पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ तृतीयकाण्डे प्रथमप्रपाठके द्वितीयोऽनुवाकः)।
आद्ये संकीर्तितौ मन्त्रौ वृष्टौ चामेध्यदर्शने।
द्वितीयानुवाके सोमोपस्थानमन्त्राश्चत्वार उत्पाद्यन्ते-
एष त इति। हे देवतात्मक सोम राजन्नेष पुरतो दृश्यमानः क्रेतव्यो वल्लीरूपस्ते त्वदीयो भागो गायत्रः प्रातःसवने गायत्रीछन्दसा संस्कार्य इत्येतादृग्यजमानरूपस्य मे गायत्री देवता सोमाय ब्रूतात्। एवं त्रैष्टुभो माध्यंदिने सवने त्रिष्टुप्छन्दसा संस्कार्यः। अस्मिन्नेष त इति मन्त्रो नानुषज्यते। भाग इति मे सोमाय ब्रूतादित्ययमुत्तरांशोऽनुष-ज्यते। जागतस्तृतीयसवने जगतीछन्दसा संस्कार्यः। अत्रैष इत्ययं पूर्वांश एवानुषज्यते। छन्दोभिर्गायत्रीत्रिष्टुब्जगती-भिरक्षरसंख्यया मीयन्त उपमीयन्त इति चतुर्विंशचतुश्च-त्वारिंशाष्टाचत्वारिंशाख्याः स्तोमास्त्रयश्छन्दोमास्तेषां साम्राज्यं द्वादशाहादिषूत्तरक्रतुषु विद्यते तत्साम्राज्यं गच्छेत्येतद्यजमानस्य मे वचनं तेन तेन स्तोमेताऽऽराध्या देवता सोमाय राज्ञे ब्रूतात्। अत्र चतुर्विंशाख्यस्तोमरूपस्य च्छन्दोमस्य विष्टुतिः सामब्राह्मण इत्थं समाम्नाता- 'अष्टाभ्यो हिं करोति स तिसृभिः स चतसृभिः स एकया। अष्टभ्यो हिं करोति स एकया स तिसृभिरित्येषा वै प्रतिष्ठा चतुर्विंशस्य विष्टुतिः' इति। अस्यायमर्थः- सामगानाधारभूतस्य तृचस्य प्रथमपर्याये प्रथमामृचं त्रिर्गायेत्। द्वितीयां चतुर्गायेत्। तृतीयां सकृद्गायेत्। द्वितीये पर्याये प्रथमां सकृद्गायेद्द्वितीयां त्रिर्गायेत्तृतीयां चतुर्गायेत्। तृतीये पर्याये प्रथमां चतुर्गायेद्द्वितीयां सकृद्गायेत्तृतीयां त्रिर्गायेत्। सेयं चतुर्विंशस्तोमसंबन्धिनी विशिष्टा स्तुतिः। अथ चतुश्चत्वारिंशस्तोम एवमाम्नायते 'पञ्चदशभ्यो हिं करोति स तिसृभिः स एकादशभिः स एकया। चतुर्दशभ्यो हिं करोति स एकया स तिसृभिः स दशभिः। पञ्चदशभ्यो हिं करोति स एकादशमिः स एकया स तिसृभिरित्येषा वै प्रतिष्ठिता चतुश्चत्वारिंशस्य विष्टुतिः' इति। प्रथमपर्याये प्रथमां त्रिर्गायेत्। द्वितीयामेकादशकृत्वो गायेत्। तृतीयां सकृद्गायेत्। द्वितीये पर्याये प्रथमां स-
कृद्गायेद्द्वितीयां त्रिर्गायेत्तृतीयां दशकृत्वो गायेत्। तृतीये पर्याये प्रथमामेका-
दशकृत्वो गायेद्द्वितीयां सकृद्गायेत्तृतीयां त्रिर्गायेत्। सेयं चतुश्चत्वारिंशस्तोमाख्यस्य च्छन्दोमस्य विष्टुतिः। अथाष्टाचत्वारिंशस्तोमस्य विष्टुतिरेवमाम्नायते-
'षोडशभ्यो हिं करोति स तिसृभिः स द्वादशभिः स एकया। षोडशभ्यो हिं करोति स एकया स तिसृभिः स द्वादशभिः। षोडशभ्यो हिं करोति स द्वादशभिः स एकया स तिसृभिरित्येषा वै प्रतिष्ठिताऽष्टाचत्वारिंशस्य विष्टुतिः ' इति। प्रथमे पर्याय प्रथमां त्रिर्गायेत्। मध्यमां द्वादशकृत्वो गायेत्। उत्तमां सकृद्गायेत्। द्वितीये पर्याये प्रथमां सकृद्गायन्मध्यमां त्रिरुत्तमां द्वादशकृत्वः। तृतीये पर्याये प्रथमां द्वादशकृत्वा द्वितीयां सकृत्तृतीयां त्रिर्गायेत्। सेयमष्टाचत्वारिंशस्तामाख्यस्य च्छन्दोमस्य विष्टुतिरिति। द्वादशाहक्रतोरष्टममहश्चतुर्विंशस्तोप्रसाध्यं नवममहश्चतुश्चत्वारिंशस्तोमसाध्यं दशममहरष्टाचत्वारिंशस्तोमसाध्यम्। तस्माच्छन्दोमानां साम्राज्यं द्वादशाहाद्युत्तरक्रतुषु प्राप्यते।
एष ते गायत्र इत्यादींश्चतुरो मन्त्रान्विनियोक्तुं प्रस्तौति-
यो व सोभामात। यजमानः सोमदेवतारूपं राजानं साम्राज्यरूपं लोकं प्रापय्य पश्चाद्वल्लीरूपं सीमं क्रीणाति। स स्वानां मध्ये साम्राज्यं गच्छति। गायत्रीत्रिष्टुब्जगती-रूपाणि च्छन्दांसि तैरुपलक्षिताश्छन्दोमाश्च सोमस्य राज्ञः साम्राज्युक्तो लोक इत्युच्यते।
पुरस्तदिति। एवमिति एष ते गायत्र इत्यादिभिश्चतुर्भिरित्यर्थः। प्राकरणिका-नुवाकसंबन्धस्तु पुरस्तात्सोमस्य क्रयादेव स्पष्टमवगम्यते। सोमं ते क्रीणामीति मन्त्रेण सोमक्रय आरब्धस्तत्पूर्वम शुना ते अ शुरित्यनुवाकस्यावसाने प्रजास्त्वामनुप्राणन्त्वित्येतदूर्ध्वमेष ते गायत्र इत्यादयश्चत्वारा मन्त्रा द्रष्ठव्याः।
पूर्वोक्तयोरबद्धं गन उन्दतीवंलमित्वेतयोर्मन्त्रयोर्यद्यपीदृशं स्पष्टं वचनं नास्ति तथाऽपि दीक्षितस्य वाद इति वाक्येन प्रकरणप्रसिद्धं दीक्षितमनूद्य वादविधानाद्दीक्षितत्वसिद्धेरूर्ध्वभावित्वं गम्यते। दीक्षितत्वमाकूत्यै प्रयुजेऽग्नये स्वाहेत्यनुवाके संपन्नं तदीयब्राह्मणे दीक्षितत्वावेदनस्याऽऽस्नातत्वात् 'स्वाहा यज्ञं वातादारभ इत्याहायं वाव यः पवते स यज्ञस्तमेव साक्षादारभते मुष्टी करोति वाचं यच्छति यज्ञस्य धृत्या अदीक्षिष्टायं ब्राह्मण इति त्रिरुपा श्वाह' इति। तस्माद्यज्ञं वातादारभ इत्येतस्मादुपर्यबद्धं मन उन्दतीर्बलमित्येतौ द्रष्टव्यौ। एवमुत्तरत्रापि सर्वत्रौपानुवाक्ये योजनीयम्।
यो वै तानूनेति। तानूनप्त्रस्य त्वा गृह्णामीत्यादिभिर्मन्त्रैश्चमसे यदाज्यं गृह्यते तत्तानूनप्त्रं तस्य प्रतिष्ठा न ज्ञायते। सोमरसस्य तु वह्नै हुतत्वादृत्विग्भिः पतित्वाच्चास्ति प्रतिष्ठितत्वम्। तानूनष्वे तु तदुभयं नास्तीति ग्रह्मवादिभिः पृष्ठो बुद्धिमानुत्तरं ब्रूयान्मनसा प्रजापतौ स्थापनादस्ति प्रतिष्ठेति।
इदानीं मन्त्रेणावप्राणं विधत्ते-
त्रिरव जिघ्रेदिति। प्रजापतावित्यादिर्मन्त्रः। हे तानूनप्त्र त्वां प्रजापतौ जुहोमीत्येवं मनसि स्मरामीति शेषः। अयं च मन्त्रोऽग्नेरातिथ्यमसीत्यनुवाकस्यान्ते द्रष्टव्यः त एते पूर्वोक्ता मन्त्रा विधयश्व याजमानाः। इत ऊर्धं त्वाध्वर्यवाः। तत्राऽऽश्रावणं विधत्ते-
यो वा अध्वर्योरिति। आश्रावणमारभ्य होमपर्यन्तमेकत्रावस्थानमध्वर्योः प्रतिष्ठा। आहवनीयसमीषादिषु होमदेशेषु मध्ये यस्माद्देशादभिक्रमणमकृत्वा यं होमं होष्यामीति मन्येत तद्धोमार्थं तस्मिन्नेव देशे तिष्ठन्नाश्रावयेत्।
आश्रावणदेशादन्यत्र गत्वा होमं निन्दति-
यदभिक्रम्येति। इयात्प्रच्यवेत। समानत्र समानदेशे यत्राऽऽश्रावणं तत्रवेत्यर्थः। सोऽयं विधिः सर्वाश्रावणसाधारणत्वान्सर्वत्रान्वेति। प्रयाजेषु त्वभिक्रामं जुहोतीति वाचनिकमभिक्रमणम्। आश्रावणकाले होमसाधनस्य हस्ते धारणं विधत्ते-
यो वा अध्वर्योरिति। स्रुग्जुह्वाद्यैन्द्रवायवादिसोमरसग्रहणाधारभूतं पात्रं वायव्यं वायुना तस्य वृतत्वात्, मद्देवत्यान्येव वः पात्राण्युच्यन्ता इति। त स्मान्नानादेवत्यानि सन्ति वायव्यान्युच्यन्त इत्याम्नातः सोमरसोन्नयनपात्रविशेषश्चमसः। यद्यपि स्रुगप्यत्रोपन्यस्ता तथाऽपि सोमब्राह्मणशेषत्वाद्वायव्यचमसयोरेवान्वारम्भणं धारणमत्र विधीयते तेन स्रुचां धारणमप्युलक्ष्यत इति द्रष्टव्यम्। अन्वारभ्य हस्ते गृहीत्वेत्यर्थः।
यो वै सोममिति। स्तोत्रस्योपाकरणप्रकारमापस्तम्बो दर्शेयति- वायुर्हिंकर्तेति प्रस्तोत्रे बर्हिर्मुष्टिं प्रयच्छति सर्वेषु पवमानेष्ववेमुपाकरणोऽसर्ज्यसर्जि वागसर्ज्यैन्द्र सहोऽसर्ज्युपावर्तध्वमिति बर्हिर्भ्यामन्यानि पवमानेभ्यः स्तोत्राण्युपाकरोति इति। ग्रहे चमसे वा सोमरसस्य प्रक्षेपः प्रतिष्ठापनम्। तदकरणे सोमोऽप्रतिष्ठितो भवति। सोमस्याप्रतिष्ठायां स्तोमस्य प्रगीतमन्त्रसाध्याया (?) स्तुतेनाप्रतिष्ठा भवति। तदप्रतिष्ठायां स्तुतमनुशंसतीति विहितानामप्रगतिमन्त्रसाध्यस्तुतिरूपाणामुक्थशब्दाभिधेयानां शस्त्राणामप्रतिष्ठा भवति। तदप्रतिष्ठायां च यज्ञस्यासिद्धेर्यजमानोऽ–ध्वर्युश्चेत्युभावप्रतिष्ठितौ भवतः। कथं तर्ह्युक्तपरम्पराया उत्तरोत्तरप्रतिष्ठा भवतीति। तदुच्यते-यदि वायव्ये चमसे वा सोमः प्रतिष्ठितो भवति ततः स्तोत्रशस्त्रयजमानाध्वर्यू-णामुत्तरोत्तरप्रतिष्ठा। तस्माद्वायव्य ऊर्ध्वपात्रे सोमरसं गृहीत्वा वा चमसं सोमरसेन पूरयित्वा वा सूणोक्तप्रकारेण स्तोत्रमुपाकुर्यांत्। आश्विनग्रहात्पूर्वभाविष्वैन्द्रवायवादि-ग्रहेषु गृहीतेषु बहिष्पवमानस्य यदुपाकरणं तत्र चमसोन्नयनाभावाद्ग्नहणमेवोपा-करणकालस्योपलक्षणम्। तृतीयसवने पात्नीवतान्तेषु ग्रहेषु हुतेषु चमसान्पूरयित्वा यज्ञायज्ञियस्तोत्रमुपाकरोति। तत्र ग्रहग्रहणाभावाच्चमसोन्नयनमेवोपाकरणकालोपल-क्षणम्। अत एवाऽऽपस्तम्ब आह- होतृचमसमुख्यांश्चमसानुन्नयन्त राजानमुन्नीय दशामिः कलशौ मृष्ट्वा न्युब्जति यज्ञायज्ञियस्य स्तोत्रमुपाकरोति इति। यदि तृतीयप्र-पाठकेएतद्वै सर्वमध्वर्युरुपाकुर्वन्नुद्गातृभ्य उपाकरोतीत्येष उपाकरणविधिः स्यात्तर्हि तदनुवादेनात्र कालविधिरस्तु। ग्रहचमसोन्नयनोर्ध्वकालभाविना स्तोत्रोपाकरणेन च सोमस्तोमादिपरम्परायाः प्रतिष्ठा संपद्यते। सोमं प्रतिष्ठापयतीत्यन्वयः स्तोत्र मुक्थानीत्यत्रापि तथाऽन्वेतव्यम्।
द्वितीयोऽनुवाकः॥२॥