अनुवाकः 2 TS 3.1.2

(A2)

(ए॒व - ति॑ष्ठति॒ यो - वा॑य॒व्य॑मस्य॒ - ग्रहं॒ ॅवै - का॒न्न - विꣳ॑श॒तिश्च॑)

अनुवाकः 2 - Complete Audio

TS 3.1.2 - स्वरानुगामी

0:00 0:00
PS1.1 ए॒ष ते॑ गाय॒त्रो भा॒ग
PS1.2 इति॑ मे॒ सोमा॑य ब्रूतादे॒ष
PS1.3 ते॒ त्रैष्टु॑भो॒ जाग॑तो भा॒ग
PS1.4 इति॑ मे॒ सोमा॑य ब्रूताच्छन्दो॒मानाꣳ॒॒
PS1.5 साम्रा᳚ज्यं ग॒च्छेति॑ मे॒ सोमा॑य
PS1.6 ब्रूता॒द् यो वै सोमꣳ॒॒
PS1.7 राजा॑नꣳ॒॒ साम्रा᳚ज्यं ॅलो॒कं ग॑मयि॒त्वा
PS1.8 क्री॒णाति॒ गच्छ॑ति॒ स्वानाꣳ॒॒ साम्रा᳚ज्यं॒
PS1.9 छन्दाꣳ॑सि॒ खलु॒ वै सोम॑स्य॒
PS1.10 राज्ञ्ः॒ साम्रा᳚ज्यो लो॒कः पु॒रस्ता॒थ्
PS1.11 सोम॑स्य क्र॒यादे॒वम॒भि म॑न्त्रयेत॒ साम्रा᳚ज्यमे॒वै
PS1.12 - [ ]
PS2.1 नं॑ ॅलो॒कं ग॑मयि॒त्वा क्री॑णाति॒
PS2.2 गच्छ॑ति॒ स्वानाꣳ॒॒ साम्रा᳚ज्यं॒ ॅयो
PS2.3 वै ता॑नून॒प्त्रस्य॑ प्रति॒ष्ठां ॅवेद॒
PS2.4 प्रत्ये॒व ति॑ष्ठति ब्रह्मवा॒दिनो॑ वदन्ति॒
PS2.5 न प्रा॒श्नन्ति॒ न जु॑ह्व॒त्यथ॒
PS2.6 क्व॑ तानून॒प्त्रं प्रति॑ तिष्ठ॒तीति॑
PS2.7 प्र॒जाप॑तौ॒ मन॒सीति॑ ब्रूया॒त् त्रिरव॑
PS2.8 जिघ्रेत् प्र॒जाप॑तौ त्वा॒ मन॑सि
PS2.9 जुहो॒मीत्ये॒षा वै ता॑नून॒प्त्रस्य॑ प्रति॒ष्ठा
PS2.10 य ए॒वं ॅवेद॒ प्रत्ये॒व
PS2.11 ति॑ष्ठति॒ यो - [
PS2.12 ]
PS3.1 वा अ॑द्ध्व॒र्योः प्र॑ति॒ष्ठां ॅवेद॒
PS3.2 प्रत्ये॒व ति॑ष्ठति॒ यतो॒ मन्ये॒तान॑भिक्रम्य
PS3.3 होष्या॒मीति॒ तत् तिष्ठ॒न्ना श्रा॑वयेदे॒षा
PS3.4 वा अ॑द्ध्व॒र्योः प्र॑ति॒ष्ठा य
PS3.5 ए॒वं ॅवेद॒ प्रत्ये॒व ति॑ष्ठति॒
PS3.6 यद॑भि॒क्रम्य॑ जुहु॒यात् प्र॑ति॒ष्ठाया॑ इया॒त्
PS3.7 तस्मा᳚थ् समा॒नत्र॒ तिष्ठ॑ता होत॒व्यं॑
PS3.8 प्रति॑ष्ठित्यै॒ यो वा अ॑द्ध्व॒र्योः
PS3.9 स्वं ॅवेद॒ स्ववा॑ने॒व भ॑वति॒
PS3.10 स्रुग्वा अ॑स्य॒ स्वं ॅवा॑य॒व्य॑मस्य॒
PS3.11 - [ ]
PS4.1 स्वं च॑म॒सो᳚ऽस्य॒ स्वं ॅयद्वा॑य॒व्यं॑
PS4.2 ॅवा चम॒सं ॅवाऽन॑न्वारभ्याऽऽश्रा॒वये॒थ् स्वादि॑या॒त्
PS4.3 तस्मा॑ दन्वा॒रभ्या॒ ऽऽश्राव्यꣳ॒॒ स्वादे॒व
PS4.4 नैति॒ यो वै सोम॒म-
PS4.5 प्र॑तिष्ठाप्य स्तो॒त्र-मु॑पाक॒रोत्य प्र॑तिष्ठितः॒ सोमो॒
PS4.6 भव॒त्यप्र॑तिष्ठितः॒ स्तोमो- ऽप्र॑तिष्ठिता-न्यु॒क्थान्यप्र॑तिष्ठितो॒ यज॑मा॒नो
PS4.7 ऽप्र॑तिष्ठितो ऽध्व॒र्युर्वा॑ य॒व्यं॑ ॅवै
PS4.8 सोम॑स्य प्रति॒ष्ठा च॑म॒सो᳚ऽस्य प्रति॒ष्ठा
PS4.9 सोमः॒ स्तोम॑स्य॒ स्तोम॑ उ॒क्थानां॒
PS4.10 ग्रहं॑ ॅवा ( )
PS4.11 गृही॒त्वा च॑म॒सं ॅवो॒न्नीय॑ स्तो॒त्रमु॒पा
PS4.12 कु॑र्या॒त् प्रत्ये॒व सोमꣳ॑ स्था॒पय॑ति॒
PS4.13 प्रति॒स्तोमं॒ प्रत्यु॒क्थानि॒ प्रति॒ यज॑मान॒स्तिष्ठ॑ति॒
PS4.14 प्रत्य॑द्ध्व॒र्युः

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 3.1.2.1 TS 3.1.2.1
ए॒ष ते॑ गाय॒त्रो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतादे॒ष ते॒ त्रैष्टु॑भो॒ जाग॑तो भा॒ग इति॑ मे॒ सोमा॑य ब्रूताच्छन्दो॒मानाꣳ॒॒ साम्रा᳚ज्यं ग॒च्छेति॑ मे॒ सोमा॑य ब्रूता॒द् यो वै सोमꣳ॒॒ राजा॑नꣳ॒॒ साम्रा᳚ज्यं ॅलो॒कं ग॑मयि॒त्वा क्री॒णाति॒ गच्छ॑ति॒ स्वानाꣳ॒॒ साम्रा᳚ज्यं॒ छन्दाꣳ॑सि॒ खलु॒ वै सोम॑स्य॒ राज्ञ्ः॒ साम्रा᳚ज्यो लो॒कः पु॒रस्ता॒थ् सोम॑स्य क्र॒यादे॒वम॒भि म॑न्त्रयेत॒ साम्रा᳚ज्यमे॒वै - [ ]
पदपाठः (Word-by-word)
ए॒षः । ते॒ । गा॒य॒त्रः । भा॒गः । इति॑ । मे॒ । सोमा॑य । ब्रू॒ता॒त् । ए॒षः । ते॒ । त्रैष्टु॑भः । जाग॑तः । भा॒गः । इति॑ । मे॒ । सोमा॑य । ब्रू॒ता॒त् । छ॒न्दो॒माना॒मिति॑ छन्दः - माना᳚म् । साम्रा᳚ज्य॒मिति॒ साम् - रा॒ज्य॒म् । ग॒च्छ॒ । इति॑ । मे॒ । सोमा॑य । ब्रू॒ता॒त् । यः । वै । सोम᳚म् । राजा॑नम् । साम्रा᳚ज्य॒मिति॒ साम् - रा॒ज्य॒म् । लो॒कम् । ग॒म॒यि॒त्वा । क्री॒णाति॑ । गच्छ॑ति । स्वाना᳚म् । साम्रा᳚ज्य॒मिति॒ साम् - रा॒ज्य॒म् । छन्दाꣳ॑सि । खलु॑ । वै । सोम॑स्य । राज्ञ्ः॑ । साम्रा᳚ज्य॒ इति॒ साम् - रा॒ज्यः॒ । लो॒कः । पु॒रस्ता᳚त् । सोम॑स्य । क्र॒यात् । ए॒वम् । अ॒भीति॑ । म॒न्त्र॒ये॒त॒ । साम्रा᳚ज्य॒मिति॒ साम् - रा॒ज्य॒म् । ए॒व ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ तृतीयकाण्डे प्रथमप्रपाठके द्वितीयोऽनुवाकः)।

आद्ये संकीर्तितौ मन्त्रौ वृष्टौ चामेध्यदर्शने।

द्वितीयानुवाके सोमोपस्थानमन्त्राश्चत्वार उत्पाद्यन्ते-

एष त इति। हे देवतात्मक सोम राजन्नेष पुरतो दृश्यमानः क्रेतव्यो वल्लीरूपस्ते त्वदीयो भागो गायत्रः प्रातःसवने गायत्रीछन्दसा संस्कार्य इत्येतादृग्यजमानरूपस्य मे गायत्री देवता सोमाय ब्रूतात्। एवं त्रैष्टुभो माध्यंदिने सवने त्रिष्टुप्छन्दसा संस्कार्यः। अस्मिन्नेष त इति मन्त्रो नानुषज्यते। भाग इति मे सोमाय ब्रूतादित्ययमुत्तरांशोऽनुष-ज्यते। जागतस्तृतीयसवने जगतीछन्दसा संस्कार्यः। अत्रैष इत्ययं पूर्वांश एवानुषज्यते। छन्दोभिर्गायत्रीत्रिष्टुब्जगती-भिरक्षरसंख्यया मीयन्त उपमीयन्त इति चतुर्विंशचतुश्च-त्वारिंशाष्टाचत्वारिंशाख्याः स्तोमास्त्रयश्छन्दोमास्तेषां साम्राज्यं द्वादशाहादिषूत्तरक्रतुषु विद्यते तत्साम्राज्यं गच्छेत्येतद्यजमानस्य मे वचनं तेन तेन स्तोमेताऽऽराध्या देवता सोमाय राज्ञे ब्रूतात्। अत्र चतुर्विंशाख्यस्तोमरूपस्य च्छन्दोमस्य विष्टुतिः सामब्राह्मण इत्थं समाम्नाता- 'अष्टाभ्यो हिं करोति स तिसृभिः स चतसृभिः स एकया। अष्टभ्यो हिं करोति स एकया स तिसृभिरित्येषा वै प्रतिष्ठा चतुर्विंशस्य विष्टुतिः' इति। अस्यायमर्थः- सामगानाधारभूतस्य तृचस्य प्रथमपर्याये प्रथमामृचं त्रिर्गायेत्। द्वितीयां चतुर्गायेत्। तृतीयां सकृद्गायेत्। द्वितीये पर्याये प्रथमां सकृद्गायेद्द्वितीयां त्रिर्गायेत्तृतीयां चतुर्गायेत्। तृतीये पर्याये प्रथमां चतुर्गायेद्द्वितीयां सकृद्गायेत्तृतीयां त्रिर्गायेत्। सेयं चतुर्विंशस्तोमसंबन्धिनी विशिष्टा स्तुतिः। अथ चतुश्चत्वारिंशस्तोम एवमाम्नायते 'पञ्चदशभ्यो हिं करोति स तिसृभिः स एकादशभिः स एकया। चतुर्दशभ्यो हिं करोति स एकया स तिसृभिः स दशभिः। पञ्चदशभ्यो हिं करोति स एकादशमिः स एकया स तिसृभिरित्येषा वै प्रतिष्ठिता चतुश्चत्वारिंशस्य विष्टुतिः' इति। प्रथमपर्याये प्रथमां त्रिर्गायेत्। द्वितीयामेकादशकृत्वो गायेत्। तृतीयां सकृद्गायेत्। द्वितीये पर्याये प्रथमां स-

कृद्गायेद्द्वितीयां त्रिर्गायेत्तृतीयां दशकृत्वो गायेत्। तृतीये पर्याये प्रथमामेका-

दशकृत्वो गायेद्द्वितीयां सकृद्गायेत्तृतीयां त्रिर्गायेत्। सेयं चतुश्चत्वारिंशस्तोमाख्यस्य च्छन्दोमस्य विष्टुतिः। अथाष्टाचत्वारिंशस्तोमस्य विष्टुतिरेवमाम्नायते-

'षोडशभ्यो हिं करोति स तिसृभिः स द्वादशभिः स एकया। षोडशभ्यो हिं करोति स एकया स तिसृभिः स द्वादशभिः। षोडशभ्यो हिं करोति स द्वादशभिः स एकया स तिसृभिरित्येषा वै प्रतिष्ठिताऽष्टाचत्वारिंशस्य विष्टुतिः ' इति। प्रथमे पर्याय प्रथमां त्रिर्गायेत्। मध्यमां द्वादशकृत्वो गायेत्। उत्तमां सकृद्गायेत्। द्वितीये पर्याये प्रथमां सकृद्गायन्मध्यमां त्रिरुत्तमां द्वादशकृत्वः। तृतीये पर्याये प्रथमां द्वादशकृत्वा द्वितीयां सकृत्तृतीयां त्रिर्गायेत्। सेयमष्टाचत्वारिंशस्तामाख्यस्य च्छन्दोमस्य विष्टुतिरिति। द्वादशाहक्रतोरष्टममहश्चतुर्विंशस्तोप्रसाध्यं नवममहश्चतुश्चत्वारिंशस्तोमसाध्यं दशममहरष्टाचत्वारिंशस्तोमसाध्यम्। तस्माच्छन्दोमानां साम्राज्यं द्वादशाहाद्युत्तरक्रतुषु प्राप्यते।

एष ते गायत्र इत्यादींश्चतुरो मन्त्रान्विनियोक्तुं प्रस्तौति-

यो व सोभामात। यजमानः सोमदेवतारूपं राजानं साम्राज्यरूपं लोकं प्रापय्य पश्चाद्वल्लीरूपं सीमं क्रीणाति। स स्वानां मध्ये साम्राज्यं गच्छति। गायत्रीत्रिष्टुब्जगती-रूपाणि च्छन्दांसि तैरुपलक्षिताश्छन्दोमाश्च सोमस्य राज्ञः साम्राज्युक्तो लोक इत्युच्यते।

अथ चतुरो मन्त्रान्सोमाभिमन्त्रणे विनियुङ्क्ते-

पुरस्तदिति। एवमिति एष ते गायत्र इत्यादिभिश्चतुर्भिरित्यर्थः। प्राकरणिका-नुवाकसंबन्धस्तु पुरस्तात्सोमस्य क्रयादेव स्पष्टमवगम्यते। सोमं ते क्रीणामीति मन्त्रेण सोमक्रय आरब्धस्तत्पूर्वम शुना ते अ शुरित्यनुवाकस्यावसाने प्रजास्त्वामनुप्राणन्त्वित्येतदूर्ध्वमेष ते गायत्र इत्यादयश्चत्वारा मन्त्रा द्रष्ठव्याः।

पूर्वोक्तयोरबद्धं गन उन्दतीवंलमित्वेतयोर्मन्त्रयोर्यद्यपीदृशं स्पष्टं वचनं नास्ति तथाऽपि दीक्षितस्य वाद इति वाक्येन प्रकरणप्रसिद्धं दीक्षितमनूद्य वादविधानाद्दीक्षितत्वसिद्धेरूर्ध्वभावित्वं गम्यते। दीक्षितत्वमाकूत्यै प्रयुजेऽग्नये स्वाहेत्यनुवाके संपन्नं तदीयब्राह्मणे दीक्षितत्वावेदनस्याऽऽस्नातत्वात् 'स्वाहा यज्ञं वातादारभ इत्याहायं वाव यः पवते स यज्ञस्तमेव साक्षादारभते मुष्टी करोति वाचं यच्छति यज्ञस्य धृत्या अदीक्षिष्टायं ब्राह्मण इति त्रिरुपा श्वाह' इति। तस्माद्यज्ञं वातादारभ इत्येतस्मादुपर्यबद्धं मन उन्दतीर्बलमित्येतौ द्रष्टव्यौ। एवमुत्तरत्रापि सर्वत्रौपानुवाक्ये योजनीयम्।

अथ तानूनप्त्रस्यावघ्राणं विधातुं प्रस्तौति-

यो वै तानूनेति। तानूनप्त्रस्य त्वा गृह्णामीत्यादिभिर्मन्त्रैश्चमसे यदाज्यं गृह्यते तत्तानूनप्त्रं तस्य प्रतिष्ठा न ज्ञायते। सोमरसस्य तु वह्नै हुतत्वादृत्विग्भिः पतित्वाच्चास्ति प्रतिष्ठितत्वम्। तानूनष्वे तु तदुभयं नास्तीति ग्रह्मवादिभिः पृष्ठो बुद्धिमानुत्तरं ब्रूयान्मनसा प्रजापतौ स्थापनादस्ति प्रतिष्ठेति।

इदानीं मन्त्रेणावप्राणं विधत्ते-

त्रिरव जिघ्रेदिति। प्रजापतावित्यादिर्मन्त्रः। हे तानूनप्त्र त्वां प्रजापतौ जुहोमीत्येवं मनसि स्मरामीति शेषः। अयं च मन्त्रोऽग्नेरातिथ्यमसीत्यनुवाकस्यान्ते द्रष्टव्यः त एते पूर्वोक्ता मन्त्रा विधयश्व याजमानाः। इत ऊर्धं त्वाध्वर्यवाः। तत्राऽऽश्रावणं विधत्ते-

यो वा अध्वर्योरिति। आश्रावणमारभ्य होमपर्यन्तमेकत्रावस्थानमध्वर्योः प्रतिष्ठा। आहवनीयसमीषादिषु होमदेशेषु मध्ये यस्माद्देशादभिक्रमणमकृत्वा यं होमं होष्यामीति मन्येत तद्धोमार्थं तस्मिन्नेव देशे तिष्ठन्नाश्रावयेत्।

आश्रावणदेशादन्यत्र गत्वा होमं निन्दति-

यदभिक्रम्येति। इयात्प्रच्यवेत। समानत्र समानदेशे यत्राऽऽश्रावणं तत्रवेत्यर्थः। सोऽयं विधिः सर्वाश्रावणसाधारणत्वान्सर्वत्रान्वेति। प्रयाजेषु त्वभिक्रामं जुहोतीति वाचनिकमभिक्रमणम्। आश्रावणकाले होमसाधनस्य हस्ते धारणं विधत्ते-

यो वा अध्वर्योरिति। स्रुग्जुह्वाद्यैन्द्रवायवादिसोमरसग्रहणाधारभूतं पात्रं वायव्यं वायुना तस्य वृतत्वात्, मद्देवत्यान्येव वः पात्राण्युच्यन्ता इति। त स्मान्नानादेवत्यानि सन्ति वायव्यान्युच्यन्त इत्याम्नातः सोमरसोन्नयनपात्रविशेषश्चमसः। यद्यपि स्रुगप्यत्रोपन्यस्ता तथाऽपि सोमब्राह्मणशेषत्वाद्वायव्यचमसयोरेवान्वारम्भणं धारणमत्र विधीयते तेन स्रुचां धारणमप्युलक्ष्यत इति द्रष्टव्यम्। अन्वारभ्य हस्ते गृहीत्वेत्यर्थः।

अथ प्रातःसवनादिस्तोत्राणां कालविशिष्टमुपाकरणं विधत्ते-

यो वै सोममिति। स्तोत्रस्योपाकरणप्रकारमापस्तम्बो दर्शेयति- वायुर्हिंकर्तेति प्रस्तोत्रे बर्हिर्मुष्टिं प्रयच्छति सर्वेषु पवमानेष्ववेमुपाकरणोऽसर्ज्यसर्जि वागसर्ज्यैन्द्र सहोऽसर्ज्युपावर्तध्वमिति बर्हिर्भ्यामन्यानि पवमानेभ्यः स्तोत्राण्युपाकरोति इति। ग्रहे चमसे वा सोमरसस्य प्रक्षेपः प्रतिष्ठापनम्। तदकरणे सोमोऽप्रतिष्ठितो भवति। सोमस्याप्रतिष्ठायां स्तोमस्य प्रगीतमन्त्रसाध्याया (?) स्तुतेनाप्रतिष्ठा भवति। तदप्रतिष्ठायां स्तुतमनुशंसतीति विहितानामप्रगतिमन्त्रसाध्यस्तुतिरूपाणामुक्थशब्दाभिधेयानां शस्त्राणामप्रतिष्ठा भवति। तदप्रतिष्ठायां च यज्ञस्यासिद्धेर्यजमानोऽ–ध्वर्युश्चेत्युभावप्रतिष्ठितौ भवतः। कथं तर्ह्युक्तपरम्पराया उत्तरोत्तरप्रतिष्ठा भवतीति। तदुच्यते-यदि वायव्ये चमसे वा सोमः प्रतिष्ठितो भवति ततः स्तोत्रशस्त्रयजमानाध्वर्यू-णामुत्तरोत्तरप्रतिष्ठा। तस्माद्वायव्य ऊर्ध्वपात्रे सोमरसं गृहीत्वा वा चमसं सोमरसेन पूरयित्वा वा सूणोक्तप्रकारेण स्तोत्रमुपाकुर्यांत्। आश्विनग्रहात्पूर्वभाविष्वैन्द्रवायवादि-ग्रहेषु गृहीतेषु बहिष्पवमानस्य यदुपाकरणं तत्र चमसोन्नयनाभावाद्ग्नहणमेवोपा-करणकालस्योपलक्षणम्। तृतीयसवने पात्नीवतान्तेषु ग्रहेषु हुतेषु चमसान्पूरयित्वा यज्ञायज्ञियस्तोत्रमुपाकरोति। तत्र ग्रहग्रहणाभावाच्चमसोन्नयनमेवोपाकरणकालोपल-क्षणम्। अत एवाऽऽपस्तम्ब आह- होतृचमसमुख्यांश्चमसानुन्नयन्त राजानमुन्नीय दशामिः कलशौ मृष्ट्वा न्युब्जति यज्ञायज्ञियस्य स्तोत्रमुपाकरोति इति। यदि तृतीयप्र-पाठकेएतद्वै सर्वमध्वर्युरुपाकुर्वन्नुद्गातृभ्य उपाकरोतीत्येष उपाकरणविधिः स्यात्तर्हि तदनुवादेनात्र कालविधिरस्तु। ग्रहचमसोन्नयनोर्ध्वकालभाविना स्तोत्रोपाकरणेन च सोमस्तोमादिपरम्परायाः प्रतिष्ठा संपद्यते। सोमं प्रतिष्ठापयतीत्यन्वयः स्तोत्र मुक्थानीत्यत्रापि तथाऽन्वेतव्यम्।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे प्रथमप्रपाठके

द्वितीयोऽनुवाकः॥२॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 -4पुरस्तात्सोमस्य क्रयाद्राजानमभिमन्त्रयते । एष वल्लीसोमस्तव गायत्रो भागः अंशः । 'कर्षात्त्वतः' इत्यन्तोदात्तत्वम् । एतदुक्तं भवति - गायत्रीविषयं यत्तव साम्राज्यं तस्येदं स्थानं इममधिष्ठाय तत्साम्राज्यं कुरुष्वेति । इत्थं मे मदर्थं मदीयं वा सोमं सोमाय राज्ञे ब्रूतात् ब्रूत । हे छन्दांसि । यद्वा - हे देवाः 'तस्य तात्' इति तादादेशः । एवं 'एष ते त्रैष्टुभः एष ते जागतः' इत्येतयोरपि वेदितव्यम् । भाग इत्युभयत्राप्यनुषज्यते । त्रिष्टुप्जगतीशब्दाभ्यामुत्सादित्वात्प्राग्दीव्यतीयोऽण् । छन्दांसि प्रधानानि वा । गायत्रीत्रिष्टुप्जगत्येतद्विषयं तत्संबन्धि यत्तव साम्राज्यादिकं तदेतेन वल्लीसोमेन गच्छ कुर्वित्यर्थः । एवं त्वां साम्राज्यं गमयामः अनेनाभिमन्त्रणेनेति भावः । शिष्टं स्पष्टम् । सम्यग्राजत इति सम्राट्, क्विप् 'मो राजिसमः क्वौ' इति मः । तस्य भावः साम्राज्यं गुणवचनत्वात् ष्यञ् । छन्दोविषयं तवैश्वर्यमित्यर्थः ॥
5 अथैतेषां मन्त्राणां ब्राह्मणम् - यो वै सोममिति ॥ लोकः प्रकाशः । साम्राज्यलक्षणं लोकं गमयित्वा यस्सोमं क्रीणाति स स्वानामात्मीयानां साम्राज्यं गच्छति । तिङः परत्वान्न निहन्यते । समानवाक्ये वा पदात्परत्वाभावात् । कः पुनः साम्राज्यलक्षणो लोकः इत्याह - छन्दांसीत्यादि । साम्राज्यस्य छन्दोवीषयत्वात् ताच्छब्द्यमुपचर्यते, व्यत्ययेन पुल्लिङ्गता । कथंपुनस्तत्सोमो गमयितव्य इत्यत आह - पुरस्तादित्यादि । पुरस्तात् पूर्वस्मिन् काले । 'दिक्शब्देभ्यः ' इत्यादिना अस्तातिः, 'अस्ताति च' इति पुरादेशः । एवमिति 'एष ते गायत्रः' इत्यादिभिर्मन्त्रैरित्यर्थः । इष्टसिद्धिसमर्थनेन निगमयति - साम्राज्यमेवेत्यादि । एवं कुर्वन् साम्राज्यं लोकं गमयित्वैव एनं सो क्रीणाति, स्वयं च स्वानां साम्राज्यं गच्छति ॥
6 अथ तानूनप्त्रस्यावघ्राणं विधास्यन्नाह - यो वै तानूनप्त्रस्येत्यादि ॥ तनूनामपां नप्ता चतुर्थस्तनूनपात् शरीरस्थोग्निः, तस्मै यद्गृह्यते आज्यं तत्तानूनप्त्रम् । यद्यपि 'आपतये त्वा गृह्णामि' इत्याद्यापत्यादिभ्यः प्राणादिभ्यो ह्येतद्गृह्यते । तथाऽपि प्राधान्यात्तानूनप्त्रा व्यपदिश्यते । तस्य यः प्रतिष्ठां वेद स प्रतितिष्ठत्येव ॥
7 अधुना ब्रह्मवादिभिः पर्यनुयोजयति - ब्रह्मवादिन इत्यादि ॥ ब्रह्म वेदः तदर्थं वदितुं शीलमेषां ते ब्रह्मवादिनः । 'ब्रह्मणि वदः' इति णिनिः । वदन्ति प्रश्नं कुर्वन्ति - नेदं तानूनप्त्रं प्राश्नन्ति, न चेदं जुह्वति प्राशनेन वा होमेन वा नास्य प्रतिष्ठेति ॥
8 अथेदानीं तानूनप्त्रं क्व प्रति तिष्ठति, काऽस्य प्रतिपत्तिरिति इदानीं तेभ्य उत्तरं अन्येनैव दापयति - प्रजापताविति ॥ प्राजापत्यात्मनि प्रजानां वा पालके मनसि अस्य प्रतिष्ठेति ब्रूयात् ॥
9 कः पुनस्तस्य प्रकार इत्यत्राह - त्रिरव जिघ्रेदिति ॥ मन्त्रमाह - प्रजापतावित्यादि ॥ गतम् ॥
10 एषा वा इत्यादि प्राजापत्यात्मब्राह्मणम् ॥ गतमेव ॥
11 यो वा अध्वर्योः प्रतिष्ठामित्यादि ॥ अतीत्यावस्थानमभिक्रमणम् । यतोनभिक्रम्य होष्यामीति तत्तत्र तिष्ठन्नाश्रावयेत् ततो होष्यन्नाक्रामेदिति । एवमनुष्ठानं अध्वर्योः प्रतिष्ठाहेतुत्वात्प्रतिष्ठा ॥
12 य एवमित्यादि ॥ गतम् ॥
13 विपर्यये दोषमाह - यदभिक्रम्येत्यादि ॥ यद्याश्रावणस्थानादभिक्रम्य जुहुयात् प्रतिष्ठाया इयात् च्यवेत । तस्मात्समानत्र समानदेशे तिष्ठता होतव्यं आश्रावणदेश एवेत्यर्थः । प्रतिष्ठित्यै भवति । तदेतदन्यत्र हविर्यज्ञेभ्योऽभिक्रामं जुहोति हविर्यज्ञेषु भवतीति ॥
14 यो वा अध्वर्योस्स्वं वेदेत्यादि ॥ स्रुगादयः अध्वर्योस्स्वानि धनानि । तत्र सोमविषयत्वादनुवाकस्य वायव्यचमसयोरेव ग्रहणम् । यद्वायव्यं वा चमसं वेति । तस्मादित्यादि । वायव्यं वा चमसं वा हस्तेऽन्वारभ्य हस्ते गृहीत्वा आश्राव्यमेवं कुर्वन् स्वादेव नैति ॥
15 यो वै सोममप्रतिष्ठाप्येत्यादि ॥ सोममप्रतिष्ठाय अप्रतिष्ठां गमयित्वा यः स्तोत्रमुपाकरोति तस्य सोमादयोप्रतिष्ठिताः स्वकार्यकरणे असमर्थाः भवेयुः । उक्थानि शस्त्राणि ॥
16 कदा पुनः प्रतितिष्ठतीत्याह - वायव्यं वा इत्यादि ॥ वायव्यं पात्रविशेषः । यत्र ग्रहा गृह्यन्ते तत्र सोमस्य प्रतिष्ठा तत्र सोमः प्रतितिष्ठतीति । चमसो वायव्यस्य प्रतिष्ठा तत्र वायव्यं प्रतितिष्ठतीति मुख्ये चमसे संपातमवनयतीति । अस्य सोमस्य प्रतिष्ठाभूतस्यापि वायव्यस्य चमसः प्रतिष्ठेति प्राधान्येन निर्दिष्टस्य वायव्यस्यापि अन्वादेशत्वादस्येत्यनुदात्तत्वम् । प्रत्येव सोममित्यादि । तेषामेव प्रस्तुतत्वात् चमसोस्य सोमस्य प्रतिष्ठेति ॥
17 कथं पुनः सोमः प्रतिष्ठां गमयितव्य इत्याह - ग्रहं वेत्यादि ॥ ग्रहचमसशब्दाभ्यां विशिष्टाधारवर्तिसोम उच्यते । तत्र ग्रहणं ग्रहस्योन्नयनम् । उन्नयनमेव चमसस्य ग्रहणम् । तस्मादुच्यते ग्रहं वा गृहीत्वा चमसं वोन्नीयेति ॥
18 एवं हि सोमः प्रतिष्ठां गमित एवेत्याह - प्रत्येव सोममित्यादि ॥ ग्रहचमसशब्दाभ्यां स्तोत्रोपाकरणं कृतं भवति । ग्रहप्रतिष्ठात्वात् सोमस्य, तस्य चमसप्रतिष्ठात्वात् । ततश्च सोमादीन् प्रतिष्ठापयैति, यजमानश्च प्रतितिष्ठति, अध्वर्युश्च प्रति तिष्ठतीत्येव ॥
इति तृतीये प्रथमे द्वितीयोनुवाकः ॥
पञ्चशत् 2 #
TS 3.1.2.2 TS 3.1.2.2
नं॑ ॅलो॒कं ग॑मयि॒त्वा क्री॑णाति॒ गच्छ॑ति॒ स्वानाꣳ॒॒ साम्रा᳚ज्यं॒ ॅयो वै ता॑नून॒प्त्रस्य॑ प्रति॒ष्ठां ॅवेद॒ प्रत्ये॒व ति॑ष्ठति ब्रह्मवा॒दिनो॑ वदन्ति॒ न प्रा॒श्नन्ति॒ न जु॑ह्व॒त्यथ॒ क्व॑ तानून॒प्त्रं प्रति॑ तिष्ठ॒तीति॑ प्र॒जाप॑तौ॒ मन॒सीति॑ ब्रूया॒त् त्रिरव॑ जिघ्रेत् प्र॒जाप॑तौ त्वा॒ मन॑सि जुहो॒मीत्ये॒षा वै ता॑नून॒प्त्रस्य॑ प्रति॒ष्ठा य ए॒वं ॅवेद॒ प्रत्ये॒व ति॑ष्ठति॒ यो - [ ]
पदपाठः (Word-by-word)
ए॒न॒म् । लो॒कम् । ग॒म॒यि॒त्वा । क्री॒णा॒ति॒ । गच्छ॑ति । स्वाना᳚म् । साम्रा᳚ज्य॒मिति॒ साम् - रा॒ज्य॒म् । यः । वै । ता॒नू॒न॒प्त्रस्येति॑ तानू - न॒प्त्रस्य॑ । प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । वेद॑ । प्रतीति॑ । ए॒व । ति॒ष्ठ॒ति॒ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । न । प्रा॒श्नन्तीति॑ प्र - अ॒श्नन्ति॑ । न । जु॒ह्व॒ति॒ । अथ॑ । क्व॑ । ता॒नू॒न॒प्त्रमिति॑ तानू - न॒प्त्रम् । प्रतीति॑ । ति॒ष्ठ॒ति॒ । इति॑ । प्र॒जाप॑ता॒विति॑ प्र॒जा-प॒तौ॒ । मन॑सि । इति॑ । ब्रू॒या॒त् । त्रिः । अवेति॑ । जि॒घ्रे॒त् । प्र॒जाप॑ता॒विति॑ प्र॒जा - प॒तौ॒ । त्वा॒ । मन॑सि । जु॒हो॒मि॒ । इति॑ । ए॒षा । वै । ता॒नू॒न॒प्त्रस्येति॑ तानू - न॒प्त्रस्य॑ । प्र॒ति॒ष्ठेति॑ प्रति - स्था । यः । ए॒वम् । वेद॑ । प्रतीति॑ । ए॒व । ति॒ष्ठ॒ति॒ । यः ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 3.1.2.3 TS 3.1.2.3
वा अ॑द्ध्व॒र्योः प्र॑ति॒ष्ठां ॅवेद॒ प्रत्ये॒व ति॑ष्ठति॒ यतो॒ मन्ये॒तान॑भिक्रम्य होष्या॒मीति॒ तत् तिष्ठ॒न्ना श्रा॑वयेदे॒षा वा अ॑द्ध्व॒र्योः प्र॑ति॒ष्ठा य ए॒वं ॅवेद॒ प्रत्ये॒व ति॑ष्ठति॒ यद॑भि॒क्रम्य॑ जुहु॒यात् प्र॑ति॒ष्ठाया॑ इया॒त् तस्मा᳚थ् समा॒नत्र॒ तिष्ठ॑ता होत॒व्यं॑ प्रति॑ष्ठित्यै॒ यो वा अ॑द्ध्व॒र्योः स्वं ॅवेद॒ स्ववा॑ने॒व भ॑वति॒ स्रुग्वा अ॑स्य॒ स्वं ॅवा॑य॒व्य॑मस्य॒ - [ ]
पदपाठः (Word-by-word)
वै । अ॒द्ध्व॒र्योः । प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । वेद॑ । प्रतीति॑ । ए॒व । ति॒ष्ठ॒ति॒ । यतः॑ । मन्ये॑त । अन॑भिक्र॒म्येत्यन॑भि - क्र॒म्य॒ । हो॒ष्या॒मि॒ । इति॑ । तत् । तिष्ठन्न्॑ । एति॑ । श्रा॒व॒ये॒त् । ए॒षा । वै । अ॒द्ध्व॒र्योः । प्र॒ति॒ष्ठेति॑ प्रति - स्था । यः । ए॒वम् । वेद॑ । प्रतीति॑ । ए॒व । ति॒ष्ठ॒ति॒ । यत् । अ॒भि॒क्रम्येत्य॑भि - क्रम्य॑ । जु॒हु॒यात् । प्र॒ति॒ष्ठाया॒ इति॑ प्रति-स्थायाः᳚ । इ॒या॒त् । तस्मा᳚त् । स॒मा॒नत्र॑ । तिष्ठ॑ता । हो॒त॒व्य᳚म् । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । यः । वै । अ॒द्ध्व॒र्योः । स्वम् । वेद॑ । स्ववा॒निति॒ स्व - वा॒न् । ए॒व । भ॒व॒ति॒ । स्रुक् । वै । अ॒स्य॒ । स्वम् । वा॒य॒व्य᳚म् । अ॒स्य॒ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 3.1.2.4 TS 3.1.2.4
स्वं च॑म॒सो᳚ऽस्य॒ स्वं ॅयद्वा॑य॒व्यं॑ ॅवा चम॒सं ॅवाऽन॑न्वारभ्याऽऽश्रा॒वये॒थ् स्वादि॑या॒त् तस्मा॑ दन्वा॒रभ्या॒ ऽऽश्राव्यꣳ॒॒ स्वादे॒व नैति॒ यो वै सोम॒म- प्र॑तिष्ठाप्य स्तो॒त्र-मु॑पाक॒रोत्य प्र॑तिष्ठितः॒ सोमो॒ भव॒त्यप्र॑तिष्ठितः॒ स्तोमो- ऽप्र॑तिष्ठिता-न्यु॒क्थान्यप्र॑तिष्ठितो॒ यज॑मा॒नो ऽप्र॑तिष्ठितो ऽध्व॒र्युर्वा॑ य॒व्यं॑ ॅवै सोम॑स्य प्रति॒ष्ठा च॑म॒सो᳚ऽस्य प्रति॒ष्ठा सोमः॒ स्तोम॑स्य॒ स्तोम॑ उ॒क्थानां॒ ग्रहं॑ ॅवा ( ) गृही॒त्वा च॑म॒सं ॅवो॒न्नीय॑ स्तो॒त्रमु॒पा कु॑र्या॒त् प्रत्ये॒व सोमꣳ॑ स्था॒पय॑ति॒ प्रति॒स्तोमं॒ प्रत्यु॒क्थानि॒ प्रति॒ यज॑मान॒स्तिष्ठ॑ति॒ प्रत्य॑द्ध्व॒र्युः ॥
पदपाठः (Word-by-word)
स्वम् । च॒म॒सः । अ॒स्य॒ । स्वम् । यत् । वा॒य॒व्य᳚म् । वा॒ । च॒म॒सम् । वा॒ । अन॑न्वार॒भ्येत्यन॑नु - आ॒र॒भ्य॒ । आ॒श्रा॒वये॒दित्या᳚ - श्रा॒वये᳚त् । स्वात् । इ॒या॒त् । तस्मा᳚त् । अ॒न्वा॒रभ्येत्य॑नु - आ॒रभ्य॑ । आ॒श्राव्य॒मित्या᳚ - श्राव्य᳚म् । स्वात् । ए॒व । न । ए॒ति॒ । यः । वै । सोम᳚म् । अप्र॑तिष्ठा॒प्येत्यप्र॑ति - स्था॒प्य॒ । स्तो॒त्रम् । उ॒पा॒क॒रोतीत्यु॑प - आ॒क॒रोति॑ । अप्र॑तिष्ठित॒ इत्यप्र॑ति - स्थि॒तः॒ । सोमः॑ । भव॑ति । अप्र॑तिष्ठित॒ इत्यप्र॑ति - स्थि॒तः॒ । स्तोमः॑ । अप्र॑तिष्ठिता॒नीत्यप्र॑ति - स्थि॒ता॒नि॒ । उ॒क्थानि॑ । अप्र॑तिष्ठित॒ इत्यप्र॑ति - स्थि॒तः॒ । यज॑मानः । अप्र॑तिष्ठित॒ इत्यप्र॑ति - स्थि॒तः॒ । अ॒ध्व॒र्युः । वा॒य॒व्य᳚म् । वै । सोम॑स्य । प्र॒ति॒ष्ठेति॑ प्रति - स्था । च॒म॒सः । अ॒स्य॒ । प्र॒ति॒ष्ठेति॑ प्रति - स्था । सोमः॑ । स्तोम॑स्य । स्तोमः॑ । उ॒क्थाना᳚म् । ग्रह᳚म् । वा॒ ( ) । गृ॒ही॒त्वा । च॒म॒सम् । वा॒ । उ॒न्नीयेत्यु॑त् - नीय॑ । स्तो॒त्रम् । उ॒पाकु॑र्या॒दित्यु॑प - आकु॑र्यात् । प्रतीति॑ । ए॒व । सोम᳚म् । स्था॒पय॑ति । प्रतीति॑ । स्तोम᳚म् । प्रतीति॑ । उ॒क्थानि॑ । प्रतीति॑ । यज॑मानः । तिष्ठ॑ति । प्रतीति॑ । अ॒द्ध्व॒र्युः ॥
पदसंख्या: 69