अनुवाकः 2 TS 3.4.2

(A2)

(सर॑स्वत्यै॒ स्वाहा॒ - मनु॒ - स्त्रयो॑दश च)

अनुवाकः 2 - Complete Audio

TS 3.4.2 - स्वरानुगामी

0:00 0:00
PS1.1 आ वा॑यो भूष शुचिपा॒
PS1.2 उप॑ नः स॒हस्रं॑ ते
PS1.3 नि॒युतो॑ विश्ववार
PS1.4 उपो॑ ते॒ अन्धो॒ मद्य॑मयामि॒
PS1.5 यस्य॑ देव दधि॒षे पू᳚र्व॒पेयं᳚
PS1.6 आकू᳚त्यै त्वा॒ कामा॑य त्वा
PS1.7 स॒मृधे᳚ त्वा किक्कि॒टा ते॒
PS1.8 मनः॑ प्र॒जाप॑तये॒ स्वाहा॑ किक्कि॒टा
PS1.9 ते᳚ प्रा॒णं ॅवा॒यवे॒ स्वाहा॑
PS1.10 किक्कि॒टा ते॒ चक्षुः॒ सूर्या॑य॒
PS1.11 स्वाहा॑ किक्कि॒टा ते॒ श्रोत्रं॒
PS1.12 द्यावा॑पृथि॒वीभ्याꣳ॒॒ स्वाहा॑ किक्कि॒टा ते॒
PS1.13 वाचꣳ॒॒ सर॑स्वत्यै॒ स्वाहा॒- [
PS1.14 ]
PS2.1 त्वं तु॒रीया॑ व॒शिनी॑ व॒शाऽसि॑
PS2.2 स॒कृद्यत् त्वा॒ मन॑सा॒ गर्भ॒
PS2.3 आऽश॑यत्
PS2.4 व॒शा त्वं ॅव॒शिनी॑ गच्छ
PS2.5 दे॒वान्थ्-स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः᳚
PS2.6 अ॒जाऽसि॑ रयि॒ष्ठा पृ॑थि॒व्याꣳ सी॑दो॒र्द्ध्वाऽन्तरि॑क्ष॒मुप॑
PS2.7 तिष्ठस्व दि॒वि ते॑ बृ॒हद्भाः
PS2.8 तन्तुं॑ त॒न्वन् रज॑सो भा॒नुमन्वि॑हि॒
PS2.9 ज्योति॑ष्मतः प॒थो र॑क्ष धि॒या
PS2.10 कृ॒तान्
PS2.11 अ॒नु॒ल्ब॒णं ॅव॑यत॒ जोगु॑वा॒मपो॒ मनु॑
PS2.12 ( ) र्भव ज॒नया॒
PS2.13 दैव्यं॒ जनं᳚
PS2.14 मन॑सो ह॒विर॑सि प्र॒जाप॑ते॒र्वर्णो॒ गात्रा॑णां
PS2.15 ते गात्र॒भाजो॑ भूयास्म

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 3.4.2.1 TS 3.4.2.1
आ वा॑यो भूष शुचिपा॒ उप॑ नः स॒हस्रं॑ ते नि॒युतो॑ विश्ववार । उपो॑ ते॒ अन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पू᳚र्व॒पेयं᳚ ॥ आकू᳚त्यै त्वा॒ कामा॑य त्वा स॒मृधे᳚ त्वा किक्कि॒टा ते॒ मनः॑ प्र॒जाप॑तये॒ स्वाहा॑ किक्कि॒टा ते᳚ प्रा॒णं ॅवा॒यवे॒ स्वाहा॑ किक्कि॒टा ते॒ चक्षुः॒ सूर्या॑य॒ स्वाहा॑ किक्कि॒टा ते॒ श्रोत्रं॒ द्यावा॑पृथि॒वीभ्याꣳ॒॒ स्वाहा॑ किक्कि॒टा ते॒ वाचꣳ॒॒ सर॑स्वत्यै॒ स्वाहा॒- [ ]
पदपाठः (Word-by-word)
एति॑ । वा॒यो॒ इति॑ । भू॒ष॒ । शु॒चि॒पा॒ इति॑ शुचि - पाः॒ । उपेति॑ । नः॒ । स॒हस्र᳚म् । ते॒ । नि॒युत॒ इति॑ नि - युतः॑ । वि॒श्व॒वा॒रेति॑ विश्व - वा॒र॒ ॥ उपो॒ इति॑ । ते॒ । अन्धः॑ । मद्य᳚म् । अ॒या॒मि॒ । यस्य॑ । दे॒व॒ । द॒धि॒षे । पू॒र्व॒पेय॒मिति॑ पूर्व - पेय᳚म् ॥ आकू᳚त्या॒ इत्या-कू॒त्यै॒ । त्वा॒ । कामा॑य । त्वा॒ । स॒मृध॒ इति॑ सं - ऋधे᳚ । त्वा॒ । कि॒क्कि॒टा । ते॒ । मनः॑ । प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । स्वाहा᳚ । कि॒क्कि॒टा । ते॒ । प्रा॒णमिति॑ प्र - अ॒नम् । वा॒यवे᳚ । स्वाहा᳚ । कि॒क्कि॒टा । ते॒ । चक्षुः॑ । सूर्या॑य । स्वाहा᳚ । कि॒क्कि॒टा । ते॒ । श्रोत्र᳚म् । द्यावा॑पृथि॒वीभ्या॒मिति॒ द्यावा᳚-पृ॒थि॒वीभ्या᳚म् । स्वाहा᳚ । कि॒क्कि॒टा । ते॒ । वाच᳚म् । सर॑स्वत्यै । स्वाहा᳚ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ तृतीयकाण्डे चतुर्थप्रपाठके द्वितीयोऽनुवाकः)

वशागर्भनिमित्तोऽयं होमोऽस्मिन्प्रथमे श्रुतः ।

अथ द्वितीयानुवाके भूत्यादिकामस्य वशालम्भार्थं मन्त्रा वक्तव्याः ।

कल्पः — “वायव्यामालभेत भूतिकाम इत्युक्तानि दैवतानि वायव्यामुपाकरोत्या वायो भूष सुचिपा इति । पाठस्तु —

आ वायो भूषेति । हे वायो त्वमागत्य पशुं भूषालंकुरु । हे शुचिपाः शुद्धहविःपालक त्वं नोऽस्मानुपगच्छ । हे विश्ववार विश्वव्यापक ते सहस्रं नियुतः सन्ति । नियुच्छन्देन वायुवाहनभूता अश्वा उच्यन्ते । ते तवान्धः पशुरूपमन्नं मद्यं हर्षकरं तस्मादुपो समीपे त्वामयानि प्राप्नोमि । तद्धे देव यस्य पशोः संबन्धि हविः पूर्वपेयं सोमसदृशमिति मनो दधिषे मनो धृतवानसि तादृशेन हविषा त्वामयामीत्यन्वयः । कल्पः — “आकूत्यै त्वा कामाय त्वेति पर्यग्नौ क्रियमाणे जुहोति” इति । पाठस्तु —

आकूत्यै त्वेति । हे पशो, आकूत्यै मदीयसंकल्पसिद्ध्यर्थं त्वां प्राप्य तथा कामामामीष्टपालनार्थं त्वां प्राप्य तथा समृधे समृद्धिसिद्ध्यर्थं त्वां प्राण्य क्किक्किटकारपूर्वक ते मनः प्रीणयित्वेदमाज्यद्रव्यं प्रजापतये स्वाहा हुतगस्तु किक्किटेत्यनुकरणशब्दः । मनुष्या हि पशूनामाभिमुख्यार्थं मुखमध्ये स्वजिह्वाग्र मूर्ध्वमाकुञ्च्य कंचिद्ध्वनिविशेषं कुर्वान्ति । सोऽयं ध्वनिःकिक्किटाशब्देनानुक्रियते । आकूत्या इत्यादिकमुपरितममन्त्रेष्वनुषज्य सर्वं पूववद्व्याख्येयम् ।

कल्पः — “त्वं तुरीयोत्युदीचीं वीवमानमनुपन्त्रयते” इति । पाठस्तु

त्वं तुरीयेति । हे वशे त्वं तुरीयोपरितनमन्त्रे लोकत्रयस्य वक्ष्यमाणत्वात्तदपक्षया चतुर्थी वशिनी । वश इन्द्रियनियमः । बृवभसंयोगापेक्षाया अभावात् । वशोऽस्या अस्तीति वशिनी । वशाऽसि बन्ध्या भवति । तदेतद्वशिनीत्वं व शात्वं प्रतिपादयति । यद्यस्मात्कारणात्पुरुषाभिलाषयुक्तेन मनसा सकृदेव गर्भस्त्वामाशयत्त्वामागत्य त्वदुदरे शयनं कडतवान्, तस्मादद्वितीयतृतीयादिपुरुषसंयोगे-च्छारहितत्वात्त्वं वशिनी. अपत्यान्त्रराहित्याद्वशा । तादृशी त्वं हवीरूपेण देवान्गच्छा देन च गमनेन यजमानस्य कामाः सत्याः सन्तु ।

कल्पः — “अजाऽसि रयिष्ठेति निहन्यमानाम” इति ।

अनुमन्त्रयत इत्यनुवर्तते । पाठस्तु —

अजाऽसि रयिष्ठेति । हे पशो त्वमजाऽसि जातितश्छागी भवसि । रयिष्ठा धने स्थिता हविःस्वरूपत्वेन देवानां धनभूताऽसि. तादृशी त्वमादौ पृथिव्यां सीदापविश । तत ऊर्ध्वोन्नीता सत्यन्तरिक्षमुपतिष्ठस्व प्राप्नुहि दिवि ते बृहद्भाः प्रौढं तेजः । एवं त्रिषु लोकेषु तिष्ठ । कल्पः- “तन्तुं तन्वन्निति वपां जुहोति” इति । पाठस्तु —

तन्तुं तन्वन्निति । हे पशो रजसो रज आत्मकस्य हविस्तन्तुषं तत्वन्विस्तारं कुर्वन्भानुमन्विहि आदित्यमनुगच्छ । किंच धिया कृतान्प्रज्ञया संपदिताञ्ज्योतिष्मतः प्रकाशवतः पथोऽस्मदीयस्वर्गमार्गान्रक्ष । कल्पः- ‘अनुल्बणं व यत जोगुवामप इति हविः” इति । जुहोतीत्यनुवर्तते । पाठस्तु —

अनुल्बणमिति । हे हृदयादीनि पश्वङ्गानि जोगुवां निर्विघ्नेन समाप्त्यर्थं त्वरमाणानामस्माकमषः कर्मानुल्वणमानतिरिक्तं वयत कुरुत । हे पशो मनुर्भव मनरिवोत्मादको भव । ततो द्रैव्यं जनं जनय । अयं च यजमानो जन्मान्तरे यथा देवजनो भवति तथोत्पादय ।

कल्पः — “मनसो हविरसीति हविःशेषान्प्राश्नन्ति” इति । पाठस्तु —

मनसो हविरिति । हे पशो त्वे मनसो मन्तव्यस्य देवस्य हविरसि प्रजापतेर्वर्णः स्वरूपमसि । तेनोत्पादितत्वात । तादृशस्य तव गात्राणामङ्गानां प्राशनाद्वयं गात्रभाजः पुष्टाङ्गा भूयास्म । अत्र विनियोगसंग्रहः —

आ वायो इत्युपाकुर्यादाकूत्यै पञ्चभिर्हुतिः ।

त्वं गच्छन्तीं मन्त्रयित्वा हन्यमानामजेति च ॥

तन्तुं वपाहुतिस्तद्वदनुल्वेति हविहुतिः ।

मनःशेषान्भक्षयन्ति मन्त्र एकादशोरिताः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे

चतुर्थप्रपाठके द्वितीयोऽनुवाकः ॥ २ ॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अजावशाया उपाकरणेऽनुवर्तयति - आ वायो इति त्रिष्टुप् ॥ इयं व्याख्याता ग्रहेषु । हे वायो शुचिपाः अस्मानुपेत्य आभूषय हे विश्ववार यस्य ते सहस्रं नियुतं अश्वाः । तस्य ते अन्धः अन्नं मद्यं मदहेतुं उपायामि उपगच्छामि । हे देव यस्य च पूर्वपेयं दधिषे दधासि तत्संपादयामीति ॥
2 नियोजने अनुवर्तयति ॥ आकूत्यै त्वेति यजुः - आकूतिः संकल्पलक्षणा देवी तस्यै हे वशे त्वां नियुनज्मि । कूङ् शब्दे, 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । कामाय इच्छायै । समृधे समृद्ध्यै । संपदादिलक्षणः क्विप् ॥
3 पर्यग्नौ क्रियमाणे किक्किटाकारं जुहोति - किक्किटा ते इत्यादिभिर्यजुर्भिः ॥ किक्किटेत्यनुकरणशब्दोयं छान्दसः डाजन्तः, पशूनां रतिजनितो ध्वनिविशेषः अनेनानुक्रियते । हे पशो त्वां किक्किटाकृत्य प्रीणयित्वा ते त्वदीयं मनः प्रजापतये स्वाहुतं करोमि ददामीत्यर्थः । पशूनां किक्किटाकाररतित्वात् तत्प्रीणनार्थं किक्किटाकृत्य ददामि न पुनः प्रतिकूलं तवाचरामीत्येवमर्थमिदमुच्यते । ब्राह्मणं च भवति - 'किक्किटाकारेण वै ग्राम्याः पशवो रमन्ते' इत्यादि । एवं किक्किटाकृत्य तव प्राणं वायवे ददामि चक्षुस्सूर्याय ददामि । श्रोत्रे द्यावापृथिवीभ्यां ददामि । वाचं सरस्वत्यै ददामि । एवं यदुदानानि [नादीनि] मनआदीनि तत्रैव हूयन्ते ॥
4 अथैनामन्तरेण चात्वालोत्करौ उदीचीं नीयमानामनुमन्त्रयते - त्वं तुरीयेति त्रिष्टुभा ॥ वशे त्वं तुरीया चतुर्थी लोकत्रये; उत्तरस्मिन् मन्त्रे लोकत्रयस्य वक्ष्यमाणत्वात् तैर्लोकैस्समत्वमापाद्येयं स्तूयते । 'चतुरश्छयतावाद्यक्षरलोपश्च' इति छयतौ । वशिनी वशवती वश इन्द्रियसंयमः, तद्वती; यस्माच्चिरं वृषस्यन्ती न भवति । वशा क मनीया सकृत्प्रसूता वन्ध्या वशा दैवा [द] भवत् यस्मात्त्वां मनसा संकल्पेन सकृदेकवारं गर्भ आशयत् आगत्य त्वां त्वदुदरे शयितवान्, तस्माद्वशाऽसि, यस्मात्सकृदेव तस्माद्वशिनी चासि । द्वितीयादिप्रवृत्तौ मनःप्रवृत्तिरेव नास्तीति सा त्वं वशा च वशीनी च सती पुनःप्रसवरहिता देवान् गच्छ स्वर्गं गच्छ सत्यास्सन्तु यजमानस्य कामाः । 'एष वै कामो यजमानस्य यदनार्तउदृचं गच्छति' इति ॥
5 उपासने वर्तयति - अजाऽसीति यजुः ॥ अजा त्वमसि रयिष्ठा धने स्थिता धनहेतुभूता त्वं पृथिवीं सीद आस्व । ततः ऊर्ध्वा उन्नीता अन्तरिक्षमुपतिष्ठस्व दिवि ते तव बृहद्भाः महती दीप्तिः । भासेरसुनि भाः । यद्वा - 'भ्राजभास' इति भासतेः क्विप् । बृहदिति लिङ्गव्यत्ययः । एवं त्रिष्वपि लोकेषु तिष्ठेति ॥
6 अथास्यै वपां जुहोति - तन्तुं तन्वन्निति जगत्या ॥ तन्तुं विस्तारं तन्वन् कुर्वन् तस्य रजसः उदकस्य । हेतौ शता । वृष्ट्यर्थं भानुमादित्यं अन्विहि अनुगच्छ । किं च – ज्योतिष्मतः प्रकाशवतः पथः मार्गान् धिया कृतान् कर्मणा प्रज्ञया वा संपादितान् रक्ष यजमानार्थं पथस्संपादय । तदर्थमस्माकं जोगुवां कर्मसमाप्त्यर्थं त्वरमाणानाम् । पुरीषे गुशब्दः, अत्र तु वेगितायां गतौ वर्तते , यङ्लुगन्तात् क्विप् । एवं कुर्वतां संभाव्यमानप्रमादानामस्माकं अपः कर्म अनुल्बणं कर्म वयतेति । उत्पूर्वाद्वनतेः पचाद्यच्, छान्दसो वर्णविकारः उल्बणमिति । किंच - हे वशे मनुः मन्त्री भव । कथम् मन्तव्यम् जनय उत्पादय दैव्यं मानुषं जनम् । 'अन्येषामपि दृश्यते' इति दीर्घत्वम् । देवाद्यञ् । यजमानो वा उच्यते - मनुरिव स्रष्टा भव प्रजानाम् । अत्र ब्राह्मणं 'यदेव यज्ञ उल्बणं क्रियते तस्यैवैषा शान्तिः' इति ॥
7 हविर्जुहोति - मनस इति ॥ 'मनो वै प्रजापतिः' इति मनश्शब्देनाभेदात्प्रजापतिरुच्यते प्रजापतेर्हविस्त्वमसीति । तस्मात्प्रजापतेः वर्णः प्रजापतेस्सर्वदेवतामयत्वात् सर्वदेवतास्त्वमसीति स्तुतिः । वक्ष्यति हि 'सा वा एषा सर्वदेवत्या यदजा' इति । यद्वा - या वक्ष्यमाणा अस्या देवता अग्न्यादयः तासां प्रजापतिरुपलक्षणः ॥
8 अथास्या अवदानानि प्राश्नाति - गात्राणामिति ॥ त्वदीयानां गात्राणां संबन्धिनो वयं गात्रभाजो भूयास्म त्वत्संबन्धात् पुनरपि कर्मकृतो भूयास्म । यद्वा - अविकलाङ्गा भूयास्मेत्याशास्ते ॥
इति तृतीये चतुर्थे द्वितीयोनुवाकः ॥
पञ्चशत् 2 #
TS 3.4.2.2 TS 3.4.2.2
त्वं तु॒रीया॑ व॒शिनी॑ व॒शाऽसि॑ स॒कृद्यत् त्वा॒ मन॑सा॒ गर्भ॒ आऽश॑यत् । व॒शा त्वं ॅव॒शिनी॑ गच्छ दे॒वान्थ्-स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः᳚ ॥ अ॒जाऽसि॑ रयि॒ष्ठा पृ॑थि॒व्याꣳ सी॑दो॒र्द्ध्वाऽन्तरि॑क्ष॒मुप॑ तिष्ठस्व दि॒वि ते॑ बृ॒हद्भाः ॥ तन्तुं॑ त॒न्वन् रज॑सो भा॒नुमन्वि॑हि॒ ज्योति॑ष्मतः प॒थो र॑क्ष धि॒या कृ॒तान् ॥ अ॒नु॒ल्ब॒णं ॅव॑यत॒ जोगु॑वा॒मपो॒ मनु॑ ( ) र्भव ज॒नया॒ दैव्यं॒ जनं᳚ ॥ मन॑सो ह॒विर॑सि प्र॒जाप॑ते॒र्वर्णो॒ गात्रा॑णां ते गात्र॒भाजो॑ भूयास्म ॥
पदपाठः (Word-by-word)
त्वम् । तु॒रीया᳚ । व॒शिनी᳚ । व॒शा । अ॒सि॒ । स॒कृत् । यत् । त्वा॒ । मन॑सा । गर्भः॑ । एति॑ । अश॑यत् ॥ व॒शा । त्वम् । व॒शिनी᳚ । ग॒च्छ॒ । दे॒वान् । स॒त्याः । स॒न्तु॒ । यज॑मानस्य । कामाः᳚ ॥ अ॒जा । अ॒सि॒ । र॒यि॒ष्ठेति॑ रयि - स्था । पृ॒थि॒व्याम् । सी॒द॒ । ऊ॒र्द्ध्वा । अ॒न्तरि॑क्षम् । उपेति॑ । ति॒ष्ठ॒स्व॒ । दि॒वि । ते॒ । बृ॒हत् । भाः ॥ तन्तु᳚म् । त॒न्वन्न् । रज॑सः । भा॒नुम् । अन्विति॑ । इ॒हि॒ । ज्योति॑ष्मतः । प॒थः । र॒क्ष॒ । धि॒या । कृ॒तान् ॥ अ॒नु॒ल्ब॒णम् । व॒य॒त॒ । जोगु॑वाम् । अपः॑ । मनुः॑( ) । भ॒व॒ । ज॒नय॑ । दैव्य᳚म् । जन᳚म् ॥ मन॑सः । ह॒विः । अ॒सि॒ । प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । वर्णः॑ । गात्रा॑णाम् । ते॒ । गा॒त्र॒भाज॒ इति॑ गात्र - भाजः॑ । भू॒या॒स्म॒ ॥
पदसंख्या: 63