अनुवाकः 5 TS 3.1.5

(A5)

(व्यावृ॑त्त्या - अ॒भितो॑ व॒पां - पञ्च॑ च)

अनुवाकः 5 - Complete Audio

TS 3.1.5 - स्वरानुगामी

0:00 0:00
PS1.1 प्रा॒जा॒प॒त्या वै प॒शव॒स्तेषाꣳ॑ रु॒द्रोऽधि॑पति॒र्य-दे॒ताभ्या॑-मुपा
PS1.2 क॒रोति॒ ताभ्या॑मे॒वैनं॑ प्रति॒प्रोच्याऽऽल॑भत आ॒त्मनोऽना᳚व्रस्काय॒
PS1.3 द्वाभ्या॑मु॒पाक॑रोति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्या उपा॒कृत्य॒
PS1.4 पञ्च॑ जुहोति॒ पाङ्क्ताः᳚ प॒शवः॑
PS1.5 प॒शूने॒वा व॑रुन्धेमृ॒त्यवे॒ वा ए॒ष
PS1.6 नी॑यते॒ यत् प॒शुस्तं ॅयद॑न्वा॒रभे॑त
PS1.7 प्र॒मायु॑को॒ यज॑मानः स्या॒न्नाना᳚ प्रा॒णो
PS1.8 यज॑मानस्य प॒शुनेत्या॑ह॒ व्यावृ॑त्त्यै॒ -
PS1.9 [ ]
PS2.1 यत् प॒शुर्मा॒युमकृ॒तेति॑ जुहोति॒ शान्त्यै॒
PS2.2 शमि॑तार उ॒पेत॒नेत्या॑ह यथाय॒जुरे॒वैतद्व॒पायां॒ ॅवा
PS2.3 आ᳚ह्रि॒यमा॑णाया-म॒ग्नेर्मेधोऽप॑ क्रामति॒ त्वामु॒ ते
PS2.4 द॑धिरे हव्य॒वाह॒मिति॑ व॒पाम॒भि जु॑होत्य॒ग्नेरे॒व
PS2.5 मेध॒मव॑ रु॒न्धेऽथो॑ शृत॒त्वाय॑ पु॒रस्ता᳚थ्
PS2.6 स्वाहा कृतयो॒ वा अ॒न्ये
PS2.7 दे॒वा उ॒परि॑ष्टाथ् स्वाहाकृतयो॒ऽन्ये स्वाहा॑
PS2.8 दे॒वेभ्यो॑ दे॒वेभ्यः॒ स्वाहेत्य॒भितो॑ व॒पां
PS2.9 ( ) जु॑होति॒ ताने॒वोभया᳚न्
PS2.10 प्रीणाति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 3.1.5.1 TS 3.1.5.1
प्रा॒जा॒प॒त्या वै प॒शव॒स्तेषाꣳ॑ रु॒द्रोऽधि॑पति॒र्य-दे॒ताभ्या॑-मुपा क॒रोति॒ ताभ्या॑मे॒वैनं॑ प्रति॒प्रोच्याऽऽल॑भत आ॒त्मनोऽना᳚व्रस्काय॒ द्वाभ्या॑मु॒पाक॑रोति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्या उपा॒कृत्य॒ पञ्च॑ जुहोति॒ पाङ्क्ताः᳚ प॒शवः॑ प॒शूने॒वा व॑रुन्धेमृ॒त्यवे॒ वा ए॒ष नी॑यते॒ यत् प॒शुस्तं ॅयद॑न्वा॒रभे॑त प्र॒मायु॑को॒ यज॑मानः स्या॒न्नाना᳚ प्रा॒णो यज॑मानस्य प॒शुनेत्या॑ह॒ व्यावृ॑त्त्यै॒ - [ ]
पदपाठः (Word-by-word)
प्रा॒जा॒प॒त्या इति॑ प्राजा - प॒त्याः । वै । प॒शवः॑ । तेषा᳚म् । रु॒द्रः । अधि॑पति॒रित्यधि॑ - प॒तिः॒ । यत् । ए॒ताभ्या᳚म् । उ॒पा॒क॒रोतीत्यु॑प - आ॒क॒रोति॑ । ताभ्या᳚म् । ए॒व । ए॒न॒म् । प्र॒ति॒प्रोच्येति॑ प्रति - प्रोच्य॑ । एति॑ । ल॒भ॒ते॒ । आ॒त्मनः॑ । अना᳚व्रस्का॒येत्यना᳚ - व्र॒स्का॒य॒ । द्वाभ्या᳚म् । उ॒पाक॑रा॒तीत्यु॑प - आक॑रोति । द्वि॒पादिति॑ द्वि - पात् । यज॑मानः । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । उ॒पा॒कृत्येत्यु॑प - आ॒कृत्य॑ । पञ्च॑ । जु॒हो॒ति॒ । पाङ्क्ताः᳚ । प॒शवः॑ । प॒शून् । ए॒व । अवेति॑ । रु॒न्धे॒ । मृ॒त्यवे᳚ । वै । ए॒षः । नी॒य॒ते॒ । यत् । प॒शुः । तम् । यत् । अ॒न्वा॒रभे॒तेत्य॑नु - आ॒रभे॑त । प्र॒मायु॑क॒ इति॑ प्र - मायु॑कः । यज॑मानः । स्या॒त् । नाना᳚ । प्रा॒ण इति॑ प्र - अ॒नः । यज॑मानस्य । प॒शुना᳚ । इति॑ । आ॒ह॒ । व्यावृ॑त्त्या॒ इति॑ वि - आवृ॑त्त्यै ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ तृतीयकाण्डे प्रथमप्रपाठके पञ्चमोऽनुवाकः)

चतुर्थे वर्णिता मन्त्राः पशूपाकरणादिगाः।

अथ पञ्चमे तेषां मन्त्राणां ब्राह्मणमभिधीयते।

प्राजापत्या इति। प्रजापतिः पशूनां जनकः। अग्निश्च रुद्रशब्दाभिधेयस्तेषां स्वाम्यतस्तदुभयप्रतिपादकाभ्यां प्रजापतेर्जायमाना इमं पशुमित्येताभ्यां मन्त्राभ्या मुपाकुर्यात् तथा सति ताभ्यां देवाभ्यां प्रतिप्रोच्यायं षशुमालब्धवान्भवति। तच्च कथनं स्वस्यानपराधत्वाय भवति। मन्त्रद्वित्वं प्रशंसति-

द्वाभ्यामुपेति। उपाकरणादूर्ध्वं प्रजानन्त इत्यादिभिः पञ्चभिर्मन्त्रैर्होमं विधत्ते-

उपाकृत्येति। पुच्छसहितेषु पादेषु पञ्चसंख्यायोगात्पशूनां पाङ्कत्वम्।

संज्ञपनाय पशुनयनकालेऽध्वर्योर्जपमन्त्रस्य नानाशब्दस्य तात्पर्यं दर्शयति-

मृत्यवे वा इति। पशोः पृष्ठतो हस्तेन स्पर्शोऽन्वारम्भः। व्यावृत्तिवाचकस्य नानाशब्दस्य प्रयोगो यजमानप्राणस्व म्रियमाणात्पशोर्व्यावृत्त्यै भवति।

संज्ञप्तहोमं विधत्ते-

यत्पशुरिति। अंहसो मुञ्चत्वित्पनया मन्त्रयतया प्रार्थनया पापस्य शान्तिर्भवति।

अध्वर्युयजमानयोर्वमाश्रपणीव्यवधानेन पशुप्राप्तिमन्त्रस्य स्पष्टार्थतां दर्शयति-

शमितार इति। यद्यप्यसौ मन्त्रः पादबद्धत्वादृगेव तथाऽपि यजुर्वेदाम्ना तत्वात्तत्कर्मणि विनियोज्यमानत्वाद्वा यजुरित्युच्यते।

वपाया उपरि होमं विधत्ते-

वपायां वा इति। भदा वपा होतुमाह्नियते तदानीमग्नेः सकाशाद्यज्ञोऽपक्रामति। तस्य च यज्ञस्यानेन होमेनापक्रमणं निवारितं भवति। अत एव मन्त्र दधिर इति प्रयुज्यते। अग्निं यज्ञस्य धारकं कृतवन्त इत्युक्तं भवति। किंच शृतं कर्तारमिति विशेषितत्वादयं होमो वपायाः पक्वत्वाय संपद्यते।

परिवप्यहोमौ विधत्ते-

पुरस्तादिति। वपासामीप्यं वाञ्छतां स्वाहाकारव्यवधानाद्बिभ्यतामुभयविधानां देवानां प्रीत्यै स्वाहाशब्दस्य मन्त्रयोर्व्यत्यासेन प्रयोग इत्यर्थः॥

इति श्रीमत्सायणाचार्येविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे प्रथमप्रपाठके

पञ्चमोऽनुवाकः॥५॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ 'प्रजापतेर्जायमानाः' इत्यादीनां मन्त्राणां ब्राह्मणम् - प्राजापत्या इत्यादि ॥ प्राजापत्याः प्रजापतेरपत्यभूताः सर्वेऽपि पशवः । तेषां सर्वेषामपि रुद्रोधिपतिः स्वामी । यद्यस्मादेताभ्यां 'प्रजापतेर्जायमानाः' 'इमं पशुम्' इत्यनुवाकस्य प्रथमाभ्यां प्रजापतेः रुद्रस्य च प्रतिपादकाभ्यां पशुमुपाकरोति तस्मात्ताभ्यां देवाभ्यां पशूनां पितृस्वामिभ्यामेवैनं पशुं प्रतिप्रोच्य प्रत्यावेद्य आलभते । तदात्मनेनाव्रस्काय अनपराधाय भवति । अत्र व्रश्चतिं सकारोपधं पठन्ति । तस्माद्घञि कुत्वं, निमित्ताभावात् श्चुत्त्वं निवर्तते । अथ सङ्ख्यां विशिष्टफलहेतुत्वेन स्तौति - द्वाभ्यामिति । द्वित्वान्वयाद्द्विपदो यजमानस्य प्रतिष्ठित्यै भवति । 'तादौ च' इति गते प्रकृतिस्वरत्वम् । पाद प्रतिष्ठेति पर्यायौ । 'संख्यासुपूर्वस्य' इति पादस्य लोपः, 'द्वित्रिभ्यां पद्वन्' इत्युत्तरपदान्तोदात्तत्वम् ॥
2 उपाकृत्येत्यादि ॥ पशूपाकरणानन्तरं प्रजानन्त इत्यादि पञ्च हव्यानि जुहोति । पङ्क्तिः पञ्चपदा तत्प्रभवाः पशवः । ततः पञ्चत्वान्वयेन तेऽवरुद्धा भवन्ति । पङ्क्तिशब्दादुत्सादित्वादञ् ॥
3 मृत्यव इत्यादिना मारणार्थं नीयमानस्य पशोः अन्वारम्भः यजमानस्य पशुसमानधर्मतामावहेत्, अमङ्गल्यश्च भवति । ततश्च यजमानः प्रमायुको मरणशीलस्स्यात् । छान्दस उकञ् । तस्मादभिमन्त्रणं मन्त्रेण । नाना पृथग्भूतः प्राणो यजमानस्य पशुप्राणादिति यदाह तद्व्यावृत्त्यै यजमानस्य भवति । व्यावृत्तिः पृथग्धर्मता । पूर्ववद्गतेः प्रकृतिस्वरत्वम् ॥
4 यत्पशुर्मायुमिति संज्ञप्ते जुहोति ॥ तदेनसः शान्त्यै भवति ॥
5 शमितार उपेतन इति वपाश्रपणीभ्यां पशुमुपेतः यजमानोध्वर्युश्च ॥ तत्र यथा यजुर्वदति बन्धाद्यज्ञपतिं परिमुञ्चतेति तथैवैतत्फलं भवति । यजमानस्य यजुर्वेदप्रभवत्वात् ऋगेव यजुरुच्यते ॥
6 वपायामित्यादि ॥ वपाया आहरणकाले अग्निसकाशात् मेधः यज्ञः अपक्रामति तस्मात् 'त्वामु ते' इति वपाहोमः तस्मिन् काले क्रियमाणस्य मेधस्यानपक्रमणाय भवति तेनाग्नेरपक्रामन्तं मेधमवरुन्धे अनपक्रमणं करोति 'दधिरे' इति मन्त्रपदात् । अथो अपि च शृतत्वाय पक्वत्वाय वपाया अभिहोमो भवति । 'शृतंकर्तारम्' इति दर्शनात् ॥
7 अथ परिवप्यहोममन्त्रयोस्स्वाहाकारस्य स्थानव्यत्यासकारणं प्रदर्शयितुमाह - पुरस्तात्स्वाहाकृतयो वा इत्यादि ॥ 'जातवेदो वपया गच्छ देवान्' इति ये वपाभाजो देवाः तैरात्मनोऽव्यवधानार्थं अन्ये ये देवाः वपाहोमात्पूर्वं भाविनः पुरस्तात्स्वाहाकृतयोभवम् पुरस्तात्स्वाहाकृतेन मन्त्रेण होमः । एवं कुर्वन् तानुभयान् देवान् प्रीणाति ॥
इति तृतीये प्रथमे पञ्चमोनुवाकः ॥
पञ्चशत् 2 #
TS 3.1.5.2 TS 3.1.5.2
यत् प॒शुर्मा॒युमकृ॒तेति॑ जुहोति॒ शान्त्यै॒ शमि॑तार उ॒पेत॒नेत्या॑ह यथाय॒जुरे॒वैतद्व॒पायां॒ ॅवा आ᳚ह्रि॒यमा॑णाया-म॒ग्नेर्मेधोऽप॑ क्रामति॒ त्वामु॒ ते द॑धिरे हव्य॒वाह॒मिति॑ व॒पाम॒भि जु॑होत्य॒ग्नेरे॒व मेध॒मव॑ रु॒न्धेऽथो॑ शृत॒त्वाय॑ पु॒रस्ता᳚थ् स्वाहा कृतयो॒ वा अ॒न्ये दे॒वा उ॒परि॑ष्टाथ् स्वाहाकृतयो॒ऽन्ये स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्यः॒ स्वाहेत्य॒भितो॑ व॒पां ( ) जु॑होति॒ ताने॒वोभया᳚न् प्रीणाति ॥
पदपाठः (Word-by-word)
यत् । प॒शुः । मा॒युम् । अकृ॑त । इति॑ । जु॒हो॒ति॒ । शान्त्यै᳚ । शमि॑तारः । उ॒पेत॒नेत्यु॑प - एत॑न । इति॑ । आ॒ह॒ । य॒था॒य॒जुरिति॑ यथा - य॒जुः । ए॒व । ए॒तत् । व॒पाया᳚म् । वै । आ॒ह्रि॒यमा॑णाया॒मित्या᳚ - ह्रि॒यमा॑णायाम् । अ॒ग्नेः । मेधः॑ । अपेति॑ । क्रा॒म॒ति॒ । त्वाम् । उ॒ । ते । द॒धि॒रे॒ । ह॒व्य॒वाह॒मिति॑ हव्य - वाह᳚म् । इति॑ । व॒पाम् । अ॒भीति॑ । जु॒हो॒ति॒ । अ॒ग्नेः । ए॒व । मेध᳚म् । अवेति॑ । रु॒न्धे॒ । अथो॒ इति॑ । शृ॒त॒त्वायेति॑ शृत - त्वाय॑ । पु॒रस्ता᳚थ्स्वाहाकृतय॒ इति॑ पु॒रस्ता᳚त् - स्वा॒हा॒कृ॒त॒यः॒ । वै । अ॒न्ये । दे॒वाः । उ॒परि॑ष्टाथ्स्वाहाकृतय॒ इत्यु॒परि॑ष्टात् - स्वा॒हा॒कृ॒त॒यः॒ । अ॒न्ये । स्वाहा᳚ । दे॒वेभ्यः॑ । दे॒वेभ्यः॑ । स्वाहा᳚ । इति॑ । अ॒भितः॑ । व॒पाम् ( ) । जु॒हो॒ति॒ । तान् । ए॒व । उ॒भयान्॑ । प्री॒णा॒ति॒ ॥
पदसंख्या: 55