अनुवाकः 9 TS 3.1.9

(A9)

(द॒धा॒त्वा॒ - यत॑नवती॒र्या - उ॑पजीव॒नीयो॑ भवति॒ - तेऽ - दु॒र्वै - यत्रै॒त - मेका॑दश च)

अनुवाकः 9 - Complete Audio

TS 3.1.9 - स्वरानुगामी

0:00 0:00
PS1.1 यो वै दे॒वान् दे॑वयश॒सेना॒र्पय॑ति
PS1.2 मनु॒ष्या᳚न् मनुष्ययश॒सेन॑ देवयश॒स्ये॑व दे॒वेषु॒
PS1.3 भव॑ति मनुष्ययश॒सी म॑नु॒ष्ये॑षु॒ यान्
PS1.4 प्रा॒चीन॑-माग्रय॒णाद् ग्रहा᳚न् गृह्णी॒यात् तानु॑पाꣳ॒॒शु
PS1.5 गृ॑ह्णीया॒द्यानू॒र्द्ध्वाꣳस्तानु॑पब्दि॒मतो॑ दे॒वाने॒व तद्दे॑वयश॒सेना᳚र्पयति मनु॒ष्या᳚न्
PS1.6 मनुष्ययश॒सेन॑ देवयश॒स्ये॑व दे॒वेषु॑ भवति
PS1.7 मनुष्ययश॒सी म॑नु॒ष्ये᳚ष्व॒ग्निः प्रा॑तस्सव॒ने पा᳚त्व॒स्मान्.
PS1.8 वै᳚श्वान॒रो म॑हि॒ना वि॒श्वश॑म्भूः
PS1.9 स नः॑ पाव॒को द्रवि॑णं
PS1.10 दधा॒त्वा - [ ]
PS2.1 यु॑ष्मन्तः स॒हभ॑क्षाः स्याम
PS2.2 विश्वे॑ दे॒वा म॒रुत॒ इन्द्रो॑
PS2.3 अ॒स्मान॒स्मिन् द्वि॒तीये॒ सव॑ने॒ न
PS2.4 ज॑ह्युः
PS2.5 आयु॑ष्मन्तः प्रि॒यमे॑षां॒ ॅवद॑न्तो व॒यं
PS2.6 दे॒वानाꣳ॑ सुम॒तौ स्या॑म
PS2.7 इ॒दं तृ॒तीयꣳ॒॒ सव॑नं कवी॒नामृ॒तेन॒
PS2.8 ये च॑म॒समैर॑यन्त
PS2.9 ते सौ॑धन्व॒नाः सुव॑रानशा॒नाः स्वि॑ष्टिं
PS2.10 नो अ॒भि वसी॑यो नयन्तु
PS2.11 आ॒यत॑नवती॒र्वा अ॒न्या आहु॑तयो हू॒यन्ते॑ऽनायत॒ना
PS2.12 अ॒न्या या आ॑घा॒रव॑ती॒स्ता आ॒यतन॑वती॒र्याः
PS2.13 - [ ]
PS3.1 सौ॒म्यास्ता अ॑नायत॒ना ऐ᳚न्द्रवाय॒व-मा॒दाया॑ऽऽ*घा॒रमा घा॑रयेदद्ध्व॒रो
PS3.2 य॒ज्ञो॑ऽयम॑स्तु देवा॒ ओष॑धीभ्यः प॒शवे॑
PS3.3 नो॒ जना॑य॒ विश्व॑स्मै भू॒ताया᳚ऽद्ध्व॒रो॑ऽसि॒
PS3.4 स पि॑न्वस्व घृ॒तव॑द्देव सो॒मेति॑
PS3.5 सौ॒म्या ए॒व तदाहु॑तीरा॒यत॑नवतीः करोत्या॒यत॑नवान्
PS3.6 भवति॒ य ए॒वं ॅवेदाथो॒
PS3.7 द्यावा॑पृथि॒वी ए॒व घृ॒तेन॒ व्यु॑नत्ति॒
PS3.8 ते व्यु॑त्ते उपजीव॒नीये॑ भवत
PS3.9 उपजीव॒नीयो॑ भवति॒ - [
PS3.10 ]
PS4.1 य ए॒वं ॅवेदै॒ष ते॑
PS4.2 रुद्रभा॒गो यं नि॒रया॑चथा॒स्तं जु॑षस्व
PS4.3 वि॒देर्गौ॑प॒त्यꣳ रा॒यस्पोषꣳ॑ सु॒वीर्यꣳ॑ संॅवथ्स॒रीणाꣳ॑
PS4.4 स्व॒स्तिं
PS4.5 मनुः॑ पु॒त्रेभ्यो॑ दा॒यं ॅव्य॑भज॒थ्
PS4.6 स नाभा॒नेदि॑ष्ठं ब्रह्म॒चर्यं॒ ॅवस॑न्तं॒
PS4.7 निर॑भज॒थ् स आऽग॑च्छ॒थ् सो᳚ऽब्रवीत्
PS4.8 क॒था मा॒ निर॑भा॒गिति॒ न
PS4.9 त्वा॒ निर॑भाक्ष॒मित्य॑-ब्रवी॒दङ्गि॑रस इ॒मे स॒त्रमा॑सते॒
PS4.10 ते - [ ]
PS5.1 सु॑व॒र्गं ॅलो॒कं न प्रजा॑नन्ति॒
PS5.2 तेभ्य॑ इ॒दं ब्राह्म॑णं ब्रूहि॒
PS5.3 ते सु॑व॒र्गं ॅलो॒कं ॅयन्तो॒
PS5.4 य ए॑षां प॒शव॒स्ताꣳस्ते॑ दास्य॒न्तीति॒
PS5.5 तदे᳚भ्योऽब्रवी॒त् ते सु॑व॒र्गं ॅलो॒कं
PS5.6 ॅयन्तो॒ य ए॑षां प॒शव॒
PS5.7 आस॒न् तान॑स्मा अददु॒स्तं प॒शुभि॒श्चर॑न्तं
PS5.8 ॅयज्ञ्वा॒स्तौ रु॒द्र आऽग॑च्छ॒थ् सो᳚ऽब्रवी॒न्मम॒
PS5.9 वा इ॒मे प॒शव॒ इत्यदु॒र्वै
PS5.10 - [ ]
PS6.1 मह्य॑मि॒मानित्य॑ब्रवी॒न्न वै तस्य॒ त
PS6.2 ई॑शत॒ इत्य॑ब्रवी॒द्-यद्-य॑ज्ञ्वा॒स्तौ हीय॑ते॒ मम॒
PS6.3 वै तदिति॒ तस्मा᳚द्-यज्ञ्वा॒स्तु नाभ्य॒वेत्यꣳ॒॒
PS6.4 सो᳚ऽब्रवीद्-य॒ज्ञे मा ऽऽभ॒जाथ॑ ते
PS6.5 प॒शून् नाभि मꣳ॑स्य॒ इति॒
PS6.6 तस्मा॑ ए॒तं म॒न्थिनः॑ सꣳ
PS6.7 स्रा॒वम॑जुहो॒त् ततो॒ वै तस्य॑
PS6.8 रु॒द्रः प॒शून् नाभ्य॑मन्यत॒ यत्रै॒त
PS6.9 ( ) मे॒वं ॅवि॒द्वान्
PS6.10 म॒न्थिनः॑ सꣳ स्रा॒वं जु॒होति॒
PS6.11 न तत्र॑ रु॒द्रः प॒शून॒भि
PS6.12 म॑न्यते

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 3.1.9.1 TS 3.1.9.1
यो वै दे॒वान् दे॑वयश॒सेना॒र्पय॑ति मनु॒ष्या᳚न् मनुष्ययश॒सेन॑ देवयश॒स्ये॑व दे॒वेषु॒ भव॑ति मनुष्ययश॒सी म॑नु॒ष्ये॑षु॒ यान् प्रा॒चीन॑-माग्रय॒णाद् ग्रहा᳚न् गृह्णी॒यात् तानु॑पाꣳ॒॒शु गृ॑ह्णीया॒द्यानू॒र्द्ध्वाꣳस्तानु॑पब्दि॒मतो॑ दे॒वाने॒व तद्दे॑वयश॒सेना᳚र्पयति मनु॒ष्या᳚न् मनुष्ययश॒सेन॑ देवयश॒स्ये॑व दे॒वेषु॑ भवति मनुष्ययश॒सी म॑नु॒ष्ये᳚ष्व॒ग्निः प्रा॑तस्सव॒ने पा᳚त्व॒स्मान्. वै᳚श्वान॒रो म॑हि॒ना वि॒श्वश॑म्भूः । स नः॑ पाव॒को द्रवि॑णं दधा॒त्वा - [ ]
पदपाठः (Word-by-word)
यः । वै । दे॒वान् । दे॒व॒य॒श॒सेनेति॑ देव - य॒श॒सेन॑ । अ॒र्पय॑ति । म॒नु॒ष्यान्॑ । म॒नु॒ष्य॒य॒श॒सेनेति॑ मनुष्य - य॒श॒सेन॑ । दे॒व॒य॒श॒सीति॑ देव - य॒श॒सी । ए॒व । दे॒वेषु॑ । भव॑ति । म॒नु॒ष्य॒य॒श॒सीति॑ मनुष्य-य॒श॒सी । म॒नु॒ष्ये॑षु । यान् । प्रा॒चीन᳚म् । आ॒ग्र॒य॒णात् । ग्रहान्॑ । गृ॒ह्णी॒यात् । तान् । उ॒पाꣳ॒॒श्वित्यु॑प - अꣳ॒॒शु । गृ॒ह्णी॒या॒त् । यान् । ऊ॒द्‌र्ध्वान् । तान् । उ॒प॒ब्दि॒मत॒ इत्यु॑पब्दि - मतः॑ । दे॒वान् । ए॒व । तत् । दे॒व॒य॒श॒सेनेति॑ देव - य॒श॒सेन॑ । अ॒र्प॒य॒ति॒ । म॒नु॒ष्यान्॑ । म॒नु॒ष्य॒य॒श॒सेनेति॑ मनुष्य - य॒श॒सेन॑ । दे॒व॒य॒श॒सीति॑ देव - य॒श॒सी । ए॒व । दे॒वेषु॑ । भ॒व॒ति॒ । म॒नु॒ष्य॒य॒श॒सीति॑ मनुष्य - य॒श॒सी । म॒नु॒ष्ये॑षु । अ॒ग्निः । प्रा॒त॒स्स॒व॒न इति॑ प्रातः - स॒व॒ने । पा॒तु॒ ।अ॒स्मान् । वै॒श्वा॒न॒रः । म॒हि॒ना । वि॒श्वश॑म्भू॒रिति॑ वि॒श्व - श॒म्भूः॒ ॥ सः । नः॒ । पा॒व॒कः । द्रवि॑णम् । द॒धा॒तु॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ तृतीयकाण्डे प्रथमप्रपाठके नवमोऽनुवाकः)

उपांशुग्रहसंयुक्ता मन्त्रा अष्टम ईरिताः।

अथ नवमे सवनाहुत्यादिमन्त्रा वक्तव्याः। तत्राऽऽदौ ताद्ग्रहमन्त्राणां क्रमेण नीचमुच्चं च ध्वनिं विधत्ते-

यो वै देवानिति। देवानां यशःकीर्तिर्देवयशसं तेन देवान्यो यजमानोऽर्पयति योजयति मनष्यानपि मनुष्ययशसेन योजयति स स्वर्गे देवेषु मध्ये देवयशसवा-नेव भवति। भूलोके मनुष्येषु मध्ये मनुष्ययशमुवानेव भपति। तदुभयसिद्धयर्थं क उपाय इति, तदुच्यते-आग्रयणग्रहात्प्राचीनं पूर्वस्मिन्काले यान्ग्रहानंशूपांश्वन्तर्यामैन्द्र-वायवादीन्गृह्णाति तान्सर्वानुपांश यथा भवति तथा गृह्णीयात्। मन्त्रा यथा पार्श्वस्थैर्न श्रूयन्ते तथोच्चार्य गृह्णीयादित्यर्थः यानाग्रयणग्रहार्द्ध्वभाविन उक्थ्यादी ग्रहान्गृह्णी-यात्तानुपब्दिमतो गृह्णीयात्। समीपस्थैरीषच्छ्रवणमुपब्दिस्तथोच्चार्य गृह्णीयादित्यर्थः। तत्रापांशूच्चारणेन देवानां कीर्तिप्राप्तिः। ईषदुच्चध्वनिना मनुष्याणां कीर्तिप्राप्तिः। तेनो-भयेन स्वस्यापि लोकद्वये कीर्तिर्भवति।

कल्पः – 'अग्निः प्रातःसवने पात्वस्मानिति स स्थिते सवन आहुतिं जुहोति' इति। पाठस्तु-

अग्निः प्रातरिति। अयमग्निः प्रातःसवनेऽस्माभिरनुभिरनुष्ठिते सत्यस्मान्पातु। वैश्वानरो विश्वेषां नाराणां स्वामित्वेन संबन्धी। महिना स्वकीयने महिम्ना विश्वशंभूर्वि-श्वस्य सुखप्रापकः। स तादृशोऽग्निरस्मभ्यं द्रविणं दधातु धनं दद्यात्। कीदृशः , पावकः शोधयिता। पापक्षयं कृत्वाऽस्माञ्शोधयतीत्यर्थः। किंच वयमायुष्मन्तो दीर्घायुषः सह-भक्षा भक्षयितृभिः सर्वेः सहिताश्च सर्वशः स्याम। सोऽयं प्रातःसवनसमाप्तौ होममन्त्रः।

कल्पः- 'विश्वे देवा मरुत इति संस्थिते सवन आहुतिं जुहोति' इति। पाठस्तु-

विश्वे देवा इति। ये मरुतो यश्चेन्द्रस्ते विश्वे देवाः सर्वे देवा अस्मिन्द्वितीये माध्यांदिने सवने नोऽस्मान्न जह्युर्मा परित्यजेयुः। वयगप्यायुष्मन्तो दीर्घायुषो येषां देवानां स्तोत्रादिकं वदन्तस्तेषां सुमुतावनुग्रहबुद्धौ स्याम तिष्ठेम। सोऽयं माध्यंदिनसवनसमाप्तौ होममन्त्रः।

कल्पः – 'इदं तृतीय सवनं कवीनामिति संस्थिते सवन आहुतिं जुहोति' इति। पाठस्तु - इदं तृतीयमिति। कवीनां विदुषामृत्विजां संबन्धि यदिदं तृतीयसवनं तदिदं देवा वसीयो वसुमत्तरं कृत्वा नोऽस्माकं या स्विष्टिः शोभनो यातस्तां स्विष्टिमभिलक्ष्य नयन्तु प्रापयन्तु। कीदृशा देवास्तदुच्यते-ये देवाश्चमसं चमसगणमैरयन्त प्रेरितवन्तस्ते देवाः सौधन्वनाः सुधन्वन इन्द्रस्य संबन्धिन ऋभुनामानः सुवरानशानाः स्वर्गं प्राप्नुवन्तः। तादृशा देवा नयन्त्वित्यन्वयः। साऽयं तृतीयसवनसमाप्तौ होममन्त्रः। एतेषु मन्त्रेष्वग्निः प्रातःसवन इत्ययमाद्यो मन्त्र ओमासश्चर्षणीधृत इत्यनुवाकार्द्ध्वं द्रष्टव्यः। विश्वे देवा इत्ययं द्वितीयो मन्त्रो महा इन्द्रो नृवदित्यनुवाकार्द्ध्वं द्रष्टव्यः। इदं तृतीय सवनमिति तृतीयो मन्त्रो बृहस्पतिसुतस्येत्यनुवाकार्द्ध्वं द्रष्टव्यः।

यदुक्तं सूत्रकारेण – 'अध्वरो यज्ञोऽयमस्तु देवा इति परिप्लवयाऽऽधारमा घारियति' इति।

परिप्लवाशब्देन होमसाधनं काष्ठापात्रमुच्यते। तमिममापारं विधत्ते-

आयतनवतीरिति। हूयमाना आहुतयो द्विविधा आयतनयुक्तास्तद्रहिताश्च। आघारेण व्यवस्थापितं होमस्थानं होतव्यानामायतनं यत्तद्ब्राह्मणे पुरोडाशाद्याहुती-नामस्ति। आघारस्य प्रकरणे विहितत्वात्। सौभ्यास्त्मंशूपांश्वन्तर्यामग्रहा आयाररहित-त्वादनायतनास्तद्वदैन्द्रवायवग्रहाद्याहुतीनामप्यनायनत्वं प्राप्तम्। अतस्तद्व्यावृत्त्यर्थं यदैन्द्रवायवं होतुमादत्ते तदा वामहस्ते तं धृत्वा दक्षिणहस्तेनाध्वरो यज्ञ इत्यादिमन्त्रे-णाऽऽघारं जुहुयात्। दक्षिणं परिधिसंधिमन्ववहृत्य प्राञ्चमुदञ्चं सोमरसं पातयेत्। सोऽयमाघारः। मन्त्रार्थस्तु- हे देवा अयमस्माकं यज्ञोऽध्वरो हिंसकरीहतोऽस्तु। किमर्थमिति तदुच्यते- ओषधीभ्यः पशवे जनाय चास्माकं सर्वप्राणिभ्यश्च हे सोम त्वमध्वरो हिंसारहितोऽसीति घृतवत्सिञ्चेति। तत्तेन सोम्या ऐन्द्रवायवादिग्रहसंबन्धिन्यो-ऽप्याहुतीरायतनवतीः करोति। यश्चैवं वेद सोऽप्यायतनवान्भवति। अपि च घृतवदि-त्युक्त्या द्यावापृथिव्यावपि घृतेन विविधं क्लेदयति। ते च विविधं क्लेदिते सत्यौ सर्वेषां प्राणिनामुपजीवनीये भवतः। य एवं वेद सोऽऽयुपजीवनीयो भवति।

यदुक्तं सूत्रकारण – 'उत्तरार्धात्पतिप्रस्थाता बहिष्परिघ्यङ्गारं निर्वर्त्य तस्मिन्म-न्थिनः स स्रावं जुहोत्येष ते रुद्र भागो यं निरयाचथा इति' इति।

पाठस्तु –

एष ते रुद्रेति। हे रुद्र क्रूरदेवैष संस्रावस्तव भागस्तं (गः, य) भागं निरयाचथा देवेभ्यो निष्कृष्य तवैवासाधारणत्वेन याचितवानसि, तद्याचनं ब्राह्मणे स्पष्टी भविष्यति, तं याचितं भागं सेवस्व। त्वं तु गवां पालनं धनस्य पुष्टिं शोभनपुत्रं संवत्सर-निष्पाद्यानामोषधीनामविनाशं च विदेर्जानासि। तस्मात्सर्वमस्मदर्थं संपादयेत्यभिप्रायः।

तमिमं संस्रावहोमं विधातुं पीठिकामारचयति-

मनुः पुत्रेभ्य इति। बनोर्बहवः पुत्रास्तेषु कनिष्ठो नाभानोदिष्ठनामको बालो वेदाध्ययनं करोति। तदानीं पिता प्रबुद्धेभ्यः पुत्रेभ्यः स्वकीयं धनं विभज्य दत्तवान्। अध्ययनपरं बालं भागरहितमक्ररोत्। स च वाल आगत्य केन हेतुना मां भागरहितम-कार्षीरिति पितरमब्रवीत्। स च पिता त्वां भागरहितं न कृतवानस्मीत्यब्रवीदुक्त्वा च तत्प्राप्त्युपायं पुत्रायोपदिदेश।

अनन्तरं च पुत्रस्तेनोपायेन भागं प्राप्तवानित्येतद्दर्शयति –

अङ्गिरस इति। अङ्गिरोनामका इमे महर्षयः सत्रमनुतिष्ठन्ति। ते तु स्वर्गप्राप्तिसाधनानां नाभानेदिष्ठनामकशस्त्रादीनामपरिज्ञानात्स्वर्गं न जानन्त्यतस्तेभ्य इदं त्वयाऽधीतं शस्त्रादिप्रतिपादकं ब्राह्मणं ब्रूहि। तेऽपि सत्रं परिसमाप्य स्वर्गं गच्छन्तो यागोपयुक्तेभ्योऽवशिष्टान्स्वकीयान्पशून्सर्वांस्तुभ्यं दास्यन्ति। सोऽयं भागप्राप्त्युपायः। इत्येवं मोक्तः पुत्र इदं ब्राह्मणं तेभ्योऽभिदधे। ततस्तदीयानवशिष्ठान्सर्वान्पशूल्लँब्धवान्।

अथ नाभानेदिष्ठस्य रुद्रेण सह संवादं दर्शयति-

तं पशुमिरिति। अङ्गिरोभिर्दत्तान्पशून्स्वगृहे नेतुं तदीये (यायां) यज्ञभुवि यज्ञशेषैः पशुभिः संचरन्तं नाभानेदिष्ठं रुद्र आगत्य मदीया एते पशव इत्यब्रवीत्। ततः स नाभानेदिष्ठो मह्यमङ्गिरस इमान्पशून्दत्तवन्त इत्यब्रवीत्। ततः स रुद्रस्तस्य यज्ञशेषस्य द्रव्यस्य तेऽङ्गिरसो न स्वामिनस्तस्मात्तैर्दतं पशुद्रव्यमस्वामिदत्तत्वात्तव न योग्यमित्यब्रवीत्। कस्तर्हि स्वामीति चेच्छृणु-यद्द्रव्यं यज्ञभूमौ हीयते यज्ञसमाप्तेरूर्ध्वमवशिष्यते तत्सर्वे ममैव स्वम्। तस्मान्ममानुज्ञामन्तरेण यज्ञभूमिः केनापि न प्रवेष्टव्या। यदि तव शिष्टपश्वपेक्षाऽस्ति तर्हि मां यज्ञे भागिनं कुरु ततस्तुभ्यं दत्तानेतान्पशून्न मारयिष्यामीति रुद्रोऽब्रवीत्। ततो नाभानेदिष्ठस्तस्मै रुद्रायैतं मन्थिनः संस्रावमजुहोत्। मन्थिग्रहं हुत्वा तत्पात्रस्थं द्रव्यशेषं परिधेर्बहिस्थापितेऽङ्गारे हुतवान्। ततस्तुष्टो रुद्रस्तस्य नाभानेदिष्ठस्य पशून्नैव हिंसितवान्। आख्यानं परिसमाप्य विधत्ते-

यत्रैतमेवमिति। ऐन्द्रवायवादिषूक्थ्यान्तेषु ग्रहेषु गृहीतेषु ऋतुपात्रयोः सोम-ग्रहणात्प्रागेवैन्द्रवायवमन्थिग्रहप्रचारस्य काला (र्य) त्वान्मधुश्च माधवश्चेत्येतस्माद-नुवाकात्प्रागेवाध्वरो यज्ञ इत्याघारमन्त्र एष ते रुद्र भाग इति संस्रावमन्त्रश्च द्रष्टव्यः॥

इति श्रीमत्सायणाचार्यविरचिते माधविये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे प्रथमप्रपाठके नवमोऽनुवाकः॥ ९॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 यो वे देवानित्यादि ॥ देवानां यशो देवयशसं स्वकीर्तिः बलं वा देवानां योग्यं यशः । 'अनसन्तान्नपुंसकात्' इत्यच्समासान्तः । अर्पयति प्रापयति । अर्तेर्णिचि 'अर्तिर्ही' इत्यादिना पुक् । एवं मनुष्ययशसेनार्पयति । देवयशसीति । देवानां योग्येन यशसा देवानां मध्ये अतिशयेन तद्वान् भवति, मनुष्ययशसी च मनुष्येषु भवति । 'चादिलोपे विभाषा' इति प्रथमो भवतिशब्दो न निहन्यते, विभाषेति वचनात् द्वितीयो निहन्यते । कथं पुनः क्रियमाणेन तेन तेऽर्पिता भवन्तीत्याह - यानित्यादि । आग्रयणाद्ग्रहात्प्राचीनं यान् ग्रहान् गृह्णीयात् । 'विभाषाञ्चेरदिक्स्त्रियाम्' इति खः । तानुपांशु अव्यक्तमन्त्रं गृह्णीयात्, यानूर्ध्वान् तत उपरितनान् ग्रहान् तानुपब्दिमतः किंचिदुच्चशब्दवतो गृह्णीयात् ; नात्युच्चशब्दान् । बदिर् निशमने, 'इन् सर्वधातुभ्यः' इत्युपपूर्वात् बदेश्छान्दस उपधालोपः । समीपस्थैर्यो निशम्यते न दूरस्थैः स उपब्दिश्शब्दविशेषः । तद्वतः उपब्दिमतः । 'ह्रस्वनुङ्भ्यां मतुप्' इति मतुप उदात्तत्वम् । 'उपाद्व्यजजिनम्' इत्युपांशुशब्दे उत्तरपदान्तोदात्तत्वम् । देवानित्यादि । तत् तेन तथाकरणेनेत्यर्थः । गतमन्यत् ॥
2 यत्र बहिष्पवमानं साम आरब्धुमाग्नीध्रस्य पुरस्तात् प्रसृप्स्यन्तो भवन्ति तत्रान्वारब्धेषु तेषु आहवनीये स्रुवेणाहुतिं जुहोति - अग्निः प्रातस्सवने इति त्रिष्टुभा ॥ अस्मिन् प्रातस्सवने अग्निः अस्मान् पातु रक्षतु वैश्वानरः विश्वेषां नराणां स्वामित्वेन सम्बन्धी । महिना महत्त्वेन विश्वशंभूः विश्वेषां सुखस्य भावयिता । महेरिनिप्रत्ययान्तात् 'सुपां सुलुक्' इति तृतीयाया आकारः । स नः अस्मभ्यं द्रविणं धनं दधातु ददातु पावकः अस्माकं शोधयिता । किञ्च - वयमायुष्मन्तः दीर्घायुषः सहभक्षाः भक्षयितृभिस्सह सर्वैः सहिताश्च सर्वदा स्याम ॥
3 माध्यन्दिने पवमाने तथैवान्वारब्धेषु आहवनीये स्रुवाहुतिं जुहोति - विश्वे देवा इति त्रिष्टुभा ॥ विश्वे देवाः मरुतश्च इन्द्रश्चास्मानस्मिन् द्वितीये सवने न जह्युः माध्यन्दिने मा हासिषुः । ततश्च वयमपि आयुष्मन्तस्सन्तः एषां देवानां प्रियं स्तोत्रशस्त्रादिकं वदन्तः देवानां सुमतौ कल्याणायां सानुग्रहायां बुद्धौ स्याम । सुष्ठु मननं सुमतिः । कृदुत्तरपदप्रकृतिस्वरत्वम्, 'मन्त्रे वृष' इति क्तिन उदात्तत्वम् ॥
4 आर्भवे पवमाने तथैव समन्वारब्धेषु आहवनिये स्रुवाहुतिं जुहोति - इदं तृतीयमिति त्रिष्टुभा ॥ इदं तृतीयं सवनं कवीनां मेधाविनामृत्विजां सम्बन्धि 'वसीयो नयन्तु' इति वक्ष्यमाणेन सम्बध्यते । नः अस्मान् अस्मदाभिमुख्येन इदं सवनं वसीयः वसुमत्तरं कृत्वा अस्मान् नयन्तु प्रापयन्तु । ते के ? ये ऋतेन सत्येन चमसं चमसान् । जातावेकवचनम् । ऐरयन्त प्रेरितवन्तः कृतवन्त इत्यर्थः । ते सौधन्वनाः सुधन्वनः इन्द्रस्य सम्बन्धिनो देवाः ऋभुनामानः सुवः स्वर्गं आनशानाः व्याप्नुवन्तः इदं सवनं वसीयः कुर्वन्तु स्विष्टिं शोभनं च यागमस्माकं कुर्वन्तु । शोभना इष्टिः स्विष्टिः इति प्रादिसमासः, अव्ययपूर्वपदप्रकृतिस्वरत्वम् । गतिसमासे 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । 'उदात्तस्वरितयोर्यणः' इति संहितायां ततः परः इकारस्स्वर्यते । अश्नोतेर्लिटः कानजादेशः, 'अश्नोतेश्च' इति नुट् । वसीयश्शब्दो व्याख्यातः ॥
5 आयतनवतीरित्यादि ॥ आयतनवतीः आयतनवत्यः विभक्तावकाशं स्थानमायतनं तद्वत्यः अन्याः काश्चिदाहुतयः हूयन्ते, काश्चिदनायतना एव हूयन्ते । 'एकान्याभ्यां समर्थाभ्याम्' इति प्रथमा तिङ्विभक्तिर्न निहन्यते । काः पुनस्ता उभय्य इत्याह - या इत्यादि । आघारवतीः आघारोक्ष्णया होमः, तद्वत्यो या आहुतयः आज्यपुरोडाशादीनां ता आयतनवत्यः । यास्सौम्याः सोमाहुतयः ता अनायतनाः, अघाराभावात् । 'सोमाट्ट्यण्' । तत्र ऐन्द्रवायवमादाय जुहोति - अध्वरो यज्ञ इति त्रिष्टुभा । आघारे दक्षिणं परिधिसन्धिमन्ववहृत्य प्राञ्चमुदञ्चमाघारयेत् । तेन सौम्या अप्याहुतीरायतनवतीः करोति । य एवं वेदिता आयतनवान् गृहवान् भवति । मन्त्रार्थस्तु - अयं यज्ञः अध्वरः हिंसकरहितः अस्तु हे देवाः । किमर्थम् ? ओषधीभ्यः पशवे पशुभ्यः । जातावेकवचनम् । नः अस्माकं जनाय पुत्रादये । किं बहुना - विश्वस्मै भूताय सर्वस्मै भूतजाताय । किं च – अध्वरस्त्वमसि । हे देव सोम त्वं घृतवत् घृतार्हं घृतयुक्तं वा अस्मान् पिन्वस्य प्रीणय । पिवि प्रणिने, इदित्त्वान्नुम् । अथो अपि च अनेनाघारेण द्यावापृथिवी एव घृतेन उदकेन व्युनत्ति विविधं क्लेदयति । ते व्युत्ते क्लेदिते उपजीवनीये सर्वेषां भवतः । उन्दी क्लेदने, 'श्वीदितो निष्ठायाम्' इतीट्प्रतिषेधः, 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम्, 'उदात्तस्वरितयोर्याणः' इति ततः परस्य संहितायां स्वरितत्वम् । एवं वेदिता उपजीवनीयो भवति बन्धूनामीति ॥
6 प्रतिप्रस्थाता उत्तरार्धे आहवनीयस्य मन्थिनस्संस्रावं जुहोति - एष ते रुद्र भाग इति ॥ हे रुद्र एष संस्रावभागः । यं त्वं निरयाचथाः निष्कृष्य देवेभ्यः स्वतन्त्रमयाचथाः 'यज्ञे माऽऽभजाथ ते पशून्नाभि मंस्ये' इति । सोयं त्वदीयो भागः, तं जुषस्व सेवस्व विदेः वेदय लम्भय । विदेरन्तर्भावितण्यन्ताल्लिङि छान्दसो नुमभावः । ण्यन्तादेव वा लिङि 'बहुलं संज्ञाछन्दसोः' इति णिलुक् । यद्वा - विदेः विद्याः । वेत्तेर्विकरणव्यत्ययेन शः । गौपत्यादिकमस्मान् लम्भय । गौपत्यादिलक्षणं वा आत्मीयं माहात्म्यं अनेन होमेन वेदितुमर्हसीति । गौपत्यं गवां स्वामित्वम् । पतिलक्षणो ण्यत् । रायो धनस्य पश्वादेः पोषं पुष्टिं कीदृशं ? सुवीर्यं शोभनपुत्रादि बलम् । पूर्ववत्सत्वम्, स्वरश्च । संवत्सरीणां संवत्सरभाविनीं स्वस्तिं अविनाशम् । 'संपरिपूर्वात्ख च' इति खः ॥
7 अथैतस्य मन्थिसंस्रावहोमस्य ब्राह्मणम् - मनुः पुत्रेभ्य इत्यादि ॥ मनुः प्रजापतिः आत्मीयेभ्यः पुत्रेभ्यो दायं व्यभजत् । क्रयादिभिर्विनाऽपि पित्रादिसकाशात्पुत्रादिभिः प्राप्यं धनं दायः । स पुत्रेभ्यः तद्व्यभजत् मनुः । नाभानेदिष्ठं नाम पुत्रं ब्रह्मचर्यं वसन्तं ब्रह्म वेदः तदर्थानां व्रतानां चरणं ब्रह्मचर्यम् । 'गद मदचर' इति यत् । तदुपसंप्राप्य वसन्तम् । यद्वा - ब्रह्मचर्यं निषेवमाणं निरभजत् निर्भागमकरोत् । भानां नेदिष्ठः प्रत्यासन्नतमः भानेदिष्ठः न भानेदिष्ठः अभानेदिष्ठः, तद्विपरीतः नाभानेदिष्ठः तेजस्वितमः । व्युत्पत्तिमात्रमिदम् । संज्ञैषा तत्रभवतः । अत एव नावगृह्यते । 'अयं नाभा वदति' इत्यत्र तु एकदेशस्य ग्रहणं यथा भीमसेनो भीम इति । तत्र व्यत्ययेन पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । वनस्पत्यादिर्वा द्रष्टव्यः । सः नाभानेदिष्ठः समाप्तब्रह्मचर्य आगच्छत्, आगत्य च सोब्रवीत् पितरम् । कथा केन हेतुना मां निरभाक् निर्भागमकार्षीः इति । 'था हेतौ च छन्दसि' इति थाप्रत्ययः । भजेर्लङि 'वदव्रज' इति वृद्धौ 'बहुलं छन्दसि' इतीडभावे इतश्च लोपः, हल्ङ्यादिसंयोगान्तलोपे अभागिति रूपम् । अथ न त्वा निरभाक्षं निर्भागमकार्षमिति पिताऽब्रवीत् ॥
8 कस्तर्हि मम भाग इति चेत्तदपि ब्रूमः - अङ्गिरस इमे सत्त्रमासते सत्रमुपसंप्राप्यासते सत्रयागं कुर्वन्ति, ते सुवर्गं लोकं न प्रजानन्ती तज्ज्ञानसाधनानामज्ञानात् । तेभ्य इदं ब्राह्मणं ब्रूहि ततस्ते ब्राह्मणोक्तार्थानुष्ठानेन सुवर्गं लोकं यन्तः ये एषां तदात्वे पशव आसन् सहस्रसङ्खयाः तांस्ते सत्रान्ते दास्यन्ति स ते भाग इति पिता पुत्रमब्रवीत् । स च पुत्रः तेभ्यः ब्राह्मणमब्रवीत् । ते सुवर्गमित्यादि । गतम् । किं पुनस्तद्ब्राह्मणं । उच्यते - अवाप्यानि सन्तीति द्रप्सा अनुमन्त्रणीया अच्छावाक्यास्स्तोत्रियाश्शस्त्रियास्सत्यवदनश्रद्धाहोमादिनादिति[?] ॥
9 तमित्यादि ॥ यज्ञवास्तौ यज्ञगृहे पशुभिस्सह चरन्तं रुद्र आगच्छत्, आगत्य चाब्रवीत् - मम स्वभूता इमे एते पशव इति । अथादुर्वै मह्यमिमान् पशूनङ्गिरसः इति देवमब्रवीत् । मानवः अदुरिति वा । पदादित्वान्न निहन्यते । अथ समाप्ते यागे तेषां पशूनां स्वामित्वं अङ्गिरसां नास्ति । ततोस्वामिदत्तैः कोर्थस्तवेति दर्शयितुं देव आह - न वा इति । यज्ञवास्तौ यद्धीयते कृतकार्यत्वात् यज्ञसाधनभावं हित्वा तिष्ठति तस्य ते नेशते स्वामिनो न भवन्ति । न केवलं पशूनामेव, अन्यस्यापि यस्य कस्यचित् यागोपयुक्तस्य नेश्वरा इति प्रतिपादयितुं यदित्युक्तम् । कस्य तर्हि स्वं तदिति जिज्ञासायामाह - ममेति । कृतकार्यं तत्पूर्वभाविनो ममैव स्वमिति सिद्धमेवैतत् इति । यागार्थं प्रथमं पशवः पशुमध्यान्निष्क्रीयन्ते । यागोत्तरं तु पश्वन्तरसमानधर्मतां भजन्ते । उक्तं च - 'अनु मन्यस्व सुयजा यजाम' इति । त्वदनुमत्या हि पशोर्यागसाधनभावोपि भवतीति । तस्मादित्यादि । यस्मादेवं तस्मात्स्वामिनोनुज्ञामन्तरेण यज्ञवास्तु नाभ्यवेत्यं न प्रवेष्टव्यं अहोरात्रावित्येवं यावदग्नयश्शीतास्स्युरित्येके । यावदेनमभिवर्षेदित्यपरे । यज्ञाङ्गभागो निषिद्ध्यते इत्येके । व्यतिरिक्तविषयमित्यन्ये । आहुश्च - 'न यज्ञमतिव्रजेत्' इति । अथ सोब्रवीत् देवः यज्ञे मा भज येन केनचिद्धविषा मामाराधयन्नाश्रय । अथ यदि तथा क्रियते ततस्ते पशून् त्वया लब्धान् पशून् नाभिमंस्ये न विनाशयिष्यामि मदीयानामेतल्लाभं सोढाऽस्मीति तस्मा इति । अजुहोत् अहावयत् ॥
10 यत्रैतमित्यादि ॥ गतम् ॥
इति तृतीये प्रथमे नवमोनुवाकः ॥
पञ्चशत् 2 #
TS 3.1.9.2 TS 3.1.9.2
यु॑ष्मन्तः स॒हभ॑क्षाः स्याम ॥ विश्वे॑ दे॒वा म॒रुत॒ इन्द्रो॑ अ॒स्मान॒स्मिन् द्वि॒तीये॒ सव॑ने॒ न ज॑ह्युः । आयु॑ष्मन्तः प्रि॒यमे॑षां॒ ॅवद॑न्तो व॒यं दे॒वानाꣳ॑ सुम॒तौ स्या॑म ॥ इ॒दं तृ॒तीयꣳ॒॒ सव॑नं कवी॒नामृ॒तेन॒ ये च॑म॒समैर॑यन्त । ते सौ॑धन्व॒नाः सुव॑रानशा॒नाः स्वि॑ष्टिं नो अ॒भि वसी॑यो नयन्तु ॥ आ॒यत॑नवती॒र्वा अ॒न्या आहु॑तयो हू॒यन्ते॑ऽनायत॒ना अ॒न्या या आ॑घा॒रव॑ती॒स्ता आ॒यतन॑वती॒र्याः - [ ]
पदपाठः (Word-by-word)
आयु॑ष्मन्तः । स॒हभ॑क्षा॒ इति॑ स॒ह-भ॒क्षाः॒ । स्या॒म॒ ॥ विश्वे᳚ । दे॒वाः । म॒रुतः॑ । इन्द्रः॑ । अ॒स्मान् । अ॒स्मिन्न् । द्वि॒तीये᳚ । सव॑ने । न । ज॒ह्युः॒ ॥ आयु॑ष्मन्तः । प्रि॒यम् । ए॒षा॒म् । वद॑न्तः । व॒यम् । दे॒वाना᳚म् । सु॒म॒ताविति॑ सु - म॒तौ । स्या॒म॒ ॥ इ॒दम् । तृ॒तीय᳚म् । सव॑नम् । क॒वी॒नाम् । ऋ॒तेन॑ । ये । च॒म॒सम् । ऐर॑यन्त ॥ ते । सौ॒ध॒न्व॒नाः । सुवः॑ । आ॒न॒शा॒नाः । स्वि॑ष्टि॒मिति॒ सु - इ॒ष्टि॒म् । नः॒ । अ॒भीति॑ । वसी॑यः । न॒य॒न्तु॒ ॥ आ॒यत॑नवती॒रित्या॒यत॑न - व॒तीः॒ । वै । अ॒न्याः । आहु॑तय॒ इत्या - हु॒त॒यः॒ । हू॒यन्ते᳚ । अ॒ना॒य॒त॒ना इत्य॑ना - य॒त॒नाः । अ॒न्याः । याः । आ॒घा॒रव॑ती॒रित्या॑घा॒र - व॒तीः॒ । ताः । आ॒यत॑नवती॒रित्या॒यत॑न - व॒तीः॒ । याः ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 3.1.9.3 TS 3.1.9.3
सौ॒म्यास्ता अ॑नायत॒ना ऐ᳚न्द्रवाय॒व-मा॒दाया॑ऽऽ*घा॒रमा घा॑रयेदद्ध्व॒रो य॒ज्ञो॑ऽयम॑स्तु देवा॒ ओष॑धीभ्यः प॒शवे॑ नो॒ जना॑य॒ विश्व॑स्मै भू॒ताया᳚ऽद्ध्व॒रो॑ऽसि॒ स पि॑न्वस्व घृ॒तव॑द्देव सो॒मेति॑ सौ॒म्या ए॒व तदाहु॑तीरा॒यत॑नवतीः करोत्या॒यत॑नवान् भवति॒ य ए॒वं ॅवेदाथो॒ द्यावा॑पृथि॒वी ए॒व घृ॒तेन॒ व्यु॑नत्ति॒ ते व्यु॑त्ते उपजीव॒नीये॑ भवत उपजीव॒नीयो॑ भवति॒ - [ ]
पदपाठः (Word-by-word)
सौ॒म्याः । ताः । अ॒ना॒य॒त॒ना इत्य॑ना - य॒त॒नाः । ऐ॒न्द्र॒वा॒य॒वमित्यै᳚न्द्र - वा॒य॒वम् । आ॒दायेत्या᳚ - दाय॑ । आ॒घा॒रमित्या᳚ - घा॒रम् । एति॑ । घा॒र॒ये॒त् । अ॒द्ध्व॒रः । य॒ज्ञ्ः । अ॒यम् । अ॒स्तु॒ । दे॒वाः॒ । ओष॑धीभ्य॒ इत्योष॑धि-भ्यः॒ । प॒शवे᳚ । नः॒ । जना॑य । विश्व॑स्मै । भू॒ताय॑ । अ॒ध्व॒रः । अ॒सि॒ । सः । पि॒न्व॒स्व॒ । घृ॒तव॒दिति॑ घृ॒त - व॒त् । दे॒व॒ । सो॒म॒ । इति॑ । सौ॒म्याः । ए॒व । तत् । आहु॑ती॒रित्या - हु॒तीः॒ । आ॒यत॑नवती॒रित्या॒यत॑न - व॒तीः॒ । क॒रो॒ति॒ । आ॒यत॑नवा॒नित्या॒यत॑न - वा॒न् । भ॒व॒ति॒ । यः । ए॒वम् । वेद॑ । अथो॒ इति॑ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚-पृ॒थि॒वी । ए॒व । घृ॒तेन॑ । वीति॑ । उ॒न॒त्ति॒ । ते इति॑ । व्यु॑त्ते॒ इति॒ वि - उ॒त्ते॒ । उ॒प॒जी॒व॒नीये॒ इत्यु॑प - जी॒व॒नीये᳚ । भ॒व॒तः॒ । उ॒प॒जी॒व॒नीय॒ इत्यु॑प - जी॒व॒नीयः॑ । भ॒व॒ति॒ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 3.1.9.4 TS 3.1.9.4
य ए॒वं ॅवेदै॒ष ते॑ रुद्रभा॒गो यं नि॒रया॑चथा॒स्तं जु॑षस्व वि॒देर्गौ॑प॒त्यꣳ रा॒यस्पोषꣳ॑ सु॒वीर्यꣳ॑ संॅवथ्स॒रीणाꣳ॑ स्व॒स्तिं ॥ मनुः॑ पु॒त्रेभ्यो॑ दा॒यं ॅव्य॑भज॒थ् स नाभा॒नेदि॑ष्ठं ब्रह्म॒चर्यं॒ ॅवस॑न्तं॒ निर॑भज॒थ् स आऽग॑च्छ॒थ् सो᳚ऽब्रवीत् क॒था मा॒ निर॑भा॒गिति॒ न त्वा॒ निर॑भाक्ष॒मित्य॑-ब्रवी॒दङ्गि॑रस इ॒मे स॒त्रमा॑सते॒ ते - [ ]
पदपाठः (Word-by-word)
यः । ए॒वम् । वेद॑ । ए॒षः । ते॒ । रु॒द्र॒ । भा॒गः । यम् । नि॒रया॑चथा॒ इति॑ निः-अया॑चथाः । तम् । जु॒ष॒स्व॒ । वि॒देः । गौ॒प॒त्यम् । रा॒यः । पोष᳚म् । सु॒वीर्य॒मिति॑ सु - वीर्य᳚म् । सं॒ॅव॒थ्स॒रीणा॒मिति॑ सं - व॒थ्स॒रीणा᳚म् । स्व॒स्तिम् ॥ मनुः॑ । पु॒त्रेभ्यः॑ । दा॒यम् । वीति॑ । अ॒भ॒ज॒त् । सः । नाभा॒नेदि॑ष्ठम् । ब्र॒ह्म॒चर्य॒मिति॑ ब्रह्म-चर्य᳚म् । वस॑न्तम् । निरिति॑ । अ॒भ॒ज॒त् । सः । एति॑ । अ॒ग॒च्छ॒त् । सः । अ॒ब्र॒वी॒त् । क॒था । मा॒ । निरिति॑ । अ॒भा॒क् । इति॑ । न । त्वा॒ । निरिति॑ । अ॒भा॒क्ष॒म् । इति॑ । अ॒ब्र॒वी॒त् । अङ्गि॑रसः । इ॒मे । स॒त्रम् । आ॒स॒ते॒ । ते ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 3.1.9.5 TS 3.1.9.5
सु॑व॒र्गं ॅलो॒कं न प्रजा॑नन्ति॒ तेभ्य॑ इ॒दं ब्राह्म॑णं ब्रूहि॒ ते सु॑व॒र्गं ॅलो॒कं ॅयन्तो॒ य ए॑षां प॒शव॒स्ताꣳस्ते॑ दास्य॒न्तीति॒ तदे᳚भ्योऽब्रवी॒त् ते सु॑व॒र्गं ॅलो॒कं ॅयन्तो॒ य ए॑षां प॒शव॒ आस॒न् तान॑स्मा अददु॒स्तं प॒शुभि॒श्चर॑न्तं ॅयज्ञ्वा॒स्तौ रु॒द्र आऽग॑च्छ॒थ् सो᳚ऽब्रवी॒न्मम॒ वा इ॒मे प॒शव॒ इत्यदु॒र्वै - [ ]
पदपाठः (Word-by-word)
सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । न । प्रेति॑ । जा॒न॒न्ति॒ । तेभ्यः॑ । इ॒दम् । ब्राह्म॑णम् । ब्रू॒हि॒ । ते । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । यन्तः॑ । ये । ए॒षा॒म् । प॒शवः॑ । तान् । ते॒ । दा॒स्य॒न्ति॒ । इति॑ । तत् । ए॒भ्यः॒ । अ॒ब्र॒वी॒त् । ते । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । यन्तः॑ । ये । ए॒षा॒म् । प॒शवः॑ । आसन्न्॑ । तान् । अ॒स्मै॒ । अ॒द॒दुः॒ । तम् । प॒शुभि॒रिति॑ प॒शु - भिः॒ । चर॑न्तम् । य॒ज्ञ्॒वा॒स्ताविति॑ यज्ञ्-वा॒स्तौ । रु॒द्रः । एति॑ । अ॒ग॒च्छ॒त् । सः । अ॒ब्र॒वी॒त् । मम॑ । वै । इ॒मे । प॒शवः॑ । इति॑ । अदुः॑ । वै ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 3.1.9.6 TS 3.1.9.6
मह्य॑मि॒मानित्य॑ब्रवी॒न्न वै तस्य॒ त ई॑शत॒ इत्य॑ब्रवी॒द्-यद्-य॑ज्ञ्वा॒स्तौ हीय॑ते॒ मम॒ वै तदिति॒ तस्मा᳚द्-यज्ञ्वा॒स्तु नाभ्य॒वेत्यꣳ॒॒ सो᳚ऽब्रवीद्-य॒ज्ञे मा ऽऽभ॒जाथ॑ ते प॒शून् नाभि मꣳ॑स्य॒ इति॒ तस्मा॑ ए॒तं म॒न्थिनः॑ सꣳ स्रा॒वम॑जुहो॒त् ततो॒ वै तस्य॑ रु॒द्रः प॒शून् नाभ्य॑मन्यत॒ यत्रै॒त ( ) मे॒वं ॅवि॒द्वान् म॒न्थिनः॑ सꣳ स्रा॒वं जु॒होति॒ न तत्र॑ रु॒द्रः प॒शून॒भि म॑न्यते ॥
पदपाठः (Word-by-word)
मह्य᳚म् । इ॒मान् । इति॑ । अ॒ब्र॒वी॒त् । न । वै । तस्य॑ । ते । ई॒श॒ते॒ । इति॑ । अ॒ब्र॒वी॒त् । यत् । य॒ज्ञ्॒वा॒स्ताविति॑ यज्ञ्-वा॒स्तौ । हीय॑ते । मम॑ । वै । तत् । इति॑ । तस्मा᳚त् । य॒ज्ञ्॒वा॒स्त्विति॑ यज्ञ् - वा॒स्तु । न । अ॒भ्य॒वेत्य॒मित्य॑भि - अ॒वेत्य᳚म् । सः । अ॒ब्र॒वी॒त् । य॒ज्ञे । मा॒ । एति॑ । भ॒ज॒ । अथ॑ । ते॒ । प॒शून् । न । अ॒भीति॑ । मꣳ॒॒स्ये॒ । इति॑ । तस्मै᳚ । ए॒तम् । म॒न्थिनः॑ । सꣳ॒॒स्रा॒वमिति॑ सं - स्रा॒वम् । अ॒जु॒हो॒त् । ततः॑ । वै । तस्य॑ । रु॒द्रः । प॒शून् । न । अ॒भीति॑ । अ॒म॒न्य॒त॒ । यत्र॑ । ए॒तम् ( ) । ए॒वम् । वि॒द्वान् । म॒न्थिनः॑ । सꣳ॒॒स्रा॒वमिति॑ सं - स्रा॒वम् । जु॒होति॑ । न । तत्र॑ । रु॒द्रः । प॒शून् । अ॒भीति॑ । म॒न्य॒त॒ ॥
पदसंख्या: 61