पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ तृतीयकाण्डे प्रथमप्रपाठके नवमोऽनुवाकः)
उपांशुग्रहसंयुक्ता मन्त्रा अष्टम ईरिताः।
अथ नवमे सवनाहुत्यादिमन्त्रा वक्तव्याः। तत्राऽऽदौ ताद्ग्रहमन्त्राणां क्रमेण नीचमुच्चं च ध्वनिं विधत्ते-
यो वै देवानिति। देवानां यशःकीर्तिर्देवयशसं तेन देवान्यो यजमानोऽर्पयति योजयति मनष्यानपि मनुष्ययशसेन योजयति स स्वर्गे देवेषु मध्ये देवयशसवा-नेव भवति। भूलोके मनुष्येषु मध्ये मनुष्ययशमुवानेव भपति। तदुभयसिद्धयर्थं क उपाय इति, तदुच्यते-आग्रयणग्रहात्प्राचीनं पूर्वस्मिन्काले यान्ग्रहानंशूपांश्वन्तर्यामैन्द्र-वायवादीन्गृह्णाति तान्सर्वानुपांश यथा भवति तथा गृह्णीयात्। मन्त्रा यथा पार्श्वस्थैर्न श्रूयन्ते तथोच्चार्य गृह्णीयादित्यर्थः यानाग्रयणग्रहार्द्ध्वभाविन उक्थ्यादी ग्रहान्गृह्णी-यात्तानुपब्दिमतो गृह्णीयात्। समीपस्थैरीषच्छ्रवणमुपब्दिस्तथोच्चार्य गृह्णीयादित्यर्थः। तत्रापांशूच्चारणेन देवानां कीर्तिप्राप्तिः। ईषदुच्चध्वनिना मनुष्याणां कीर्तिप्राप्तिः। तेनो-भयेन स्वस्यापि लोकद्वये कीर्तिर्भवति।
कल्पः – 'अग्निः प्रातःसवने पात्वस्मानिति स स्थिते सवन आहुतिं जुहोति' इति। पाठस्तु-
अग्निः प्रातरिति। अयमग्निः प्रातःसवनेऽस्माभिरनुभिरनुष्ठिते सत्यस्मान्पातु। वैश्वानरो विश्वेषां नाराणां स्वामित्वेन संबन्धी। महिना स्वकीयने महिम्ना विश्वशंभूर्वि-श्वस्य सुखप्रापकः। स तादृशोऽग्निरस्मभ्यं द्रविणं दधातु धनं दद्यात्। कीदृशः , पावकः शोधयिता। पापक्षयं कृत्वाऽस्माञ्शोधयतीत्यर्थः। किंच वयमायुष्मन्तो दीर्घायुषः सह-भक्षा भक्षयितृभिः सर्वेः सहिताश्च सर्वशः स्याम। सोऽयं प्रातःसवनसमाप्तौ होममन्त्रः।
कल्पः- 'विश्वे देवा मरुत इति संस्थिते सवन आहुतिं जुहोति' इति। पाठस्तु-
विश्वे देवा इति। ये मरुतो यश्चेन्द्रस्ते विश्वे देवाः सर्वे देवा अस्मिन्द्वितीये माध्यांदिने सवने नोऽस्मान्न जह्युर्मा परित्यजेयुः। वयगप्यायुष्मन्तो दीर्घायुषो येषां देवानां स्तोत्रादिकं वदन्तस्तेषां सुमुतावनुग्रहबुद्धौ स्याम तिष्ठेम। सोऽयं माध्यंदिनसवनसमाप्तौ होममन्त्रः।
कल्पः – 'इदं तृतीय सवनं कवीनामिति संस्थिते सवन आहुतिं जुहोति' इति। पाठस्तु - इदं तृतीयमिति। कवीनां विदुषामृत्विजां संबन्धि यदिदं तृतीयसवनं तदिदं देवा वसीयो वसुमत्तरं कृत्वा नोऽस्माकं या स्विष्टिः शोभनो यातस्तां स्विष्टिमभिलक्ष्य नयन्तु प्रापयन्तु। कीदृशा देवास्तदुच्यते-ये देवाश्चमसं चमसगणमैरयन्त प्रेरितवन्तस्ते देवाः सौधन्वनाः सुधन्वन इन्द्रस्य संबन्धिन ऋभुनामानः सुवरानशानाः स्वर्गं प्राप्नुवन्तः। तादृशा देवा नयन्त्वित्यन्वयः। साऽयं तृतीयसवनसमाप्तौ होममन्त्रः। एतेषु मन्त्रेष्वग्निः प्रातःसवन इत्ययमाद्यो मन्त्र ओमासश्चर्षणीधृत इत्यनुवाकार्द्ध्वं द्रष्टव्यः। विश्वे देवा इत्ययं द्वितीयो मन्त्रो महा इन्द्रो नृवदित्यनुवाकार्द्ध्वं द्रष्टव्यः। इदं तृतीय सवनमिति तृतीयो मन्त्रो बृहस्पतिसुतस्येत्यनुवाकार्द्ध्वं द्रष्टव्यः।
यदुक्तं सूत्रकारेण – 'अध्वरो यज्ञोऽयमस्तु देवा इति परिप्लवयाऽऽधारमा घारियति' इति।
परिप्लवाशब्देन होमसाधनं काष्ठापात्रमुच्यते। तमिममापारं विधत्ते-
आयतनवतीरिति। हूयमाना आहुतयो द्विविधा आयतनयुक्तास्तद्रहिताश्च। आघारेण व्यवस्थापितं होमस्थानं होतव्यानामायतनं यत्तद्ब्राह्मणे पुरोडाशाद्याहुती-नामस्ति। आघारस्य प्रकरणे विहितत्वात्। सौभ्यास्त्मंशूपांश्वन्तर्यामग्रहा आयाररहित-त्वादनायतनास्तद्वदैन्द्रवायवग्रहाद्याहुतीनामप्यनायनत्वं प्राप्तम्। अतस्तद्व्यावृत्त्यर्थं यदैन्द्रवायवं होतुमादत्ते तदा वामहस्ते तं धृत्वा दक्षिणहस्तेनाध्वरो यज्ञ इत्यादिमन्त्रे-णाऽऽघारं जुहुयात्। दक्षिणं परिधिसंधिमन्ववहृत्य प्राञ्चमुदञ्चं सोमरसं पातयेत्। सोऽयमाघारः। मन्त्रार्थस्तु- हे देवा अयमस्माकं यज्ञोऽध्वरो हिंसकरीहतोऽस्तु। किमर्थमिति तदुच्यते- ओषधीभ्यः पशवे जनाय चास्माकं सर्वप्राणिभ्यश्च हे सोम त्वमध्वरो हिंसारहितोऽसीति घृतवत्सिञ्चेति। तत्तेन सोम्या ऐन्द्रवायवादिग्रहसंबन्धिन्यो-ऽप्याहुतीरायतनवतीः करोति। यश्चैवं वेद सोऽप्यायतनवान्भवति। अपि च घृतवदि-त्युक्त्या द्यावापृथिव्यावपि घृतेन विविधं क्लेदयति। ते च विविधं क्लेदिते सत्यौ सर्वेषां प्राणिनामुपजीवनीये भवतः। य एवं वेद सोऽऽयुपजीवनीयो भवति।
यदुक्तं सूत्रकारण – 'उत्तरार्धात्पतिप्रस्थाता बहिष्परिघ्यङ्गारं निर्वर्त्य तस्मिन्म-न्थिनः स स्रावं जुहोत्येष ते रुद्र भागो यं निरयाचथा इति' इति।
पाठस्तु –
एष ते रुद्रेति। हे रुद्र क्रूरदेवैष संस्रावस्तव भागस्तं (गः, य) भागं निरयाचथा देवेभ्यो निष्कृष्य तवैवासाधारणत्वेन याचितवानसि, तद्याचनं ब्राह्मणे स्पष्टी भविष्यति, तं याचितं भागं सेवस्व। त्वं तु गवां पालनं धनस्य पुष्टिं शोभनपुत्रं संवत्सर-निष्पाद्यानामोषधीनामविनाशं च विदेर्जानासि। तस्मात्सर्वमस्मदर्थं संपादयेत्यभिप्रायः।
तमिमं संस्रावहोमं विधातुं पीठिकामारचयति-
मनुः पुत्रेभ्य इति। बनोर्बहवः पुत्रास्तेषु कनिष्ठो नाभानोदिष्ठनामको बालो वेदाध्ययनं करोति। तदानीं पिता प्रबुद्धेभ्यः पुत्रेभ्यः स्वकीयं धनं विभज्य दत्तवान्। अध्ययनपरं बालं भागरहितमक्ररोत्। स च वाल आगत्य केन हेतुना मां भागरहितम-कार्षीरिति पितरमब्रवीत्। स च पिता त्वां भागरहितं न कृतवानस्मीत्यब्रवीदुक्त्वा च तत्प्राप्त्युपायं पुत्रायोपदिदेश।
अनन्तरं च पुत्रस्तेनोपायेन भागं प्राप्तवानित्येतद्दर्शयति –
अङ्गिरस इति। अङ्गिरोनामका इमे महर्षयः सत्रमनुतिष्ठन्ति। ते तु स्वर्गप्राप्तिसाधनानां नाभानेदिष्ठनामकशस्त्रादीनामपरिज्ञानात्स्वर्गं न जानन्त्यतस्तेभ्य इदं त्वयाऽधीतं शस्त्रादिप्रतिपादकं ब्राह्मणं ब्रूहि। तेऽपि सत्रं परिसमाप्य स्वर्गं गच्छन्तो यागोपयुक्तेभ्योऽवशिष्टान्स्वकीयान्पशून्सर्वांस्तुभ्यं दास्यन्ति। सोऽयं भागप्राप्त्युपायः। इत्येवं मोक्तः पुत्र इदं ब्राह्मणं तेभ्योऽभिदधे। ततस्तदीयानवशिष्ठान्सर्वान्पशूल्लँब्धवान्।
तं पशुमिरिति। अङ्गिरोभिर्दत्तान्पशून्स्वगृहे नेतुं तदीये (यायां) यज्ञभुवि यज्ञशेषैः पशुभिः संचरन्तं नाभानेदिष्ठं रुद्र आगत्य मदीया एते पशव इत्यब्रवीत्। ततः स नाभानेदिष्ठो मह्यमङ्गिरस इमान्पशून्दत्तवन्त इत्यब्रवीत्। ततः स रुद्रस्तस्य यज्ञशेषस्य द्रव्यस्य तेऽङ्गिरसो न स्वामिनस्तस्मात्तैर्दतं पशुद्रव्यमस्वामिदत्तत्वात्तव न योग्यमित्यब्रवीत्। कस्तर्हि स्वामीति चेच्छृणु-यद्द्रव्यं यज्ञभूमौ हीयते यज्ञसमाप्तेरूर्ध्वमवशिष्यते तत्सर्वे ममैव स्वम्। तस्मान्ममानुज्ञामन्तरेण यज्ञभूमिः केनापि न प्रवेष्टव्या। यदि तव शिष्टपश्वपेक्षाऽस्ति तर्हि मां यज्ञे भागिनं कुरु ततस्तुभ्यं दत्तानेतान्पशून्न मारयिष्यामीति रुद्रोऽब्रवीत्। ततो नाभानेदिष्ठस्तस्मै रुद्रायैतं मन्थिनः संस्रावमजुहोत्। मन्थिग्रहं हुत्वा तत्पात्रस्थं द्रव्यशेषं परिधेर्बहिस्थापितेऽङ्गारे हुतवान्। ततस्तुष्टो रुद्रस्तस्य नाभानेदिष्ठस्य पशून्नैव हिंसितवान्। आख्यानं परिसमाप्य विधत्ते-
यत्रैतमेवमिति। ऐन्द्रवायवादिषूक्थ्यान्तेषु ग्रहेषु गृहीतेषु ऋतुपात्रयोः सोम-ग्रहणात्प्रागेवैन्द्रवायवमन्थिग्रहप्रचारस्य काला (र्य) त्वान्मधुश्च माधवश्चेत्येतस्माद-नुवाकात्प्रागेवाध्वरो यज्ञ इत्याघारमन्त्र एष ते रुद्र भाग इति संस्रावमन्त्रश्च द्रष्टव्यः॥