पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ तृतीयकाण्डे प्रथमप्रपाठके सप्तमोऽनुवाकः)
आग्नीध्रस्पर्शनाद्यर्था मन्त्राः षष्ठ उदीरिताः।
अथ सप्तमे परस्परमात्सर्येण प्रवृत्तयोर्यजमानयोः कश्चिननैमित्तिकः प्रयोगो वक्तव्यः। तत्राऽऽदौ तावदेकं नित्यप्रयोगं विधत्ते-
इष्टर्गो वा इति। इष्टं कायमृच्छति प्रमादालस्यादिना विनाशयतीतीष्टर्गोऽ–ध्वर्युर्यजमानस्येष्टर्यो वै यागविधानेषु प्रमादादेर्निवारयितुमशक्यत्वात्तादृशोऽध्वर्युर-र्ष्टुर्यज्ञविनाशेनाऽऽर्तिं गच्छतो यजमानात्पूर्वः क्षीयते स्वयं प्रथमत एव विनश्यति। तस्य स्वविनाशस्य परिहारागाऽऽसन्यादित्यादिमन्त्रेण होतृसंबन्धिनः प्रातरनुवाक-पाठात्पुराऽऽज्यमध्वर्युराग्नीध्रे जुहुयात्। तेन होमेनाध्वर्युरात्मार्थं प्रथमं शर्म नह्यते सुखं बध्नाति। तच्च यजमानस्यानार्त्यै संपद्यते। मन्त्रस्यायमर्थः- आसन्याद्वैरिणामास्ये भवान्मन्त्रादभिचाररूपान्मां पाहि हे देव मां पालय। तथा कस्याश्चिदभिशस्त्याः सर्वस्मादप्यपवादान्मां पाहीति।
मात्सर्येण सोमयागं कुर्वतोर्द्वयोर्यजमानयोरासन्यमन्त्रस्थाने मन्त्रान्तराणि पञ्च दर्शयति।
संवेशायेति। संवेशः शयनम्। उपवेश आसनम्। मम विश्रम्भेण तदुभयसिद्ध-यर्थं गायत्र्या (अ) भिभूत्यै गायत्रीकर्तृकवैर्यभिभवार्थं च हेऽग्ने त्वां प्रति स्वाहुतमिद-मस्तु। गायत्र्या इति पदादूर्ध्वमभिभूत्यै स्वाहेति पदद्वयस्यानुषङ्गः। त्रिष्टुभ इति पदस्य संवेशायेत्यादिः पूर्वानुषङ्गः। अभिभूत्यै स्वाहेत्युत्तरानुषङ्ग। जगत्या इति पदस्य संवेशायेत्यादिः पूर्वानुषङ्ग। एवमेते त्रयो मन्त्राः। हे प्राणापानौ भृत्योः सकाशान्मां पातम्। सोऽयं चतुर्थो मन्त्रः। हे प्राणापानौ मां कदाचिदपि मा हासिष्ठं मा परित्यजतम्। सोऽयं पञ्चमो मन्त्रः। अत्रोभयत्र स्वाहेत्यनुषज्यते। एतैषां मन्त्राणां ब्राह्मणमुच्यते-
देवतासु वा इति। येषां यजमानानां सोमयागः समृच्छते मात्सर्येण संभूय प्रवर्ततै। एते यजमाना देवताविषये प्राणापानविषये च व्यायच्छन्ते विप्रतिपद्य-न्ते। एतद्देवतादिकं ममैवास्तु नान्यस्येत्येको मन्यते। अपरोऽपि तथेति विप्रतिपत्तिः। तस्यां विप्रतिपत्तौ सत्यां संवेशायेत्यादिभिः पञ्चभिर्मन्त्रैः प्रातररनुवाकात्पुराऽऽग्नीध्रे जुहुयात्। तत्र विश्रम्भपूर्वकयोः शयनासनयोर्वाचकाभ्यां संवेशोपवेशशब्दाभ्यां तत्कारणीभूतानि गायत्र्यादिच्छन्दांस्युपलक्ष्यन्ते। तथा सति यः संवेशादिमन्त्रैर्जुहोति अस्य यज्ञे प्रवृत्तैच्छोभिः प्रतिस्पर्धियज्ञगतानि च्छन्दांसि विनाशितानि भवन्ति। ततो देवतानां प्राणापानयोश्च स्वाधीनत्वात्स्वयं निरुपद्रवः सुखेन संवेष्टुमुपवेष्टुं च प्रभुर्भवति।
प्रेतिवन्तीति। प्रकृष्टा गतिः प्रेतिः सा येष्वाज्यस्तोत्रेषु विद्यते तानि प्रेतिवन्ति। तादृशान्याज्यस्तोत्राण्युद्गातृभिरनुष्ठेयानि भवन्ति। तानि चाभिजयाय संपद्यन्ते। मात्सर्यनिमित्तं विहाय नित्यप्रयोगेऽग्न आयाहि वीतय इत्यादीन्याज्यस्तोत्राणि। मात्सर्यप्रवृत्तरूपे त्वस्मिन्संसवे प्र वो वाजा इत्यादीन्याज्यस्तोत्राणि। तत्र गतिप्रकर्षवाचिनः प्रशब्दस्य विद्यमानत्वादेतानि प्रेतिवन्तीत्युच्यन्ते। ननु ब्राह्मणग्रन्थ एकैको वै जनतायामिन्द्र इत्यस्मिन्ननुवाके यौ द्वौ स सुनुत इति द्वयोर्मात्सर्येण प्रवृत्तं संसवशब्दाभिधेयं सोमयागमुपक्रम्यैवमाम्नातम्- 'एतिवन्त्याज्यानि भवन्त्यभिजित्यै' इति। आभिमुख्येन गमनमेतिः सा येष्वाज्येष्वस्ति तान्येतिवन्ति। अग्न आयाहीत्यस्यामृच्या-मागमनस्य प्रतीतत्वात्तदादीन्येतिवन्त्याज्यानि। तान्येव नित्यप्रयोग इवात्रापि विधीयन्त इति चेत्। एवं तर्हि वचनद्वयबलात्प्रेतिवतामेतिवतां चात्र समुच्चयोऽस्तु। नात्र विकल्पः शङ्कनीयोऽपूर्वभेदेन कार्यैकत्वाभावात्। मरुत्वच्छब्दो यास्वृक्ष्वस्ति ता मरुत्वत्यः। प्रतिपद्यन्ते प्रारभ्यन्त आज्यस्तोत्राणि याभिर्ऋग्भिस्ताः प्रतिपदः। उदाहृता मरुत्वत्य आज्यस्तोत्रेषु प्रतिपदा भवन्ति। तच्च विजयाय संपद्यते। नित्यप्रयोगे पृष्ठस्तोत्रे बृहत्साम रथंतरसाम वेत्युभयमिच्छया विकल्प्यते। इह तु संसवे बृहद्रथंतरे समुच्चित कार्ये।
इयं वावेति। बृहृद्रथंतंरे भूलोकादिप्राप्तिहेतूत्वात्तद्रूपेण स्तूयेते। तदुभयं समुच्चित्य प्रयुञ्जान आभ्यां लोकाभ्यामेनं प्रतिस्पर्धिनमन्तेरीत प्रच्युतं करोति। तथा वर्तमानदिनरूपेण भविष्यद्दिनरूपेण च ते स्तूयेते। तथा सत्यद्याश्वाद्दिनद्वयादेनं च्यावयति। तथा भूतभविष्यच्छ्रेयोरूपेण स्तुत्वा ताभ्यां श्रेयोभ्यामेनं च्यावयति। तथा परिमितापरिमितरूपाभ्यामपि श्रेयोभ्यां च्यावयति।
इत्थं द्वयोः संवेशेत्यादिनाऽत्र कर्तव्यमभिधाय हौत्रं कर्तव्यं दर्शयति।
विश्वामित्रेति। आ नो भद्रा इत्येतन्नित्यप्रयोगे वैश्वदेवशस्त्रगतं सूक्तं तस्य स्थाने ममाग्ने वर्चो विहवेष्वस्त्वित्येतत्सूक्तं मात्सर्यग्रस्तः प्रयुञ्जीत। तेन प्रतिस्पर्धिन इन्द्रिय-सामर्थ्यं वृङ्क्ते विनाशयति। यथा जपदग्निर्वसिष्ठस्य वीर्यं तद्वत्। एवमृत्विज एकैकस्य कर्तव्यविशेषमुक्त्वा यजमानस्य कर्तव्यविशेषं दर्शयति-
यस्य भूया स इति। देवतामुद्दिश्य हविस्त्यागमात्रं यज्ञ इत्युच्यते। अङ्गोपाङ्ग-सहितः संपूर्णः ऋतुः। यज्ञश्चासौ क्रतुश्चेति यज्ञक्रतुः। हविस्त्यागसामान्यस्य विद्यमान-त्वाद्यज्ञोऽपि भवति। अङ्गोपाङ्गविशेषसद्भावात्क्रतुरपि भवति। यथा चूतवृक्षः पनस-वृक्ष इति सामान्यविशेषाभ्यां निर्दिश्यते तद्वत्। द्वयोः स्पर्धमानयोर्यजमानयोर्मध्ये यस्य यज्ञक्रतुरङ्गोपाङ्गैर्भूयान्भवति स यजमानः प्रतिस्पर्धिनो देवान्विनाशयति। ततो यदि प्रतिस्पर्धीनो द्वादशस्तोत्रयुक्तोऽग्निष्टोमः परस्तादनुष्ठानसमाप्तौ पर्यवसितो भवेत्तदानीमितरः पञ्चदशस्तोत्रयुक्तमुक्थ्यं कुर्वीत। यदि प्रतिस्पर्धिन उक्थ्यः स्यात्तदानीमितर एकोनत्रिंशत्स्तोत्रयुक्तमतिरात्रं कुर्वीत। एवं सति भूयोभिः स्वकीय-यज्ञक्रतुभिः प्रतिस्पर्धिनो देवता विनाश्य स्वयं वसमत्तमो भवति अत्र विनियोगसंग्रहः-
'आसन्येति पुरा होमः स्यात्प्रातरनुवाकतः।
स्पर्धया सुन्वतः सोमं संवेशाहुतिपञ्चकम्॥
प्रशब्दयुक्तान्याज्यानि मरुत्वत्य उपक्रमे।
नित्यप्रयोगादेतावान्विशेषः स्पर्धया भवेत्'॥
दशमाध्यायस्य षष्ठे पादे चिन्तितम्-
संसवादौ द्वयोरेकं पृष्ठं यद्वा समुच्चितम्।
एकं प्रकृतिवद्विश्वजितीवान्यत्र चेतरत्॥
वचनाद्विश्वजित्येते साम्नी द्वे स्तोत्रयोर्द्वयोः।
नेहास्ति तत्पृष्ठ एव साहित्यं स्यात्पुनर्विधेः॥
इदमाम्नायते- 'संसव उभे कुर्यात, गोसव उभे कुर्यात्, अभिजित्येकाह उभे बृहद्र-थंतरे कुर्यात्' इति। किमत्र बृहद्रथंतरयोरेर्क पृष्ठस्तुतावितरदन्यस्तुतौ स्यात्, किंवा समुच्चितमुभयं पृष्ठ एवेति संशयः। प्रकृतौ द्वयोर्विकल्पितत्वादेकस्मिन्प्रयोग एकस्य पृष्ठत्वादन्यत्रापि तथात्वं युक्तम्। तथा सत्यवशिष्टं साम सर्वपृष्ठविश्वजिन्न्यायेन स्तोत्रान्तरे प्रयोक्तव्यमिति पूर्वः पक्षः। तादृग्वचनाभावेनात्र विश्वजिद्वैषम्या-त्प्रकृतिवद्विकल्पे सति पूर्वविधानवैयर्थ्यात्समुच्चय इति राद्धान्तः।
सप्तमोऽनुवाकः॥ ७॥