अनुवाकः 10 TS 3.1.10

(A10)

(प॒रि॒वा॒पात् - प्र॒जां मयि॑ - दुह्रते॒ - चतु॑र्दश च)

अनुवाकः 10 - Complete Audio

TS 3.1.10 - स्वरानुगामी

0:00 0:00
PS1.1 जुष्टो॑ वा॒चो भू॑यासं॒ जुष्टो॑
PS1.2 वा॒चस्पत॑ये॒ देवि॑ वाक्
PS1.3 यद्वा॒चो मधु॑म॒त् तस्मि॑न् मा
PS1.4 धाः॒ स्वाहा॒ सर॑स्वत्यै
PS1.5 ऋ॒चा स्तोमꣳ॒॒ सम॑र्द्धय गाय॒त्रेण॑ रथंत॒रं
PS1.6 बृ॒हद्-गा॑य॒त्रव॑र्तनि
PS1.7 यस्ते᳚ द्र॒फ्सः स्कन्द॑ति॒ यस्ते॑
PS1.8 अꣳ॒॒शुर्बा॒हुच्यु॑तो धि॒षण॑योरु॒पस्था᳚त्
PS1.9 अ॒द्ध्व॒र्योर्वा॒ परि॒ यस्ते॑ प॒वित्रा॒थ्
PS1.10 स्वाहा॑कृत॒मिन्द्रा॑य॒ तं जु॑होमि
PS1.11 यो द्र॒फ्सो अꣳ॒॒शुः प॑ति॒तः
PS1.12 पृ॑थि॒व्यां प॑रिवा॒पात् - [
PS1.13 ]
PS2.1 पु॑रो॒डाशा᳚त् कर॒म्भात्
PS2.2 धा॒ना॒सो॒मान्म॒न्थिन॑ इन्द्र शु॒क्राथ् स्वाहा॑कृत॒मिन्द्रा॑य॒
PS2.3 तं जु॑होमि
PS2.4 यस्ते᳚ द्र॒फ्सो मधु॑माꣳ इन्द्रि॒यावा॒न्थ्
PS2.5 स्वाहा॑कृतः॒ पुन॑र॒प्येति॑ दे॒वान्
PS2.6 दि॒वः पृ॑थि॒व्याः पर्य॒न्तरि॑क्षा॒थ् स्वाहा॑
PS2.7 कृत॒मिन्द्रा॑य॒ तं जु॑होमि
PS2.8 अ॒द्ध्व॒र्युर्वा ऋ॒त्विजां᳚ प्रथ॒मो यु॑ज्यते॒
PS2.9 तेन॒ स्तोमो॑ योक्त॒व्य॑ इत्या॑हु॒र्वाग॑ग्रे॒गा
PS2.10 अग्र॑ एत्वृजु॒गा दे॒वेभ्यो॒ यशो॒
PS2.11 मयि॒ दध॑ती प्रा॒णान् प॒शुषु॑
PS2.12 प्र॒जां मयि॑- [ ]
PS3.1 च॒ यज॑माने॒ चेत्या॑ह॒ वाच॑मे॒व
PS3.2 तद्य॑ज्ञ्मु॒खे यु॑नक्ति॒ वास्तु॒ वा
PS3.3 ए॒तद्य॒ज्ञ्स्य॑ क्रियते॒ यद्ग्रहा᳚न् गृही॒त्वा
PS3.4 ब॑हिष्पवमा॒नꣳ सर्प॑न्ति॒परा᳚ञ्चो॒ हि यन्ति॒
PS3.5 परा॑चीभिः स्तु॒वते॑ वैष्ण॒व्यर्चा पुन॒रेत्योप॑
PS3.6 तिष्ठते य॒ज्ञो वै विष्णु॑
PS3.7 र्य॒ज्ञ्मे॒वाक॒र्विष्णो॒ त्वन्नो॒ अन्त॑मः॒ शर्म॑
PS3.8 यच्छ सहन्त्य
PS3.9 प्र ते॒ धारा॑ मधु॒श्चुत॒
PS3.10 उथ्सं॑ दुह्रते॒ ( )
PS3.11 अक्षि॑त॒मित्या॑ह॒ यदे॒वास्य॒ शया॑नस्योप॒शुष्य॑ति॒ तदे॒वास्यै॒तेना
PS3.12 ऽऽ*प्या॑ययति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 3.1.10.1 TS 3.1.10.1
जुष्टो॑ वा॒चो भू॑यासं॒ जुष्टो॑ वा॒चस्पत॑ये॒ देवि॑ वाक् । यद्वा॒चो मधु॑म॒त् तस्मि॑न् मा धाः॒ स्वाहा॒ सर॑स्वत्यै ॥ ऋ॒चा स्तोमꣳ॒॒ सम॑र्द्धय गाय॒त्रेण॑ रथंत॒रं । बृ॒हद्-गा॑य॒त्रव॑र्तनि ॥यस्ते᳚ द्र॒फ्सः स्कन्द॑ति॒ यस्ते॑ अꣳ॒॒शुर्बा॒हुच्यु॑तो धि॒षण॑योरु॒पस्था᳚त् । अ॒द्ध्व॒र्योर्वा॒ परि॒ यस्ते॑ प॒वित्रा॒थ् स्वाहा॑कृत॒मिन्द्रा॑य॒ तं जु॑होमि ॥ यो द्र॒फ्सो अꣳ॒॒शुः प॑ति॒तः पृ॑थि॒व्यां प॑रिवा॒पात् - [ ]
पदपाठः (Word-by-word)
जुष्टः॑ । वा॒चः । भू॒या॒स॒म् । जुष्टः॑ । वा॒चः । पत॑ये । देवि॑ । वा॒क् ॥ यत् । वा॒चः । मधु॑म॒दिति॒ मधु॑-म॒त् । तस्मिन्न्॑ । मा॒ । धाः॒ । स्वाहा᳚ । सर॑स्वत्यै ॥ ऋ॒चा । स्तोम᳚म् । समिति॑ । अ॒द्‌र्ध॒य॒ । गा॒य॒त्रेण॑ । र॒थ॒न्त॒रमिति॑ रथं-त॒रम् ॥ बृ॒हत् । गा॒य॒त्रव॑र्त॒नीति॑ गाय॒त्र-व॒र्त॒नि॒ ॥ यः । ते॒ । द्र॒फ्सः । स्कन्द॑ति । यः । ते॒ । अꣳ॒॒शुः । बा॒हुच्यु॑त॒ इति॑ बा॒हु - च्यु॒तः॒ । धि॒षण॑योः । उ॒पस्था॒दित्यु॒प - स्था॒त् ॥ अ॒द्ध्व॒र्योः । वा॒ । परीति॑ । यः । ते॒ । प॒वित्रा᳚त् । स्वाहा॑कृत॒मिति॒ स्वाहा᳚ -कृ॒त॒म् । इन्द्रा॑य । तम् । जु॒हो॒मि॒ ॥ यः । द्र॒फ्सः । अꣳ॒॒शुः । प॒ति॒तः । पृ॒थि॒व्याम् । प॒रि॒वा॒पादिति॑ परि - वा॒पात् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ तृतीयकाण्डे प्रथमप्रपाठके दशमोऽनुवाकः)

आघारसंस्रावमन्त्रौ नवमे कथितावुभौ।

अथ दशमे प्रवृतहोमादिमन्त्रा उच्यन्ते।

अल्पः- 'प्रवृतः प्रवृतः प्रवृतहोमौ जुहोति जुष्टो वाचो भूयासमृचा स्तोम समर्धयेत्येताभ्याम्' इति।

षष्ठे काण्डे यद्विहितमृत्विजो वृणीते छन्दा स्येव वृणीत इति, तत्र यो यो वृतो भवति तेन तेनेमौ होमौ कर्तव्यौ। तत्र प्रथममन्त्रपाठस्तु-

जुष्टो वाच इति। अहं वाग्देवतायाः प्रियो भूयासं तथा वाचां पालको यो देवस्तस्यापि प्रियो भूयासम्। हे वाग्देवि शब्दरूपाया वाचः संबन्धि यन्मधुरं पदं तस्मिन्मा धा मां स्थापय। सरस्वत्यै तुभ्यमेतद्धुतमस्तु।

द्वितीयमन्त्रपाठस्तु-

ऋचा स्तोममिति। हे वाग्देवि ऋचा योनिभूतया स्तोमं सामावृत्तिं वा समर्धय समृद्धिं कुरु। तथा गायत्रेण साम्ना सहितं रथंतरं साम समर्धय। गायत्रस्य वर्तनी मार्गो यस्य बृहतः साम्नस्तद्गायत्रवर्तनि। तादृशं यथा भवति तथा बृहत्साम समर्धय। कर्मानुष्ठानाय वृतेषु ऋत्विक्षु ऋक्सामादिगतं यद्वैकल्यं तत्परिहृत्य समृद्धं कुर्विति तात्पर्यार्थः।

कल्पः- 'यस्ते द्रप्सो यो द्रप्स इत्येतैः प्रतिमन्त्रं वैप्रुषहोमाञ्जुहोति' इति। यस्ते द्रप्स इत्येतद्द्वयोः प्रतीकं ततस्रयो मन्त्रास्तैर्मन्त्रैः पवमानार्थं प्रसर्पणात्पूर्व जुहुयात्। वैप्रुषान्सप्तहोसारं च हुत्वा बहिष्पवमानवन्माध्यंदिनं पवनानं प्रसर्पन्तीति सूत्रकारेमोक्तत्वात्। तत्र प्रथमामृचमाह-

यस्ते द्रप्स इति। हे सोम तत्र संबन्धी यो द्रप्सो रसबिन्दुरथवांऽशुरधिषवण-फलकयोरुपस्थादुपरिभागात्स्कन्दति भूमौ पतत्याथवाऽध्वर्योर्बाहुच्युतः स्कन्दति। अथवा यस्ते रसबिन्दुः पवित्राद्दशापवित्राद्वा भूमौ पतति तं द्रप्सं तं चांशुभिन्द्राय स्वाहाकृतं स्वाहाकारेण समर्पितं कृत्वा जुहोमि।

अथ द्वितीयामृचमाह-

यो द्रप्स इति। परिवापादीनि सवनीयपुरोडाशद्रव्याणि। परिवापो लाजानां समूहः। पुरोडाशः प्रसिद्धः। करम्भः सक्तवः। धाना भृष्टयवतण्डुलाः। सोमः प्रसिद्धः। धानाश्च सोमश्च धानासोमं तस्मात्। मन्यी शुक्रश्च ग्रहौ। हे इन्द्रोकानां परिवापादीनां सकाशाद्यो द्रप्सो भूमौ पतितो यश्चांशुर्भूमौ पतितस्तं द्रप्सं तं चांशुं स्वाहाकारेण समर्पितं कृत्वा तुभ्यमिन्द्राय जुहोमि।

अथ तृतीयामाह-

यस्ते द्रप्स इति. हे सोम यस्ते द्रप्सो मधुमान्माधुर्यवानिन्द्रियवानिन्द्रिय-वृद्धिकारी मया स्वाहाकृतः सन्दिवो वा पृथिव्वा वाऽन्तरिक्षाद्वा परितः पतितस्ततस्त-स्मात्सर्वस्मादागत्य पुनर्देवानप्येति प्राप्नोति तं द्रप्समिन्द्राय स्वाहाकारेण समर्पितं कृत्वा जुहोमि।

यदुक्तं सूत्रकारेण- 'उदञ्चः प्रह्वा बहिष्पवमानाय पञ्चर्त्विजः समन्वारब्धाः सर्पन्त्यध्वर्युं प्रस्तोताऽन्वारभते प्रस्तोतारं प्रतिहर्ता प्रतिहर्तारमुद्गातोद्गातारं ब्रह्मा ब्रह्माणं यजमानः' इति। पूर्वोऽध्वर्युर्बर्हिर्मुष्टिं धून्वन्तर्पति वागग्रेगा अग्र एत्विति' इति च, तदेतद्विधत्ते-

अध्वर्युर्वा इति। बहिष्पवमानाय सर्पतामृत्विजां मध्येऽध्वर्युरेव प्रथमो युज्यते पूर्वभावी सन्सर्पणे प्रवर्तते। तस्मात्तेनाध्वर्युणा स्तोमो योक्तव्यः। बहिष्पवमानस्तोत्रं प्रस्तोत्रादिषु योजनीयमित्यभिज्ञा आहुः। तद्योजनाय वागग्रेया इति मन्त्रं पठेत्। अग्रे गन्तुं शक्नोतीत्यग्रेगाः। तादृशी वाग्देवतर्त्विजामग्रे गच्छतु। ऊथंभूता वाक्, ऋजुगा देवेभ्यो देवप्राप्त्यर्थमृजुना मार्गेण गच्छन्ती, मय्यध्वर्यौ यशो दधती कीर्तिं स्थापयन्ती, पशुषु गवादिषु प्राणान्सुस्थिरं दधती, मयि च यजमाने च पुत्रादिरूपां प्रजां दधतीति मन्त्रस्यार्थः। तेन मन्त्रपाठेनाध्वर्युर्यज्ञमुखे बहिष्पवमानारम्भे वाचमेव योजितवान्भवति।

बहिष्पवमानसर्पणस्य कालं विधत्ते वास्तु वा इति।

ऐन्द्रवायवादिकान्ग्रहान्पूर्वभाविनः सर्वान्गृहीत्वा बहिष्पवमानमृत्विजः सर्पन्तीति यदेतेन यज्ञस्य वास्तु क्रियते गृहरूपं स्थानं कृतं भवति। तस्मादुक्तग्रहादूर्ध्वं सर्पे-युरित्यर्थः।

यदुक्त सूत्रकारेज- 'वैष्णव्यर्चा पुनरेत्य यजमानो राजानमुपतिष्ठते विष्णो त्वं नो अन्तम इति'। तदेतद्विधत्ते-

पराञ्चो हीति। हि यस्मात्परात्र्चः पुनरावृत्तिरहिता ऋत्विजा बहिष्यवमानाय यन्ति सर्पन्ति। यस्माच्च सामगाः पराचीभिः पुनरावृत्तिरहिताभिर्बहिष्पवमानस्तोत्रा-धारभूताभिरुपास्मै गायतेत्यादिभिर्नवभिर्ऋग्मिः स्तुवते, तस्मात्पराक्त्वेन यज्ञविघ्नो मा भूदित्यभिप्रेत्य पुनः सोमसमीपमागत्य यजमानुमुपतिष्ठेत। विष्णोर्व्याप्तत्वेन यज्ञस्वरूपत्वाद्वैष्णवमन्त्रेण यज्ञमेव पुनरपि प्रवर्तितवान्भवति।

तं मन्त्रं पठित्वा तात्पर्यं दर्शयति-

विष्णो त्वमिति। हे विष्णो त्वं नोऽस्माकमन्तमोऽन्तिकतमः प्रत्यासन्न तमः। हे सहन्त्यस्मदपराधं सहिष्णो शर्म सुखमस्मभ्यं यच्छ। ते तव संबन्धिनः सोमरसस्य धारा मधुश्चुतो मधुरं रसं क्षरन्त्य उत्समक्षितमुपक्षयरहितं यथाभवति तथा प्रदुह्रते प्रकर्षेण दुहताम्। एतेन मन्त्रपाठेंन पूर्वेशु पात्रेषु गृहीतस्यास्य सोमस्य यदेव स्वरूपं चिराव-स्थानेनोपशुष्यति मन्त्रेण पशोः श्रोण्यामञ्जनं विहितम्। घृतेनाक्ताविति मन्त्रेण पशोः शिरस्यञ्जनं विहितं, तयोरुभयोर्मध्य ऋत्विजो वृणीत इति वरणस्य विहितत्वाज्जुष्टो वाच इत्यादिकौ प्रवृतहोममन्त्रौ तयोरञ्जनमन्त्रयोर्मध्ये द्रष्टव्यौ। ऋतुग्रहणात्पूर्वं बहि-ष्पवमानस्यानुष्ठेयत्वात्तदङ्गमन्त्राणां यस्ते द्रप्स इत्यादीनां मधुश्च माघवश्चेत्येतस्माद-नुवाकात्प्राचीनं स्थानं द्रष्टव्यम्। अत्र विनियोगसंग्रहः-

जुष्टो द्वे प्रवतो योऽसौ जुहुयात्प्रवृताहुती।

यस्रिभिर्वैप्रुषो होमो वागध्वर्युर्ब्रवीति हि॥

विष्णो सोमं स्पृशेदत्र मन्त्राः सप्त प्रकीर्तिताः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थंप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे प्रथमप्रपाठके दशमोऽनुवाकः॥ १०॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ प्रवृताहुती जुहोति - जुष्टो वाचः, ऋचा स्तोममिति द्वाभ्याम् । प्रथमाऽनुष्टुप् विषमपादा, द्वितीया गायत्री ॥ जुष्टः इष्टः वाचः भूयासम् । वाचस्पतये मनसे प्राणाय जुष्टः भूयासमित्येव । षष्ठ्यर्थे चतुर्थी । 'सावेकाचः' इति वाचः षष्ठ्या उदात्तत्वम् । 'षष्ठ्याः पतिपुत्र' इति सत्वम् । 'नित्यं मन्त्रे' इति जुष्टशब्द आद्युदात्तः । हे देवि वाक् यद्वाचः पदं वास्तवं मधुमत् मधुरं तस्मिन् मा धाः धेहि स्थापय । सरस्वत्यै तुभ्यं स्वाहुतमिदमस्तु । दधातेर्लोटि 'बहुलं छन्दसि' इति शपो लुक् ॥
2 अथ द्वितीया - ऋचा योनिभूतया स्तोमं स्तोत्रं समर्धय समृद्धिं कुरु । गायत्रेण साम्ना रथन्तरं समर्धय । बृहच्च साम गायत्रवर्तनि गायत्रपदभक्तिकं समर्धय तदनुगतं कुर्विति समर्धय हे वाक् । प्रवृतेषु ऋत्विक्षु सम्यग्यज्ञप्रवृत्तौ यथोक्तसमृद्धिकं सर्वं भवतीति ॥
8 द्रप्साननुमन्त्रयते - यस्ते इति तिसृभिस्त्रिष्टुभिः । तत्र प्रथमा - यस्ते इति ॥ 'अंशुः' इति प्रथमपादान्तः । हे सोम यस्तेऽभिषूयमाणस्य द्रप्सो रसस्स्कन्दति । यो वा तवांशुः सूक्ष्मलतावयवः बाहुच्युतः बाह्वोर्हस्तयोश्च्युतः निपतितः संलग्नः । थाथादिस्वरं बाधित्वा व्यत्ययेन सप्तमीपूर्वपदप्रकृतिस्वरत्वम् । धिषणयोरुपस्थात् - अधिषवणफलके धिषणे । दृश्यते हि 'धिषाणे वीडू' इति । तयोरुपस्थादुत्सङ्गात् हस्तयोश्च्युतः । अध्वर्योरिति । यद्वा यो वा तव रसः पवित्रात् दशापवित्रात् विततात्पतितः सर्वतस्स्कन्दति तं सर्वं स्वाहाकृतं स्वाहाकारेण प्रक्षिप्तं स्वाहाकृतवदवृधानिपतितं कृत्वा इन्द्राय जुहोमि स्वाहुतमेव करोमि । स्वाहाशब्दस्योर्यादित्वेन गतित्वात् 'गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् ॥
4 अथ द्वितीया - यो द्रप्स इति ॥ सोमात् यो द्रप्सो वा अंशुर्वा पृथिव्यां पतितः परिवापादिभ्यश्च । हे इन्द्र तं स्वाहाकृतं इन्द्रायेश्वराय तुभ्यं जुहोमि हुतमेव करोमि । परिवापाः व्रीहिप्रभवा लाजाः । पुरोडाशः पिष्टमयः । करम्भः सक्त्वाज्यसंयोगविशेषः । धानाश्च सोमश्च धानासोमम् । 'जातिरप्राणिनाम्' इत्येकवद्भावः । धानाः तण्डुलप्रभवाः लाजप्रकाराः । सोमो लतात्मा । यद्वा - सवनीयैः साहचर्यात् पारिशेष्याच्च सोमविषया मैत्रावरुणी पयस्या सोमशब्देनोच्यते । यथा धानाः करम्भः परिवापः पुरोडाशः पयस्या पङ्क्तिराप्यत इति । मन्थी शुक्रश्च ग्रहौ ॥
5 अथ तृतीया - यस्ते इति ॥ हे सोम यस्ते द्रप्सो मधुमान् मधुररसवान् इन्द्रियावान् वीर्यवांश्च भूत्वा स्वाहाकृतः पुनर्देवानप्येति गच्छति । दिवो वा पृथिव्या वा अन्तरिक्षाद्वा यत्र यत्र स्कन्नः ततस्सर्वस्मादागत्य पुनरपि देवान्प्राप्नोति मम स्वाहाकारेण तमहमिन्द्राय स्वाहाकृतं कृत्वा जुहोमि साऽपि तथा करोत्विति । 'मन्त्रे सोमाश्व' इतीन्द्रियशब्दस्य दीर्घत्वम् । 'ऊडिदम्' इति दिवो विभक्तिरुदात्ता । 'उदात्तयणः' इति पृथिव्याः ॥
6 अथ 'वागग्रेगाः' इत्यस्य वक्ष्यमाणस्य मन्त्रस्य ब्राह्मणं - अध्वर्युर्वा इत्यादि ॥ ऋत्विजां मध्ये अध्वर्युः प्रथमः बहिष्पवमानाय संसर्पणे युज्यते । अथ तस्य प्राथम्यात्तेनैव प्रथमं स्तोमो योक्तव्य इत्याहुः । तस्मात्सर्पणकाले 'वागग्रेगाः' इत्यादिकं यजुर्यदाह तेन प्रथममध्वर्युः वाचं यज्ञमुखे बहिष्पवमानारम्भे युनक्ति यद्वाचं बाहीष्पवमानं यज्ञमुखेऽध्वर्युर्युनक्ति एवं स्तोमो युक्तो योजितो भवति । मन्त्रार्थस्तु - वागग्रेगाः सर्वस्याग्रे गच्छन्ती अग्रे प्रथमं बहिष्पवमानमेतु । 'जनसन' इति विट्' 'विड्वनोरनुनासिकस्स्यात्' इत्यात्वम् । ईदृशी सती गच्छत्वित्याह - ऋजुगाः ऋजुमार्गेण गच्छन्ती देवेभ्यः देवार्थमवक्रगमना देवानेवं गच्छन्तीत्यर्थः । पूर्ववद्विट् । मयि यशो दधती स्थापयान्ती सुष्ठु प्रचारणात्प्राणान् पशुषु दधती सम्यग्यागनिष्पत्तेः प्रजां मयि च यजमाने दधती अग्रे गच्छत्विति । वास्तु वा एतद्यज्ञस्येत्यादि । वास्तुग्रहणं एतद्यज्ञस्य क्रियते यद्ग्रहान् गृहीत्वा बहिष्पवमानं सर्पन्ति तस्मात्प्रथममेव ग्रहा गृहीतव्याः । ततो बहिष्पवमानं संसर्पेयुरिति । एवं हि यज्ञो वास्तुमान् भवति ॥
7 पराञ्चो हीत्यादि ॥ हि यस्मादर्थे । यस्मात्पराञ्चोपुनरावृत्ता बहिष्पवमानाय यन्ति सर्पन्ति तस्मादानुरूप्याय पराचीभिः अनावृत्ताभिः त्रिवृत्त्वान्नवभिः ऋग्भिस्स्तुवते । अकर्त्रभिप्रायत्वाद्व्यत्ययेनात्मनेपदम्, परापूर्वादञ्चतेः क्विपि 'अनिगन्तादञ्चतौ' इति गतेः प्रकृतिस्वरत्वम् । वैष्णव्येत्यादि । पुनरेत्यागत्य वैष्णव्यर्चा वक्ष्यमाणया अनुष्टुभा राजानमुपतिष्ठते - तस्मादनेनोपस्थानेन यज्ञमेवाकः करोति । करोतेः छान्दसे लुङि 'मन्त्रे घस' इति च्लेर्लुक् । किं च - यदेव यत्किंचित् अपि शयानस्योपशुष्यति तत्सर्वमप्यस्यानेनोपस्थानेन आप्याययति आपूरयति अक्षितं दुह्रते इति दर्शनात् । मन्त्रार्थस्तु - हे विष्णो यज्ञात्मन् सोम त्वं नः अस्माकं अन्तिमः अन्तिकतमः प्रत्यासन्नतमः । 'तमेतादेश्च' इति कलोपः । सः त्वमस्मभ्यं शर्म सुखं यच्छ देहि । हे सहन्त्य परेषामभिभवितः महाप्रभाव । सहतेरौणादिको झच् । सहन्ताः सोढारः, ततस्स्वार्थिको यः । सहन्त्य ते तव धाराः रसप्रवाहाः मधुश्चुतः मधुरं रसं क्षरन्त्यः उत्सं कूपभूतं अक्षितं अनुपक्षीणं सोमरसं प्रदुह्रते प्रकर्षेण दुहताम् । तेन यच्छुष्यति तदाप्यायितं भवति । दुहेश्छान्दसे लेटि 'बहुलं छन्दसि' इति रुडागमः ॥
इति तृतीये प्रथमे दशमोनुवाकः ॥
पञ्चशत् 2 #
TS 3.1.10.2 TS 3.1.10.2
पु॑रो॒डाशा᳚त् कर॒म्भात् । धा॒ना॒सो॒मान्म॒न्थिन॑ इन्द्र शु॒क्राथ् स्वाहा॑कृत॒मिन्द्रा॑य॒ तं जु॑होमि ॥यस्ते᳚ द्र॒फ्सो मधु॑माꣳ इन्द्रि॒यावा॒न्थ् स्वाहा॑कृतः॒ पुन॑र॒प्येति॑ दे॒वान् । दि॒वः पृ॑थि॒व्याः पर्य॒न्तरि॑क्षा॒थ् स्वाहा॑ कृत॒मिन्द्रा॑य॒ तं जु॑होमि ॥ अ॒द्ध्व॒र्युर्वा ऋ॒त्विजां᳚ प्रथ॒मो यु॑ज्यते॒ तेन॒ स्तोमो॑ योक्त॒व्य॑ इत्या॑हु॒र्वाग॑ग्रे॒गा अग्र॑ एत्वृजु॒गा दे॒वेभ्यो॒ यशो॒ मयि॒ दध॑ती प्रा॒णान् प॒शुषु॑ प्र॒जां मयि॑- [ ]
पदपाठः (Word-by-word)
पु॒रो॒डाशा᳚त् । क॒र॒म्भात् ॥ धा॒ना॒सो॒मादिति॑ धाना-सो॒मात् । म॒न्थिनः॑ । इ॒न्द्र॒ । शु॒क्रात् । स्वाहा॑कृत॒मिति॒ स्वाहा᳚ - कृ॒त॒म् । इन्द्रा॑य । तम् । जु॒हो॒मि॒ ॥ यः । ते॒ । द्र॒फ्सः । मधु॑मा॒निति॒ मधु॑ - मा॒न् । इ॒न्द्रि॒यावा॒निती᳚न्द्रि॒य - वा॒न् । स्वाहा॑कृत॒ इति स्वाहा᳚-कृ॒तः॒ । पुनः॑ । अ॒प्येतीत्य॑पि - एति॑ । दे॒वान् ॥ दि॒वः । पृ॒थि॒व्याः । परीति॑ । अ॒न्तरि॑क्षात् । स्वाहा॑कृत॒मिति॒ स्वाहा᳚ - कृ॒त॒म् । इन्द्रा॑य । तम् । जु॒हो॒मि॒ ॥ अ॒द्ध्व॒र्युः । वै । ऋ॒त्विजा᳚म् । प्र॒थ॒मः । यु॒ज्य॒ते॒ । तेन॑ । स्तोमः॑ । यो॒क्त॒व्यः॑ । इति॑ । आ॒हुः॒ । वाक् । अ॒ग्रे॒गा इत्य॑ग्रे - गाः । अग्र᳚ । ए॒तु॒ । ऋ॒जु॒गा इत्यृ॑जु - गाः । दे॒वेभ्यः॑ । यशः॑ । मयि॑ । दध॑ती । प्रा॒णानिति॑ प्र - अ॒नान् । प॒शुषु॑ । प्र॒जामिति॑ प्र - जाम् । मयि॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 3.1.10.3 TS 3.1.10.3
च॒ यज॑माने॒ चेत्या॑ह॒ वाच॑मे॒व तद्य॑ज्ञ्मु॒खे यु॑नक्ति॒ वास्तु॒ वा ए॒तद्य॒ज्ञ्स्य॑ क्रियते॒ यद्ग्रहा᳚न् गृही॒त्वा ब॑हिष्पवमा॒नꣳ सर्प॑न्ति॒परा᳚ञ्चो॒ हि यन्ति॒ परा॑चीभिः स्तु॒वते॑ वैष्ण॒व्यर्चा पुन॒रेत्योप॑ तिष्ठते य॒ज्ञो वै विष्णु॑ र्य॒ज्ञ्मे॒वाक॒र्विष्णो॒ त्वन्नो॒ अन्त॑मः॒ शर्म॑ यच्छ सहन्त्य । प्र ते॒ धारा॑ मधु॒श्चुत॒ उथ्सं॑ दुह्रते॒ ( ) अक्षि॑त॒मित्या॑ह॒ यदे॒वास्य॒ शया॑नस्योप॒शुष्य॑ति॒ तदे॒वास्यै॒तेना ऽऽ*प्या॑ययति ॥
पदपाठः (Word-by-word)
च॒ । यज॑माने । च॒ । इति॑ । आ॒ह॒ । वाच᳚म् । ए॒व । तत् । य॒ज्ञ्॒मु॒ख इति॑ यज्ञ् - मु॒खे । यु॒न॒क्ति॒ । वास्तु॑ । वै । ए॒तत् । य॒ज्ञ्स्य॑ । क्रि॒य॒ते॒ । यत् । ग्रहान्॑ । गृ॒ही॒त्वा । ब॒हि॒ष्प॒व॒मा॒नमिति॑ बहिः - प॒व॒मा॒नम् । सर्प॑न्ति । परा᳚ञ्चः । हि । यन्ति॑ । परा॑चीभिः । स्तु॒वते᳚ । वै॒ष्ण॒व्या । ऋ॒चा । पुनः॑ । एत्येत्या᳚ - इत्य॑ । उपेति॑ । ति॒ष्ठ॒ते॒ । य॒ज्ञ्ः । वै । विष्णुः॑ । य॒ज्ञ्म् । ए॒व । अ॒कः॒ । विष्णो॒ इति॑ । त्वम् । नः॒ । अन्त॑मः । शर्म॑ । य॒च्छ॒ । स॒ह॒न्त्य॒ ॥ प्रेति॑ । ते॒ । धाराः᳚ । म॒धु॒श्चुत॒ इति॑ मधु-श्चुतः॑ । उथ्स᳚म् । दु॒ह्र॒ते॒ ( ) । अक्षि॑तम् । इति॑ । आ॒ह॒ । यत् । ए॒व । अ॒स्य॒ । शया॑नस्य । उ॒प॒शुष्य॒तीत्यु॑प - शुष्य॑ति । तत् । ए॒व । अ॒स्य॒ । ए॒तेन॑ । एति॑ । प्या॒य॒य॒ति॒ ॥
पदसंख्या: 64