अनुवाकः 11 TS 3.1.11

(A11)

(वी॒र - इषꣳ॑ - ह॒व्य - मु॒षसो॑ - मरुत - श्च॒ - वृष्टिं॒ - भग॑स्य॒ - द्वाद॑श च)

अनुवाकः 11 - Complete Audio

TS 3.1.11 - स्वरानुगामी

0:00 0:00
PS1.1 अ॒ग्निना॑ र॒यिम॑श्नव॒त् पोष॑मे॒व दि॒वेदि॑वे
PS1.2 य॒शसं॑ ॅवी॒रव॑त्तमं
PS1.3 गोमाꣳ॑ अ॒ग्नेऽवि॑माꣳ अ॒श्वी य॒ज्ञो
PS1.4 नृ॒वथ्स॑खा॒ सद॒मिद॑प्रमृ॒ष्यः
PS1.5 इडा॑वाꣳ ए॒षो अ॑सुर प्र॒जावा᳚न्
PS1.6 दी॒र्घो र॒यिः पृ॑थुबु॒ध्नः स॒भावान्॑
PS1.7 आप्या॑यस्व॒सन्ते᳚
PS1.8 इ॒ह त्वष्टा॑रमग्रि॒यं ॅवि॒श्वरू॑प॒मुप॑ ह्वये
PS1.9 अ॒स्माक॑मस्तु॒ केव॑लः
PS1.10 तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि
PS1.11 र॑रा॒णः स्य॑स्व
PS1.12 यतो॑ वी॒रः - [ ]
PS2.1 क॑र्म॒ण्यः॑ सु॒दक्षो॑ यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः
PS2.2 शि॒वस्त्व॑ष्टरि॒हाऽऽ* ग॑हि वि॒भुः पोष॑ उ॒तत्मना᳚
PS2.3 य॒ज्ञेय॑ज्ञे न॒ उद॑व
PS2.4 पि॒शङ्ग॑रूपः सु॒भरो॑ वयो॒धाः श्रु॒ष्टी
PS2.5 वी॒रो जा॑यते दे॒वका॑मः
PS2.6 प्र॒जां त्वष्टा॒ विष्य॑तु॒ नाभि॑म॒स्मे
PS2.7 अथा॑ दे॒वाना॒मप्ये॑तु॒ पाथः॑
PS2.8 प्रणो॑दे॒व्या, नो॑ दि॒वः
PS2.9 पी॒पि॒वाꣳ सꣳ॒॒ सर॑स्वतः॒ स्तनं॒
PS2.10 ॅयो वि॒श्वद॑र्.शतः
PS2.11 धुक्षी॒महि॑ प्र॒जामिषं᳚
PS3.1 ये ते॑ सरस्व ऊ॒र्मयो॒
PS3.2 मधु॑मन्तो घृत॒श्चुतः॑
PS3.3 तेषां᳚ ते सु॒म्नमी॑महे
PS3.4 यस्य॑ व्र॒तं प॒शवो॒ यन्ति॒
PS3.5 सर्वे॒ यस्य॑ व्र॒तमु॑प॒तिष्ठ॑न्त॒ आपः॑
PS3.6 यस्य॑ व्र॒ते पु॑ष्टि॒पति॒र्निवि॑ष्ट॒स्तꣳ सर॑स्वन्त॒मव॑से हुवेम
PS3.7 दि॒व्यꣳ सु॑प॒र्णं ॅव॑य॒सं बृ॒हन्त॑म॒पां
PS3.8 गर्भं॑ ॅवृष॒भमोष॑धीनां
PS3.9 अ॒भी॒प॒तो वृ॒ष्ट्या त॒र्पय॑न्तं॒ तꣳ
PS3.10 सर॑स्वन्त॒मव॑से हुवेम
PS3.11 सिनी॑वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा᳚
PS3.12 जु॒षस्व॑ ह॒व्य - [ ]
PS4.1 माहु॑तं प्र॒जां दे॑वि दिदिड्ढि नः
PS4.2 या सु॑पा॒णिः स्व॑ङ्गु॒रिः सु॒षूमा॑ बहु॒सूव॑री
PS4.3 तस्यै॑ वि॒श्पत्नि॑यै ह॒विः सि॑नीवा॒ल्यै जु॑होतन
PS4.4 इन्द्रं॑ ॅवो वि॒श्वत॒स्परीन्द्रं॒ नरः॑
PS4.5 असि॑तवर्णा॒ हर॑यः सुप॒र्णा मिहो॒
PS4.6 वसा॑ना॒ दिव॒मुत् प॑तन्ति
PS4.7 त आऽव॑वृत्र॒न्थ् सद॑नानि कृ॒त्वाऽऽदित्
PS4.8 पृ॑थि॒वी घृ॒तैर्व्यु॑द्यते
PS4.9 हिर॑ण्यकेशो॒ रज॑सो विसा॒रेऽहि॒र्धुनि॒र्वात॑ इव॒ ध्रजी॑मान्
PS4.10 शुचि॑भ्राजा उ॒षसो॒ - [ ]
PS5.1 नवे॑दा॒ यश॑स्वतीरप॒स्युवो॒ न स॒त्याः
PS5.2 आ ते॑ सुप॒र्णा अ॑मिनन्त॒
PS5.3 एवैः᳚ कृ॒ष्णो नो॑नाव वृष॒भो
PS5.4 यदी॒दं
PS5.5 शि॒वाभि॒र्न स्मय॑मानाभि॒राऽगा॒त् पत॑न्ति॒ मिहः॑ स्त॒नय॑न्त्य॒भ्रा
PS5.6 वा॒श्रेव॑ वि॒द्युन्मि॑माति व॒थ्सं न
PS5.7 मा॒ता सि॑षक्ति
PS5.8 यदे॑षां ॅवृ॒ष्टिरस॑र्जि
PS5.9 पर्व॑तश्चि॒न्महि॑ वृ॒द्धो बि॑भाय दि॒वश्चि॒थ्
PS5.10 सानु॑ रेजत स्व॒ने वः॑
PS5.11 यत् क्रीड॑थ मरुत -
PS5.12 [ ]
PS6.1 ऋष्टि॒मन्त॒ आप॑ इव स॒द्ध्रिय॑ञ्चो धवद्ध्वे
PS6.2 अ॒भि क्र॑न्द स्त॒नय॒ गर्भ॒मा
PS6.3 धा॑ उद॒न्वता॒ परि॑ दीया॒
PS6.4 रथे॑न
PS6.5 दृतिꣳ॒॒ सु क॑र्.ष॒ विषि॑तं॒
PS6.6 न्य॑ञ्चꣳ स॒मा भ॑वन्तू॒द्वता॑ निपा॒दाः
PS6.7 त्वं त्या चि॒दच्यु॒ताऽग्ने॑ प॒शुर्न यव॑से
PS6.8 धामा॑ ह॒ यत् ते॑
PS6.9 अजर॒ वना॑ वृ॒श्चन्ति॒ शिक्व॑सः
PS6.10 अग्ने॒ भूरी॑णि॒ तव॑ जातवेदो॒
PS6.11 देव॑ स्वधावो॒ऽमृत॑स्य॒ धाम॑
PS6.12 याश्च॑ - [ ]
PS7.1 मा॒या मा॒यिनां᳚ ॅविश्वमिन्व॒ त्वे
PS7.2 पू॒र्वीः स॑न्द॒धुः पृ॑ष्टबन्धो
PS7.3 दि॒वो नो॑ वृ॒ष्टिं म॑रुतो
PS7.4 ररीद्ध्वं॒ प्रपि॑न्वत॒ वृष्णो॒ अश्व॑स्य॒
PS7.5 धाराः᳚
PS7.6 अ॒र्वाङे॒तेन॑ स्तनयि॒त्नुनेह्य॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता नः॑
PS7.7 पिन्व॑न्त्य॒पो म॒रुतः॑ सु॒दान॑वः॒ पयो॑
PS7.8 घृ॒तव॑द्वि॒दथे᳚ष्वा॒ भुवः॑
PS7.9 अत्यं॒ न मि॒हे वि
PS7.10 न॑यन्ति वा॒जिन॒मुथ्सं॑ दुहन्ति स्त॒नय॑न्त॒मक्षि॑तं
PS7.11 उ॒द॒प्रुतो॑ मरुत॒स्ताꣳ इ॑यर्त॒ वृष्टिं॒
PS7.12 - [ ]
PS8.1 ॅये विश्वे॑ म॒रुतो॑ जु॒नन्ति॑
PS8.2 क्रोशा॑ति॒ गर्दा॑ क॒न्ये॑व तु॒न्ना
PS8.3 पेरुं॑ तुञ्जा॒ना पत्ये॑व जा॒या
PS8.4 घृ॒तेन॒ द्यावा॑पृथि॒वी मधु॑ना॒ समु॑क्षत॒
PS8.5 पय॑स्वतीः कृण॒ताऽऽ*प॒ ओष॑धीः
PS8.6 ऊर्जं॑ च॒ तत्र॑ सुम॒तिं
PS8.7 च॑ पिन्वथ॒ यत्रा॑ नरो
PS8.8 मरुतः सि॒ञ्चथा॒ मधु॑
PS8.9 उदु॒त्यं चि॒त्रं
PS8.10 औ॒र्व॒-भृ॒गु॒वच्छुचि॑मप्नवान॒वदा हु॑वे
PS8.11 अ॒ग्निꣳ स॑मु॒द्रवा॑ससं
PS8.12 आ स॒वꣳ स॑वि॒तुर्य॑था॒ भग॑स्ये
PS8.13 ( ) व भु॒जिꣳ
PS8.14 हु॑वे
PS8.15 अ॒ग्निꣳ स॑मु॒द्रवा॑ससं
PS8.16 हु॒वे वात॑स्वनं क॒विं प॒र्जन्य॑क्रन्द्यꣳ॒॒ सहः॑
PS8.17 अ॒ग्निꣳ स॑मु॒द्रवा॑ससं

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 3.1.11.1 TS 3.1.11.1
अ॒ग्निना॑ र॒यिम॑श्नव॒त् पोष॑मे॒व दि॒वेदि॑वे । य॒शसं॑ ॅवी॒रव॑त्तमं ॥गोमाꣳ॑ अ॒ग्नेऽवि॑माꣳ अ॒श्वी य॒ज्ञो नृ॒वथ्स॑खा॒ सद॒मिद॑प्रमृ॒ष्यः । इडा॑वाꣳ ए॒षो अ॑सुर प्र॒जावा᳚न् दी॒र्घो र॒यिः पृ॑थुबु॒ध्नः स॒भावान्॑ ॥आप्या॑यस्व॒सन्ते᳚॥ इ॒ह त्वष्टा॑रमग्रि॒यं ॅवि॒श्वरू॑प॒मुप॑ ह्वये । अ॒स्माक॑मस्तु॒ केव॑लः ॥ तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णः स्य॑स्व । यतो॑ वी॒रः - [ ]
पदपाठः (Word-by-word)
अ॒ग्निना᳚ । र॒यिम् । अ॒श्न॒व॒त् । पोष᳚म् । ए॒व । दि॒वेदि॑व॒ इति॑ दि॒वे - दि॒व॒ ॥ य॒शस᳚म् । वी॒रव॑त्तम॒मिति॑ वी॒रव॑त् - त॒म॒म् ॥ गोमा॒निति॒ गो - मा॒न् । अ॒ग्ने॒ । अवि॑मा॒नित्यवि॑ - मा॒न् । अ॒श्वी । य॒ज्ञ्ः । नृ॒वथ्स॒खेति॑ नृ॒वत् - स॒खा॒ । सद᳚म् । इत् । अ॒प्र॒मृ॒ष्य इत्य॑प्र - मृ॒ष्यः ॥ इडा॑वा॒नितीडा᳚ - वा॒न् । ए॒षः । अ॒सु॒र॒ । प्र॒जावा॒निति॑ प्र॒जा - वा॒न् । दी॒र्घः । र॒यिः । पृ॒थु॒बु॒द्ध्न इति॑ पृथु - बु॒द्ध्नः । स॒भावा॒निति॑ स॒भा - वा॒न् ॥ एति॑ । प्या॒य॒स्व॒ । समिति॑ । ते॒ ॥ इ॒ह । त्वष्टा॑रम् । अ॒ग्रि॒यम् । वि॒श्वरू॑प॒मिति॑ वि॒श्व - रू॒प॒म् । उपेति॑ । ह्व॒ये॒ ॥ अ॒स्माक᳚म् । अ॒स्तु॒ । केव॑लः ॥ तत् । नः॒ । तु॒रीप᳚म् । अध॑ । पो॒ष॒यि॒त्नु । देव॑ । त्व॒ष्टः॒ । वीति॑ । र॒रा॒णः । स्य॒स्व॒ ॥ यतः॑ । वी॒रः ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

[अथ तृतीयाष्टके प्रथमप्रपाठक एकादशोऽनुवाकः]।

ये बहिष्पवमानाङ्गमन्त्रास्ते दशमे श्रुताः।

अथैकादशे काश्चित्पुरोनुवाक्या उच्यन्ते।

चित्रया यजेत पशुकाम इत्यत्र सप्तैतानि हवी षि भवन्तीति श्रुतम्। तत्र प्रथमस्य हविष आग्नेयस्य पुरोनुवाक्यामाह-

अग्निनेति। अनेनाग्निना रयिं धनानि अश्नवत्सर्वो जनः प्राप्नोति। न केवलं धनस्य स्वरूपमात्रं किंतु दिवेदिवे तस्य धनस्य पुष्टिमेव प्राप्नोति न तु ह्रासम्। कीदृशं पोषं, यशसं कीर्तिकरं वीरवत्तमं वीरा अस्मदीया पुत्रा अस्येति वीरवत्, अतिशयेन तथाविधम्। तत्रैव याज्यामाह-गोमा अग्न इति।

हेऽग्ने पुनरावर्तनाय प्रार्थ्यमानो यज्ञ एतैर्विशेषणैर्विशिष्टो भूयात्। बहवो गावोऽस्य सन्तीति गोमान्। एवमविमानश्वीति योज्यम्। नृवत्सखर्त्विग्रूपैर्मनुष्यैर्युक्ता। देवाः सखायो यस्य यज्ञस्य तादृशः। सदमित्सदैवाप्रमुष्योऽनभिभवनीयः। इडावानन्न-वान्। प्रजावान्बह्वपत्यप्रदः। दीर्घः पुनः पुनरनुष्ठानादविच्छिन्नः। रीयर्बहुधनोपेतः। पृथुबुध्नो विस्तीर्णमूलो मन्त्रेष्वनुष्ठानेषु च। मूलभूतेषु च वैकल्यरहितः। सभावान-विकलं यज्ञं द्रष्टुं मिलन्त्या विद्वत्सभया युक्तः। असुः पाणः सोऽस्यास्तीत्यसुरो हेऽसर प्राणवन्नग्न एष पुनः पुनः प्रार्थ्यमानो यज्ञ उक्तविशेषणविशिष्टो भूयात्।

द्वितीयहविषः सौम्यस्य याज्यानुवाक्ययोः प्रतीके दर्शयति-

आ प्यायस्वेति। एतच्चोभयं चतुर्थकाण्डे मा नो हिसीदित्यत्र व्याख्यास्यते। तृतीयहविषस्त्वाष्ट्रस्य पुरोनुवाक्यामाह-

इह त्वष्टारमिति। इहास्मिन्कर्मणि त्वष्टारं देवमुपह्वय आह्वयामि। कीद्दश-मग्रिमं मुख्यं विश्वरूपं विश्वानि गर्भे विकर्तुं योग्यानि यस्यायौ विश्वरूपस्तम्। स च त्व-ष्टाऽस्माकं केवलोऽस्तु असाधारणत्वेन पालकोऽस्तु तत्रैव याज्यासह-

तन्नस्तुरीपमिति। हे त्वष्टर्देव तद्धंन नोऽस्मभ्यं विशेषेण स्यस्व समर्पय। कीदृशं धनं, तुरीपं तूर्णं प्राप्नोतीति तुरीपम्। अधापि च पोषयित्नु पोषयितृ। त्वं च रराणो दानशीलः। यतो यस्माद्धनादस्माभिर्लब्धाद्वीरः शूरः पुत्रो जायते। कीदृशं तच्छुरत्वमिति तदुच्यते कर्मण्यो लौकिके वैदिके च कर्मणि कुशलः। सुदक्षः सम्यमुत्साही शीघ्रकारीत्यर्थः। युक्ताः सोमाभिषवार्थं प्रयुक्ता ग्रावाणो यस्यासौ युक्तग्रावा सर्वदा सोमयागस्यानुष्ठातेत्यर्थः। देवकाम ईदृशः सेवकोऽस्माकं भूयादिति देवैः काम्यमानो देवान्वा सेवितुं स्वयं कामयते।

तत्रैव हविषि विकल्पितां पुरोनुवाक्यामाह-

शिवस्त्वष्टरिति। हे त्वष्टरत्वं शिवः सुखकरः सन्निहास्मिन्कर्मण्यागहि आगच्छ। उतापि च पोषेऽस्मदीये पोषविषये त्मना विभु परनैरपेक्ष्येण स्वयभव समर्थः। तादृशस्त्वं तस्मिंस्तस्मिन्यज्ञे नोऽस्मानुदवोत्कर्षेण पालय।

तत्रैव विकल्पितां याज्यामाह-

पिशङ्गरूप इति। यस्य त्वष्टुः प्रसादादस्माकं वरिः पुत्रो जायते। कीदृशः पिशङ्गरूपः त्रिवर्गस्य सेवितेत्यर्थः। सुभरः सुष्ठु पोषक। वयोधा दीर्धस्य वयसो धारकश्विरंजीवीत्यर्थः। श्रुष्टी क्षिप्रकारी सत्यवादी वा। देवकाम इति पूर्ववत्। यस्य त्वष्टुः प्रसादादद्दिशो वीरो जातस्ताद्दशस्त्वष्टा नामिं चक्रस्य नाभिवत्प्रशस्तां प्रजां पुत्रपौत्रादिरूपामस्मे अस्मासु विष्यतु विशेषेण समर्पयतु। अथानन्तरं देवानामपि पाथोऽन्नमेतु * प्राप्नोतु।

अथ चतुर्थस्य हविषः सरस्वतीदेवताकस्य याज्यापुरोनुवाक्ययोः प्रतीके दर्शयति-

प्र णो देवीति। प्र णो देवी सरस्वतीति पुरोनुवाक्या। आ नो दिवो बृहत इति याज्या। एतच्चोभयमग्नाविष्णू महीत्यत्र व्याख्यातम्-

पञ्चमस्य हविषः सरस्वद्देवताकस्य पुरोनुवाक्यामाह-

पीपिवा समिति। सरस्वतः सरस्वन्नामकस्य देवस्य यः स्तनो विश्वदर्शतो विश्वविषयकदर्शनोपेतः क्षुधितान्बालानिव पालयितुं जानातीत्यर्थः। ताद्दशं स्तनं यज्ञ-लक्षणं पीपिवांसमस्मान्वर्धितवन्तं प्रजां पुत्रादिरूपामिषमन्नं च धुक्षीमहि। यथा गां पयो दुहन्ति तद्वदेतद्देवताकं यागमनुष्ठाये प्रजादिकं प्राप्ताः स्मेत्यर्थः। तत्रैव विकल्पितां पुरोनुवाक्यामाह-

ये ते सरस्व इति। हे सरस्वः सरस्वन्समुद्र त्वदीया य ऊर्मयो मधुमन्ते माधुर्ये-युक्ता घृतश्चुतो घृतसमानमुदकं क्षारयन्तो वर्तन्ते ते त्वदीयानां तेषामूर्मीणां संबन्धि सुम्नं सुखमीमहे प्राप्नुमः। तत्रैव याज्यामाह-

यस्य व्रतमिति। यस्य सरस्वतः संबन्धि व्रतं कर्म पशवो यन्ति द्विपादश्चतुष्पादश्च सर्वे पशवः प्राप्नुवन्ति। एतदीयेन कर्मणा पशवो लभ्यन्त इत्यर्थः। तथा वृष्टिरूपा आपो यस्य व्रतमुपतिष्ठन्ते सेवन्ते। अग्नौ प्रास्ताऽऽहुतिरिति न्यायेन वृष्टेरेतत्कर्मसाध्यत्वात्पुष्टिपतिर्धनपोषकस्य पालको यजमानो यस्य व्रते निविष्टस्तदीयेन व्रतेन धनपुष्टेः सुलभत्वात्ताद्दशं सरस्वन्तं देवमस्माकं रक्षणाय हुवेम ह्वयेम। तत्रैव विकल्पितां याज्यामाह-

दिव्य सुपर्णमिति। अत्र चतुर्थः पादः पूर्ववत्। कीद्दशं सरस्वन्तम्। दिवमर्हतीति दिव्यं, सुषर्णं शोभनाभ्यां पक्षाभ्यामुपेतम्। यदा पक्षिरूपं धृत्वा दिवि गच्छति तदनीमेतौ पक्षौ द्रष्टव्यौ। वयसं पक्षिरूपिणं बृहन्तं महान्तम्। अपां वृषभं जलानां वर्षितारम्। ओषधीनां गर्भं वीह्यादिमञ्जरीरूपम्। अभीपतो वृष्ट्या तर्पयन्तं वृष्टिरूपेणाभितः पतनात्सर्वेषां तृप्तिहेतुं वायुना नीयमानैर्जलबिन्दुभिः पक्षसद्दशैः पक्षिवद्दिवि मेघेषु गत्वा जलबाहुल्यं प्राप्य स्वयममेवापां वर्षितां व्रीह्यादिरूपेण गर्भो भवति। पुनश्च वृष्टिरूपेण सर्वतः पतन्सर्वं जगत्तर्पयतीत्यर्थः। ताद्दशं सरस्वन्तमाह्वयामेत्यर्थः।

अथ षष्ठस्य हविषः सिनीवालीदेवताकस्य पुरोनुवाक्यामाह-

सिनीवालीति। अमावस्या सिनीवालीति श्रुतत्वादमावास्यातिथ्यभिमानिनी देवता सिनीवाली। हे सिनीवालि या त्वं देवानां स्वसाऽसि भगिनीवद्धितकारिण्यसि दर्शेष्टिसाधनत्वात्। स्तुकं स्तोत्रं, पृथु स्युकं स्तोत्रं यस्याः सा पृथुष्टुका। तस्याः संबोधनं हे पृथुष्टुके। अनेन सिनीवाली विशेष्यते। ताद्दशी त्वमाहुतमस्माभिः समन्तात्समर्पितं हविर्जुषस्व। हे देवि नोऽस्मभ्यं प्रजां दिदिड्ढि उपचिनु प्रभूटां कुर्वित्यर्थः। तत्रैव याज्यामाह-

या सुपाणिरिति। शोभनौ पाणी यस्याः सा सुपाणिः। शोभना अङ्गुलयो यस्याः सा स्वङ्गुरिःष सुषूगा सुष्ठु प्रसवित्री। बहुसूवरी बहूनां यज्ञानां सवित्री। ईद्दशी या सिनीवाली तस्यै विश्पत्नियै विशां पालयित्र्यै सिनीवाल्यै हविर्जुहोतन हे ऋत्विग्य-जमाना जुहुत।

ऐन्द्र उत्तमो भवतीति यदिदं सप्तमं दविः श्रुतं तत्र याज्यानुवाक्ययोः प्रतीके दर्शयति-

इन्द्रमिति। एतच्चोभयं प्रथमकाण्डस्य षष्ठप्रपाठके व्याख्यातम्।

इत्थं चित्रायागे याज्यानुवाक्या उक्ताः। अथ कारीरीघ्ट्युपयुक्ता मन्त्रा उच्यन्ते।

कल्पः – 'अथाऽऽसां धूममनुमन्त्रयतेऽसितवर्णा हरयः सुपर्णा इति' इति आसां करीरसक्तुपिण्डीनामग्नौ हुतानामित्यर्थः। पाठस्तु-

असितवर्णा इति। अग्नि दह्यमानास्यः करीरसक्तुपिण्डीभ्यो ये निर्गता धूमास्ते दिवमुत्पतन्ति। कीद्दशा धूमाः। असितवर्णा कृष्णवर्णा हरयो मेघनिष्पादनाय रसहरणशीलाः सुपर्णाः प्रसारितपक्षसद्दशा मेहनान्मिहो मेघास्तद्रूपा भूत्वा वसानाः सूर्यमण्डलादिकमाच्छादयन्तस्ते धूमनिष्पाद्याः स्वोदरेषु जलस्य च सदनानि स्थानानि कृत्वाऽऽववृत्रन्निह कर्षितुमावृत्ताः। आदिदनन्तरमेव पृथिवी घृतैर्घृतवत्क्षरद्भिरुदकैर्व्यूद्यते विशेषेण क्लिद्यते।

कल्पः- 'अथैनमाहवनायेऽप्रहृत्याथास्य धूममनुमन्त्रयते हिरण्यकेशो रजसो विसार इति ' इति। एनं पुनर्नवायाः स्तम्बम्। पाठस्तु-

हिरण्यकेश इति। हिरण्यवर्णा अग्निकेशस्थानीया ज्वाला येन धूमेन सहोत्पद्यन्ते सोऽयं पुनर्नवाजन्यो धूमो हिरण्यकेशः। रजसो मेघरूपस्य रञ्जनस्य विसारे प्रसारेण निमित्तभूते सति अहति गच्छतीत्यहिर्मेघरूपमाकाशस्य रञ्जनं प्रसारयितुं गच्छतीत्यर्थः। वात इव धुनिर्ध्रजीमान्। यथा वायुः कम्पमानः शीघ्रगतियुक्तस्तद्वदयमित्यर्थः। मेघात्मा शुचिभ्राजा निर्मलदीप्तिर्मेघरूपेण परिणतोऽपि घूमो विद्युद्रुपया दीप्या युक्त इत्यर्थः। सोऽयमीद्दशो धूमोऽस्मदर्थं वृष्टिमुत्पादयत्विति शेषः। उषसः प्रभातकालस्य नवेदा मेघैः प्रकाशस्याऽऽबृतत्त्वे न विद्यते न ज्ञायतेऽनेनेति नवेदाः। सूर्योदयो यथा न ज्ञायते तथा मेधसमृद्धिरस्त्वित्यर्थः। यास्तु सस्यनिष्पादिका भूमयस्ताः सस्यनिष्पादनेन यशस्वतीः कीर्तिमत्यो भवन्तु। अपस्युवो न, अप उदकान्यात्मन इच्छन्तीत्यपस्युवः। तथाविधा इव वर्तन्ते। ताश्च भूमयः सत्या अमोघारम्भाः सुक्षेत्रा इत्यर्थः। एतासामनुग्रहाय पुनर्नवाधूमो वृष्टिं जनयत्विति शेषः।

अस्मिन्नेव धूमाभिमन्त्रणे तिस्र ऋचो विकल्पन्ते। तत्र प्रथमा-

आ ते सुपर्णा इति। हे पुनर्नवे ते तव संबन्धिनो धूमाः सुपर्णाः पक्षिवदुत्पतन-शीला एवैरामिनन्त पुनर्गमनैः समन्तादुद्वकं प्रक्षिप्तवन्तः। ततो मेघः कृष्णो नीलवर्णो वृषभो वर्षिता भूवा नोनाप पुनः पुनर्गंर्जनमकरोत्। यदि यदा यस्मिकाल इदं सर्वं प्रवर्तते तदा शिवाभिर्न सानुग्रहाभिरिव स्मयमानाभिर्हसन्तीभिरिव वृष्टिभिर्युक्तो मिहो मेघ आगादागच्छति। तत ऊर्ध्वं पतन्ति वृष्टिधारा इति शेषः। अम्रा स्तनयन्ति अस्राणि च गर्जन्ति। ईद्दशमहिमोपेतः पुनर्नवाधूम इत्यर्थः। अथ द्वितीया-

वाश्रेवेति। उपरितनमन्त्रे मरुत इति पदं प्रयुज्यते, त एव मरुतोऽत्रेदं शब्देन परामृश्यन्ते। एषां मरुतां संबन्धिनी वृष्टिर्यदसर्जि यदा सृष्टा भवति तदा गर्जनसहिता विद्युन्मरुतः प्रति वाश्रेव वाश्यमानेव शब्दं कुर्वतीव मिमाति मीय़ते प्रतिभातीत्यर्थः। सिषक्ति सज्यते मरुद्भिः संबध्यत इत्यर्थः। तत्र द्दष्टान्तः- वत्सं न मातेति। माता वत्स-मिव यथा प्रस्रवन्ती गौर्वत्सं प्रति हम्भारवं कुर्वांणा मनुष्यैरवलोक्यते तेन वत्सेन संबध्यते तद्वदियं विद्युदित्यर्थः।

अथ तृतीया-

पर्वतश्चिदिति। हे मरुत ऋषिमन्तो वज्रायुधवन्तो यूयं यदा क्रीडां कुरुथ तदानीं वः स्वने युष्माकं गर्जने सति पर्वतश्चिद्विभाय पर्वतोऽपि विभेति। कीद्दशः पर्वतः। महि वृद्धस्तिर्यक्प्रमाणेनात्यन्तं महानूर्ध्वप्रमाणेन वृद्धः। किंच दिवश्चित्, उन्नतत्वेन दिवोऽ–प्युपरि वर्तमानः। सानु रेजत भवतां गर्जते सति प्रौढोऽपि पर्वतसानुः कम्पते। किंच यू-यमाप इव सध्रियञ्चो धवध्वे व्यापका इव सन्तः क्रीडन्तश्च धावध्वम्। ईद्दशैर्मरुद्भिर्यु-क्तोऽयं पुनर्नवाधूमो वृष्टिमुत्पादयत्विति मन्त्रयोस्तात्पर्यार्थः।

कल्पः-' कृष्णोऽश्वः पुरस्तात्प्रत्यङ्मुखोऽवस्थितो भवति तमेतेन वाससाऽ–भिपिनष्ट्यभिक्रन्दति' इति।

यथाऽयमश्व उपद्रवं सोढुमसहमानः क्रन्दति तथा कृष्णवस्रेण तस्य शरीरं घर्षयेत्। पाठस्तु-

अभि क्रन्देति। हेऽश्वाभिक्रन्द सर्वतः शब्दं कुरु। स्तनय मेघगर्जितमिवोच्चध्वनिं कुरु गर्भमाधा मेघस्योदरे जलरूपं गर्भमाधेहि। किंच, उदन्वतोदकवता रथेन रथ-सद्दशेन मेघेन सह परिदीय सर्वतो गच्छ। विषितं विमुक्तद्वारं न्यञ्चमवाक्कृतं दृतिं चर्ममयजलाधारसद्दशं मेघं सुकर्ष सुखेनाऽऽकृष्टं कुरु। न्यग्भावेन पद्यन्त इति निपादा निम्नदेशास्ते चोदकपूर्णाः सन्त उद्वतोन्नतेन स्थलेन समा भवन्तु।

अथाग्नये धामच्छदे पुरोडाशभष्टाकपालँ निर्वपेन्गारुत सप्तकपाल सौर्यमेककपालमित्येतेषां हविषां क्रमेण याज्यानुवाक्या उच्यन्ते। तथा च बौधायनः-

'तस्या एते भवन्ति त्वं त्या चिदच्युताग्ने भूरीणि तव जातवेदो दिवो ना वुष्टिं मरुतो ररीध्वं पिन्वन्त्यपो मरुतः सुदानव उदु त्यं चित्रमिति ' इति।

तत्राऽऽद्यस्य हविषः पुरोनुवाक्यामाह-

त्वं त्या चिदिति। हेऽजर विनाशरहिताग्ने यद्वनानि यान्युदकानि ते धामा ह त्वदीयं स्थानं शिक्वसोऽर्चींषि च वृश्चन्ति विनाशयन्त्येव। त्वं तु त्याचित्ताम्यप्यु-दकान्यच्युतानि विनाशरहितानि कुर्विति शेषः। तत्र दृष्टान्तः पशुर्न यवसे तृणे भक्षिते सति पशुरिव। यथा गविदिकः पशुस्तृणं भक्षयित्वा क्षीरमच्युतं करोति तद्वदित्यर्थः। तत्रैव याज्यामाह-

अग्ने भूरीणीति। हेऽग्नेऽमृतस्य मरणहितस्य तव धाम भूरीणि स्थानानि बहूनि जातवेदो देव स्वधाव इति त्रीणि संबुद्धयन्तान्यग्निविशेषणानि। जातं जगद्वेत्तीति जातवेदाः। द्योतनशीलो देवः। स्वधाशब्दोऽन्नवाची तदस्यास्तीति स्वधावान्। किंच, मायिनां लोके मायायुक्तानामैन्द्रजालिकाशयानां या मायाः सन्ति ताः संदधुस्त्वे त्वयि सम्यक्स्थापितवन्तः पूर्वीरिति मायाविशेषणम्। पुरातन्योऽनादिसंप्रदायपरम्परागता इत्यर्थः। विश्वमिन्व पृष्टबन्धो, इति द्वयं संबुद्ध्यन्तमग्निविशेषणम्। विश्वमिन्वति प्रीणयतीति बिश्वमिन्वः। पृष्टश्चासौ बन्धुश्चेति पृष्टबन्धुः। तत्र महिमा कीद्दश इति जिज्ञासया यः पृच्छति तस्य बन्धु रिव स्नेहं कोरतीत्यर्थः। नवसस्यहेतूनामुपायानां त्वयि विद्यमानत्वादैन्द्रजालिकवदकस्मादेव प्रौढां वृष्टिं संपादयेति तात्पर्यार्थः।

द्वितीयस्य हविषः पुरोनुवाक्यमाह-

दिवो नो वृष्टिमिति। हे मरुतो नाऽस्मदर्थं दिवः सकाशाद्वृष्टिं ररीध्वं स्रावयत। ततश्चाश्वस्याश्नुवानस्य व्याप्तिमतो वृष्णो वर्षयितुरिन्द्रस्य संबन्धिनी र्धाराः प्रपिन्वतोदकधाराः सिञ्चत। हे वृषंस्त (स्त्व) मेनेन स्तनयित्नुना गर्ज नवता मेघेन सहार्वाङेहि अम्बरादभिमुखमागच्छ। किं कुर्वन्। अपो नितरसिञ्चन्। कीद्दशस्त्वम्। असून्प्राणान्राति ददातीत्यसुरः। नोऽस्माकं पिता पालकः। तत्रैव याज्यामाह्-

पिन्वन्त्यप इति। सुदानवः सुष्ठु जलदानपरा मरुतोऽपः पिन्वन्ति सिञ्चन्ति। तत्र द्दष्टान्तः- पयो वृतवद्विदथेष्वाभुव इति। पयोवदिति वतिप्रत्ययोऽध्याहर्तवंयः। आभवन्ति यज्ञभूमीरागच्छन्तीत्याभुव ऋत्विग्यजमानास्ते यथा विदथेषु यज्ञेषु पयो घृतं च सिञ्चन्ति तद्वत्। अत्यशब्दोऽश्ववाची। तथा चाश्वमेधकाण्डे मन्त्र आम्नायते- 'अश्वोऽसि हृयोस्यत्योऽसि नरोऽसि' इति। निर्वचनं तद्ब्राह्मणे पठ्यते-अत्योऽसीत्याह। तस्मादश्वः सर्वान्पशूनत्येति' इति। वाजिशब्दो वेगवन्तं मेघमाचेष्ट। अत्यं नाश्वमिव मिहे सेचनार्थं वाजिनं विनयन्ति, यथाऽश्वशिक्षका अश्वं शिक्षयन्ति एवं मरुतो वर्षार्थं मेघं विधेयी कुर्वन्तीत्यर्थः। विधेयीकृत्य चाक्षितमुपक्षयरहितं स्तनयन्तं गर्जन्तं मेघमुत्सं दुहन्ति निरन्तरजलप्रस्रवणं यथा भवति तथा वर्षयन्ति।

तत्रैव विकल्पितामन्यां पुरोनुवाक्यामाह-

उदप्रूत इति। उदप्रुत उदकदातॄंस्तान्मरुत इयर्त प्राप्नुत प्रार्थयत हे ऋत्विग्य-जमानाः। तान्कान्। ये विश्वेऽपि मरुतो वृष्टिं जुनन्ति प्रयच्छन्ति। प्रार्थनायां द्दष्टान्तः- गर्दा बुभुक्षिता कन्या तुन्ना पीडिता सती यथा क्रोशात्याक्रोशति। यथा मातापितरौ प्रत्याक्रोशति रोदिति तथैते यजमानादयो वृष्टिं वचसा प्रार्थयन्त इत्यर्थः। मरुतामनुग्रहे दृष्टान्तः-पेरुं तुञ्जाना पत्येव जायेति। पेरुं पानादिकामां कन्यां तुञ्जानाऽऽभाषमाणा माऽभिरोदीः किं तेऽभिलषितमिति वदन्ती पत्या सह जायेव। यथा मातापितरौ कन्या-मनुगृह्णीतस्तथा मरुत ऋत्विग्यजमानाननुगृह्णन्तीत्यर्थः।

तत्रैव विकल्पितामन्यां याज्यामाह-

घृतेनेति। हे मरुतो घृतेन घृतसद्दशेन मधुना मधुरेण जलेन द्यात्रापृथिवी लोकद्वयं समुक्षत, या आपो भूमावुक्षितास्ताभिरोषधीः पयस्वतीः सारवतीः कृणुत कुरुत। हे नरो जलस्य नेतारो मरुतो यत्र देशे मधु मधुरमुदकं सिञ्चथ तत्र देश ऊर्जं सोरोपेतमन्नं सुमतिं शोभनबुद्धियुक्तां प्रजां च पिन्वथ सिञ्चथ संपादयतेत्यर्थः।

अथ तृतीयस्य हविषो याज्यानुवाक्ययोः प्रतीके दर्शयति--

उदु त्यमिति। उदप स्यं जातवेदसमिति पुरोनुवाक्या। चित्रं देवानामिति याज्या। एतच्चोभयं प्रथमकाण्डस्य चतुर्थप्रपाठके व्याख्यातम्।

कल्पः पुरस्तात्स्विष्टकृतः स्रुवाहुतीरुपजुहोत्यौर्वभृगुवच्छुचिमप्नवानवदाहुव इति तिस्रः इति। तत्र प्रथमामाह--

और्वभृगुवदिति। और्वादय ऋषयस्तद्वच्छुचिं समुद्रे वसन्तमग्निमुद्दिश्य जुहोमीत्यर्थः। द्वितीयामाह--

आ सवभिति। सवितुः प्रसवमिव भगस्य भोगमिव। अग्निमित्यादि पूर्ववत्। तृतीयामाह--

हुवे वातस्वनमिति। वातवत्स्वनो ज्वालाध्वनिर्यस्य तं वातस्वनम्। कविं विद्वांसम्। सर्वैर्मनुष्यैः। पर्जन्यवत्क्रन्दनीयमपेक्षणीयम्। सहो बलवन्तं समुद्रवास-समग्निमुद्दिश्य हुवे जुहोमि। अत्र विनियोगसंग्रहः--

याज्यानुवाक्ये चित्रायां क्रमात्सप्तेष्टिषु स्थिते।

अग्न्याग्नेयेऽथ सौम्ये स्यादा प्या सं त इति द्वयम्॥

इह त्वाष्ट्रे चतस्रः स्युः प्र ण आ न इति द्वयम्।

सरस्वत्याः स्रियः (याः) पीपि चतस्रः पंसरस्वतः॥

सिनीवा द्वे सिनीवाल्या इन्द्रमिन्द्रं तथैन्द्रके।

कारीर्यामसितेत्युक्तं पिण्डीधूमस्य मन्त्रणम्॥

विकल्पाद्धिरचत्वारो वर्षाह्वा घूममन्त्रणे।

अभ्यश्वं कृष्णवस्रेण षिनष्टि क्रन्दनाय हि॥

त्वं धामच्छदि याज्याः स्युर्दिवो मारुतयागेक।

वैकल्पिकं तत्र युग्यमुदु चित्रं च सौयंके।

और्वत्रयाच्चोपहोमाः पञ्चत्रिंशदिहोदिताः॥

१५३९

प्रपा० १ अनु० ११] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।

[कासांचित्पुरोनुवाक्यानामभिधानम् ]

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णय-जुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे प्रथमप्रपाठके

एकादशोऽनुवाकः॥ ११॥

--------

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।

पुमर्थोंश्र्वतुरो देयाद्विद्यातीर्थमहेश्वरः॥

इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधवाचार्येण विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्यतृतीयकाण्डे प्रथमः प्रपाठकः॥ १॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथौपानुवाक्यामध्ये याज्यानुवाक्याः । अस्ति चित्रा नाम यागः । 'चित्रया यजेत पशुकामः' इति । तत्राग्नेयदीनि सप्तहवींषि भवन्ति । तेषां 'प्रैवाग्नेयेन वापयति' इत्यस्याग्नेयस्य पुरोनुवाक्या - अग्निना रयिमश्नवदिति गायत्री ॥ अग्निना हि रयिं धनं पशुलक्षणं अश्नवत् अश्नुते । पोषं चैव तस्य धनस्य अश्नुते अग्निना दिवेदिवे दिनेदिने । अश्नोतेर्लेटि व्यत्ययेन परस्मैपदम् इतश्च लोपः, 'लेटोडाटौ' इत्यडागमः । रयिर्विशेष्यते - यशसं यशस्विनम् । मत्वर्थीयो लुप्यते, तेनानब्विषयत्वादाद्युदात्तत्वं निवर्तते, अर्शआदित्वादचि व्यत्ययेन प्रत्ययात्पूर्वस्योदात्तत्वम् । वीरवत्तमं अतिशयेन वीरैः पुरुषैस्तद्वन्तम् । यस्मादीदृशं रयिं अग्निना सर्वो जनः अश्नुते तस्मादहमप्यग्निना ईदृशं रयिं अश्नुवीयेति ॥
2 तत्रैव याज्या - गोमानिति त्रिष्टुप् ॥ व्याख्यातेयम् 'अगन्म सुवः' इत्यत्र । गोमत्त्वादिगुणविशिष्टस्सर्वदैवाप्रमृष्यो यज्ञो ममास्तु इति ॥
3 अथ 'रेतस्सौम्येन दधाति' इत्यस्य पुरोनुवाक्या याज्या च - आप्यायस्व सं ते इति गायत्रीत्रिष्टुभौ ॥ एते च 'मा नो हिंसीज्जनिता' इत्यत्र व्याख्यास्येते यत्राम्नेयेते । इह तु प्रतीकग्रह्णमेतयोः । हे सोम आप्यायस्व वर्धस्व । ते तव विश्वतः वृष्णियं वीर्यं समेतु । तत्र आप्यायितस्त्वं वाजस्यान्नस्य क्षीरादेः संगथे संगमने अस्माकं भवेति ॥
4 अथ द्वितीया - हे सोम तवाभिमातीनां पाप्मनां हन्तुः पयांसि पातव्यानि क्षीरादीनि संयन्तु संगच्छन्तां, वाजा अन्नानि च संयन्तु, वृष्णियानि वीर्याणि च संयन्तु । ततश्चाप्यायमानः अमरणत्वायास्माकं उत्तमानि श्रेयांसि अन्नानि धिष्व धारय देवार्थमस्मदर्थं वा ॥
5 अथ 'रेत एव हितं त्वष्टा रूपाणि वि करोति' इत्यस्य पुरोनुवक्या - इह त्वष्टारमिति गायत्री । इहास्मिन् कर्मणि त्वष्टारं अग्रियं मुख्यम् । 'घच्छौ च' इति घच् । विश्वरूपं विश्वेषां रूपाणां विकरणसमर्थम् । 'बहुव्रीहौ विश्वम्' इति पूर्वपदान्तोदात्तत्वम् । उपह्वये आह्वयामि । 'निसमुपविभ्यो ह्वः' इत्यात्मनेपदम् । अस्माकमेवास्तु केवलः सम्भन्धीत्येवमर्थमुपह्वये ॥
6 तत्रैव याज्या - तन्न इति त्रिष्टुप् ॥ 'सुदक्षः' इति तृतीयपादान्तः । तत् धनं तुरीपं तूर्णमाप्नोतीति तुरीपं । पृषोदरादिः । पोषयित्नु पोषयितृ । हे देव त्वष्टः रराणः दानशीलस्त्वम् । व्यत्ययेन रातोरात्मनेपदम् शपश्श्लुः । नः अस्मभ्यं अधेदानीं विष्यस्व विसृज विमुच्य देहीत्यर्थः । व्यत्ययेनात्मनेपदम् । तदित्युक्तं, किं तदित्याह - यतः यस्माद्धनाल्लब्धात् वीरः विक्रान्तः कर्मण्यः कर्मणि साधुः कुशलः सुदक्षः सुष्ठु शीघ्रः उत्साही । दक्ष शीघ्रकरणे, 'आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । युक्तग्रावा युक्ता ग्रावाणो यस्य तादृशः । ग्रावभिः तत्साध्यं कर्मोपलक्ष्यते कर्मशील इत्यर्थः । अत एव देवकामः । देवान् कामयते इति 'शीलिकामि' इत्यादिना णः पूर्वपदप्रकृतिस्वरत्वं च । देवैः काम्यते इति वा देवकामः । दासीभारादिर्द्रष्टव्यः । ईदृशः पुरुषः यस्माद्धनाज्जायते तत्पशुलक्षणं धनं देहीति ॥
7 अथापरं याज्यानुवाक्यायुगळं विकल्पार्थं अत्रैव वा अन्यत्र वा त्वाष्ट्रे विनियोज्यम् । तत्र पुरोनुवाक्या - शिव इति गायत्री ॥ हे त्वष्टः शिवः सुखकरः त्वमिहास्मिन् कर्मणि आगहि आगच्छ । शपो लुक् । विभुः व्याप्तिमान् पोषे पुष्ट्यर्थमस्मा कम् । निमित्तात्सप्तमी । उत त्मना आत्मना केवलेनाप्यात्मना अन्यनिरपेक्ष एव पोषं कर्तुं समर्थः । 'मन्त्रेष्वाड्यादेः' इति लोपः । किञ्च - यज्ञेयज्ञे सर्वस्मिन् यज्ञे नः अस्मान् उदव उत्कृष्टं पाहि प्रतियज्ञमुत्कृष्टं पाहीत्यर्थः । 'अनुदातं च' इति द्वितीयो यज्ञशब्दोनुदात्तः ॥
8 अथ याज्या - पिशङ्गरूपः इति त्रिष्टुप् ॥ पिशङ्गरूपः चित्ररूपः । त्रिवर्गस्य सेविता सुभरः शोभनभरणः स्वजनस्य सम्यग्भर्तेत्यर्थः । 'आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । यद्वा - देवैस्सुखेन भरणीयः । खल्प्रत्ययात्पूर्वस्योदात्तत्वम् । वयोधाः वयसोन्नस्य दाता धाता वा । श्रुष्टी क्षिप्रकारीत्येके । सत्यवादीत्यन्ये । श्रोतृषु स्त्यायते श्रुष्टी । पृषोदरादिः । वीरो देवकामश्च इत्येवंगुणः जायते त्वष्टुः प्रसादात् । तस्मादीदृशीं प्रजां त्वष्टा अस्मे अस्मभ्यं विष्यतु विमुच्य ददातु नाभिं नहनीं कुलस्य । 'नहोभश्च' इति । 'सुपां सुलुक्' इति अस्मच्छब्दात्परस्या विभक्तेस्स्मे आदेशः । अथानन्तरं देवानामपि पाथोन्नं सामर्थ्यद्देवानामपि एतु अस्मान् प्राप्नोतु । यद्वा - कर्मणि षष्ठी । पाथोन्नं हवीरूपं देवानप्येतुप्रविशतु । यागाश्च यथोक्तमनुष्ठीयन्तामित्यर्थः ॥
9 अथ 'द्वौ सारस्वतौ मिथुनं सारस्वत्या करोति' इति ब्राह्मणम् । एकस्सरस्वत्यै, इतरस्सरस्वते । तत्र सरस्वत्याः पुरोनुवाक्या याज्या च 'प्रणो देवी सरस्वती', 'आ नो दिवो बृहतः' इति च गायत्रीत्रिष्टुभौ ॥ व्याख्याते चैते 'अग्नाविषिणू महि तद्वाम्' इत्यत्र, इह तु प्रतीकग्रहणं तयोः । सरस्वती देवी वाजेभिरन्नैः तद्वती धीनां धियां कर्मणां बुद्धीनां वा अवित्री पालयित्री अस्मान् प्रकर्षेणावत्विति ॥
10 अथ याज्या - नोस्मार्कं यज्ञं सरस्वती यजता यजनीया दिवोन्तरिक्षादागच्छतु, बृहतो वा पर्वतादागच्छतु । सर्वं हवं जुषाणा सेवमाना घृताची उदकस्याञ्चती उशती हवींषि कामयमाना नोस्माकं शग्मां शक्तां वाचं शृणोत्विति ॥
11 अथ सरस्वतः पुरोनुवाक्या - पीपिवांसमिति गायत्री ॥ पीपिवांसं वर्धितवन्तम् । 'लिड्यङोश्च' इति पीभावः । धातोर्ह्रस्वत्वम् । छान्दसस्य वा लिटः क्वसुरादेशः । वर्धयन्तमित्यर्थः । कम्? स्तनं स्तनस्थानीयं यागं यथा स्तनो बालान् वर्धयति एवं सर्वलोकं वर्धयन्तम् । कस्य स्तनम्? सरस्वतः सरस्वान्वाग्देवताविशेषः तस्य स्तनम् । कीदृशस्सः? यो विश्वदर्शतः । विश्वं दर्शनीयं यस्य । दृशेरौणादिकोतच्प्रत्ययः । तादृशो योसौ सरस्वान् तस्य स्तनस्थानीयं विश्वं वर्धयितुं पर्याप्तं यागम् । वयमपि प्रजां पुत्रादिकां तस्याश्च जीवनार्थं इषमन्नं च धुक्षीमहि । 'लिङ्सिचावात्मनेपदेषु' इति कित्वम् ॥
12 अत्रैव पुरोनुवाक्या विकल्प्यते । अन्यत्र वा विनियुज्यते - ये ते इति गायत्री ॥ हे सरस्वः सरस्वन् उदकवन् । 'मतुवसोः' इति रुत्वम् । ते तव ये ऊर्मयः उदकसंघाताः मधुमन्तः मधुररसाः । घृतश्चुतः उदकं क्षारयन्त्यः । यद्वा - ऊर्मयः अरणशीलः गावः मधुमन्तः घृतश्चुतः । तेषां सम्बन्धि यत् सुखं सुम्नं यत्तद्वतां भवति तत्ते ईमहे । कर्मणि षष्टी । त्वां याचयामहे तदस्मभ्यं देहि । ई गतौ, तत्र याच्ञायां वर्तते, 'बहुलं छन्दसि' इति शपो लुक् ॥
13 अथ तत्रैव याज्या - यस्येति त्रिष्टुप् ॥ यस्य सरस्वतः व्रतं कर्म सर्वे पशवो यन्ति अनुगच्छन्ति; तन्निमित्तत्वाद्वृष्टेः । यस्य च व्रतं कर्म आप उपतिष्ठन्ते; तन्निमित्तत्वाद्द्वृष्टेः । सङ्गतिकरण आत्मनेपदम् । यस्य च व्रते पुष्टिपतिः तत्तत्पोषणपतिः निविष्टः; तदधीनत्वात् वृष्टेः पुष्टेश्च । 'परादिश्छन्दसि बहुळम्' इति पतिशब्दस्याद्युदात्तत्वम् । 'गतिरनन्तरः' इति निविष्टशब्दे गतेः प्रकृतिस्वरत्वम् । तं सरस्वन्तं अवसे रक्षणाय तृप्त्यर्थं वा हुवेम आह्वयेम । 'लिङ्याशिष्यङ्', 'बहुलं छन्दसि' इति संप्रसारणम् ॥
14 अथात्रैव याज्या विकल्प्यते - दिव्यमिति त्रिष्टुप् ॥ दिव्यं दिवमर्हतीति । 'छन्दसि च' इति यः । सुपर्णं शोभनपतनम् । 'नञ्सुभाम्' इत्युत्तरपदान्तोदात्तत्वम् । वयसं अन्नवन्तं तन्निमित्तत्वात् । अर्शआदित्वादच् । बृहन्तं महान्तं अपां गर्भं मध्यगतं वृषभं वर्षितारं कामानां सेक्तारां वृद्धिकरं वा । ओषधीनामुपलक्षणमिदम् । सर्वेषामपि वृषभं, ओषधीनां गर्भमित्यन्ये । अभीपतः अभितः सर्वतः वृष्ट्या विर्श्वं तर्पयन्तम् । अभिगताः आपः अस्मिन्निति । 'ऋक्पूरब्धूः' इति समासान्तः, 'द्व्यन्तरुपसर्गेभ्योप ईत्' इतीत्, 'आद्यादिभ्यस्तसिः' । अन्य आह – अभिपतनशीलान् सर्वप्राणिनो वृष्ट्या तर्पयन्तम् । पततेः क्विपि छान्दसमुपसर्गस्य दीर्घत्वम्, विभक्त्युदात्तत्वं च । 'मन्त्रे वृष' इति क्तिन उदात्तत्वाद्वृष्टिशब्दोन्तोदात्तः, ततः 'उदात्तयाः' इति तृतीयाया उदात्तत्वम् । तमित्यादि । गतम् ॥
15 अथ 'सिनीवाल्यै चरुर्भवति' इत्यस्य चरोः पुरोनुवाक्या सिनीवालीत्यनुष्टुप् ॥ दृष्टचन्द्रामावास्या सिनीवाली, स्त्रीत्वेन रूप्यते । हे सिनीवालि पृथुष्टुके पृथुजघने पृथुसंहते वा । स्त्यायतेस्स्तुकः, पूर्वस्याविद्यमानत्वादिदं न निहन्यते । या त्वं देवानां स्वसा स्वयं सारिण्यसि । वृष्ट्यादीनां भगिन्येव वा; समानकार्यत्वात् । सा त्वं जुषस्व सेवस्व हव्यं आहुतम् । पूर्ववद्गतेः प्रकृतिस्वरत्वम् । किं च - हे सिनीवालि नः अस्मभ्यं प्रजां पुत्रादिकां दिदिढ्ढि उपचिनु देहीत्यर्थः । दिहेर्लेटि शपश्श्लुः ॥
16 अथ तत्रैव याज्या - या सुपाणिरित्यनुष्टुप् ॥ या सुपाणिः शोभनहस्ता स्वङ्गुरिः शोभनाङ्गुलिः । कपिलकादित्वाल्लत्वविकल्पः, उभयत्रापि 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । सुषूमा सुष्ठु प्रसवित्री । सूतेः 'अन्येभ्योपि दृश्यते' इति मनिन्, गुणाभावश्छान्दसः, 'मनः' इति ङीप्रतिषेधः, कृदुत्तरपदप्रकृतिस्वरत्वम् । यद्वा - सूतेरौणादिको मनिन्प्रत्ययः । सुष्ठु सूमा सूतिः यस्य सुषूमा । बहुव्रीहौ 'सोर्मनसी' इत्युत्तरपदान्तोदात्तत्वम्, सुषामादित्वात् षत्वम् । बहुसूवरी बह्वीनां प्रजानां सवित्री । तेनैव क्वनिप्, 'वनो रच' ङीब्रेफौ, कृदुत्तरपदप्रकृतिस्वरत्वम् । तस्यै सिनीवाल्यै विश्पत्नियै विशां पालयित्र्यै । 'विश्पूर्वस्य' इति पत्युर्नकारः, 'अयस्मयादीनि छन्दसि' इति भत्वेन विशो जस्त्वाभावः, 'परादिश्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । हविर्जुहोतन जुहुत हे ऋत्विग्यजमानाः । 'तप्तनप्तनधनाश्च' इति तनबादेशः, पित्त्वेन ङित्त्वाभावाद्गुणः ॥
17 'ऐन्द्र उत्तमो भवति' इत्यस्यैन्द्रस्य पुरोनुवाक्या याज्या च - इन्द्रं वो विश्वतस्परीन्द्रं नर इति गायत्रीत्रिष्टुभौ । व्याख्याते चैते । इह तु प्रतीकग्रहणमनयोः । हे ऋत्विग्यजमानाः वो युष्मदर्थं विश्वेभ्यो जनेभ्यः उपरि इन्द्रं हवामहे आह्वयामः । अस्माकमेव केवलः स्वामी भवत्विति ॥
18 द्वितीया - यदा पार्याः परलोकसाधनभूताः धियः कर्माणि युनजते युञ्जन्ति तदा मनुष्याः इन्द्रमेवाह्वयन्ति । हविषामर्धेन धार्यमाणं अर्धार्हं 'यत्सर्वेषामर्धमिन्द्रः प्रति' इति । तस्मात् हे इन्द्र शूरः वीरः शवसो बलस्य मनुष्येभ्यः संभक्तौ चकानः दीप्यमानः । इदृशस्त्वं गोमति व्रजे गोसमूहे अस्मानाभज भागिनः कुर्विति ॥
19 अथ कारीर्यां पिण्डीर्हुत्वा धूममन्वीक्षते - असितवर्णा इति त्रिष्टुभा ॥ असितवर्णाः कृष्णवर्णाः; उदकपूर्णत्वात् । हरयः रसहरणशीलाः रश्मयः सुपर्णाः शोभनपतनाः । 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । मिहः आपः । मिह्यन्ते सिच्यन्ते इति कर्मणि क्विप् । वसानाः आच्छादयन्त्यः । अनुदात्तत्वाल्लसार्वधातुकानुदात्तत्वम् । दिवमादित्यमण्डलं उत्पतन्ति उत्क्रम्यो परिगच्छन्ति । उत्तरायणे आपस्तत्र गर्भभूताः वर्तन्ते । ते च रश्मयः तत्र सदनानि कृत्वा अष्टौ मासानतिवाह्य पक्वमुदकं गृहीत्वा दक्षिणायने आववृत्रन् आवर्तन्ते मध्यमस्थानं प्रतियन्तः असितवर्णा उदपतन् । वृतेर्लेटि व्यत्ययेन परस्मैपदम्, शपश्श्लुः, 'बहुलं छन्दसि' इति रुट् । यद्वा - छान्दसो लुङ् । 'द्युद्भ्यो लुङि' इति परस्मैपदं, व्यत्ययेन च्लेश्चङ्, 'बहुलं छन्दस्यमाङ्योगेपि' इत्यडभावः । अथ यदा ते आवृत्ता भवन्ति आदित् अनन्तरमेव पृथिवी घृतैः उदकैः व्युद्यते विशेषेण क्लिद्यते । उन्दी क्लेदने ॥
20 वर्षाभूस्तम्बमग्नौ प्रहरति - हिरण्यकेश इति त्रिष्टुभा ॥ आदित्यात्मना अग्निस्स्तूयते - हिरण्यकेशः रसहरणशीलरश्मिः हिरण्य वर्णरश्मिर्वा आदित्यः रजसः उदकस्य विसारे निस्सारणे निस्सारणार्थं अहिः आगत्य हन्ता मेघानाम् । आङ्पूर्वाद्धन्तेः डिप्रत्ययः, उपसर्गस्य ह्रस्वत्वम् । धुनिः कम्पयिता मेघानाम् । धुनेतेरौणादिको निप्रत्ययः । वात इव ध्रजीमान् गतिमान् । धृजेः 'इन्सर्वधातुभ्यः' इतीन् । शीघ्रमुदकं निस्सारयतीत्यर्थः । शुचिभ्राजाः निर्मलदीप्तिः उषसः अह्नः नवेदाः न विन्दतीति नवेदाः । पचाद्यच्, 'नभ्राण्नपान्नवेदा' इति नञो नलोपाभावः । हिरण्यकेश एव रजसो निस्सारणं वेत्ति उषस्तु न विन्दति । यशस्वतीः यशस्वत्यः साध्येनान्नेन तद्वत्यः अपस्युवो न उदकमिच्छन्त्य इव भवन्ति सत्याः अमोघारम्भाः । अप इच्छन्तीति क्यच्, द्वितीयाबहुवचनस्य लुक्, 'क्याच्छन्दसि' इत्युप्रत्ययः, तन्वादित्वादुवङ् । तस्माद्धिरण्यकेशः सर्वं जानाति, अस्माकमुदकं निस्सारयति ॥
21 स्तम्बस्य धूममन्वीक्षते - आ ते सुपर्णा इति त्रिष्टुभा ॥ हे आदित्यात्मन् अग्ने ते तव सुपर्णाः शोभनपतनाः रश्मयः अमिनन्त आमिन्वते आनयन्ति वृष्टिम् । डुमिञ् प्रक्षेपणे, व्यत्ययेन श्ना, अन्तादेशश्च, संहितायां परेण वृद्ध्यभावश्च । एवैः अयैनैः इत उदकमादाय मण्डलं यान्ति, ततो मध्यमस्थानं यान्ति । एरवमयनैर्वृष्ठिमानयन्ति । अथ यदीदं रश्मयः कुर्वन्ति तदा कृष्णो मेघः वृषभः वर्षिता मध्यमस्थानमागत्य नोनाव प्रशस्तं शब्दं भृशं करोति । नौतेर्यङ्लुगन्ताच्छान्दसो लिट् । तदनीं शिवाभिर्न सानुग्रहाभिरिव स्मयमानाभिः हसन्तीभिरिव फेनवत्तया अद्भिस्सह आगात् आगच्छति वर्षन् मेघः । एतेः छान्दसो लुङ् । स्मयतेर्ङित्त्वात्सार्वधातुकानुदात्तत्वम् । तदनन्तरं मिहः आपः पतन्ति सर्वतः पृथिव्याम्, स्तनयन्तिच समन्तात् अभ्रा अभ्राणि । 'शेश्छन्दसि' इति लोपः ॥
22 वक्ष्यमाणस्य मारुतस्य पुरोनुवाक्या याज्या च – वाश्रेव, पर्वतश्चिदिति गायत्रीत्रिष्टुर्भौ ॥ केचित्तु - 'आ ते सुपर्णाः' इत्यादय ऋचस्तिस्रोपि धूमान्वीक्षणमन्त्रा इत्याहुः । वाश्रेव वाश्यमानेव मरुतः प्रति । यथा प्रस्नवनी माता वत्सं प्रति वाश्यमाना भवति; तथा विद्युत् मरुतः प्रति वाश्यमाना मिमाति मिमेति । माङ् माने, जौहोत्यादिकः, अत्र तु सेचनकर्मा, व्यत्ययेन परस्मैपदम् । सिषक्ति सेवते च माता वत्समिव । षञ्जेः शपः श्लुः 'बहुलं छन्दसि' इत्यभ्यासस्येत्यम् । यत् यदा वृष्टिः असर्जी सृज्यते । छान्दसो लुङ् । एषां मरुतां सम्बन्धिनी वृष्टिः तदारम्भे इत्थं विद्युन्मरुतो मिमाति सिषक्ति चेति । तस्मादस्माकमेवं भवत्वित्याशास्यते ॥
23 पर्वतश्चिदित्यादि ॥ अप्यर्थे चिच्छब्दः । महि महत् वृद्धः पर्वतो बिभाय बिभेति वः स्वने गर्जिते । किं च - दिवोप्युपरिगतस्य पर्वतस्य सानु रेजत रेजते कम्पते स्वने युष्माकम् । रेजृ कम्पने, टेरेत्वाभावश्छान्दसः । छान्दसे वा लङि 'बहुलं छन्दस्यमाङ्योगेऽपि' इत्यडभावः । कदेत्याह - यदा हे मरुतः ऋष्टिमन्तः वज्रायुधवन्तः यूयं क्रीडथ । तदानीं युष्माकं गर्जितं श्रुत्वा पर्वतोपि बिभेति सान्वपि कम्पते इति । 'ह्रस्वनुङ्ग्भ्यां मतुप्' इति मतुपः उदात्तत्वम् । किं च - तस्मिन् काले यूयं आप इव व्यापका इव सध्रियञ्चः सहाञ्चन्त्यः 'सहस्य सध्रिः' इति सध्र्यादेशः । अध्रिसध्र्योरन्तोदात्तनिपातनं कृत्स्वरनिवृत्त्यर्थम् । धवध्वे धावत छान्दसं ह्रस्वत्वम् । धुनोतिर्वा गतिकर्मा, व्यत्ययेन शप् । तस्मादस्माकं वृष्ट्यर्थं गर्जन्तः क्रीडन्तश्च धावध्वमिति ॥
24 अथाश्वं वाससा अभिवेष्टयति - अभिक्रन्देति त्रिष्टुभा ॥ अभिक्रन्द अभितस्सर्वतः शब्दं कुरु स्तनय उच्चैर्गर्ज । तिङः परत्वान्न निहन्यते । ततश्च गर्भं मेघस्योदकं आधाः गर्भमाधेहि । लेटि शपो लुक् । किंच - उदन्वता उदकवता रथेन रंहणेन परिदीय सर्वतो गच्छ, दीयतिः छान्दसो गतिकर्मा । उदकस्योदन्भावश्छान्दसः, 'ह्रस्वनुङ्भ्यां मतुप्' इति मतुप उदात्तत्वम् । ततस्तं मेघं चर्ममयो जलाधारविशेषो दृतिः तद्वत्सुकर्ष सुखेन कर्ष विषितं विमुक्तद्वारम् । 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । न्यञ्चं अवाङ्मुखीकृतम् । 'न्यधी च' इति गतेः प्रकृतिस्वरत्वम् । ततश्चैवं त्वया कृते समा भवन्तु तुल्या भवन्तु । उद्वता उन्नतेन स्थलेन निपादाः निम्नाः उदकेन सर्वं समीकृतमस्तु । पदेर्घञ्, थाथादिनोत्तरपदान्तोदात्तत्वम् । एवमश्वात्मनाऽग्निस्स्तूयते 'उपसर्गाच्छन्दसि' इति उच्छब्दाद्वतिः ॥
25 अथ 'अग्नये धामच्छदे पुरोडाशमष्टाकपालं निर्वपेन्मारुतं सप्तकपालं सौर्यमेककपालम्' इत्येतेषां त्रयाणां हविषां याज्यानुवाक्याः । तत्राग्नेयस्य पुरोनुवाक्या - त्वं त्या चिदच्युतेत्यनुष्टुप् ॥ 'अचूत' इति प्रथमपादान्तः । अग्ने इति पादादित्वान्न निहन्यते । हे अग्ने त्वमेव त्याचीत् तान्यपि वना वनानि उदकानि अच्युत अच्युतानि अविनाशीनि । उभयत्रापि 'शेश्छन्दसि' इति लोपः । तानि यानि वनानि तव शिक्वसः अर्चींषि वृश्चन्ति भक्षयन्ति तानि त्वमेव भूत्वा अच्युतानि तिष्ठन्ति । अत्र दृष्टान्तमाह - पशुर्न यवसे । यथा यवसे घासे भक्षिते पशुरेव भवति सोपि पश्वात्मना अवतिष्ठते । यद्वा - तान्यपि त्वमेव यवसे मिश्रयसि स्थापयसि । विकरणादिव्यत्ययः 'चनचिदिव' इति निघाताभावः । तस्मात्तवैवात्र धाम जन्मस्थानं वा त्वमेव तत्तदात्मना जायसे तिष्ठसि वा । हे अजर विनाशरहित त्वं खलु अविनाशः उदकात्मना वर्षकाले जायसे । अन्यथा तान्यप्युपसंहृत्य स्वरूपेणावतिष्ठसे इति 'अन्येषामपि दृश्यते' इति धामशब्दस्य संहितायां दीर्घत्वम् । स त्वमस्मदर्थं वर्षेति ॥
26 तत्रैव याज्या - अग्ने इति त्रिष्टुप् ॥ हे अग्ने जातवेदः जातप्रज्ञ । यद्वा - जातानां वेदितः देव देवनशील स्वधावः अन्नवन् । 'मतुवसोः' इति रुत्वम् । तवामृतस्यामरणस्य भूरीणि बहूनि धाम धामानि तेजांसि 'सुपां सुलुक्' इति लुक् । याश्च मायाः कर्माणि मायिनां कर्मिणां यजमानानां सम्बन्धिनीः पूर्वीः पुरातनीः । गौरादित्वात् ङीष् । त्वे त्वयि सन्दधुः स्थापितवन्तः पूर्वे यजमानाः । ताश्च त्वयि भूरयः त्वामेवेष्टवन्तः सर्वे तेन त्वमेव सर्वाणि तेजांसीति । हे विश्वमिन्व विश्वस्य प्रीणयितः । इवि प्रीणने, छान्दसः खश्, 'अरुद्विषदजन्तस्य मुम्' । हे पृष्टबन्धो स्पर्शवतां बन्धो । स्पृशेश्छान्दसस्सलोपः, धात्वन्तरं वा द्रष्टव्यम् । व्रीह्यादित्वान्मायाशब्दादिनिः । त्वे इति 'सुपां सुलुक्' इति शे आदेशः । ईदृशर्स्त्वं अस्मान्वर्षेण रक्षेति ॥
27 अथ मारुतस्य चतस्रो याज्यानुवाक्या विकल्प्यन्ते । तत्र प्रथमा - दिवो न इति त्रिष्टुप् ॥ हे मरुतः नः अस्मदर्थं दिवो वृष्टिं ररीध्वं स्रावयत । री स्रवणे, व्यत्ययेन शपश्श्लुः, वर्णव्यत्ययेनाभ्यासस्येत्वम् । वृष्णः वर्षितुः इन्द्रस्य अश्वस्य व्याप्तिमतः धाराः वर्षधाराः प्रपिन्वत प्रकर्षेण आसिञ्चत । पिवि मिवि सेचने, चङ् । हे वृषन् इन्द्र त्वमपि अर्वाङ् अस्मदभिमुखं याहि आगच्छ । एतेन मेघेन स्तनयित्नुना शब्दयता सहागच्छ । 'ओमाङोश्च' इति पररूपत्वम् । अपो निषिञ्चन् वर्षन् असुरः आसनकुशलः । असेरुरन् । असुमान्वा, असुप्रदो वा । प्रजानां नोस्माकं पिता पाता ॥
28 अथ द्वितीया - पिन्वन्तीति जगती ॥ पिन्वन्ति सिञ्चन्ति क्षारयन्ति अपः । 'ऊडिदम्' इति शप उदात्तत्वम् । मरुतस्सुदानवः शोभनदानाः । आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वन् । पयः पयस्सदृशीरपः पिन्वन्ति घृतवत् घृतमिव विदथेषु यज्ञेषु आभुवः आभुवन्तीत्याभुवः ऋत्विजः ते यदा यज्ञेषु घृतं पिन्वन्ति एवमपो मरुतः पिन्वन्ति । हेतुमाह - अत्यं न अश्वमिव यथा अश्वमश्वसादिनो विनयन्ति शिक्षयन्ति एवं मरुतोपि मिहे उदकार्थं वर्षार्थं वाजिनं वेगवन्तं मेघं विनयन्ति विधेयीकुर्वन्ति, 'सावेकाचः' इति मिहश्चतुर्थ्या उदात्तत्वम् । ततस्तं विधेयीकृत्य उत्सीं उन्दनशीलं स्तनयन्तं गर्जन्तं अक्षितं अनुपक्षयं दुहन्ति मरुतः, यस्मादेवमेते कुर्वन्ति तस्मादुच्यते पिन्वन्त्यप इति । एवं अस्माकमपि पिन्वन्त्यपो मरुत इति । स्तन शब्दे, चुरादिः अदन्तः ॥
29 अथ तृतीया - उदप्रुत इति त्रिष्टुप् ॥ उदप्रुतः उदकस्य प्रापयितॄन् । च्युङ् ज्युङ् प्रुङ् पुङ् गतौ । तानास्माकीनान् मरुतः इयर्त गच्छत भजत यजमानार्थं हे ऋत्विजः । ऋ गतौ, जौहोत्यादिकः, 'तप्तनप्तनधनाश्च' इति तस्य तनबादेशः, 'अर्तीपिपर्त्येश्च' इति अभ्यासस्येत्वम् । ये यूयं विश्वे वृष्टिं जुनन्ति प्रार्थयन्ते मरुतः ते यूयमास्माकीनान् मरुतः इयर्त । तानित्यस्य संहितायां 'दीर्घादटि समानपादे' इति रुत्वम् । अत्र प्रार्थयितुः प्रदातुश्च द्वौ दृष्टान्तौ दर्शयति - यथा गर्दा निगरणशीला कन्या तुन्ना बुभुक्षया पीडिता क्रोशाति क्रोशति । लेट्याडागमः । अभ्यवहार्यं प्रार्थयमाना रोदितीत्यर्थः । एवं वृष्टिं प्रार्थयमाना ऋत्विजः मरुत आह्वयन्तीति भावः । यथा च तां कन्यां पेरुं पातुकामां, उपलक्षणत्वाद्बुभुक्षितां च, सामर्थ्यात् क्रोशन्तीं तुञ्जाना भाषमाणा मा रोदीः किं ते अभिलषितमिति वदन्ती पत्या सह जाया तस्या अभिमतं प्रयच्छति अभिप्रेतदानेन मातापितरौ तां प्रीणयत इत्यर्थः । एवं वृष्टिं प्रार्थयमानेभ्यो ऋत्विग्भ्यः तां मरुतः प्रयच्छन्तीति । तस्मादास्माकीनान् ऋत्विजः वर्षदानेन मरुतः प्रीणयतेति । 'मापोरिरुन्' इति पिबतेरिरुन्प्रत्यये पेरुः । तुजि भाषायाम्, चुरादिः, 'बहुलं छन्दसि' इति शपो लुक्, 'छन्दस्युभयथा' इति शानच्, आर्धधातुकत्वाण्णिलोपः ॥
30 अथ चतुर्थी - घृतेनेति अतिजगती विवृद्धपादा । 'घृतेन' इति त्रिभिरक्षरैः प्रथमः पादो विवृद्धः । हे नरः नेतारः मरुतः 'नयतेर्डिच्च' इति ऋप्रत्ययः । घृतेनोदकेन मधुना रसेन मधुरसेन द्यावापृथिवी समुक्षत सिञ्चत । 'दिवो द्यावा' इति द्यावादेशः, 'देवताद्वन्द्वे च' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । ततस्तस्य मधुरसस्योदकस्य उपर्युक्षणेन आपः पूर्वस्थिताः पयस्वतीः पानार्हरसवतीः कृणुत कुरुत । विभक्तिव्यत्ययेन द्वितीयास्थाने प्रथमा । ओषधीश्च पयस्वतीः कृणुतेत्येव । इदं चाप्यस्तु - यूयं मधु मधुरं उदकं सिञ्चथ । तत्र ऊर्जमन्नं बलं वा सुमतिं च कल्याणीं मतिं पिन्वथ सिञ्चथ दत्तेत्यर्थः । अबहुव्रीहेरपि 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । बहुव्रीहिर्वा, सुमतिं च प्रजामिति । यत्रसिंचथशब्दयोः 'अन्येषामपि दृश्यते' इति सांहितिकं दीर्घत्वम् ॥
31 अथ सौम्यस्य पुरोनुवाक्या याज्या चा - 'उदु त्यं जात्वेदसम्', 'चित्रं देवानाम्' इति गायत्रीत्रिष्टुभौ ॥ व्याख्याते चैते । अत्र प्रतीकग्रहणम् । तमिमं जातवेदसं जातप्रज्ञानं सूर्यं देवं केतवः उद्वहन्ति यथा सर्वेषां द्रष्टुं योग्यो भवतीति ॥
32 द्वितीया - चित्रं चायनीयं देवानां सर्वेषामनीकं अनीकभूतं मित्रस्य वरुणस्य च अग्नेश्चक्षुस्थानीयं जङ्गमस्य स्थावरस्य आत्मभूतः सूर्य उदगात् उदेति । उदेत्य च द्यावापृथिवी अन्तरिक्षं च रश्मिभिरापूरयतीति ॥
33 अथोपहोमार्थाः तिस्रो गायत्र्यः - और्वभृगुवदित्याद्याः तत्र ॥ प्रथमा । 'शुचिम्' इति प्रथमपादान्तः । और्वाप्नवानौ भार्गवावृषी । यथोक्तं भृगूणां पञ्चार्षेयप्रवरे - 'जमदग्निवदौर्ववदप्नवानवच्च्यवनवद्भृगुवत्' इति । और्वश्चासौ भृगुश्च और्वभृगुः । भृगुरिति भार्गवोऽभेदेनोच्यते । यथा और्वो भार्गवोग्निमाह्वयत् यथा चाप्नवानोग्निं तद्वदहमपि अग्निं शुचिं समुद्रवाससं आह्वये आह्वयामि आजुहोमि वा । शपो लुक् । समुद्रे वासो यस्य स समुद्रवासाः । अन्तरिक्षे वसतीति के चित् । अपामाच्छादयितेत्यन्ये ॥
34 द्वितीया - यथा सवितुस्सवमनुज्ञां आह्वयामि प्रार्थये, यथा च भगस्यादित्यस्य भुजिं भोगं प्रार्थये, तद्वदग्निं समुद्रवाससं हुवे । 'जवसवौ छन्दसि ' इत्यजन्तौ निपात्येते । भुजेरौणादिकः किप्रत्ययः, भुजिरिति । यद्वा - 'इक्स्तिपौ' इति धातुनिर्देशे विधीयमानोर्थनिर्देशेपि प्रवर्तते ॥
35 तृतीया - वातस्वनं वातस्वनवन्तं कविं क्रान्तदर्शनं पर्जन्यक्रन्द्यं पर्जन्यवत्सर्वैराह्वातव्यं सर्वेषां प्रियं । उभयत्राप्युपमानपूर्वपदप्रकृतिस्वरत्वम् । सहः सर्वेषां बलं; तद्धेतुत्वात् । यद्वा - सहस्वन्तम् । मत्वर्थीयो लुप्यते । ईदृशमग्निं समुद्रवाससं हुवे आह्वयामीति ॥
इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये तृतीयकाण्डे प्रथमप्रपाठके एकादशोनुवाकः ॥

समाप्तश्च प्रपाठकः ॥

……………………………………………………………………………………………………………

पञ्चशत् 2 #
TS 3.1.11.2 TS 3.1.11.2
क॑र्म॒ण्यः॑ सु॒दक्षो॑ यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः ॥शि॒वस्त्व॑ष्टरि॒हाऽऽ* ग॑हि वि॒भुः पोष॑ उ॒तत्मना᳚ । य॒ज्ञेय॑ज्ञे न॒ उद॑व ॥ पि॒शङ्ग॑रूपः सु॒भरो॑ वयो॒धाः श्रु॒ष्टी वी॒रो जा॑यते दे॒वका॑मः । प्र॒जां त्वष्टा॒ विष्य॑तु॒ नाभि॑म॒स्मे अथा॑ दे॒वाना॒मप्ये॑तु॒ पाथः॑ ॥ प्रणो॑दे॒व्या, नो॑ दि॒वः ॥ पी॒पि॒वाꣳ सꣳ॒॒ सर॑स्वतः॒ स्तनं॒ ॅयो वि॒श्वद॑र्.शतः । धुक्षी॒महि॑ प्र॒जामिषं᳚ ॥
पदपाठः (Word-by-word)
क॒र्म॒ण्यः॑ । सु॒दक्ष॒ इति॑ सु - दक्षः॑ । यु॒क्तग्रा॒वेति॑ यु॒क्त - ग्रा॒वा॒ । जाय॑ते । दे॒वका॑म॒ इति॑ दे॒व - का॒मः॒ ॥ शि॒वः । त्व॒ष्टः॒ । इ॒ह । एति॑ । ग॒हि॒ । वि॒भुरिति॑ वि - भुः । पोषे᳚ । उ॒त । त्मना᳚ ॥ य॒ज्ञे य॑ज्ञ्॒ इति॑ य॒ज्ञे - य॒ज्ञे॒ । नः॒ । उदिति॑ । अ॒व॒ ॥ पि॒शङ्ग॑रूप॒ इति॑ पि॒शङ्ग॑-रू॒पः॒ । सु॒भर॒ इति॑ सु - भरः॑ । व॒यो॒धा इति॑ वयः - धाः । श्रु॒ष्टी । वी॒रः । जा॒य॒ते॒ । दे॒वका॑म॒ इति॑ दे॒व - का॒मः॒ ॥ प्र॒जामिति॑ प्र - जाम् । त्वष्टा᳚ । वीति॑ । स्य॒तु॒ । नाभि᳚म् । अ॒स्मे इति॑ । अथ॑ । दे॒वाना᳚म् । अपीति॑ । ए॒तु॒ । पाथः॑ ॥ प्रेति॑ । नः॒ । दे॒वी । एति॑ । नः॒ । दि॒वः ॥ पी॒पि॒वाꣳस᳚म् । सर॑स्वतः । स्तन᳚म् । यः । वि॒श्वद॑र्.शत॒ इति॑ वि॒श्व - द॒र्॒.श॒तः॒ ॥ धु॒क्षी॒महि॑ । प्र॒जामिति॑ प्र - जाम् । इष᳚म् ॥
पदसंख्या: 50
पञ्चशत् 3 #
TS 3.1.11.3 TS 3.1.11.3
ये ते॑ सरस्व ऊ॒र्मयो॒ मधु॑मन्तो घृत॒श्चुतः॑ । तेषां᳚ ते सु॒म्नमी॑महे ॥ यस्य॑ व्र॒तं प॒शवो॒ यन्ति॒ सर्वे॒ यस्य॑ व्र॒तमु॑प॒तिष्ठ॑न्त॒ आपः॑ । यस्य॑ व्र॒ते पु॑ष्टि॒पति॒र्निवि॑ष्ट॒स्तꣳ सर॑स्वन्त॒मव॑से हुवेम ॥ दि॒व्यꣳ सु॑प॒र्णं ॅव॑य॒सं बृ॒हन्त॑म॒पां गर्भं॑ ॅवृष॒भमोष॑धीनां । अ॒भी॒प॒तो वृ॒ष्ट्या त॒र्पय॑न्तं॒ तꣳ सर॑स्वन्त॒मव॑से हुवेम ॥ सिनी॑वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा᳚ । जु॒षस्व॑ ह॒व्य - [ ]
पदपाठः (Word-by-word)
ये । ते॒ । स॒र॒स्वः॒ । ऊ॒र्मयः॑ । मधु॑मन्त॒ इति॒ मधु॑ - म॒न्तः॒ । घृ॒त॒श्चुत॒ इति॑ घृत - श्चुतः॑ ॥ तेषा᳚म् । ते॒ । सु॒म्नम् । ई॒म॒हे॒ ॥ यस्य॑ । व्र॒तम् । प॒शवः॑ । यन्ति॑ । सर्वे᳚ । यस्य॑ । व्र॒तम् । उ॒प॒तिष्ठ॑न्त॒ इत्यु॑प -तिष्ठ॑न्ते । आपः॑ ॥ यस्य॑ । व्र॒ते । पु॒ष्टि॒पति॒रिति॑ पुष्टि-पतिः॑ । निवि॑ष्ट॒ इति॒ नि - वि॒ष्टः॒ । तम् । सर॑स्वन्तम् । अव॑से । ह॒वे॒म॒ ॥ दि॒व्यम् । सु॒प॒र्णमिति॑ सु - प॒र्णम् । व॒य॒सम् । बृ॒हन्त᳚म् । अ॒पाम् । गर्भ᳚म् । वृ॒ष॒भम् । ओष॑धीनाम् ॥ अ॒भी॒प॒तः । वृ॒ष्ट्या । त॒र्पय॑न्तम् । तम् । सर॑स्वन्तम् । अव॑से । हु॒वे॒म॒ ॥ सिनी॑वालि । पृथु॑ष्टुक॒ इति॒ पृथु॑ - स्तु॒के॒ । या । दे॒वाना᳚म् । असि॑ । स्वसा᳚ ॥ जु॒षस्व॑ । ह॒व्यम् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 3.1.11.4 TS 3.1.11.4
माहु॑तं प्र॒जां दे॑वि दिदिड्ढि नः ॥ या सु॑पा॒णिः स्व॑ङ्गु॒रिः सु॒षूमा॑ बहु॒सूव॑री । तस्यै॑ वि॒श्पत्नि॑यै ह॒विः सि॑नीवा॒ल्यै जु॑होतन ॥ इन्द्रं॑ ॅवो वि॒श्वत॒स्परीन्द्रं॒ नरः॑॥ असि॑तवर्णा॒ हर॑यः सुप॒र्णा मिहो॒ वसा॑ना॒ दिव॒मुत् प॑तन्ति ॥ त आऽव॑वृत्र॒न्थ् सद॑नानि कृ॒त्वाऽऽदित् पृ॑थि॒वी घृ॒तैर्व्यु॑द्यते ॥ हिर॑ण्यकेशो॒ रज॑सो विसा॒रेऽहि॒र्धुनि॒र्वात॑ इव॒ ध्रजी॑मान् । शुचि॑भ्राजा उ॒षसो॒ - [ ]
पदपाठः (Word-by-word)
आहु॑त॒मित्या - हु॒त॒म् । प्र॒जामिति॑ प्र-जाम् । दे॒वि॒ । दि॒दि॒ड्ढि॒ । नः॒ ॥ या । सु॒पा॒णिरिति॑ सु - पा॒णिः । स्व॒ङ्गु॒रिरिति॑ सु - अ॒ङ्गु॒रिः । सु॒षूमेति॑ सु - सूमा᳚ । ब॒हु॒सूव॒रीति॑ बहु - सूव॑री ॥ तस्यै᳚ । वि॒श्पत्नि॑यै । ह॒विः । सि॒नी॒वा॒ल्यै । जु॒हो॒त॒न॒ ॥ इन्द्र᳚म् । वः॒ । वि॒श्वतः॑ । परीति॑ । इन्द्र᳚म् । नरः॑ ॥ असि॑तवर्णा॒ इत्यसि॑त - व॒र्णाः॒ । हर॑यः । सु॒प॒र्णा इति॑ सु - प॒र्णाः । मिहः॑ । वसा॑नाः । दिव᳚म् । उदिति॑ । प॒त॒न्ति॒ ॥ ते । एति॑ । अ॒व॒वृ॒त्र॒न्न् । सद॑नानि । कृ॒त्वा । आत् । इत् । पृ॒थि॒वी । घृ॒तैः । वीति॑ । उ॒द्य॒ते॒ ॥ हिर॑ण्यकेश॒ इति॒ हिर॑ण्य - के॒शः॒ । रज॑सः । वि॒सा॒र इति॑ वि - सा॒रे । अहिः॑ । धुनिः॑ । वातः॑ । इ॒व॒ । ध्रजी॑मान् ॥ शुचि॑भ्राजा॒ इति॒ शुचि॑ - भ्रा॒जाः॒ । उ॒षसः॑ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 3.1.11.5 TS 3.1.11.5
नवे॑दा॒ यश॑स्वतीरप॒स्युवो॒ न स॒त्याः ॥आ ते॑ सुप॒र्णा अ॑मिनन्त॒ एवैः᳚ कृ॒ष्णो नो॑नाव वृष॒भो यदी॒दं । शि॒वाभि॒र्न स्मय॑मानाभि॒राऽगा॒त् पत॑न्ति॒ मिहः॑ स्त॒नय॑न्त्य॒भ्रा ॥ वा॒श्रेव॑ वि॒द्युन्मि॑माति व॒थ्सं न मा॒ता सि॑षक्ति । यदे॑षां ॅवृ॒ष्टिरस॑र्जि ॥ पर्व॑तश्चि॒न्महि॑ वृ॒द्धो बि॑भाय दि॒वश्चि॒थ् सानु॑ रेजत स्व॒ने वः॑ । यत् क्रीड॑थ मरुत - [ ]
पदपाठः (Word-by-word)
नवे॑दाः । यश॑स्वतीः । अ॒प॒स्युवः॑ । न । स॒त्याः ॥ एति॑ । ते॒ । सु॒प॒र्णा इति॑ सु - प॒र्णाः । अ॒मि॒न॒न्त॒ । एवैः᳚ । कृ॒ष्णः । नो॒ना॒व॒ । वृ॒ष॒भः । यदि॑ । इ॒दम् ॥ शि॒वाभिः॑ । न । स्मय॑मानाभिः । एति॑ । अ॒गा॒त् । पत॑न्ति । मिहः॑ । स्त॒नय॑न्ति । अ॒भ्रा ॥ वा॒श्रा । इ॒व॒ । वि॒द्युदिति॑ वि-द्युत् । मि॒मा॒ति॒ । व॒थ्सम् । न । मा॒ता । सि॒ष॒क्ति॒ ॥ यत् । ए॒षा॒म् । वृ॒ष्टिः । अस॑र्जि ॥ पर्व॑तः । चि॒त् । महि॑ । वृ॒द्धः । बि॒भा॒य॒ । दि॒वः । चि॒त् । सानु॑ । रे॒ज॒त॒ । स्व॒ने । वः॒ ॥ यत् । क्रीड॑थ । म॒रु॒तः॒ ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 3.1.11.6 TS 3.1.11.6
ऋष्टि॒मन्त॒ आप॑ इव स॒द्ध्रिय॑ञ्चो धवद्ध्वे ॥अ॒भि क्र॑न्द स्त॒नय॒ गर्भ॒मा धा॑ उद॒न्वता॒ परि॑ दीया॒ रथे॑न । दृतिꣳ॒॒ सु क॑र्.ष॒ विषि॑तं॒ न्य॑ञ्चꣳ स॒मा भ॑वन्तू॒द्वता॑ निपा॒दाः ॥त्वं त्या चि॒दच्यु॒ताऽग्ने॑ प॒शुर्न यव॑से । धामा॑ ह॒ यत् ते॑ अजर॒ वना॑ वृ॒श्चन्ति॒ शिक्व॑सः ॥ अग्ने॒ भूरी॑णि॒ तव॑ जातवेदो॒ देव॑ स्वधावो॒ऽमृत॑स्य॒ धाम॑ । याश्च॑ - [ ]
पदपाठः (Word-by-word)
ऋ॒ष्टि॒मन्त॒ इत्यृ॑ष्टि-मन्तः॑ । आपः॑ । इ॒व॒ । स॒द्ध्रिय॑ञ्चः । ध॒व॒द्ध्वे॒ ॥ अ॒भीति॑ । क्र॒न्द॒ । स्त॒नय॑ । गर्भ᳚म् । एति॑ । धाः॒ । उ॒द॒न्वतेत्यु॑दन्न् - वता᳚ । परीति॑ । दी॒य॒ । रथे॑न ॥ दृति᳚म् । स्विति॑ । क॒र्.॒ष॒ । विषि॑त॒मिति॒ वि - सि॒त॒म् । न्य॑ञ्चम् । स॒माः । भ॒व॒न्तु॒ । उ॒द्वतेत्य॑त् - वता᳚ । नि॒पा॒दा इति॑ नि - पा॒दाः ॥ त्वम् । त्या । चि॒त् । अच्यु॑ता । अग्ने᳚ । प॒शुः । न । यव॑से ॥ धाम॑ । ह॒ । यत् । ते॒ । अ॒ज॒र॒ । वना᳚ । वृ॒श्चन्ति॑ । शिक्व॑सः ॥ अग्ने᳚ । भूरी॑णि । तव॑ । जा॒त॒वे॒द॒ इति॑ जात - वे॒दः॒ । देव॑ । स्व॒धा॒व॒ इति॑ स्वधा - वः॒ । अ॒मृत॑स्य । धाम॑ ॥ याः । च॒ ।
पदसंख्या: 50
पञ्चशत् 7 #
TS 3.1.11.7 TS 3.1.11.7
मा॒या मा॒यिनां᳚ ॅविश्वमिन्व॒ त्वे पू॒र्वीः स॑न्द॒धुः पृ॑ष्टबन्धो ॥ दि॒वो नो॑ वृ॒ष्टिं म॑रुतो ररीद्ध्वं॒ प्रपि॑न्वत॒ वृष्णो॒ अश्व॑स्य॒ धाराः᳚ । अ॒र्वाङे॒तेन॑ स्तनयि॒त्नुनेह्य॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता नः॑ ॥ पिन्व॑न्त्य॒पो म॒रुतः॑ सु॒दान॑वः॒ पयो॑ घृ॒तव॑द्वि॒दथे᳚ष्वा॒ भुवः॑ । अत्यं॒ न मि॒हे वि न॑यन्ति वा॒जिन॒मुथ्सं॑ दुहन्ति स्त॒नय॑न्त॒मक्षि॑तं ॥ उ॒द॒प्रुतो॑ मरुत॒स्ताꣳ इ॑यर्त॒ वृष्टिं॒ - [ ]
पदपाठः (Word-by-word)
मा॒याः । मा॒यिना᳚म् । वि॒श्व॒मि॒न्वेति॑ विश्वम्-इ॒न्व॒ । त्वे इति॑ । पू॒र्वीः । स॒न्द॒धुरिति॑ सं - द॒धुः । पृ॒ष्ट॒ब॒न्धो॒ इति॑ पृष्ट - ब॒न्धो॒ ॥ दि॒वः । नः॒ । वृ॒ष्टिम् । म॒रु॒तः॒ । र॒री॒द्ध्व॒म् । प्रेति॑ । पि॒न्व॒त॒ । वृष्णः॑ । अश्व॑स्य । धाराः᳚ ॥ अ॒र्वाङ् । ए॒तेन॑ । स्त॒न॒यि॒त्नुना᳚ । एति॑ । इ॒हि॒ । अ॒पः । नि॒षि॒ञ्चन्निति॑ नि -सि॒ञ्चन्न् । असु॑रः । पि॒ता । नः॒ ॥ पिन्व॑न्ति । अ॒पः । म॒रुतः॑ । सु॒दान॑व॒ इति॑ सु - दान॑वः । पयः॑ । घृ॒तव॒दिति॑ घृ॒त - व॒त् । वि॒दथे॑षु । आ॒भुव॒ इत्या᳚ - भुवः॑ ॥ अत्य᳚म् । न । मि॒हे । वीति॑ । न॒य॒न्ति॒ । वा॒जिन᳚म् । उथ्स᳚म् । दु॒ह॒न्ति॒ । स्त॒नय॑न्तम् । अक्षि॑तम् ॥ उ॒द॒प्रुत॒ इत्यु॑द - प्रुतः॑ । म॒रु॒तः॒ । तान् । इ॒य॒र्त॒ । वृष्टि᳚म् ।
पदसंख्या: 50
पञ्चशत् 8 #
TS 3.1.11.8 TS 3.1.11.8
ॅये विश्वे॑ म॒रुतो॑ जु॒नन्ति॑ । क्रोशा॑ति॒ गर्दा॑ क॒न्ये॑व तु॒न्ना पेरुं॑ तुञ्जा॒ना पत्ये॑व जा॒या ॥ घृ॒तेन॒ द्यावा॑पृथि॒वी मधु॑ना॒ समु॑क्षत॒ पय॑स्वतीः कृण॒ताऽऽ*प॒ ओष॑धीः । ऊर्जं॑ च॒ तत्र॑ सुम॒तिं च॑ पिन्वथ॒ यत्रा॑ नरो मरुतः सि॒ञ्चथा॒ मधु॑ ॥ उदु॒त्यं चि॒त्रं ॥ औ॒र्व॒-भृ॒गु॒वच्छुचि॑मप्नवान॒वदा हु॑वे । अ॒ग्निꣳ स॑मु॒द्रवा॑ससं ॥ आ स॒वꣳ स॑वि॒तुर्य॑था॒ भग॑स्ये ( ) व भु॒जिꣳ हु॑वे । अ॒ग्निꣳ स॑मु॒द्रवा॑ससं ॥ हु॒वे वात॑स्वनं क॒विं प॒र्जन्य॑क्रन्द्यꣳ॒॒ सहः॑ । अ॒ग्निꣳ स॑मु॒द्रवा॑ससं ॥
पदपाठः (Word-by-word)
ये । विश्वे᳚ । म॒रुतः॑ । जु॒नन्ति॑ ॥ क्रोशा॑ति । गर्दा᳚ । क॒न्या᳚ । इ॒व॒ । तु॒न्ना । पेरु᳚म् । तु॒ञ्जा॒ना । पत्या᳚ । इ॒व॒ । जा॒या ॥ घृ॒तेन॑ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । मधु॑ना । समिति॑ । उ॒क्ष॒त॒ । पय॑स्वतीः । कृ॒णु॒त॒ । आपः॑ । ओष॑धीः ॥ ऊर्ज᳚म् । च॒ । तत्र॑ । सु॒म॒तिमिति॑ सु - म॒तिम् । च॒ । पि॒न्व॒थ॒ । यत्र॑ । न॒रः॒ । म॒रु॒तः॒ । सि॒ञ्चथ॑ । मधु॑ ॥ उदिति॑ । उ॒ । त्यम् । चि॒त्रम् ॥ औ॒र्व॒भृ॒गु॒वदित्यौ᳚वभृगु - वत् । शुचि᳚म् । अ॒प्न॒वा॒न॒वदित्य॑प्नवान - वत् । एति॑ । हु॒वे॒ ॥ अ॒ग्निम् । स॒मु॒द्रवा॑सस॒मिति॑ समु॒द्र - वा॒स॒स॒म् ॥ एति॑ । स॒वम् । स॒वि॒तुः । य॒था॒ । भग॑स्य ( ) । इ॒व॒ । भु॒जिम् । हु॒वे॒ ॥ अ॒ग्निम् । स॒मु॒द्रवा॑सस॒मिति॑ समु॒द्र - वा॒स॒स॒म् ॥ हु॒वे । वात॑स्वन॒मिति॒ वात॑ - स्व॒न॒म् । क॒विम् । प॒र्जन्य॑क्रन्द्य॒मिति॑ प॒र्जन्य॑ - क्र॒न्द्य॒म् । सहः॑ ॥ अ॒ग्निम् । स॒मु॒द्रवा॑सस॒मिति॑ समु॒द्र - वा॒स॒स॒म् ॥
पदसंख्या: 62