अनुवाकः 6 TS 3.1.6

(A6)

(अ॒न्तरि॑क्षेण - बृह॒ती - त्रय॑स्त्रिꣳशच्च)

अनुवाकः 6 - Complete Audio

TS 3.1.6 - स्वरानुगामी

0:00 0:00
PS1.1 यो वा अय॑थादेवतं ॅय॒ज्ञ्मु॑प॒चर॒त्या
PS1.2 दे॒वता᳚भ्यो वृश्च्यते॒ पापी॑यान् भवति॒
PS1.3 यो य॑थादेव॒तन्न दे॒वता᳚भ्य॒ आ
PS1.4 वृ॑श्च्यते॒ वसी॑यान् भवत्याग्ने॒य्यर्चा ऽऽग्नी᳚द्ध्रम॒भि
PS1.5 मृ॑शेद् वैष्ण॒व्या ह॑वि॒र्द्धान॑माग्ने॒य्या स्रुचो॑
PS1.6 वाय॒व्य॑या वाय॒व्या᳚न्यैन्द्रि॒या सदो॑ यथादेव॒तमे॒व
PS1.7 य॒ज्ञ्मुप॑ चरति॒ न दे॒वता᳚भ्य॒
PS1.8 आ वृ॑श्च्यते॒ वसी॑यान् भवति
PS1.9 यु॒नज्मि॑ ते पृथि॒वीं ज्योति॑षा
PS1.10 स॒ह यु॒नज्मि॑ वा॒युम॒न्तरि॑क्षेण -
PS1.11 [ ]
PS2.1 ते स॒ह यु॒नज्मि॒ वाचꣳ॑
PS2.2 स॒ह सूर्ये॑ण ते यु॒नज्मि॑
PS2.3 ति॒स्रो वि॒पृचः॒ सूर्य॑स्य ते
PS2.4 अ॒ग्निर्दे॒वता॑ गाय॒त्री छन्द॑ उपाꣳ॒॒शोः
PS2.5 पात्र॑मसि॒ सोमो॑ दे॒वता᳚ त्रि॒ष्टुप्
PS2.6 छन्दो᳚ऽन्तर्या॒मस्य॒ पात्र॑म॒सीन्द्रो॑ दे॒वता॒ जग॑ती॒
PS2.7 छन्द॑ इन्द्रवायु॒वोः पात्र॑मसि॒ बृह॒स्पति॑र्
PS2.8 दे॒वता॑ऽनु॒ष्टुप् छन्दो॑ मि॒त्रावरु॑णयोः॒ पात्र॑मस्य॒श्विनौ॑
PS2.9 दे॒वता॑ प॒ङ्क्तिश्छन्दो॒ऽश्विनोः॒ पात्र॑मसि॒ सूर्यो॑
PS2.10 दे॒वता॑ बृह॒ती - [
PS2.11 ]
PS3.1 छन्दः॑ शु॒क्रस्य॒ पात्र॑मसि च॒न्द्रमा॑
PS3.2 दे॒वता॑ स॒तो बृ॑हती॒ छन्दो॑
PS3.3 म॒न्थिनः॒ पात्र॑मसि॒ विश्वे॑दे॒वा दे॒वतो॒ष्णिहा॒
PS3.4 छन्द॑ आग्रय॒णस्य॒ पात्र॑म॒सीन्द्रो॑ दे॒वता॑
PS3.5 क॒कुच्छन्द॑ उ॒क्थानां॒ पात्र॑मसि पृथि॒वी
PS3.6 दे॒वता॑ वि॒राट् छन्दो᳚ ध्रु॒वस्य॒
PS3.7 पात्र॑मसि

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 3.1.6.1 TS 3.1.6.1
यो वा अय॑थादेवतं ॅय॒ज्ञ्मु॑प॒चर॒त्या दे॒वता᳚भ्यो वृश्च्यते॒ पापी॑यान् भवति॒ यो य॑थादेव॒तन्न दे॒वता᳚भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान् भवत्याग्ने॒य्यर्चा ऽऽग्नी᳚द्ध्रम॒भि मृ॑शेद् वैष्ण॒व्या ह॑वि॒र्द्धान॑माग्ने॒य्या स्रुचो॑ वाय॒व्य॑या वाय॒व्या᳚न्यैन्द्रि॒या सदो॑ यथादेव॒तमे॒व य॒ज्ञ्मुप॑ चरति॒ न दे॒वता᳚भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान् भवति यु॒नज्मि॑ ते पृथि॒वीं ज्योति॑षा स॒ह यु॒नज्मि॑ वा॒युम॒न्तरि॑क्षेण - [ ]
पदपाठः (Word-by-word)
यः । वै । अय॑थादेवत॒मित्यय॑था - दे॒व॒त॒म् । य॒ज्ञ्म् । उ॒प॒चर॒तीत्यु॑प - चर॑ति । एति॑ । दे॒वता᳚भ्यः । वृ॒श्च्य॒ते॒ । पापी॑यान् । भ॒व॒ति॒ । यः । य॒था॒दे॒व॒तमिति॑ यथा-दे॒व॒तम् । न । दे॒वता᳚भ्यः । एति॑ । वृ॒श्च्य॒ते॒ । वसी॑यान् । भ॒व॒ति॒ । आ॒ग्ने॒य्या । ऋ॒चा । आग्नी᳚द्ध्र॒मित्याग्नि॑ - इ॒द्ध्र॒म् । अ॒भीति॑ । मृ॒शे॒त् । वै॒ष्ण॒व्या । ह॒वि॒द्‌र्धान॒मिति॑ हविः - धान᳚म् । आ॒ग्ने॒य्या । स्रुचः॑ । वा॒य॒व्य॑या । वा॒य॒व्या॑नि । ऐ॒न्द्रि॒या । सदः॑ । य॒था॒दे॒व॒तमिति॑ यथा-दे॒व॒तम् । ए॒व । य॒ज्ञ्म् । उपेति॑ । च॒र॒ति॒ । न । दे॒वता᳚भ्यः । एति॑ । वृ॒श्च्य॒ते॒ । वसी॑यान् । भ॒व॒ति॒ । यु॒नज्मि॑ । ते॒ । पृ॒थि॒वीम् । ज्योति॑षा । स॒ह । यु॒नज्मि॑ । वा॒युम् । अ॒न्तरि॑क्षेण ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ तृतीयकाण्डे प्रथमप्रपाठके षष्ठोऽनुवाकः)।

पूर्वानुवाकमन्त्राणां पञ्चमे ब्राह्मणं श्रुतम्।

अथ षष्ठेऽभिमर्शनविधयो मन्त्रविशेषाश्च केचिदाम्नायन्ते।

तत्र सुत्यादिनगतप्रयोगारम्भेऽमिमर्शनं विधत्ते-

यो वा इति। आग्नीध्रहविर्धानादीनां मध्ये यस्य या देवता तां देवतामभिक्रम्य तस्योपचारे सति देवताभ्योऽवच्छिद्यते दरिद्रश्च भवति। अतस्तत्तद्देवताप्रतिपादक-मन्त्रैरेव तस्य तस्याभिमर्शने सति नोक्तदोषो भवति। तांश्च मन्त्रविशेषानापस्तम्ब उदाजहार- 'महारात्रे बुद्ध्वाऽग्ने नयेत्याग्नीध्रमभिमृशतीदं विष्णुर्विचक्रम इति हविर्धानमग्न आयू षि पवस इति स्रुच आ वायो भूप शुचिपा इति वायव्यान्याघा ये अग्निमिन्धत इति सदः' इति। तेषु चत्वारो मन्त्राः प्रथमकाण्ड एवाऽऽम्नाता व्याख्याताश्च। आधा ये अग्निमिति मन्त्रस्तु ब्राह्मणग्रन्थे द्वितीयकाण्डस्य चतुर्थप्रपाठके वृषासो अ शुरित्यस्मिन्ननुवाक आम्नास्यमानत्वात्तत्रैव व्याख्यास्यते।

युनज्मि त इति। कल्पः- 'युनज्मि ते पृथिवीं ज्योतिषा सहेति दक्षिणस्य हविर्धा-नस्याधस्तात्पश्चादक्षँ द्रोणकलशं सदशापवित्रं युनज्मि वायुमन्तरिक्षेण ते सहेत्युत्तरस्य हविर्धानस्योपरिष्टान्नीड जाधवनीयं युनज्मि वाच सह सूर्येण त इति प्रधृरे पूतभुतम्' इति।

अत्र सर्वत्र प्रयुनक्तीति पदमनुवर्तते। हे द्रोणकलश ते तव स्वरूपभूतां पृथिवीं ज्योतिषाऽग्निना सहैतस्मिन्स्थाने युनज्मि सादयामि। हे आधवनीय ते स्वरूपभूतं वायुं तदाधारेणान्तरिक्षेण सहास्मिन्स्थाने युनज्मि। उच्यते नानाविधैर्मन्त्रैः प्रतिपाद्यत इति द्युलोको वाक्। हे पूतभृत्तव स्वरूपभूतां वाचं सूर्येण द्युलोकस्थेन सहास्मिन्स्थाने युनज्मि।

युनज्मीति। कल्पः- 'युनज्मि तिस्रो विपृचः सूर्यस्य त इति स्रुचसन्ना अभिमन्त्रयते' इति।

जुहूषभृद्ध्रुवाख्यास्तिस्रो याः स्रुचस्ता विपृचः परस्परसंपर्करहिता यथा भवन्ति तथा सूर्यस्य तव प्रकाशेन परीक्ष्य युनज्मि।

अग्निर्देवतेति। कल्पः- 'अथैतानि वायव्यान्याभिमृशत्यग्निर्देवता गायत्री छन्द उपा शोः पात्रमसीति दशभिर्दश' इति।

हे ऊर्ध्वपात्राग्निर्देवता त्वां रक्षतु। गायत्री छऩ्दस्त्वां रक्षतु। त्वमुपाशुनामकस्य सोमरसग्रहणस्य पात्रमसि। एवमुत्तरेषु नवसुं मन्त्रेषु योज्यम।

तेषां पाठस्तु-

सोमो देवतेति। इन्द्रवायुवोरित्यादिभिर्देवतावाचकैः शब्दैस्तदीयं सोमरस ग्रहणमुपलक्ष्यते (*आग्रयणादिषु हे स्थालीति संबोधनीयम्। शस्त्रवाचके नोवथानामिति शब्देन तत्तच्छस्त्रसंबन्धिसोयरसंग्रहणमुपलक्ष्यते)। आस्मिन्ननुवाके प्रोक्ताः सर्वे मन्त्रा हृदे त्वा मनसे त्वेत्यनुवाकात्प्रागवे द्रष्टव्याः।

अत्र विनियोगसंग्रहः-

'आग्नेय्यग्ने नयेतीदं विष्णुरित्येव वैष्णवी।

अग्न आयूंषि चाऽऽग्नेयी आ वायो इति वायवी॥

आघा ये अग्निमैन्द्री स्याद्युनज्मीति त्रिभिः क्रमात्।

साद्यन्ते द्रोणकलशाधवनीयौ च पूतभृत्॥

युनेति मन्त्रणं कुर्यात्सवनीयस्रुवस्रुचाम्।

अग्निरित्यादिदशभिर्ग्रहपात्राणि संस्पृशेत्॥

षष्ठानुवाके संप्रोक्ता मन्त्रा एकोनविंशतिः'। ( इति)।

अत्र मीमांसा।

तृतीयाध्यायस्य द्वितीयपादे चिन्तितम् —

आग्नेय्याऽऽग्नोध्ररमित्यग्निदेवताका ऋचोऽखिलाः।

उपस्थाने प्रयोक्तव्याः प्रकृता एवं ता उत॥

साधारण्येन शब्दोक्तेः सर्वाभिस्तदुपस्थितिः।

विशेष (ये) विधिसंक्रान्त्या प्रकृताभिरितीष्यताम्॥

ज्योतिष्टोमे श्रूयते- 'आग्नेय्याऽऽग्नीध्रमुपतिष्ठते' इति। तत्राऽऽग्नीध्रनामकस्य मण्डपस्य यदुपस्थानं तद्यया कयाचिद्दाशतयीगतयाऽऽग्निदेवतया संबन्धिन्या कर्तव्यम्। अग्निर्देवता यस्या ऋचः साऽऽग्नेयीतिसाधारणाक्तोवृग्विशेषस्याप्रपीतेरिति चेन्मैवम्। ऋतुप्रकरणपठितानामाग्नेयीनामृचां ऋतुप्रयुक्तव्यापारसाधनत्वं प्रकरणादेव। कोऽसौ व्यापार इति विशेषबुभुत्सायामाग्नीधोपस्थानरूपोऽयमिति बोधयन्नयं विधिर्विशेषमात्रं (त्रे) संक्रामतीति लाघवम्। अपकृतानां तु ऋतुप्रयुक्तव्यापाराग्नेयीभिस्तदुपस्थानम्। एवमैन्द्रया सदो वैष्णव्या हविर्धानमित्यत्र सदोहविर्धाननामकयोर्मण्डपयोरुपस्थाने प्रकृतानायेवैन्द्रीणां वैष्णवीनां च प्रयोग इति द्रष्टव्यम्॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे प्रथमप्रपाठके

षष्ठोऽनुवाकः॥ ६॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 -5यो वा इत्यादि ॥ या यस्य देवता तद्यथादेवतं ततोन्यदयथादेवतम् । तृतीयाया आमादेशः । यथायथमनवगते देवतासम्बन्धे यज्ञसाधनैर्यो यज्ञमुपचरति अनुतिष्ठति स देवताभ्यः अज्ञाताभ्य आवृश्च्यते परिहीयते ततः पापीयान् भवति पापतरो भवति । यो यथादेवतमित्यादि । गतम् । वसीयान् वसुमत्तरः । आग्नेय्यर्चेत्यादि । 'अग्ने नय' इत्याग्नेयी ऋक् । 'इदं विष्णुः' इति वैष्णवी । 'अग्न आयूंषि' इति ऋगाग्नेयी । 'आ वायो भूष' इति वायव्या । 'आघा ये अग्निमिन्धते' इत्यैन्द्री । एवं कुर्वन् यथायथमवगताभिर्देवताभिः यज्ञमुपचरति ततो देवताभ्यो न वृश्च्यते वसीयान् भवति । आग्नेयादिषूदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वे 'उदात्तयणः' इति तृतीयाया उदात्तत्वम् ॥
6 -8महापरिधीन् परिदधाति - युनज्मि त इति तिसृभिरेकपदाभिः जगतीभिः । तत्र मध्यमं - युनज्मीति ॥ हे अग्ने ते तव पृथिवीं पृथिवीस्थानीयं मध्यमं परिधिं ज्योतिषा दीप्त्या सह तव समीपे युनज्मि? । यद्वा - हे मध्यमपरिधे अनेन यागेन पृथिवीं ज्योतीषा अग्निना सह युनज्मि दक्षिणं वायुमन्तरिक्षेण सह तव युनज्मि । समानमन्यत् । उत्तरं सूर्येण सह वाचं तव युनज्मि । शिष्टं समानम् ॥
9 स्रुचोऽभिमृशति - युनज्मि तिस्र इति जगत्यैकपदया ॥ युनज्मि तिस्रः स्रुचः जुहूपभृद्ध्रुवाः विपृचः विपृक्ताः पृथग्भूताः सूर्यस्य सोमस्य सूर्यस्य सम्बन्धिनो वा तव संबन्धिनीः युनज्मि । त्वदर्थं वा ॥
10 पात्राणि सादितान्यभिमृशति - अग्निर्देवतेत्यादिभिः ॥ दशैते मन्त्रा निगदव्याख्याताः । अग्निस्तव देवता, गायत्री छदः उपांशोः ग्रहस्य पात्रमसि त्वमिति । एवं सर्वत्र । 'उपाद्व्यजजिनम्' इत्युपांशुशब्दस्योत्तरपदान्तोदात्तत्वम् ॥
11 अन्तर्यामग्रहस्य पात्रमसि । 'अन्तरपरिग्रहे' इति गतित्वात्ताथादिनोत्तरपदान्तोदात्तत्वम् ॥
12 इन्द्रवाय्वोस्सम्बन्धी ऐन्द्रवायवो ग्रहः ; तस्य पात्रमसि । 'उभयत्र वायोः प्रतिषेधः' इत्यनङ् न क्रियते । 'देवताद्वन्द्वे च' इति प्राप्तस्य पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरस्य 'नोत्तरपदेऽनुदात्तादौ' इति प्रतिषेधे समासान्तोदात्तत्वे च कृते 'उदात्तयणः' इति विभक्तेरुदात्तत्वम् ॥
13 बृहस्पतिर्देवता । 'तद्बृहतोः' इति सुट्, वनस्पत्यादित्वात्पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । समासे बृहच्छब्दः प्रायेणाद्युदात्तः । मित्रावरुणयोस्सम्बन्धिनः मैत्रावरुणस्य वा ग्रहस्य पात्रमसि । 'देवताद्वन्द्वे च' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ॥
14 पङ्क्तिः पच्चपदा । अश्विनोस्सम्बन्धिनः आश्विनस्य ग्रहस्य पात्रमसि ॥
15 बृहतीशब्द् 'बृहन्महतोरुपसङ्ख्यानम्' इति नद्या उदात्तत्वम् । शुक्रस्य ग्रहस्य पात्रमसि ॥
16 सतोबृहती नाम बृहतीविशेषः । 'त्रिभिर्द्वादशकैर्महाबृहती । सतोबृहती ताण्डिनः' । छान्दसष्षष्ठ्या अलुक्, दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम्, 'शतुरनुमः' इति षष्ठ्या उदात्तत्वम् ॥
17 उष्णिक्, उष्णिहा इति पदद्वयमपि भवति । आग्रयणस्य ग्रहस्य पात्रं स्थाल्यसि ॥
18 ककुप् उष्णिग्विशेषः । 'मध्ये चेद्द्वादशाक्षरः ककुप्' । उक्थानां सम्बन्धिनः उक्थस्य ग्रहस्य पात्रं स्थली वा ॥
19 विराट् दशाक्षरा । ध्रुवस्य ग्रहस्य पात्रं स्थाल्यसि ॥
इति तृतीये प्रथमे षष्ठोनुवाकः ॥
पञ्चशत् 2 #
TS 3.1.6.2 TS 3.1.6.2
ते स॒ह यु॒नज्मि॒ वाचꣳ॑ स॒ह सूर्ये॑ण ते यु॒नज्मि॑ ति॒स्रो वि॒पृचः॒ सूर्य॑स्य ते । अ॒ग्निर्दे॒वता॑ गाय॒त्री छन्द॑ उपाꣳ॒॒शोः पात्र॑मसि॒ सोमो॑ दे॒वता᳚ त्रि॒ष्टुप् छन्दो᳚ऽन्तर्या॒मस्य॒ पात्र॑म॒सीन्द्रो॑ दे॒वता॒ जग॑ती॒ छन्द॑ इन्द्रवायु॒वोः पात्र॑मसि॒ बृह॒स्पति॑र् दे॒वता॑ऽनु॒ष्टुप् छन्दो॑ मि॒त्रावरु॑णयोः॒ पात्र॑मस्य॒श्विनौ॑ दे॒वता॑ प॒ङ्क्तिश्छन्दो॒ऽश्विनोः॒ पात्र॑मसि॒ सूर्यो॑ दे॒वता॑ बृह॒ती - [ ]
पदपाठः (Word-by-word)
ते॒ । स॒ह । यु॒नज्मि॑ । वाच᳚म् । स॒ह । सूर्ये॑ण । ते॒ । यु॒नज्मि॑ । ति॒स्रः । वि॒पृच॒ इति॑ वि - पृचः॑ । सूर्य॑स्य । ते॒ ॥ अ॒ग्निः । दे॒वता᳚ । गा॒य॒त्री । छन्दः॑ । उ॒पाꣳ॒॒शोरित्यु॑प - अꣳ॒॒शोः । पात्र᳚म् । अ॒सि॒ । सोमः॑ । दे॒वता᳚ । त्रि॒ष्टुप् । छन्दः॑ । अ॒न्त॒र्या॒मस्येत्य॑न्तः - या॒मस्य॑ । पात्र᳚म् । अ॒सि॒ । इन्द्रः॑ । दे॒वता᳚ । जग॑ती । छन्दः॑ । इ॒न्द्र॒वा॒यु॒वोरिती᳚न्द्र-वा॒यु॒वोः । पात्र᳚म् । अ॒सि॒ । बृह॒स्पतिः॑ । दे॒वता᳚ । अ॒नु॒ष्टुबित्य॑नु - स्तुप् । छन्दः॑ । मि॒त्रावरु॑णयो॒रिति॑ मि॒त्रा-वरु॑णयोः । पात्र᳚म् । अ॒सि॒ । अ॒श्विनौ᳚ । दे॒वता᳚ । प॒ङ्क्तिः । छन्दः॑ । अ॒श्विनोः᳚ । पात्र᳚म् । अ॒सि॒ । सूर्यः॑ । दे॒वता᳚ । बृ॒ह॒ती ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 3.1.6.3 TS 3.1.6.3
छन्दः॑ शु॒क्रस्य॒ पात्र॑मसि च॒न्द्रमा॑ दे॒वता॑ स॒तो बृ॑हती॒ छन्दो॑ म॒न्थिनः॒ पात्र॑मसि॒ विश्वे॑दे॒वा दे॒वतो॒ष्णिहा॒ छन्द॑ आग्रय॒णस्य॒ पात्र॑म॒सीन्द्रो॑ दे॒वता॑ क॒कुच्छन्द॑ उ॒क्थानां॒ पात्र॑मसि पृथि॒वी दे॒वता॑ वि॒राट् छन्दो᳚ ध्रु॒वस्य॒ पात्र॑मसि ॥
पदपाठः (Word-by-word)
छन्दः॑ । शु॒क्रस्य॑ । पात्र᳚म् । अ॒सि॒ । च॒न्द्रमाः᳚ । दे॒वता᳚ । स॒तोबृ॑ह॒तीति॑ स॒तः - बृ॒ह॒ती॒ । छन्दः॑ । म॒न्थिनः॑ । पात्र᳚म् । अ॒सि॒ । विश्वे᳚ । दे॒वाः । दे॒वता᳚ । उ॒ष्णिहा᳚ । छन्दः॑ । आ॒ग्र॒य॒णस्य॑ । पात्र᳚म् । अ॒सि॒ । इन्द्रः॑ । दे॒वता᳚ । क॒कुत् । छन्दः॑ । उ॒क्थाना᳚म् । पात्र᳚म् । अ॒सि॒ । पृ॒थि॒वी । दे॒वता᳚ । वि॒राडिति॑ वि - राट् । छन्दः॑ । ध्रु॒वस्य॑ । पात्र᳚म् । अ॒सि॒ ॥
पदसंख्या: 33