकयोः' इति दीर्घः, 'क्याच्छन्दसि' इत्युप्रत्ययः, 'जसादिषु वा वचनं प्राङ्णौ चङ्युपधाया' इति 'जसि च' इति गुणो न क्रियते । अथवा - अब्जातेश्शुद्धायुरिति संज्ञा, व्युत्पत्तिमात्रं तु क्रियते । तत्र 'अप्राणिजातेश्चारज्ज्वादीनाम्' इत्यूङ्प्रत्ययः, 'तन्वादीनां छन्दसि' इत्युवङ्, 'विभाषितं विशेषवचने बहुवचनम्' इति आप इत्यस्यामन्त्रितस्याविद्यमानत्त्वनिषेधात्परमामन्त्रितद्वयं निहन्यते । शुद्धास्स्वयमपि सर्वदा शुद्धाः यूयं देवान् पशोर्वागादीनीन्द्रियाणि ऊढ्वं प्रापयध्वं स्वकारणस्थानं प्रापयत । यद्वा - इमं पशुं देवान् ऊढ्वं वाघयत प्रापयत, यथा देवा भूजन्ते तथा कुरुत । वहतिस्स्वरितेत्, तस्माण्ण्यन्ताल्लेटि 'बहुलं संज्ञाछन्दसोः' इति णिलुक्, 'बहुलं छन्दसि' इति शपो लुक्, ङित्यपि बहुलवचनात् वच्यादिना सम्प्रसारणम्, ढत्वादि, 'ढ्रलोपे पूर्वस्य दीर्घोऽणः' इति दीर्घत्वम् । यद्वा - ऊहतेरनुदात्तेतः प्राप्तिकर्मणो लोटि पूर्ववच्छपो लुक् । यद्वा - देवान्प्राति ऊढ्वं यथेमं पशुं देवा भुञ्जते तथा ऊढ्वं यतध्वमिति यावत् । अत्र देवानित्यत्र नकारस्य संहितायां 'आतोऽटि नित्यं' इति रुत्वम्, 'अत्रानुनासिकः पूर्वस्य तु वा' इत्यनुनासिकः, 'अनुनासिकात्परोनुस्वारः' । वयमपि युष्माभिः परिविष्टास्सर्वतोनुप्रविष्टाः अत एव शुद्धाः युष्मदवेक्षणादियोग्याः वः युष्माकं परिवेष्टारः सर्वतः परिवेष्टारो भूयास्म अवेक्षणादिना । 'गतिरनन्तरः' इति परिशब्दे पूर्वपदप्रकृतिस्वरत्वम् । परिवेष्टृशब्दे कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
इति तृतीये अष्टमोनुवाकः ॥
पञ्चशत् 2 #
TS 1.3.8.2 TS 1.3.8.2
वाते॑ना॒स्य ह॒विष॒स्त्मना॑ यज॒ सम॑स्य त॒नुवा॑ भव॒ वर्.षी॑यो॒ वर्.षी॑यसि य॒ज्ञे य॒ज्ञ्पतिं॑ धाः पृ॑थि॒व्याः सं॒पृचः॑ पाहि॒ नम॑स्त आतानाऽन॒र्वा प्रेहि॑ घृ॒तस्य॑ कु॒॒ल्यामनु॑ स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॒णा ऽऽपो॑ देवीः शुद्धायुवः शु॒द्धा यू॒यं दे॒वाꣳ ऊ᳚ढ्वꣳ शु॒द्धा व॒यं परि॑विष्टाः परिवे॒ष्टारो॑ वो भूयास्म ॥
पदपाठः (Word-by-word)
वाते॑न । अ॒स्य । ह॒विषः॑ । त्मना᳚ । य॒ज॒ । समिति॑ । अ॒स्य॒ । त॒नुवा᳚ । भ॒व॒ । वर्.षी॑यः । वर्.षी॑यसि । य॒ज्ञे । य॒ज्ञ्प॑ति॒मिति॑ य॒ज्ञ् - प॒ति॒म् । धाः॒ । पृ॒थि॒व्याः । स॒म्पृच॒ इति॑ सम् - पृचः॑ । पा॒हि॒ । नमः॑ । ते॒ । आ॒ता॒नेत्या᳚ - ता॒न॒ । अ॒न॒र्वा । प्रेति॑ । इ॒हि॒ । घृ॒तस्य॑ । कु॒॒ल्याम् । अन्विति॑ । स॒ह । प्र॒जयेति॑ प्र - जया᳚ । स॒ह । रा॒यः । पोषे॑ण । आपः॑ । दे॒वीः॒ । शु॒द्धा॒यु॒व॒ इति॑ शुद्ध - यु॒वः॒ । शु॒द्धाः । यू॒यम् । दे॒वान् । ऊ॒ढ्व॒म् । शु॒द्धाः । व॒यम् । परि॑विष्टा॒ इति॒ परि॑ - वि॒ष्टाः॒ । प॒रि॒वे॒ष्टार॒ इति॑ परि - वे॒ष्टारः॑ । वः॒ । भू॒या॒स्म॒ ॥
पदसंख्या: 44