पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
[अथ तृतीयाष्टके प्रथमप्रपाठक एकादशोऽनुवाकः]।
ये बहिष्पवमानाङ्गमन्त्रास्ते दशमे श्रुताः।
अथैकादशे काश्चित्पुरोनुवाक्या उच्यन्ते।
चित्रया यजेत पशुकाम इत्यत्र सप्तैतानि हवी षि भवन्तीति श्रुतम्। तत्र प्रथमस्य हविष आग्नेयस्य पुरोनुवाक्यामाह-
अग्निनेति। अनेनाग्निना रयिं धनानि अश्नवत्सर्वो जनः प्राप्नोति। न केवलं धनस्य स्वरूपमात्रं किंतु दिवेदिवे तस्य धनस्य पुष्टिमेव प्राप्नोति न तु ह्रासम्। कीदृशं पोषं, यशसं कीर्तिकरं वीरवत्तमं वीरा अस्मदीया पुत्रा अस्येति वीरवत्, अतिशयेन तथाविधम्। तत्रैव याज्यामाह-गोमा अग्न इति।
हेऽग्ने पुनरावर्तनाय प्रार्थ्यमानो यज्ञ एतैर्विशेषणैर्विशिष्टो भूयात्। बहवो गावोऽस्य सन्तीति गोमान्। एवमविमानश्वीति योज्यम्। नृवत्सखर्त्विग्रूपैर्मनुष्यैर्युक्ता। देवाः सखायो यस्य यज्ञस्य तादृशः। सदमित्सदैवाप्रमुष्योऽनभिभवनीयः। इडावानन्न-वान्। प्रजावान्बह्वपत्यप्रदः। दीर्घः पुनः पुनरनुष्ठानादविच्छिन्नः। रीयर्बहुधनोपेतः। पृथुबुध्नो विस्तीर्णमूलो मन्त्रेष्वनुष्ठानेषु च। मूलभूतेषु च वैकल्यरहितः। सभावान-विकलं यज्ञं द्रष्टुं मिलन्त्या विद्वत्सभया युक्तः। असुः पाणः सोऽस्यास्तीत्यसुरो हेऽसर प्राणवन्नग्न एष पुनः पुनः प्रार्थ्यमानो यज्ञ उक्तविशेषणविशिष्टो भूयात्।
द्वितीयहविषः सौम्यस्य याज्यानुवाक्ययोः प्रतीके दर्शयति-
आ प्यायस्वेति। एतच्चोभयं चतुर्थकाण्डे मा नो हिसीदित्यत्र व्याख्यास्यते। तृतीयहविषस्त्वाष्ट्रस्य पुरोनुवाक्यामाह-
इह त्वष्टारमिति। इहास्मिन्कर्मणि त्वष्टारं देवमुपह्वय आह्वयामि। कीद्दश-मग्रिमं मुख्यं विश्वरूपं विश्वानि गर्भे विकर्तुं योग्यानि यस्यायौ विश्वरूपस्तम्। स च त्व-ष्टाऽस्माकं केवलोऽस्तु असाधारणत्वेन पालकोऽस्तु तत्रैव याज्यासह-
तन्नस्तुरीपमिति। हे त्वष्टर्देव तद्धंन नोऽस्मभ्यं विशेषेण स्यस्व समर्पय। कीदृशं धनं, तुरीपं तूर्णं प्राप्नोतीति तुरीपम्। अधापि च पोषयित्नु पोषयितृ। त्वं च रराणो दानशीलः। यतो यस्माद्धनादस्माभिर्लब्धाद्वीरः शूरः पुत्रो जायते। कीदृशं तच्छुरत्वमिति तदुच्यते कर्मण्यो लौकिके वैदिके च कर्मणि कुशलः। सुदक्षः सम्यमुत्साही शीघ्रकारीत्यर्थः। युक्ताः सोमाभिषवार्थं प्रयुक्ता ग्रावाणो यस्यासौ युक्तग्रावा सर्वदा सोमयागस्यानुष्ठातेत्यर्थः। देवकाम ईदृशः सेवकोऽस्माकं भूयादिति देवैः काम्यमानो देवान्वा सेवितुं स्वयं कामयते।
तत्रैव हविषि विकल्पितां पुरोनुवाक्यामाह-
शिवस्त्वष्टरिति। हे त्वष्टरत्वं शिवः सुखकरः सन्निहास्मिन्कर्मण्यागहि आगच्छ। उतापि च पोषेऽस्मदीये पोषविषये त्मना विभु परनैरपेक्ष्येण स्वयभव समर्थः। तादृशस्त्वं तस्मिंस्तस्मिन्यज्ञे नोऽस्मानुदवोत्कर्षेण पालय।
तत्रैव विकल्पितां याज्यामाह-
पिशङ्गरूप इति। यस्य त्वष्टुः प्रसादादस्माकं वरिः पुत्रो जायते। कीदृशः पिशङ्गरूपः त्रिवर्गस्य सेवितेत्यर्थः। सुभरः सुष्ठु पोषक। वयोधा दीर्धस्य वयसो धारकश्विरंजीवीत्यर्थः। श्रुष्टी क्षिप्रकारी सत्यवादी वा। देवकाम इति पूर्ववत्। यस्य त्वष्टुः प्रसादादद्दिशो वीरो जातस्ताद्दशस्त्वष्टा नामिं चक्रस्य नाभिवत्प्रशस्तां प्रजां पुत्रपौत्रादिरूपामस्मे अस्मासु विष्यतु विशेषेण समर्पयतु। अथानन्तरं देवानामपि पाथोऽन्नमेतु * प्राप्नोतु।
प्र णो देवीति। प्र णो देवी सरस्वतीति पुरोनुवाक्या। आ नो दिवो बृहत इति याज्या। एतच्चोभयमग्नाविष्णू महीत्यत्र व्याख्यातम्-
पञ्चमस्य हविषः सरस्वद्देवताकस्य पुरोनुवाक्यामाह-
पीपिवा समिति। सरस्वतः सरस्वन्नामकस्य देवस्य यः स्तनो विश्वदर्शतो विश्वविषयकदर्शनोपेतः क्षुधितान्बालानिव पालयितुं जानातीत्यर्थः। ताद्दशं स्तनं यज्ञ-लक्षणं पीपिवांसमस्मान्वर्धितवन्तं प्रजां पुत्रादिरूपामिषमन्नं च धुक्षीमहि। यथा गां पयो दुहन्ति तद्वदेतद्देवताकं यागमनुष्ठाये प्रजादिकं प्राप्ताः स्मेत्यर्थः। तत्रैव विकल्पितां पुरोनुवाक्यामाह-
ये ते सरस्व इति। हे सरस्वः सरस्वन्समुद्र त्वदीया य ऊर्मयो मधुमन्ते माधुर्ये-युक्ता घृतश्चुतो घृतसमानमुदकं क्षारयन्तो वर्तन्ते ते त्वदीयानां तेषामूर्मीणां संबन्धि सुम्नं सुखमीमहे प्राप्नुमः। तत्रैव याज्यामाह-
यस्य व्रतमिति। यस्य सरस्वतः संबन्धि व्रतं कर्म पशवो यन्ति द्विपादश्चतुष्पादश्च सर्वे पशवः प्राप्नुवन्ति। एतदीयेन कर्मणा पशवो लभ्यन्त इत्यर्थः। तथा वृष्टिरूपा आपो यस्य व्रतमुपतिष्ठन्ते सेवन्ते। अग्नौ प्रास्ताऽऽहुतिरिति न्यायेन वृष्टेरेतत्कर्मसाध्यत्वात्पुष्टिपतिर्धनपोषकस्य पालको यजमानो यस्य व्रते निविष्टस्तदीयेन व्रतेन धनपुष्टेः सुलभत्वात्ताद्दशं सरस्वन्तं देवमस्माकं रक्षणाय हुवेम ह्वयेम। तत्रैव विकल्पितां याज्यामाह-
दिव्य सुपर्णमिति। अत्र चतुर्थः पादः पूर्ववत्। कीद्दशं सरस्वन्तम्। दिवमर्हतीति दिव्यं, सुषर्णं शोभनाभ्यां पक्षाभ्यामुपेतम्। यदा पक्षिरूपं धृत्वा दिवि गच्छति तदनीमेतौ पक्षौ द्रष्टव्यौ। वयसं पक्षिरूपिणं बृहन्तं महान्तम्। अपां वृषभं जलानां वर्षितारम्। ओषधीनां गर्भं वीह्यादिमञ्जरीरूपम्। अभीपतो वृष्ट्या तर्पयन्तं वृष्टिरूपेणाभितः पतनात्सर्वेषां तृप्तिहेतुं वायुना नीयमानैर्जलबिन्दुभिः पक्षसद्दशैः पक्षिवद्दिवि मेघेषु गत्वा जलबाहुल्यं प्राप्य स्वयममेवापां वर्षितां व्रीह्यादिरूपेण गर्भो भवति। पुनश्च वृष्टिरूपेण सर्वतः पतन्सर्वं जगत्तर्पयतीत्यर्थः। ताद्दशं सरस्वन्तमाह्वयामेत्यर्थः।
सिनीवालीति। अमावस्या सिनीवालीति श्रुतत्वादमावास्यातिथ्यभिमानिनी देवता सिनीवाली। हे सिनीवालि या त्वं देवानां स्वसाऽसि भगिनीवद्धितकारिण्यसि दर्शेष्टिसाधनत्वात्। स्तुकं स्तोत्रं, पृथु स्युकं स्तोत्रं यस्याः सा पृथुष्टुका। तस्याः संबोधनं हे पृथुष्टुके। अनेन सिनीवाली विशेष्यते। ताद्दशी त्वमाहुतमस्माभिः समन्तात्समर्पितं हविर्जुषस्व। हे देवि नोऽस्मभ्यं प्रजां दिदिड्ढि उपचिनु प्रभूटां कुर्वित्यर्थः। तत्रैव याज्यामाह-
या सुपाणिरिति। शोभनौ पाणी यस्याः सा सुपाणिः। शोभना अङ्गुलयो यस्याः सा स्वङ्गुरिःष सुषूगा सुष्ठु प्रसवित्री। बहुसूवरी बहूनां यज्ञानां सवित्री। ईद्दशी या सिनीवाली तस्यै विश्पत्नियै विशां पालयित्र्यै सिनीवाल्यै हविर्जुहोतन हे ऋत्विग्य-जमाना जुहुत।
ऐन्द्र उत्तमो भवतीति यदिदं सप्तमं दविः श्रुतं तत्र याज्यानुवाक्ययोः प्रतीके दर्शयति-
इन्द्रमिति। एतच्चोभयं प्रथमकाण्डस्य षष्ठप्रपाठके व्याख्यातम्।
इत्थं चित्रायागे याज्यानुवाक्या उक्ताः। अथ कारीरीघ्ट्युपयुक्ता मन्त्रा उच्यन्ते।
कल्पः – 'अथाऽऽसां धूममनुमन्त्रयतेऽसितवर्णा हरयः सुपर्णा इति' इति आसां करीरसक्तुपिण्डीनामग्नौ हुतानामित्यर्थः। पाठस्तु-
असितवर्णा इति। अग्नि दह्यमानास्यः करीरसक्तुपिण्डीभ्यो ये निर्गता धूमास्ते दिवमुत्पतन्ति। कीद्दशा धूमाः। असितवर्णा कृष्णवर्णा हरयो मेघनिष्पादनाय रसहरणशीलाः सुपर्णाः प्रसारितपक्षसद्दशा मेहनान्मिहो मेघास्तद्रूपा भूत्वा वसानाः सूर्यमण्डलादिकमाच्छादयन्तस्ते धूमनिष्पाद्याः स्वोदरेषु जलस्य च सदनानि स्थानानि कृत्वाऽऽववृत्रन्निह कर्षितुमावृत्ताः। आदिदनन्तरमेव पृथिवी घृतैर्घृतवत्क्षरद्भिरुदकैर्व्यूद्यते विशेषेण क्लिद्यते।
कल्पः- 'अथैनमाहवनायेऽप्रहृत्याथास्य धूममनुमन्त्रयते हिरण्यकेशो रजसो विसार इति ' इति। एनं पुनर्नवायाः स्तम्बम्। पाठस्तु-
हिरण्यकेश इति। हिरण्यवर्णा अग्निकेशस्थानीया ज्वाला येन धूमेन सहोत्पद्यन्ते सोऽयं पुनर्नवाजन्यो धूमो हिरण्यकेशः। रजसो मेघरूपस्य रञ्जनस्य विसारे प्रसारेण निमित्तभूते सति अहति गच्छतीत्यहिर्मेघरूपमाकाशस्य रञ्जनं प्रसारयितुं गच्छतीत्यर्थः। वात इव धुनिर्ध्रजीमान्। यथा वायुः कम्पमानः शीघ्रगतियुक्तस्तद्वदयमित्यर्थः। मेघात्मा शुचिभ्राजा निर्मलदीप्तिर्मेघरूपेण परिणतोऽपि घूमो विद्युद्रुपया दीप्या युक्त इत्यर्थः। सोऽयमीद्दशो धूमोऽस्मदर्थं वृष्टिमुत्पादयत्विति शेषः। उषसः प्रभातकालस्य नवेदा मेघैः प्रकाशस्याऽऽबृतत्त्वे न विद्यते न ज्ञायतेऽनेनेति नवेदाः। सूर्योदयो यथा न ज्ञायते तथा मेधसमृद्धिरस्त्वित्यर्थः। यास्तु सस्यनिष्पादिका भूमयस्ताः सस्यनिष्पादनेन यशस्वतीः कीर्तिमत्यो भवन्तु। अपस्युवो न, अप उदकान्यात्मन इच्छन्तीत्यपस्युवः। तथाविधा इव वर्तन्ते। ताश्च भूमयः सत्या अमोघारम्भाः सुक्षेत्रा इत्यर्थः। एतासामनुग्रहाय पुनर्नवाधूमो वृष्टिं जनयत्विति शेषः।
अस्मिन्नेव धूमाभिमन्त्रणे तिस्र ऋचो विकल्पन्ते। तत्र प्रथमा-
आ ते सुपर्णा इति। हे पुनर्नवे ते तव संबन्धिनो धूमाः सुपर्णाः पक्षिवदुत्पतन-शीला एवैरामिनन्त पुनर्गमनैः समन्तादुद्वकं प्रक्षिप्तवन्तः। ततो मेघः कृष्णो नीलवर्णो वृषभो वर्षिता भूवा नोनाप पुनः पुनर्गंर्जनमकरोत्। यदि यदा यस्मिकाल इदं सर्वं प्रवर्तते तदा शिवाभिर्न सानुग्रहाभिरिव स्मयमानाभिर्हसन्तीभिरिव वृष्टिभिर्युक्तो मिहो मेघ आगादागच्छति। तत ऊर्ध्वं पतन्ति वृष्टिधारा इति शेषः। अम्रा स्तनयन्ति अस्राणि च गर्जन्ति। ईद्दशमहिमोपेतः पुनर्नवाधूम इत्यर्थः। अथ द्वितीया-
वाश्रेवेति। उपरितनमन्त्रे मरुत इति पदं प्रयुज्यते, त एव मरुतोऽत्रेदं शब्देन परामृश्यन्ते। एषां मरुतां संबन्धिनी वृष्टिर्यदसर्जि यदा सृष्टा भवति तदा गर्जनसहिता विद्युन्मरुतः प्रति वाश्रेव वाश्यमानेव शब्दं कुर्वतीव मिमाति मीय़ते प्रतिभातीत्यर्थः। सिषक्ति सज्यते मरुद्भिः संबध्यत इत्यर्थः। तत्र द्दष्टान्तः- वत्सं न मातेति। माता वत्स-मिव यथा प्रस्रवन्ती गौर्वत्सं प्रति हम्भारवं कुर्वांणा मनुष्यैरवलोक्यते तेन वत्सेन संबध्यते तद्वदियं विद्युदित्यर्थः।
पर्वतश्चिदिति। हे मरुत ऋषिमन्तो वज्रायुधवन्तो यूयं यदा क्रीडां कुरुथ तदानीं वः स्वने युष्माकं गर्जने सति पर्वतश्चिद्विभाय पर्वतोऽपि विभेति। कीद्दशः पर्वतः। महि वृद्धस्तिर्यक्प्रमाणेनात्यन्तं महानूर्ध्वप्रमाणेन वृद्धः। किंच दिवश्चित्, उन्नतत्वेन दिवोऽ–प्युपरि वर्तमानः। सानु रेजत भवतां गर्जते सति प्रौढोऽपि पर्वतसानुः कम्पते। किंच यू-यमाप इव सध्रियञ्चो धवध्वे व्यापका इव सन्तः क्रीडन्तश्च धावध्वम्। ईद्दशैर्मरुद्भिर्यु-क्तोऽयं पुनर्नवाधूमो वृष्टिमुत्पादयत्विति मन्त्रयोस्तात्पर्यार्थः।
कल्पः-' कृष्णोऽश्वः पुरस्तात्प्रत्यङ्मुखोऽवस्थितो भवति तमेतेन वाससाऽ–भिपिनष्ट्यभिक्रन्दति' इति।
यथाऽयमश्व उपद्रवं सोढुमसहमानः क्रन्दति तथा कृष्णवस्रेण तस्य शरीरं घर्षयेत्। पाठस्तु-
अभि क्रन्देति। हेऽश्वाभिक्रन्द सर्वतः शब्दं कुरु। स्तनय मेघगर्जितमिवोच्चध्वनिं कुरु गर्भमाधा मेघस्योदरे जलरूपं गर्भमाधेहि। किंच, उदन्वतोदकवता रथेन रथ-सद्दशेन मेघेन सह परिदीय सर्वतो गच्छ। विषितं विमुक्तद्वारं न्यञ्चमवाक्कृतं दृतिं चर्ममयजलाधारसद्दशं मेघं सुकर्ष सुखेनाऽऽकृष्टं कुरु। न्यग्भावेन पद्यन्त इति निपादा निम्नदेशास्ते चोदकपूर्णाः सन्त उद्वतोन्नतेन स्थलेन समा भवन्तु।
अथाग्नये धामच्छदे पुरोडाशभष्टाकपालँ निर्वपेन्गारुत सप्तकपाल सौर्यमेककपालमित्येतेषां हविषां क्रमेण याज्यानुवाक्या उच्यन्ते। तथा च बौधायनः-
'तस्या एते भवन्ति त्वं त्या चिदच्युताग्ने भूरीणि तव जातवेदो दिवो ना वुष्टिं मरुतो ररीध्वं पिन्वन्त्यपो मरुतः सुदानव उदु त्यं चित्रमिति ' इति।
तत्राऽऽद्यस्य हविषः पुरोनुवाक्यामाह-
त्वं त्या चिदिति। हेऽजर विनाशरहिताग्ने यद्वनानि यान्युदकानि ते धामा ह त्वदीयं स्थानं शिक्वसोऽर्चींषि च वृश्चन्ति विनाशयन्त्येव। त्वं तु त्याचित्ताम्यप्यु-दकान्यच्युतानि विनाशरहितानि कुर्विति शेषः। तत्र दृष्टान्तः पशुर्न यवसे तृणे भक्षिते सति पशुरिव। यथा गविदिकः पशुस्तृणं भक्षयित्वा क्षीरमच्युतं करोति तद्वदित्यर्थः। तत्रैव याज्यामाह-
अग्ने भूरीणीति। हेऽग्नेऽमृतस्य मरणहितस्य तव धाम भूरीणि स्थानानि बहूनि जातवेदो देव स्वधाव इति त्रीणि संबुद्धयन्तान्यग्निविशेषणानि। जातं जगद्वेत्तीति जातवेदाः। द्योतनशीलो देवः। स्वधाशब्दोऽन्नवाची तदस्यास्तीति स्वधावान्। किंच, मायिनां लोके मायायुक्तानामैन्द्रजालिकाशयानां या मायाः सन्ति ताः संदधुस्त्वे त्वयि सम्यक्स्थापितवन्तः पूर्वीरिति मायाविशेषणम्। पुरातन्योऽनादिसंप्रदायपरम्परागता इत्यर्थः। विश्वमिन्व पृष्टबन्धो, इति द्वयं संबुद्ध्यन्तमग्निविशेषणम्। विश्वमिन्वति प्रीणयतीति बिश्वमिन्वः। पृष्टश्चासौ बन्धुश्चेति पृष्टबन्धुः। तत्र महिमा कीद्दश इति जिज्ञासया यः पृच्छति तस्य बन्धु रिव स्नेहं कोरतीत्यर्थः। नवसस्यहेतूनामुपायानां त्वयि विद्यमानत्वादैन्द्रजालिकवदकस्मादेव प्रौढां वृष्टिं संपादयेति तात्पर्यार्थः।
द्वितीयस्य हविषः पुरोनुवाक्यमाह-
दिवो नो वृष्टिमिति। हे मरुतो नाऽस्मदर्थं दिवः सकाशाद्वृष्टिं ररीध्वं स्रावयत। ततश्चाश्वस्याश्नुवानस्य व्याप्तिमतो वृष्णो वर्षयितुरिन्द्रस्य संबन्धिनी र्धाराः प्रपिन्वतोदकधाराः सिञ्चत। हे वृषंस्त (स्त्व) मेनेन स्तनयित्नुना गर्ज नवता मेघेन सहार्वाङेहि अम्बरादभिमुखमागच्छ। किं कुर्वन्। अपो नितरसिञ्चन्। कीद्दशस्त्वम्। असून्प्राणान्राति ददातीत्यसुरः। नोऽस्माकं पिता पालकः। तत्रैव याज्यामाह्-
पिन्वन्त्यप इति। सुदानवः सुष्ठु जलदानपरा मरुतोऽपः पिन्वन्ति सिञ्चन्ति। तत्र द्दष्टान्तः- पयो वृतवद्विदथेष्वाभुव इति। पयोवदिति वतिप्रत्ययोऽध्याहर्तवंयः। आभवन्ति यज्ञभूमीरागच्छन्तीत्याभुव ऋत्विग्यजमानास्ते यथा विदथेषु यज्ञेषु पयो घृतं च सिञ्चन्ति तद्वत्। अत्यशब्दोऽश्ववाची। तथा चाश्वमेधकाण्डे मन्त्र आम्नायते- 'अश्वोऽसि हृयोस्यत्योऽसि नरोऽसि' इति। निर्वचनं तद्ब्राह्मणे पठ्यते-अत्योऽसीत्याह। तस्मादश्वः सर्वान्पशूनत्येति' इति। वाजिशब्दो वेगवन्तं मेघमाचेष्ट। अत्यं नाश्वमिव मिहे सेचनार्थं वाजिनं विनयन्ति, यथाऽश्वशिक्षका अश्वं शिक्षयन्ति एवं मरुतो वर्षार्थं मेघं विधेयी कुर्वन्तीत्यर्थः। विधेयीकृत्य चाक्षितमुपक्षयरहितं स्तनयन्तं गर्जन्तं मेघमुत्सं दुहन्ति निरन्तरजलप्रस्रवणं यथा भवति तथा वर्षयन्ति।
तत्रैव विकल्पितामन्यां पुरोनुवाक्यामाह-
उदप्रूत इति। उदप्रुत उदकदातॄंस्तान्मरुत इयर्त प्राप्नुत प्रार्थयत हे ऋत्विग्य-जमानाः। तान्कान्। ये विश्वेऽपि मरुतो वृष्टिं जुनन्ति प्रयच्छन्ति। प्रार्थनायां द्दष्टान्तः- गर्दा बुभुक्षिता कन्या तुन्ना पीडिता सती यथा क्रोशात्याक्रोशति। यथा मातापितरौ प्रत्याक्रोशति रोदिति तथैते यजमानादयो वृष्टिं वचसा प्रार्थयन्त इत्यर्थः। मरुतामनुग्रहे दृष्टान्तः-पेरुं तुञ्जाना पत्येव जायेति। पेरुं पानादिकामां कन्यां तुञ्जानाऽऽभाषमाणा माऽभिरोदीः किं तेऽभिलषितमिति वदन्ती पत्या सह जायेव। यथा मातापितरौ कन्या-मनुगृह्णीतस्तथा मरुत ऋत्विग्यजमानाननुगृह्णन्तीत्यर्थः।
तत्रैव विकल्पितामन्यां याज्यामाह-
घृतेनेति। हे मरुतो घृतेन घृतसद्दशेन मधुना मधुरेण जलेन द्यात्रापृथिवी लोकद्वयं समुक्षत, या आपो भूमावुक्षितास्ताभिरोषधीः पयस्वतीः सारवतीः कृणुत कुरुत। हे नरो जलस्य नेतारो मरुतो यत्र देशे मधु मधुरमुदकं सिञ्चथ तत्र देश ऊर्जं सोरोपेतमन्नं सुमतिं शोभनबुद्धियुक्तां प्रजां च पिन्वथ सिञ्चथ संपादयतेत्यर्थः।
उदु त्यमिति। उदप स्यं जातवेदसमिति पुरोनुवाक्या। चित्रं देवानामिति याज्या। एतच्चोभयं प्रथमकाण्डस्य चतुर्थप्रपाठके व्याख्यातम्।
कल्पः पुरस्तात्स्विष्टकृतः स्रुवाहुतीरुपजुहोत्यौर्वभृगुवच्छुचिमप्नवानवदाहुव इति तिस्रः इति। तत्र प्रथमामाह--
और्वभृगुवदिति। और्वादय ऋषयस्तद्वच्छुचिं समुद्रे वसन्तमग्निमुद्दिश्य जुहोमीत्यर्थः। द्वितीयामाह--
आ सवभिति। सवितुः प्रसवमिव भगस्य भोगमिव। अग्निमित्यादि पूर्ववत्। तृतीयामाह--
हुवे वातस्वनमिति। वातवत्स्वनो ज्वालाध्वनिर्यस्य तं वातस्वनम्। कविं विद्वांसम्। सर्वैर्मनुष्यैः। पर्जन्यवत्क्रन्दनीयमपेक्षणीयम्। सहो बलवन्तं समुद्रवास-समग्निमुद्दिश्य हुवे जुहोमि। अत्र विनियोगसंग्रहः--
याज्यानुवाक्ये चित्रायां क्रमात्सप्तेष्टिषु स्थिते।
अग्न्याग्नेयेऽथ सौम्ये स्यादा प्या सं त इति द्वयम्॥
इह त्वाष्ट्रे चतस्रः स्युः प्र ण आ न इति द्वयम्।
सरस्वत्याः स्रियः (याः) पीपि चतस्रः पंसरस्वतः॥
सिनीवा द्वे सिनीवाल्या इन्द्रमिन्द्रं तथैन्द्रके।
कारीर्यामसितेत्युक्तं पिण्डीधूमस्य मन्त्रणम्॥
विकल्पाद्धिरचत्वारो वर्षाह्वा घूममन्त्रणे।
अभ्यश्वं कृष्णवस्रेण षिनष्टि क्रन्दनाय हि॥
त्वं धामच्छदि याज्याः स्युर्दिवो मारुतयागेक।
वैकल्पिकं तत्र युग्यमुदु चित्रं च सौयंके।
और्वत्रयाच्चोपहोमाः पञ्चत्रिंशदिहोदिताः॥
१५३९
प्रपा० १ अनु० ११] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
[कासांचित्पुरोनुवाक्यानामभिधानम् ]
एकादशोऽनुवाकः॥ ११॥
--------
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थोंश्र्वतुरो देयाद्विद्यातीर्थमहेश्वरः॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
समाप्तश्च प्रपाठकः ॥
……………………………………………………………………………………………………………