अनुवाकः 4 TS 3.1.4

(A4)

(ईशे᳚ - प्रमु॒ञ्चमा॑ना - य॒ज्ञ्ं - त्वꣳ - षोड॑श च)

अनुवाकः 4 - Complete Audio

TS 3.1.4 - स्वरानुगामी

0:00 0:00
PS1.1 प्र॒जाप॑ते॒र्जाय॑मानाः प्र॒जा जा॒ताश्च॒ या इ॒माः
PS1.2 तस्मै॒ प्रति॒ प्र वे॑दयचिकि॒त्वाꣳ
PS1.3 अनु॑ मन्यतां
PS1.4 इ॒मं प॒शुं प॑शुपते ते
PS1.5 अ॒द्य ब॒द्ध्नाम्य॑ग्ने सुकृ॒तस्य॒ मद्ध्ये᳚
PS1.6 अनु॑ मन्यस्व सु॒यजा॑ यजाम॒
PS1.7 जुष्टं॑ दे॒वाना॑मि॒दम॑स्तु ह॒व्यं
PS1.8 प्र॒जा॒नन्तः॒ प्रति॑गृह्णन्ति॒ पूर्वे᳚ प्रा॒णमङ्गे᳚भ्यः॒ पर्या॒चर॑न्तं
PS1.9 सुव॒र्गं ॅया॑हि प॒थिभि॑ र्देव॒यानै॒-रोष॑धीषु॒
PS1.10 प्रति॑तिष्ठा॒ शरी॑रैः
PS1.11 येषा॒मीशे॑ - [ ]
PS2.1 पशु॒पतिः॑ पशू॒नां चतु॑ष्पदामु॒त च॑ द्वि॒पदां᳚
PS2.2 निष्क्री॑तो॒ऽयं ॅय॒ज्ञियं॑ भा॒गमे॑तु रा॒यस्पोषा॒
PS2.3 यज॑मानस्य सन्तु
PS2.4 ये ब॒द्ध्यमा॑न॒मनु॑ ब॒द्ध्यमा॑ना अ॒भ्यैक्ष॑न्त॒
PS2.5 मन॑सा॒ चक्षु॑षा च
PS2.6 अ॒ग्निस्ताꣳ अग्रे॒ प्रमु॑मोक्तु दे॒वः
PS2.7 प्र॒जाप॑तिः प्र॒जया॑ संॅविदा॒नः
PS2.8 य आ॑र॒ण्याः प॒शवो॑ वि॒श्वरू॑पा॒
PS2.9 विरू॑पाः॒ सन्तो॑ बहु॒धैक॑रूपाः
PS2.10 वा॒युस्ताꣳ अग्रे॒ प्रमु॑मोक्तु दे॒वः
PS2.11 प्र॒जाप॑तिः प्र॒जया॑ संॅविदा॒नः
PS2.12 प्र॒मु॒ञ्चमा॑ना॒ - [ ]
PS3.1 भुव॑नस्य॒ रेतो॑ गा॒तुं ध॑त्त॒
PS3.2 यज॑मानाय देवाः
PS3.3 उ॒पाकृ॑तꣳ शशमा॒नं ॅयदस्था᳚ज्जी॒वं दे॒वाना॒मप्ये॑तु॒ पाथः॑
PS3.4 नाना᳚ प्रा॒णो यज॑मानस्य प॒शुना॑
PS3.5 य॒ज्ञो दे॒वेभिः॑ स॒ह दे॑व॒यानः॑
PS3.6 जी॒वं दे॒वाना॒मप्ये॑तु॒ पाथः॑ स॒त्याः
PS3.7 स॑न्तु॒ यज॑मानस्य॒ कामाः᳚
PS3.8 यत् प॒शुर्मा॒युमकृ॒तोरो॑ वा प॒द्भिरा॑ह॒ते
PS3.9 अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ विश्वा᳚न् मुञ्च॒त्वꣳह॑सः
PS3.10 शमि॑तार उ॒पेत॑न य॒ज्ञ्ं -
PS3.11 [ ]
PS4.1 दे॒वेभि॑रिन्वि॒तं
PS4.2 पाशा᳚त् प॒शुं प्रमु॑ञ्चत ब॒न्धाद्य॒ज्ञ्प॑तिं॒ परि॑
PS4.3 अदि॑तिः॒ पाशं॒ प्रमु॑मोक्त्वे॒तं नमः॑
PS4.4 प॒शुभ्यः॑ पशु॒पत॑ये करोमि
PS4.5 अ॒रा॒ती॒यन्त॒-मध॑रं कृणोमि॒ यं द्वि॒ष्मस्तस्मि॒न्
PS4.6 प्रति॑ मुञ्चामि॒ पाशं᳚
PS4.7 त्वामु॒ ते द॑धिरे हव्य॒वाहꣳ॑
PS4.8 शृतंक॒र्तार॑मु॒त य॒ज्ञियं॑ च
PS4.9 अग्ने॒ सद॑क्षः॒ सत॑नु॒र्॒.हि भू॒त्वाऽथ॑
PS4.10 ह॒व्या जा॑तवेदो जुषस्व
PS4.11 जात॑वेदो व॒पया॑ गच्छ दे॒वान्त्वꣳ
PS4.12 ( ) हि होता᳚
PS4.13 प्रथ॒मो ब॒भूथ॑
PS4.14 घृ॒तेन॒ त्वं त॒नुवो॑ वर्द्धयस्व॒
PS4.15 स्वाहा॑कृतꣳ ह॒विर॑दन्तु दे॒वाः
PS4.16 स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्यः॒ स्वाहा᳚

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 3.1.4.1 TS 3.1.4.1
प्र॒जाप॑ते॒र्जाय॑मानाः प्र॒जा जा॒ताश्च॒ या इ॒माः । तस्मै॒ प्रति॒ प्र वे॑दयचिकि॒त्वाꣳ अनु॑ मन्यतां ॥इ॒मं प॒शुं प॑शुपते ते अ॒द्य ब॒द्ध्नाम्य॑ग्ने सुकृ॒तस्य॒ मद्ध्ये᳚ । अनु॑ मन्यस्व सु॒यजा॑ यजाम॒ जुष्टं॑ दे॒वाना॑मि॒दम॑स्तु ह॒व्यं ॥ प्र॒जा॒नन्तः॒ प्रति॑गृह्णन्ति॒ पूर्वे᳚ प्रा॒णमङ्गे᳚भ्यः॒ पर्या॒चर॑न्तं ।सुव॒र्गं ॅया॑हि प॒थिभि॑ र्देव॒यानै॒-रोष॑धीषु॒ प्रति॑तिष्ठा॒ शरी॑रैः ॥ येषा॒मीशे॑ - [ ]
पदपाठः (Word-by-word)
प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । जाय॑मानाः । प्र॒जा इति॑ प्र - जाः । जा॒ताः । च॒ । याः । इ॒माः ॥ तस्मै᳚ । प्रति॑ । प्रेति॑ । वे॒द॒य॒ । चि॒कि॒त्वान् । अन्विति॑ । म॒न्य॒ता॒म् ॥ इ॒मम् । प॒शुम् । प॒शु॒प॒त॒ इति॑ पशु - प॒ते॒ । ते॒ । अ॒द्य । ब॒द्ध्नामि॑ । अ॒ग्ने॒ । सु॒कृ॒तस्येति॑ सु - कृ॒तस्य॑ । मद्ध्ये᳚ ॥ अन्विति॑ । म॒न्य॒स्व॒ । सु॒यजेति॑ सु - यजा᳚ । य॒जा॒म॒ । जुष्ट᳚म् । दे॒वाना᳚म् । इ॒दम् । अ॒स्तु॒ । ह॒व्यम् ॥ प्र॒जा॒नन्त॒ इति॑ प्र - जा॒नन्तः॑ । प्रतीति॑ । गृ॒ह्ण॒न्ति॒ । पूर्वे᳚ । प्रा॒णमिति॑ प्र - अ॒नम् । अङ्गे᳚भ्यः । परीति॑ । आ॒चर॑न्त॒मित्या᳚ - चर॑न्तम् ॥ सु॒व॒र्गमिति॑ सुवः - गम् । या॒हि॒ । प॒थिभि॒रिति॑ प॒थि - भिः॒ । दे॒व॒यानै॒रिति॑ देव - यानैः᳚ । ओष॑धीषु । प्रतीति॑ । ति॒ष्ठ॒ । शरी॑रैः ॥ येषा᳚म् । ईशे᳚ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ तृतीयकाण्डे प्रथमप्रपाठके चतुर्थोऽनुवाकः)

पदाञ्जनं पशोः पाकवन्हिश्चोक्तौ तृतीयके।

अथ चतुर्थे पशूपाकरणमन्त्रा आम्नायन्ते।

कल्पः- 'बर्हिर्भ्यां प्लक्षशाखया च पुरस्तात्प्रत्यञ्चं पशुमुपाकरोत्युपो देवा-

न्दैवीर्विशः प्रजापतेर्जायमाना इति चैताभ्यामुपस्पृशन्' इति। प्रजापतेरित्यादिके द्वे ऋचौ। तत्रेयं प्रथमा-

प्रजापतेरिति। याः प्रजाः इदानीं जायमाना याश्चेमाः पूर्वं जातास्ताः सर्वाः प्रजापतेरेव यत्प्रसूता अतस्तस्मै प्रजापतये प्रति प्रत्येकं रहसि गत्वा प्रवेदय हे पशो त्वदीयं वृत्तान्तं कथय। स च प्रजापतिश्चिकित्वांस्त्वदीयां स्वर्गप्राप्तिं जानन्ननुमन्यताम्। अथ द्वितीया

इमं पशुमिति। हे पशुपतेऽग्ने यदस्मिन्दिने सुकृतस्य मध्ये सम्यगनुष्ठितस्य ज्योतिष्टोमस्य कर्मणो मध्य इमं पशुं बध्नामि अतस्त्वमनुमन्यस्व। वयं सु यजा शोभनेन यज्ञेन यजाम। इदं हव्यं देवानां जुष्टं प्रियमस्तु।

कल्पः 'प्रजानन्तः प्रतिगृह्णन्ति पूर्वं इति पञ्च हुत्वा' इति।

तत्रेयं प्रथमा-

प्रजानन्त इति। हे पशो पूर्वे देवास्त्वदीयं वृत्तान्तं जानन्तोऽङ्गेभ्यः परित्वदीयाव-यवेभ्य ऊर्ध्वमाचरन्तं ते त्वदीयं प्राणं प्रतिगृह्णन्ति अस्माकमधीनोऽयमिति स्त्री कुर्वन्ति। त्वं तु देवा येषु पथिषु यान्ति तैः पथिमिः स्वर्गं याहि। प्राणरूपेण स्वर्गं गत्वाऽवशिष्टः शरीरावयवैरोषधीषु प्रतितिष्ठ पुरोडाशादिबद्ध विर्भवेत्यर्थः। अथ द्वितीया- येषामीश इति। पशुस्वामी रुद्रो द्विपदां चतुष्पदां च येषां पशूनामीश स्वामित्वेन वर्तते तेषां पशूनां मध्ये स्वामिनः सकाशादस्माभिर्निष्क्रीतोऽयं पशुर्यज्ञियं यज्ञयोग्यं भागमेतु भागत्वं प्राप्नोतु। यजमानस्य रायस्पोषा धनपुष्टयः सन्तु।

अथ तृतीगा-

ये बध्यमानमिति। अस्य पशोः पितृमातृभ्रातृसगर्भ्यसयूथ्यरूपा ये पशव एतदीयस्नेहेन स्वयमपि बध्यमानमेनं पशुमनु बध्यमानः सन्तो मनसा चक्षुषा चाभित ऐक्षन्त तान्पशूनग्निरग्रे प्रकर्षेण मोचयतु। ततः प्रजापतिर्देवः स्वकीयया प्रजया संविदान ऐकमत्यं गतस्तान्पशून्मोचयतु। अथ चतुर्थी-

य आरण्या इति। जातिभेदौर्विश्वरूपा वर्णभेदेनोच्चनीचत्वादिभेदैश्च व हुधा विविधरूपाः सन्तोऽपिं पशुत्वेनैकरूपाः। शेषं पूर्ववत्। अथ पञ्चमी-

प्रमुञ्चमाना इति। हे देवा भुवनस्य रेतो यागद्वारेणोत्पत्तिहेतुमिमं पशुं प्रमुञ्चमानाः प्रकर्षेण प्राणमातृपित्रादिभ्यो यज्ञार्थं मोचयन्तो यजमानस्य (नाय) गातुं धत्त स्वर्गलोकप्राप्तिं धत्त। उपाकृतमुपाकरणक्रियया संस्कृतं शशमानं हविर्भुक्षु देवेषु व्याप्रियमाणं यदस्थाद्यदङ्गजातमस्मिन्पशौ स्थितं तत्पाथोऽन्नं भूत्वा देवानां जीवमेतु जीवनार्थमुपाकरोतु। अपिशब्दाद्यजमानस्य स्वर्गं ददात्विति गम्यते। कल्पः-

'नाना प्राणो यजमानस्य पशुनेत्यध्वर्युर्जपति' इति। पाठस्तु-

नाना प्राण इति। यजमानस्य प्राण पशुना सह नाना पृथग्भवतु। अयमनुष्ठीय-मानो यज्ञो देवेभिर्देवनशीलैः पशुप्राणैः सह देवयानो भवतु हविर्भुजो देवान्प्रति गच्छतु। पाथः पशुरूपमन्नं देवानां जीवमप्येतु जीवनहेतुत्वं प्राप्नोतु। तेग यजमानस्य कामाः सत्याः सन्तु। कल्पः-

'यत्पशुर्मायुमकृतेति संज्ञप्तहोमं जुहोति' इति। पाठस्तु-

यत्पशुर्मायुमिति। अयं पशुर्मारणवेलायां मायुं दुःखहेतुकं शब्दमकुरुत। अथवा यतस्ततश्चाल्यमानैः पादैरुरस्ताडयति। तत्र यदेनो निष्पन्नं तन्मादेनसोऽग्निर्मां मोचयतु । किंचान्येनापि बन्धनाद्युपद्रवेण यद्यदहो निष्पन्नं तस्मात्सर्वस्मादंहसो मां मोचयतु।

कल्पः- 'शमितार उपेतनेति वपाश्रपणीभ्यां षशुमुपेतोऽध्वर्युर्यजमानश्च' इति। पाठस्तु-

शमितार इति हे शमितारो विशसनस्य कर्तारो देवा देवेभिरिन्वितं देवैर्व्याप्तं यज्ञमुमेतन प्राप्नुत प्रवर्तयेतेत्यर्थः। इमं पशुं पाशाब्दन्धनरज्ज्वा यज्ञे प्रमुञचत यज्ञपतिं च बन्धनजन्याद्दोषात्परिमुञ्चत। अनेन मन्त्रेणाध्वर्युयजमानौ वपाश्रपणहेतुभ्यां काष्ठनिर्मिताभ्यामेकशूलाद्विशूलाभ्यां युक्तौ सन्तौ शामित्रदेशं समागच्छतः।

कल्पः -पशोः पाशं प्रमुञ्चत्यदितिः पाशं प्रमुमोक्त्वेतमिति॔ इति। पाठस्तु-

अदिति पाशमिति। अतितिः पृथिवी पशोरेतं पाशं प्रमुञ्चतु। अहं च पशुभ्यः पशुपतयै च मदपराधनिवृत्त्यर्थं नमस्करोमि।

कल्पः – 'यद्यभिचेरदरातीयन्तमधरं कृणोमि यं द्विष्मस्तस्मिन्प्रतिमुञ्चामि पाश-मिति तया वृक्षं स्थाणुं स्तम्भं वाऽपिदध्यात्' इति। पाठस्तु-

अरातीयमिति। यः पुरुषोऽस्माकमरातित्वं कर्तुमिच्छति तमध्वरं मत्तोऽवरं करोमि। यस्त्विदानीमरातित्वं नेच्छति तथाऽपि कालान्तरे तत्संभावनया वयमिदानीं तं द्विष्मः। तस्मिन्पुरुषे पाशमिमं प्रतिमुञ्चामि। जनया रशनया तं बध्नामीत्यर्थः।

कल्पः – त्वामुदते दधिरे हव्यवाहमिति स्रुवेण वपामभिजुहोति, इति। पाठस्तु-

त्वामु त इति। हेऽग्ने दैवेभिरिन्वितमिति पूर्वोक्ता ये देवास्ते त्वां दधिरे त्वामेव कार्यकरत्वेन निश्चितवन्तः। कीदृशं त्वां, हव्यवाहं देवनान्प्रति हविषो वोढारं शृत कर्तारमार्द्रकं हविः पक्कं कुर्वन्तम्। अपि च यज्ञियं यज्ञसंपादनार्हम्। हे जातवेदो हि यस्मात्त्वं सतर्नुदृढशरीरो भूत्वा सदक्षः सोत्साहोऽथ तस्मात्कारणाद्धवा जुषस्व हवींषि वोढुं प्रीतियुस्त्रो भव।

कल्पः-' जातवेदो वपया गच्छ देवानिति वषट्कृते हुत्वा 'इति।

पाठस्तु-

जातवेद इति। हे जातवेदस्त्वं वपया सह देवान्गच्छ। हि यस्मात्तवं प्रथमो होता बभूथ मनुष्यहोतुः पूर्वभावी बभूविथ तस्मात्त्वं घृतेन देवानां तनूर्वर्धयस्व। ते च देवाः स्वाहाकारेण समर्पितमिदं हविर्भक्षयन्तु।

कल्पः- 'स्वाहा देवेभ्य इति पूर्वं परिवप्यं हुत्वा' इति 'देवभ्यः स्वाहेत्युत्तरं परिवप्यं हुत्वा' इति च। पाठस्तु-

स्वाहा देवेभ्य इति। ये देवाः पुरस्तात्स्वाहाकारास्तेभ्य इदमाज्यं वपाहोमात्पूर्वं स्वाहाकृतनस्तु। तस्य च होमस्य वपाहोमाङ्गत्वाद्वप्यत्वम्। ये तु देवा उपरिष्टात्स्वाहा-कारास्तेभ्यो वपाहोमादूर्ध्वमिदमाज्यं हुतमस्तु। वपाया उभयपार्श्वस्थितानां स्वाहाकारेण वपासामिप्यविच्छेदो मा भूदिति। स्वाहाकारस्य पुरस्तादुपरिष्टाच्च प्रयोगः। अत्र विनियोगसंग्रहः-

प्रजापतेरिति द्वाभ्यां स्यादुपाकरणं पशोः।

प्रजा पञ्च जुहोत्यग्नौ नाना तन्नयने जपेत्॥

यत्पशुर्मृतहोमः स्याच्छमिता गच्छतः पशुम्।

अध्वर्युयजमानौ द्वावपि पाशप्रयोचनम्॥

अरा वृक्षादिषु ज्ञेयं त्वां जुहोति वपोपरि।

जा वपाहुरिरेतस्याः स्वाहा इत्यभितो हुतिः॥

अनुवाके चतुर्थेऽस्मिन्मन्त्राः षोडश वर्णिताः॥

अत्र मीमांसा।

नवमाध्यायस्य तृतीयपादे चिन्तितम्-

पाशं पाशान्द्वयोः पश्वारेको मन्त्रोऽथवा द्वयम्।

एकत्वे च द्वयत्वे किमेकस्योहोऽथवा द्वयोः॥

एकेनैव कृतार्थत्वादेको मन्त्रस्तदाऽपि च।

अविकारेण बह्वर्थ एकार्थासमवायतः॥

प्राकृतत्वादुभावूह्यावे (ह्य ए) कार्थोऽत्र विवक्षया।

बह्वर्थोऽप्यूहनीयोऽत्र द्वयोः शक्तेरक्लृप्तितः॥

ज्योतिष्टोमेऽग्नीषोमीयपशावेकमचनान्तबहुवचनान्तौ द्वौ पाशमन्त्रौ भिन्नयोः शाखयोराम्नतौ 'अदितिः पाशं प्रमुमोक्त्वेतम्' इत्येकत्र। 'पाशान्प्रमुमोक्त्वेतान्' इत्यपरत्र। तावुभौ पशुद्वयोपेतायां विकृतौ चोदकेनातिदिष्टौ सा च विकृतिरेवमाम्नायते- 'मैत्र श्वेतमालमेत वारुणं कृष्णमपां चौषधीनां च संधावन्नकामः' इति। तत्रैकेनैव मन्त्रेण चरितार्थत्वान्न द्वयोरतिदेश इत्याद्यः पक्षः। तदाऽप्यविकृतस्य प्रयोक्तुं शक्यत्वाद्बहुवचनान्तो मन्त्रो युक्तः। प्रकृतावेकस्मिन्पशावसमवेतार्थतया बहुवचनस्य विकृतावनूहनीयत्वादित्येकः पक्षः। तादृग्वहुवचनोपेतत्वादेव मन्त्रोऽप्यसावसमवेतार्थः प्रकृतौ भवति। एकवचनान्तस्तु मन्त्रः प्रकृतौ समवेतार्थत्वाद्विकृतावतिदिश्यताम्। स च द्विवचनान्तत्वेनोहनीय इति पक्षान्तरम्। प्रकृतौ विद्यमानयोरुभयोर्मन्त्रयोर्विकृतावतिदेशस्य वारयितुमशक्यत्वादेकमम्त्रपक्षस्यावा-न्तरत्वेनोपन्यस्तावुभावपि पक्षावयुक्तौ। मन्त्र द्वयातिदेशपक्षे त्वेकवचनान्तः प्रकृतौ समवेतार्थतया विकृतावूहनीयः। बहुवचनान्तो यथास्थित एव पठनीय इति पूर्वपक्षः। लोके वेदे वा बहुवचनस्य द्वयोरर्थयोरक्लॄप्तशक्तित्वाद्द्विवचनान्ततया सोऽष्यूहनीय इति सिद्धान्तः। तत्रैवान्यच्चिन्तितम्-

उत्कृष्टव्यो न वा मन्त्रो बह्वर्थोऽसंगतत्वतः।

उत्कृर्षो न विकल्पोऽसौ गुणे त्वन्याय्यकल्पना॥

योऽयं पूर्वत्रोदाहृतो बहुवचनान्चः पाशमन्त्रस्तस्य प्रकरणादुत्कर्षौ बहुपाशयुक्तेषु पशुगणेषु कर्तव्यः। कुतः। एकस्मिन्पशौ प्रकृते तस्यानन्वितत्वादिति चेत्। नासावुत्क्रष्टव्यः किंत्वेकवचनान्तेन मन्त्रेण सह विकल्पनीयः। न हि पाशानित्यत्र प्रधानस्यांशस्यानन्वितत्वमस्ति । प्रातिपदिकविभक्त्योः प्रातिपदिकं प्रधानं धर्मिवाचकत्वात्। विभक्तिस्तु कर्मत्वकरणत्वादिधर्मवाचकत्वाद्गुणभूता। तथा विभक्तिवचनयोर्विभक्तेः कर्मादिकारकवाचित्वाप्राधान्यं वचनस्य कारकगतसंख्या-भिधायित्वाद्गुणत्वम्। तथा सति बहुवचनान्तपाशशब्दे प्रातिपदिकं कर्मकारकविभ-क्तिश्चैकस्मिन्नपि पाशे संगच्छेते। गुणभूते तु बहुवचने लक्षणा वृत्तिः कल्पनीया, पाशावयवगतं बहुत्वं लक्ष्यत इति। तस्माद्गुणभूतं वचनमात्रमनुसृत्य कृत्स्नस्य मन्त्रस्य प्रकरणपाठो न बाधनीयः, किंतु प्रधानानुसारेण मन्त्रयोः समानबलत्वाद्विकल्पः कर्तव्यः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे प्रथमप्रपाठके

चतुर्थोऽनुवाकः॥४॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ पशोरुपाकरणमन्त्रौ - प्रजापतेर्जायमाना इति द्वौ ॥ तत्र प्रथमोनुष्टुप्, द्वितीयस्त्रिष्टुप् । तत्र 'प्राजापत्या वै पशवस्तेषां रुद्रोधिपतिः' इति सर्वाः प्रजाः प्राजापत्याः प्रजापतेरपत्यानि । रुद्रस्तु तासामधिपतिः । तत एव ताभ्यां मन्त्राभ्यां पशुं प्रति प्रवेदयति आत्मनोनपराधाय । मन्त्रार्थस्तु - जायमानाः जाताश्च या इमास्तास्सर्वाः प्रजापतेः प्रजाः अपत्यानि । तस्मात्तस्मै प्रजापतये प्रजानामुत्पादयित्रे प्रतिप्रवेदय प्रतिबोधय । हे पशो स चिकित्वान् एतज्ज्ञातवान् अनुमन्यतां त्वदालम्भनमनुजानातु । यद्वा - चिकित्वान् सर्वार्थज्ञः । कित ज्ञाने, छान्दसस्य लिटः क्वसुरादेशः, 'दीर्घादटि समानपादे' इति रुत्वम् ॥
2 अथ द्वितीयः - अत्र प्रत्यक्षवदुच्यते - हे पशुपते पशूनां स्वामिन् ते तव स्वभूतमिमं पशुं अद्येदानीं सुकृतस्यास्य कर्मणो मध्ये स्थाने बध्नामि । सूपमानात्कृदुत्तरपदान्तोदात्तत्वम् । हे अग्ने अग्निरूपेण स्थित भगवन् तदनुमन्यस्य अनुजानीहि । सुयजा सुष्ठु यष्ट्रा शोभनयागहेतुना । यजेर्विच् । अनेन पशुना देवान् यजाम । जुष्टं प्रियं देवानामिदं हव्यं हविरस्तु । 'नित्यं मन्त्रे' इति जुष्टशब्दः आद्युदात्तः । हवमर्हतीति दण्डादित्वात् यः । त्वया ह्ययमनुमतः सुयट् स्यात् । तथा च सति [इदं हव्यं देवानां प्रियं भवेदिति भावः] ॥
3 जुहोति - प्रजानन्त इति पञ्चभिः ॥ तत्र प्रथमा त्रिष्टुप् । प्रजानन्तः देवाः पर्याचरन्तं परितः सर्वतो निष्क्रम्य आचरन्तं आभिमुख्येन गच्छन्तं तव प्राणं आत्मानं प्रतिगृह्णन्तु । ततः स्वर्गं

लोकं याहि गच्छ पथिभिर्देवयानैः देवा यैर्यान्ति तैः पथिभिः ओषधीषु शरीरैः शरीरावयवैः यज्ञार्थमोषध्यात्मना प्रतितिष्ठ प्रतिष्ठितो वर्तस्व । 'द्व्यचोतस्तिङः' इति दीर्घत्वम् ॥

4 अथ द्वितीया - येषामिति त्रिष्टुप् ॥ येषां पशूनामीशे ईष्टे पशुपतिः । 'लोपस्त आत्मनेपदेषु' इति तलोपः । चतुष्पदां गवादीनां उत च अपि च द्विपदां मनुष्यादीनां च येषामीष्टे । 'संख्यासुपूर्वस्य' इति पादशब्दस्य लोपः, 'पादः पत्' इति पद्भावः, 'द्वित्रिभ्यां पद्दन्' इति द्विपदामित्यस्योत्तरपदान्तोदात्तत्वम् । तेभ्यो निष्क्रीतः निष्कृष्य परिगृहीतः अयं पशुः यज्ञियं यज्ञार्हं भागं एतु गच्छतु यज्ञभागतां प्रतिपद्यताम् । यद्वा - पशुपतेस्स्वभूतेभ्यः पशुभ्यो निष्क्रीतोयं निष्कृष्य क्रीतः यज्ञभुजां स्वभूतो भवतु । 'यज्ञर्त्विग्भ्याम्' इति घः । किं च - रायो धनस्य पशुलक्षणस्य पोषाः पुष्टयः यजमानस्य सन्तु, माऽपक्रमिषुः अस्मात्पशवः । 'ऊडिदम्' इति रायष्षष्ठ्या उदात्तत्वम्, 'षष्ठ्याः पति पुत्र' इति सत्वम् ॥
5 अथ तृतीया - ये बद्ध्यमानमनु बद्ध्यमाना इति त्रिष्टुप् ॥ ये बध्यमानमिमं पशुं अनुबध्यमानाः हृदयेनानुरज्यमानाः अभ्यैक्षन्त आभिमुख्येन पश्यन्ति मनसा चक्षुषा च न जहति स्नेहानुषङ्गात् कारुण्याद्वा । छान्दसो लङ् । तान् सर्वान् अग्निर्देवः अग्रे प्रथमं प्रमुमोक्तु प्रमुञ्चतु ततो मानसाद्दुःखात् । मुचेः छान्दसश्शपश्श्लुः । प्रजापतिः प्रजानां पतिश्च ततस्तान् मुञ्चतु प्रजया ऐकमत्यं गत इत्यर्थः । 'समो गमृच्छि' इत्यात्मनेपदम् ॥
6 अथ चतुर्थी - य आरण्या इति त्रिष्टुप् ॥ ये आरण्याः अरण्ये भवाः पशवः विश्वरूपाः सर्वरूपान्विताः विरूपाः विविधरूपाः । एवं बहुधा सन्तोपि एकरूपाः एकस्वभावाः नियतैकस्वभावाः अत एवेमं पशुं बध्यमानं अनुबध्यमाना मनसा चक्षुषा चाभ्यैक्षन्त । तान् सर्वान्वायुर्देवः प्रमुमोक्तु वायुरारण्यानां पशूनामधिपतिरिति भावः । शेषं समानम् । एतेन होमेन सर्वे पशवः तृप्ता भवन्त्विति ॥
7 अथ पञ्चमी - प्रमुञ्चमाना इति त्रिष्टुप् ॥ प्रमुञ्चमानाः इमं पशुं त्यक्त्वा गच्छन्तः यूयं भुवनस्य भूतजातस्य रेतः कारणं यागद्वारेणोत्पत्तिहेतुं हे देवाः प्राणाः एतस्य हन्यमानस्य पशोः यूयं यजमानाय गातुं गतिं धत्त दत्त पुण्यान् लोकान् गन्तुं मार्गं कुरुत । यद्वा - यजमानाय गातुं गमनं यजमानेन संगतिं धत्त कुरुत वधादवध्यमानं मा कार्ष्ट । किं च – उपाकृतमिमं पशुं शशमानं संगच्छत् सर्वानवयवान् व्याप्नुवत् । शशप्लुतगतौ उदात्तेत्, ताच्छीलिकश्चानश् । अत एव लसार्वधातुकानुदात्तत्वाभावः । यदत्र पशौ अस्थात् तिष्ठति तत्सर्वं पाथः अन्नं मांसलक्षणं देवानां जीवं प्राणं अप्येतु अनु प्रविशतु । एतदुक्तं भवति - पशोरस्य हन्यमानस्य प्राणाः यजमानस्येष्टावाप्तिहेतवः सन्तु, मांसं तु देवतानां स्थितये भवत्विति । तिष्ठतेश्छान्दसो लुङ्, गातिस्थ' इति सिचो लुक् ॥
8 पशुं नीयमानमभिमन्त्रयते - नानेति त्रिष्टुभा ॥ नाना पृथ ग्भूतः पशुना पशुप्राणेन यजमानस्य प्राणः तेन तदन्वारम्भदोषाभावः । 'मृत्यवे वा एष नीयते' इत्यादि ब्राह्मणम् । यज्ञश्च देवेभिः देवैः पशुप्राणैस्सह देवयानः देवान् गन्ता देवानां जीवमप्येतु । पाथः पशुशरीरलक्षणमन्नं च देवानां जीवमप्येतु । ततश्च सत्या अवितथा यजमानस्य कामास्सन्तु ॥
9 संज्ञप्ते संज्ञप्तहोमं जुहोति - यत्पशुरित्यनुष्टुभा ॥ अकृतेति प्रथमपादान्तः । मायुः दुःखहेतुकश्शब्दः । पद्भिश्च उरआहननं दुःखेन शब्दादिचिकीर्षा सर्वस्य पशोर्जायते, अशक्त्या तु शब्दादिकं तत्र न करोति । अत्र शब्दादिकरणेन तन्निमित्तं चिकीर्षा लक्ष्यते, तेन नित्यो विधिः सत्यसति वा शब्दकरणादौ भवति । अयमर्थः - यद्यस्मादुःखात् पशुर्मायुं शब्दं अकृत करोति । छान्दसो लुङ् । यस्माद्वा दुःखादुरः आत्मीयं पद्भिराहते आहन्ति अभिपीडयति एतदुभयं चिकीर्षति, तस्मात्तादृशदुःखोपादानप्रभवात् एनसः पापात् विश्वात् विश्वस्मात् । छान्दसः स्मादादेशाभावः । अंहसः पापतमात् । पुनश्श्रुत्या अतिशयो गम्यते । ईदृशात्पापादग्निर्मा मुञ्चतु ॥
10 वपाश्रपणीभ्यां पशुमुपेतोऽध्वर्युर्यजमानश्च - शमितार इत्यनुष्टुभा । 'उपेतन' इति प्रथमपादान्तः ॥ हे शमितारः शमयितारः संस्कर्तारः । ण्यन्तात्तृचि 'शमिता यज्ञे' इति णिलोपो निपात्यते, आमन्त्रिताद्युदात्तत्वम् । उपेतन उपगच्छत यज्ञं प्रवर्तयतेति यावत् । एतेर्लोटि 'तप्तनप्तनधनाश्च' इति तस्य तनबादेशः, पित्त्वेन कित्त्वाभावाद्गुणः, एङि पररूपत्वम्, 'एत्ये धत्यूट्सु' इति वृद्धिर्व्यत्ययेन न प्रवर्तते, 'चादिलोपे विभाषा' इति निघाताभावः । अमन्त्रितस्याविद्यमानत्वात् आख्यातं न निहन्यते इति केचित् । उपसर्गस्य तिङन्तेऽनुप्रवेशात् धातोरुदात्तत्वे 'तिङि चोदात्तवति' इति गतेरनुदात्तत्वं, 'उदात्तवता तिङा' इति समासः । यज्ञो विशेष्यते - देवेभिः देवैः इन्वितं व्याप्तम् । इवि व्याप्तौ, इदित्त्वान्नुम् । किं च - इमं पशुं पाशात् प्रमुञ्चत, यज्ञपतिं यजमानं च बन्धात् सर्वस्मादृणबन्धात् परिमुञ्चत सर्वतो मुञ्चत ॥
11 -12पाशान्मुच्यमानं तमनुमन्त्रयते - अदितिरिति द्वाभ्यां जगतीत्रिष्टुभ्भ्यां द्विपदाभ्याम् ॥ अदितिः अदीना पृथिवी देवमाता वा एतं पाशं प्रमुमोक्तु । पूर्ववच्छपश्श्लुः । पशुभ्यः पशुपतये च नमः करोमि नमस्करोमि अपराधनिवृत्त्यर्थम् । किंच – अरातीयन्तं अस्माकमरातित्वं कर्तुमिच्छन्तं, अरातिमिवाचरन्तं वा । व्यत्ययेन परस्मैपदम् । अधरं मत्तो न्यूनं करोमि अस्माभिरविदितं गूढषत्रुं अनेन बद्ध्वा निपातयामीति । अथ यं च वयं द्विष्मः यः प्रकाशोस्माभिर्विदितः अस्माकं शत्रुः तस्मिन्नेतं पाशं प्रतिमुञ्चामीति सोनेन बद्धो म्रियतामिति ॥
13 वपामभिजुहोति - त्वामु त इति त्रिष्टुभा ॥ उ इत्यवधारणे । ते देवाः, देवेभिरिन्वितमित्यत्र प्रकृतत्वात् । त्वामेव हव्यवाहं हविषां वोढारं दधिरे धारयामासुः कृतवन्त इत्यर्थः । वहतेर्ण्विः । शृतंकर्तारं शृतं पक्वं हविः कुर्वन्तम् । 'नित्यं पक्वहविषोः' इति शृभावः, पूर्वपदस्य मुमागमश्छान्दसः । उत अपि च यज्ञियं यज्ञसंपादनार्हं । 'यज्ञर्त्विग्भ्याम्' इति घः । हि यस्मादेवं तस्मात् अथेदानीमेव हे अग्ने सदक्षः सोत्साहः । दक्ष शैघ्र्ये । सतनुः सशरीरः दृढशरीरश्च भूत्वा हे जातवेदः जातप्रज्ञ जातानां वा वेदितः त्वमेवेदं कर्तुमर्हसि । तस्माद्धव्या हव्यानि जुषस्व ध्रियस्व तानि वोढुम् । 'शेश्छन्दसि' इति शिलोपः । जातानि वेत्तीति 'गतिकारकयोरपि' इत्यसुन् ॥
14 वपां जुहोति - जातवेद इति त्रिष्टुभा ॥ हे जातवेदः वपया देवान् गच्छ वपासारं गृहीत्वा देवसकाशं गच्छ । कस्मादेवमुच्यते? इति चेत् - त्वं हि होता प्रथमः अस्मान्मनुष्यहोतुः पूर्वो बभूथ तस्मादेवं ब्रूमः । तस्मात्तादृशस्त्वं घृतेन तनुवः तनूः देवानां वर्धयस्व । ते च देवाः वर्धिततनवः स्वाहाकृतं स्वाहाकारेण हुतमिदं हविरदन्तु । यद्वा - स त्वं घृतेन तनुवः आत्मीयाः वर्धयस्व । किमर्थम्? स्वाहाकृतं हविर्देवा अदन्तु तदर्थं त्वयि हि वर्धमानतनौ देवा हविरत्तुं प्रभवन्तीति । 'तन्वादीनां छन्दसि बहुलम्' इति तनोरुवङादेशः । वृरण्यन्तस्य अचित्तवत्कर्तृकत्वात् ण्यन्तात् 'अणावकर्मकात्' इति परस्मैपदाभावः । स्वाहाशब्दस्योर्यादित्वेन गतित्वात् 'गतिरनन्तरः' इति प्रकृतिस्वरत्वम्, निपाता आद्युदात्ताः ॥
15 पूर्वं परिवप्यं जुहोति - स्वाहा देवेभ्य इति यजुषा ॥ स्वाहा हुतमिदमस्तु देवेभ्यः पुरस्तात्स्वाहाकृतिभ्य इति ॥
16 उत्तरं जुहोति - देवेभ्यस्स्वाहेति यजुषैव ॥ देवेम्यः उपरिष्टात्स्वाहाकृतिभ्यः स्वाहुतमस्त्विति । 'पुरस्तात्स्वाहाकृतयो वा अन्ये देवाः' इत्यादि ब्राह्मणम् । तत्राभितो वपाया होमः स परितो वपां भवः परिवप्यः । द्वावप्येतौ एकार्थावेव मन्त्रौ । तत्र वपा भागिभिः अव्यवहितान् देवान् प्रतिपादयितुं प्रथमस्वाहाकारादिरभूत्, द्वितीयास्वाहाकारान्ता स्वाहाकारेण व्यवधानं मा भूदिति ॥
इति तृतीये प्रथमे चतुर्थोनुवाकः ॥
पञ्चशत् 2 #
TS 3.1.4.2 TS 3.1.4.2
पशु॒पतिः॑ पशू॒नां चतु॑ष्पदामु॒त च॑ द्वि॒पदां᳚ । निष्क्री॑तो॒ऽयं ॅय॒ज्ञियं॑ भा॒गमे॑तु रा॒यस्पोषा॒ यज॑मानस्य सन्तु ॥ ये ब॒द्ध्यमा॑न॒मनु॑ ब॒द्ध्यमा॑ना अ॒भ्यैक्ष॑न्त॒ मन॑सा॒ चक्षु॑षा च । अ॒ग्निस्ताꣳ अग्रे॒ प्रमु॑मोक्तु दे॒वः प्र॒जाप॑तिः प्र॒जया॑ संॅविदा॒नः ॥ य आ॑र॒ण्याः प॒शवो॑ वि॒श्वरू॑पा॒ विरू॑पाः॒ सन्तो॑ बहु॒धैक॑रूपाः । वा॒युस्ताꣳ अग्रे॒ प्रमु॑मोक्तु दे॒वः प्र॒जाप॑तिः प्र॒जया॑ संॅविदा॒नः ॥ प्र॒मु॒ञ्चमा॑ना॒ - [ ]
पदपाठः (Word-by-word)
प॒श॒पति॒रिति॑ पशु-पतिः॑ । प॒शू॒नाम् । चतु॑ष्पदा॒मिति॒ चतुः॑ - प॒दा॒म् । उ॒त । च॒ । द्वि॒पदा॒मिति॑ द्वि - पदा᳚म् ॥ निष्क्री॑त॒ इति॒ निः - क्री॒तः॒ । अ॒यम् । य॒ज्ञिय᳚म् । भा॒गम् । ए॒तु॒ । रा॒यः । पोषाः᳚ । यज॑मानस्य । स॒न्तु॒ ॥ ये । ब॒द्ध्यमा॑नम् । अन्विति॑ । ब॒द्ध्यमा॑नाः । अ॒भ्यैक्ष॒न्तेत्य॑भि - ऐक्ष॑न्त । मन॑सा । चक्षु॑षा । च॒ ॥ अ॒ग्निः । तान् । अग्रे᳚ । प्रेति॑ । मु॒मो॒क्तु॒ । दे॒वः । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । प्र॒जयेति॑ प्र - जया᳚ । सं॒ॅवि॒दा॒न इति॑ सं-वि॒दा॒नः ॥ ये । आ॒र॒ण्याः । प॒शवः॑ । वि॒श्वरू॑पा॒ इति॑ वि॒श्व - रू॒पाः॒ । विरू॑पा॒ इति॒ वि-रू॒पाः॒ । सन्तः॑ । ब॒हु॒धेति॑ बहु - धा । एक॑रूपा॒ इत्येक॑ - रू॒पाः॒ ॥ वा॒युः । तान् । अग्रे᳚ । प्रेति॑ । मु॒मो॒क्तु॒ । दे॒वः । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । प्र॒जयेति॑ प्र - जया᳚ । सं॒ॅवि॒दा॒न इति॑ सं - वि॒दा॒नः ॥ प्र॒मु॒ञ्चमा॑ना॒ इति॑ प्र - मु॒ञ्चमा॑नाः ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 3.1.4.3 TS 3.1.4.3
भुव॑नस्य॒ रेतो॑ गा॒तुं ध॑त्त॒ यज॑मानाय देवाः । उ॒पाकृ॑तꣳ शशमा॒नं ॅयदस्था᳚ज्जी॒वं दे॒वाना॒मप्ये॑तु॒ पाथः॑ ॥ नाना᳚ प्रा॒णो यज॑मानस्य प॒शुना॑ य॒ज्ञो दे॒वेभिः॑ स॒ह दे॑व॒यानः॑ । जी॒वं दे॒वाना॒मप्ये॑तु॒ पाथः॑ स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः᳚ ॥ यत् प॒शुर्मा॒युमकृ॒तोरो॑ वा प॒द्भिरा॑ह॒ते । अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ विश्वा᳚न् मुञ्च॒त्वꣳह॑सः ॥ शमि॑तार उ॒पेत॑न य॒ज्ञ्ं - [ ]
पदपाठः (Word-by-word)
भुव॑नस्य । रेतः॑ । गा॒तुम् । ध॒त्त॒ । यज॑मानाय । दे॒वाः॒ ॥ उ॒पाकृ॑त॒मित्यु॑प-आकृ॑तम् । श॒श॒मा॒नम् । यत् । अस्था᳚त् । जी॒वम् । दे॒वाना᳚म् । अपीति॑ । ए॒तु॒ । पाथः॑ ॥ नाना᳚ । प्रा॒ण इति॑ प्र - अ॒नः । यज॑मानस्य । प॒शुना᳚ । य॒ज्ञ्ः । दे॒वेभिः॑ । स॒ह । दे॒व॒यान॒ इति॑ देव - यानः॑ ॥ जी॒वम् । दे॒वाना᳚म् । अपीति॑ । ए॒तु॒ । पाथः॑ । स॒त्याः । स॒न्तु॒ । यज॑मानस्य । कामाः᳚ ॥ यत् । प॒शुः । मा॒युम् । अकृ॑त । उरः॑ । वा॒ । प॒द्भिरिति॑ पत् - भिः । आ॒ह॒त इत्या᳚ - ह॒ते ॥ अ॒ग्निः । मा॒ । तस्मा᳚त् । एन॑सः । विश्वा᳚त् । मु॒ञ्च॒तु॒ । अꣳह॑सः ॥ शमि॑तारः । उ॒पेत॒नेत्यु॑प - एत॑न । य॒ज्ञ्म् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 3.1.4.4 TS 3.1.4.4
दे॒वेभि॑रिन्वि॒तं । पाशा᳚त् प॒शुं प्रमु॑ञ्चत ब॒न्धाद्य॒ज्ञ्प॑तिं॒ परि॑ ॥ अदि॑तिः॒ पाशं॒ प्रमु॑मोक्त्वे॒तं नमः॑ प॒शुभ्यः॑ पशु॒पत॑ये करोमि ॥ अ॒रा॒ती॒यन्त॒-मध॑रं कृणोमि॒ यं द्वि॒ष्मस्तस्मि॒न् प्रति॑ मुञ्चामि॒ पाशं᳚ ॥ त्वामु॒ ते द॑धिरे हव्य॒वाहꣳ॑ शृतंक॒र्तार॑मु॒त य॒ज्ञियं॑ च । अग्ने॒ सद॑क्षः॒ सत॑नु॒र्॒.हि भू॒त्वाऽथ॑ ह॒व्या जा॑तवेदो जुषस्व ॥ जात॑वेदो व॒पया॑ गच्छ दे॒वान्त्वꣳ ( ) हि होता᳚ प्रथ॒मो ब॒भूथ॑ । घृ॒तेन॒ त्वं त॒नुवो॑ वर्द्धयस्व॒ स्वाहा॑कृतꣳ ह॒विर॑दन्तु दे॒वाः ॥ स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्यः॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
दे॒वेभिः॑ । इ॒न्वि॒तम् ॥ पाशा᳚त् । प॒शुम् । प्रेति॑ । मु॒ञ्च॒त॒ । ब॒न्धात् । य॒ज्ञ्प॑ति॒मिति॑ य॒ज्ञ् - प॒ति॒म् । परि॑ ॥ अदि॑तिः । पाश᳚म् । प्रेति॑ । मु॒मो॒क्तु॒ । ए॒तम् । नमः॑ । प॒शुभ्य॒ इति॑ प॒शु - भ्यः॒ । प॒शु॒पत॑य॒ इति॑ पशु - पत॑ये । क॒रो॒मि॒ ॥ अ॒रा॒ती॒यन्त᳚म् । अध॑रम् । कृ॒णो॒मि॒ । यम् । द्वि॒ष्मः । तस्मिन्न्॑ । प्रतीति॑ । मु॒ञ्चा॒मि॒ । पाश᳚म् ॥ त्वाम् । उ॒ । ते । द॒धि॒रे॒ । ह॒व्य॒वाह॒मिति॑ हव्य - वाह᳚म् । शृ॒त॒कं॒र्तार॒मिति॑ शृतं - क॒र्तार᳚म् । उ॒त । य॒ज्ञिय᳚म् । च॒ ॥ अग्ने᳚ । सद॑क्ष॒ इति॒ स - द॒क्षः॒ । सत॑नु॒रिति॒ स-त॒नुः॒ । हि । भू॒त्वा । अथ॑ । ह॒व्या । जा॒त॒वे॒द॒ इति॑ जात - वे॒दः॒ । जु॒ष॒स्व॒ ॥ जात॑वेद॒ इति॒ जात॑ - वे॒दः॒ । व॒पया᳚ । ग॒च्छ॒ । दे॒वान् । त्वम् ( ) । हि । होता᳚ । प्र॒थ॒मः । ब॒भूथ॑ ॥ घृ॒तेन॑ । त्वम् । त॒नुवः॑ । व॒द्‌र्ध॒य॒स्व॒ । स्वाहा॑कृत॒मिति॒ स्वाहा᳚ - कृ॒त॒म् । ह॒विः । अ॒द॒न्तु॒ । दे॒वाः ॥ स्वाहा᳚ । दे॒वेभ्यः॑ । दे॒वेभ्यः॑ । स्वाहा᳚ ॥
पदसंख्या: 66