अनुवाकः 9 TS 3.4.9

(A9)

(प॒शुका॑म॒श्छन्दाꣳ॑सि॒ वै देवि॑का॒श्छन्दाꣳ॑सि॒-ग्रामं॑-कल्पयत्ये॒ता ए॒व नि-रु॑त्त॒मन्धा॒तारं॑ करोति - मे॒धा न॑मत्ये॒ता ए॒व निर्व॑पे - द॒ष्टौ - द॑हन्ति॒ - नव॑ च)

अनुवाकः 9 - Complete Audio

TS 3.4.9 - स्वरानुगामी

0:00 0:00
PS1.1 देवि॑का॒ निव॑र्पेत् प्र॒जाका॑म॒श्छन्दाꣳ॑सि॒ वै
PS1.2 देवि॑का॒श्छन्दाꣳ॑सीव॒ खलु॒ वै प्र॒जाश्छन्दो॑भिरे॒वास्मै᳚
PS1.3 प्र॒जाः प्रज॑नयति प्रथ॒मं धा॒तारं॑
PS1.4 करोति मिथु॒नी ए॒व तेन॑
PS1.5 करो॒त्यन्वे॒वास्मा॒ अनु॑मतिर्मन्यते रा॒ते रा॒का
PS1.6 प्र सि॑नीवा॒ली ज॑नयति प्र॒जास्वे॒व
PS1.7 प्रजा॑तासु कु॒ह्वा॑ वाचं॑ दधात्ये॒ता
PS1.8 ए॒व निव॑र्पेत् प॒शुका॑म॒श्छन्दाꣳ॑सि॒ वै
PS1.9 देवि॑का॒श्छन्दाꣳ॑सी - [ ]
PS2.1 व॒ खलु॒ वै प॒शव॒श्छन्दो॑भिरे॒वास्मै॑
PS2.2 प॒शून् प्रज॑नयति प्रथ॒मं धा॒तारं॑
PS2.3 करोति॒ प्रैव तेन॑ वापय॒त्यन्वे॒वास्मा॒
PS2.4 अनु॑मतिर्मन्यते रा॒ते रा॒का प्र
PS2.5 सि॑नीवा॒ली ज॑नयति प॒शूने॒व प्रजा॑तान्
PS2.6 कु॒ह्वा᳚ प्रति॑ष्ठापयत्ये॒ता ए॒व निर्व॑पे॒द्-ग्राम॑काम॒श्छन्दाꣳ॑सि॒
PS2.7 वै देवि॑का॒श्छन्दाꣳ॑सी व॒ खलु॒
PS2.8 वै ग्राम॒श्छन्दो॑भिरे॒वास्मै॒ ग्राम॒ -
PS2.9 [ ]
PS3.1 मव॑ रुन्धे मद्ध्य॒तो धा॒तारं॑
PS3.2 करोति मद्ध्य॒त ए॒वैनं॒ ग्राम॑स्य
PS3.3 दधात्ये॒ता ए॒व निर्व॑पे॒ज्ज्योगा॑मयावी॒ छन्दाꣳ॑सि॒
PS3.4 वै देवि॑का॒श्छन्दाꣳ॑सि॒ खलु॒ वा
PS3.5 ए॒तम॒भि म॑न्यन्ते॒ यस्य॒ ज्योगा॒मय॑ति॒
PS3.6 छन्दो॑भिरे॒वैन॑-मग॒दं क॑रोति मद्ध्य॒तो धा॒तारं॑
PS3.7 करोति मद्ध्य॒तो वा ए॒तस्याक्लृ॑प्तं॒
PS3.8 ॅयस्य॒ ज्योगा॒मय॑ति मद्ध्य॒त ए॒वास्य॒
PS3.9 तेन॑ कल्पयत्ये॒ता ए॒व नि
PS3.10 - [ ]
PS4.1 र्व॑पे॒द्यं ॅय॒ज्ञो नोप॒नमे॒च्छन्दाꣳ॑सि॒ वै
PS4.2 देवि॑का॒श्छन्दाꣳ॑सि॒ खलु॒ वा ए॒तं
PS4.3 नोप॑ नमन्ति॒ यं ॅय॒ज्ञो
PS4.4 नोप॒नम॑ति प्रथ॒मं धा॒तारं॑ करोति
PS4.5 मुख॒त ए॒वास्मै॒ छन्दाꣳ॑सि दधा॒त्युपै॑नं
PS4.6 ॅय॒ज्ञो न॑मत्ये॒ता ए॒व निव॑र्पेदीजा॒नश्छन्दाꣳ॑सि॒
PS4.7 वै देवि॑का या॒तया॑मानीव॒ खलु॒
PS4.8 वा ए॒तस्य॒ छन्दाꣳ॑सि॒ य
PS4.9 ई॑जा॒न उ॑त्त॒मं धा॒तारं॑ करो
PS4.10 - [ ]
PS5.1 -त्यु॒परि॑ष्टादे॒वास्मै॒ छन्दाꣳ॒॒स्यया॑तयामा॒न्यव॑ रुन्ध॒ उपै॑न॒मुत्त॑रो
PS5.2 य॒ज्ञो न॑मत्ये॒ता ए॒व निव॑र्पे॒द्यं
PS5.3 मे॒धा नोप॒नमे॒च्छन्दाꣳ॑सि॒ वै देवि॑का॒श्छन्दाꣳ॑सि॒
PS5.4 खलु॒ वा ए॒तं नोप॑
PS5.5 नमन्ति॒ यं मे॒धा नोप॒नम॑ति
PS5.6 प्रथ॒मं धा॒तारं॑ करोति मुख॒त
PS5.7 ए॒वास्मै॒ छन्दाꣳ॑सि दधा॒त्युपै॑नं मे॒धा
PS5.8 न॑मत्ये॒ता ए॒व निव॑र्पे॒ -
PS5.9 [ ]
PS6.1 द्रुक्का॑म॒श्छन्दाꣳ॑सि॒ वै देवि॑का॒श्छन्दाꣳ॑सीव॒ खलु॒
PS6.2 वै रुक् छन्दो॑भिरे॒वास्मि॒न् रुचं॑
PS6.3 दधातिक्षी॒रे भ॑वन्ति॒ रुच॑मे॒वास्मि॑न् दधति
PS6.4 मद्ध्य॒तो धा॒तारं॑ करोति मद्ध्य॒त
PS6.5 ए॒वैनꣳ॑ रु॒चो द॑धातिगाय॒त्री वा
PS6.6 अनु॑मतिस्त्रि॒ष्टुग्रा॒का जग॑ती सिनीवा॒ल्य॑नु॒ष्टुप् कु॒हूर्द्धा॒ता
PS6.7 व॑षट्का॒रः पू᳚र्वप॒क्षो रा॒काऽप॑रप॒क्षः कु॒हूर॑मावा॒स्या॑
PS6.8 सिनीवा॒ली पौ᳚र्णमा॒स्यनु॑मतिश्च॒न्द्रमा॑ धा॒ताऽष्टौ -
PS6.9 [ ]
PS7.1 वस॑वो॒ऽष्टाक्ष॑रा गाय॒त्र्येका॑दश रु॒द्रा एका॑दशाक्षरा
PS7.2 त्रि॒ष्टुब् द्वाद॑शाऽऽ*दि॒त्या द्वाद॑शाक्षरा॒ जग॑ती
PS7.3 प्र॒जाप॑तिरनु॒ष्टुब् धा॒ता व॑षट्का॒र ए॒तद्वै
PS7.4 देवि॑काः॒ सर्वा॑णि च॒ छन्दाꣳ॑सि॒
PS7.5 सर्वा᳚श्च दे॒वता॑ वषट्का॒रस्ता यथ्
PS7.6 स॒ह सर्वा॑ नि॒र्वपे॑दीश्व॒रा ए॑नं
PS7.7 प्र॒दहो॒ द्वे प्र॑थ॒मे नि॒रुप्य॑
PS7.8 धा॒तुस्तृ॒तीयं॒ निव॑र्पे॒त् तथो॑ ए॒वोत्त॑रे॒
PS7.9 निव॑र्पे॒त् तथै॑नं॒ न प्रद॑ह॒न्त्य
PS7.10 ( ) थो॒ यस्मै॒
PS7.11 कामा॑य निरु॒प्यन्ते॒ तमे॒वाऽऽ*भि॒रुपा᳚ऽऽ*प्नोति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 3.4.9.1 TS 3.4.9.1
देवि॑का॒ निव॑र्पेत् प्र॒जाका॑म॒श्छन्दाꣳ॑सि॒ वै देवि॑का॒श्छन्दाꣳ॑सीव॒ खलु॒ वै प्र॒जाश्छन्दो॑भिरे॒वास्मै᳚ प्र॒जाः प्रज॑नयति प्रथ॒मं धा॒तारं॑ करोति मिथु॒नी ए॒व तेन॑ करो॒त्यन्वे॒वास्मा॒ अनु॑मतिर्मन्यते रा॒ते रा॒का प्र सि॑नीवा॒ली ज॑नयति प्र॒जास्वे॒व प्रजा॑तासु कु॒ह्वा॑ वाचं॑ दधात्ये॒ता ए॒व निव॑र्पेत् प॒शुका॑म॒श्छन्दाꣳ॑सि॒ वै देवि॑का॒श्छन्दाꣳ॑सी - [ ]
पदपाठः (Word-by-word)
देवि॑काः । निरिति॑ । व॒पे॒त् । प्र॒जाका॑म॒ इति॑ प्र॒जा - का॒मः॒ । छन्दाꣳ॑सि । वै । देवि॑काः । छन्दाꣳ॑सि । इ॒व॒ । खलु॑ । वै । प्र॒जा इति॑ प्र-जाः । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । ए॒व । अ॒स्मै॒ । प्र॒जा इति॑ प्र-जाः । प्रेति॑ । ज॒न॒य॒ति॒ । प्र॒थ॒मम् । धा॒तार᳚म् । क॒रो॒ति॒ । मि॒थु॒नी । ए॒व । तेन॑ । क॒रो॒ति॒ । अन्विति॑ । ए॒व । अ॒स्मै॒ । अनु॑मति॒रित्य॑नु - म॒तिः॒ । म॒न्य॒ते॒ । रा॒ते । रा॒का । प्रेति॑ । सि॒नी॒वा॒ली । ज॒न॒य॒ति॒ । प्र॒जास्विति॑ प्र - जासु॑ । ए॒व । प्रजा॑ता॒स्विति॒ प्र - जा॒ता॒सु॒ । कु॒ह्वा᳚ । वाच᳚म् । द॒धा॒ति॒ । ए॒ताः । ए॒व । निरिति॑ । व॒पे॒त् । प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ । छन्दाꣳ॑सि । वै । देवि॑काः । छन्दाꣳ॑सि ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ तृतीयाष्टके चतुर्थप्रपाठके नवमोऽनुवाकः) ।

अष्टमे राष्ट्रभृद्धोमास्तत्तत्कामाय वर्णिताः ।

अथ नवमे देविकाख्यानां राजसूयप्रकरणोत्पन्नानां धात्रे पुरोडाशमित्वदीनां पञ्चहविषामुत्कर्षं कृत्वा बहुविधकाम्यप्रयोगो निरुप्यते ।

तत्रैकं प्रयोगं विधत्ते —

देविका निर्वपेदिति । दीव्यन्त्यपेक्षितं फलविशेषं प्रकाशयन्तीति धात्रे इत्यादयः पञ्चेष्टयो देविकाः । अनुमत्यादयः स्त्रीरूपत्वाद्देव्यस्तदीयत्वादेता देविकाः ।

गायत्री वा अनुमतिरित्यादिच्छन्दोरूपत्वमनुमत्यादीनामुच्यते तद्द्वाता देविका अपि च्छन्दांस्येव । यथा छन्दांसि फलहेतुत्वात्सुखकराणि एवं प्रजा अपि सुखहेतुत्वाच्छन्दःसमानाः । अतो देविकारूपैश्छन्दोभिरेव यजमानार्थं प्रजा उत्पादयति ।

धात्रादीनां पञ्चानां प्रजोत्पत्तौ दृश्यगुणयोगे प्रशंसति —

प्रथमं धातारीमति । पञ्चानां देवानां मध्ये धातारं प्रथमं करोतीति यत्तेन यजमानं स्वपत्न्या सह मिथुनी करोत्येव । अनुमतिरस्मै यजमानाय तन्मिथुनीकरणमनुमन्यत एव राका प्रजां ददाति । सिनीवाली गर्भस्थां प्रजामुत्पादयति । उत्पन्नासु प्रजासु कुहूर्तेवताद्वारेण वाचं दधाति । संभाषणाभ्यासं करोतीत्यर्थः । अथ फलान्तराय विधत्ते –

एता एव निर्वपेदिति । प्रथमेन धात्रा गावादिषु वीजावापः र्सपद्यते । प्रजातानां पशूनां तृणोकदातिपोषणेन प्रतिष्टापनं कुहूवा क्रियते । शेषं पूर्ववत् ।

फलान्तराय विधत्ते —

एता एव निर्वपेदिति । अनुमतिराकाभ्यामूर्ध्वं सिनिवालीकुहभ्यामधस्ता न्मध्यं तत्र धातारं स्थापयेत् । तेनैनं यजमान ग्रामस्य मध्य एवाऽऽधिपत्ये स्थापयति । फलान्तराय विधत्ते —

एता एव निर्वपेदिति । यस्य पुरुषस्य ज्योक्चिरमामयाते व्याधिवाधा भवत्येनं पुरुषं छन्दांत्यभिमन्यन्तेऽभिक्रुध्यन्ति । अतो देविकानिर्वापतुष्टैश्छन्दोभिरेवैनं रोगरहितं करोति । अत्रापि पूर्ववद्धातारं मध्यतः कुर्यात् । यस्य दीर्घ व्यधिस्तस्योदरमध्ये यत्किंचिदक्लृप्तमसामर्थ्यं भवति । अतस्तेन धातुर्मध्यस्यापनेनास्य रोगिण उदरमध्य एव कल्पयति सामर्थ्यं जनयति ।

अथ ज्योतिष्टोमादियज्ञप्राप्तये विधत्ते —

एता एव निर्वपेदिति । र्य पुरुषं केनापि विघ्नेन यज्ञो न प्राप्नोति, एनं (तं) पुरुषं यज्ञसाधनानि च्छन्दांस्यंव प्रथमं न प्राप्नुवन्ति । तत्र धातुः प्रथमं स्थापने सत्यनुकूलत्षेत प्रथमत एव यजमानार्थे छन्दांसि धृतानि भवन्ति । छन्दःस्वनुकूलेषु सत्सु यज्ञ एनं प्राप्नोति । प्राप्तयज्ञस्योत्तरयज्ञसिद्ध्यर्थं विधत्ते —

एता एव निर्वपेदिति । यः पुरुष ईजानः पूर्वमिष्टवान्भवति, एतस्य च्छन्दांसि पूर्वयज्ञे व्यापृतत्वाद्धृतसारणीव भवन्ति । तत्र चरमस्थाने धातुः करणेनोपरिष्टात्करिष्यमाणाज्ञज्ञे छन्दास्यगतसाराणि संपादयति । तत उत्तरो यज्ञ एनमुपनमति पुनरपि प्रतिष्ठां गच्छतीत्यर्थः अथ मेधाप्राप्तये विधत्ते —

एता एव निर्वपेदिति । ग्रन्थधारणसक्तिर्मेधा । एतद्वाक्यं यज्ञप्राप्तिवाक्यवद्व्याख्येयम् । अथ कान्तिप्राप्तये विधत्ते —

एता एव निर्वपेदिति । कान्ते प्रियत्वेन च्छन्दःसाम्यम् । अत्र चरुणां चतुर्णां पाकसाधनं क्षीरं धातुर्मध्यतः करणेन कान्तेर्मध्यतः एव यजमानं स्थापयति । गायत्र्यादिच्छन्दोरूपेणानुमत्यादिदेवताः प्रशंसति —

गायत्री वा इति । गायत्रादिच्छन्दांसि यथाऽभीष्टं साधयन्त्येवमनुम-त्यादीनामभीष्टसाधनत्वाद्वायत्र्यादिरूपत्वम् । अनेनैव न्यायेन पूर्वपक्षादिरूपत्व दर्शयति —

पूर्वपक्षो राकेति । पूर्ण निशाकर इत्युक्तत्त्रात्पूर्णवन्दमण्डलोपेता राका । सा च शक्लपक्षस्वरूपा । नष्टेन्दुकला कुडूरित्युक्तवाञ्चन्द्रकलालेशेनापि हीना कुहूः । सा च कृष्णपक्षस्वरूपा । सा दृष्टेन्दुः सिनीवालीत्युक्तत्वाच्चतुर्दशीमिश्रिता कृष्णा पञ्चदशी सिनीवाली । सा चात्रामावास्यारूपत्वेन विविक्षिता । कलाहीने साऽनुमतिरित्युक्तत्वाच्चतुर्दशीमिश्रा शुक्लपञ्चदश्यनुमतिः । सा चात्र पोर्णमासीतिथिरूपत्वेन विवक्षिता । उक्तयोः पक्षयोस्तिथ्योश्च निष्पादको यश्चन्द्रमाः सोऽत्रधातृरूपेण विवक्षितः ।

इत्थं पूर्वपक्षादिरूपेण प्रशस्य पुनर्वस्वादिरूपेण प्रशंसति —

अष्टौ वसव इति । या अनुमत्यादयो गायत्र्यादिभावमापादितास्तासां संख्यासाभ्याद्वस्वादिरूपत्वम् या कुहूरनुष्टुप्त्वेन निरूपिता सा प्रजापतिरूपा । ‘अनुष्टुभो वा इमानि भूतानि जायन्ते’ इति सशाखान्तरे प्रजापतिवदनुष्टुभः सर्वोत्पादकत्वश्रवणात् । वषट्कारवन्मुख्यत्वेन धातुस्तद्रूपत्वम् । प्रशंसां निगमयति —

एतद्वै देविका इति । यत्प्रशंसार्थं गायत्री वा अनुमतिरित्यादिनिरूपणमेतदेक देविकानां सर्वच्छंदोरूपत्वं सर्वदेविकारूपत्वं वषट्काररूपत्वं च ।

अथ पञ्चानामेतेषां त्रेधा निर्वापं विधत्ते —

ता यत्सह सर्वा इति । ता देविकाः पञ्चापि सह निरूप्ताः सत्य एनं यजमानं प्रदग्धुमीश्वराः । तस्मादनुमत्या राकायाश्व चरुद्वयं निरुप्य तततस्तृतीयत्वेन धातुः पुरोडाशं निर्वषेत । तत ऊर्ध्वं सिनीवाल्याः कुह्वाश्व (च) रुद्वयं निर्वपेत् । तथा सत्येनं यजमानं देविका न प्रदहन्ति । अथ यस्यै कामाय निरुप्यन्तेतं काममाभिद्रेवताभिः प्राप्नोत्येव ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे

चतुर्थप्रपाठके नवमोऽनुवाकः ॥ ९ ॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 सन्ति देविकाहवींषि 'धात्रे पुरोडाशं द्वादशकपालम्' इति प्रदेशान्तरविहितानि । तेषामिह काम्येन भेदेन प्रयोगविशेषान्दर्शयति - देविका निर्वपेत्प्रजाकाम इत्यादिना ॥ सर्वत्र 'शीलिकामि' इत्यादिना णः, पूर्वपदप्रकृतिस्वरत्वम् । 'छन्दांसि वै देविकाः' इत्यादि वक्ष्यति गायत्र्या भावमनुमत्यादीनाम् । यद्वा - छन्दसां प्रजादिसाधनत्वात् तादृशस्वभावानां हविषां तैरभेद उपचर्यते । प्रथममिति । धातुः द्वादशकपालं प्रजाकामस्य पञ्चानामाद्यं कुर्यादित्यर्थः । तेन धातुः प्राथम्येन मिथुनीकरोति संयोजयति जनयित्रीः प्रजाः । 'अस्य च्वौ' इतीकारः, 'व्यवहिताश्च' इति व्यवहितः प्रयुज्यते । अक्षादित्वात्संहितायां यणादेशाभावः । अनुमतिस्तं मिथुनीभावमनुमन्यते । राका प्रजां राते ददाति । रातेर्व्यत्ययेनात्मनेपदम् । सिनीवाली प्रजनयति प्रजाः । तासु प्रजासु प्रजातासु कुह्वा वाचं दधाति स्थापयति ॥
2 पशुकामस्यापि प्रथमो धाता । तेन प्रवापयति निषिञ्चति पशून् । प्रजातान्पशून् कुह्वा प्रतिष्ठापयति ॥
3 ग्रामकामस्य मध्यतो धाता । तेन ग्रामस्य मध्ये एनं आधिपत्यै स्थापयति ॥
4 ज्योगामयावी दीर्घामयग्रस्तः । अभिमन्यन्ते अभिक्रुध्यन्ति यस्य ज्योगामयत्यामयः । 'रुजार्थानाम्' इति कर्मणि षष्ठी । मध्यतो धाता भवति । मध्यतो हि देहस्य अकॢप्तं असामर्थ्यं एतस्य ज्योगामयाविनः । तेन धातुर्मध्यतः करणेन अस्य मध्यतः कल्पयति सामर्थ्यं जनयति ॥
5 यं यज्ञो नोपनमेत् नोपनमति, स इयक्षुरेता निर्वपेत् । तत्र धातुः प्राथम्येन मुखत एव छन्दांसि धृतानि भवन्ति । ततो यज्ञं एनमुपनमति ॥
6 ईजानः इष्टवान् । य ईजानः एतस्य खलु यातयामानि गतसाराणि छन्दांसि भवन्ति । तत्रोत्तमं धातारं कुर्यात् । उपरिष्टात् यागोत्तरकालं अयातयामान्येव छन्दांस्यवरुन्धे । ततश्चैनमुत्तरो यज्ञः उपनमति येन इयक्षते ॥
7 मेधाकामस्य प्रथमो धाता कार्यः ॥
8 रुक्कामस्य मध्यतः । क्षीरे हवींषि भवन्तीति रुक्कामस्य विशेषः ॥
9 गायत्री वा इत्यादि ॥ अनुमत्यादिधात्रन्ता गायत्र्यादिवषट्कारात्मना रूप्यते तद्वत्प्रजादिसाधनत्वात् । वषट्कारस्य च सर्वप्रवर्तकत्वात् धातृत्वम् । पूर्वपक्ष इत्यादि । राका पूर्णमासी पूर्वपक्षत्वेन रूप्यते । कुहूरमावास्या अपरपक्षत्वेन रूप्यते । सिनीवाली कृष्णपञ्चदशी दृष्टचन्द्रामावास्यारूपेण रूप्यते ।

अनुमतिरूनचन्द्रा शुक्लपञ्चदशी पौर्णमासीरूपेण रूप्यते । धाता चन्द्रमस्त्वेन रूप्यते । स हि सर्वमिदं पूर्वपक्षादि प्रवर्तयति । पूर्वपक्षादीनामपि प्रजावृद्ध्यादिहेतुत्वात् ताद्रूप्येण रूपणम् ॥

10 अष्टौ वसव इत्यादि ॥ गायत्र्यादिरूपेण अनुमत्यादयो रूपिताः । इदानीं ता एव वस्वादिरूपेण रूप्यन्ते - अष्टाक्षरा गायत्र्यात्मिका अनुमतिः अष्टौ वसव इति । एवं सर्वत्र । एतद्वा इत्यादि । एतेन प्रकारेण ॥
11 ता यदित्यादि ॥ तास्तादृश्यो देविकाः सर्वाः यत् यदि सह निर्वपेत्, एनं यजमानं प्रदहः प्रकर्षेण दग्धुमीश्वराः समर्थास्स्युः । 'ईश्वरे तोसुन्कसुनौ' इति तोसुन् । द्वे इत्यादि । गतम् । तथा उ तथो - निपातसमुदायात्मको निपातः ॥
12 अथो इत्यादि ॥ अथो अपि च यस्मै कामाय उक्तेभ्यः प्रजादिकामेभ्यः अन्यस्मा अपि एता निरुप्यन्ते तं काममाभिरेवोपाप्नोति ॥
इति तृतीये चतुर्थे नवमोनुवाकः ॥
पञ्चशत् 2 #
TS 3.4.9.2 TS 3.4.9.2
व॒ खलु॒ वै प॒शव॒श्छन्दो॑भिरे॒वास्मै॑ प॒शून् प्रज॑नयति प्रथ॒मं धा॒तारं॑ करोति॒ प्रैव तेन॑ वापय॒त्यन्वे॒वास्मा॒ अनु॑मतिर्मन्यते रा॒ते रा॒का प्र सि॑नीवा॒ली ज॑नयति प॒शूने॒व प्रजा॑तान् कु॒ह्वा᳚ प्रति॑ष्ठापयत्ये॒ता ए॒व निर्व॑पे॒द्-ग्राम॑काम॒श्छन्दाꣳ॑सि॒ वै देवि॑का॒श्छन्दाꣳ॑सी व॒ खलु॒ वै ग्राम॒श्छन्दो॑भिरे॒वास्मै॒ ग्राम॒ - [ ]
पदपाठः (Word-by-word)
इ॒व॒ । खलु॑ । वै । प॒शवः॑ । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । ए॒व । अ॒स्मै॒ । प॒शून् । प्रेति॑ । ज॒न॒य॒ति॒ । प्र॒थ॒मम् । धा॒तार᳚म् । क॒रो॒ति॒ । प्रेति॑ । ए॒व । तेन॑ । वा॒प॒य॒ति॒ । अन्विति॑ । ए॒व । अ॒स्मै॒ । अनु॑मति॒रित्य॑नु - म॒तिः॒ । म॒न्य॒ते॒ । रा॒ते । रा॒का । प्रेति॑ । सि॒नी॒वा॒ली । ज॒न॒य॒ति॒ । प॒शून् । ए॒व । प्रजा॑ता॒निति॒ प्र-जा॒ता॒न् । कु॒ह्वा᳚ । प्रतीति॑ । स्था॒प॒य॒ति॒ । ए॒ताः । ए॒व । निरिति॑ । व॒पे॒त् । ग्राम॑काम॒ इति॒ ग्राम॑ - का॒मः॒ । छन्दाꣳ॑सि । वै । देवि॑काः । छन्दाꣳ॑सि । इ॒व॒ । खलु॑ । वै । ग्रामः॑ । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । ए॒व । अ॒स्मै॒ । ग्राम᳚म् ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 3.4.9.3 TS 3.4.9.3
मव॑ रुन्धे मद्ध्य॒तो धा॒तारं॑ करोति मद्ध्य॒त ए॒वैनं॒ ग्राम॑स्य दधात्ये॒ता ए॒व निर्व॑पे॒ज्ज्योगा॑मयावी॒ छन्दाꣳ॑सि॒ वै देवि॑का॒श्छन्दाꣳ॑सि॒ खलु॒ वा ए॒तम॒भि म॑न्यन्ते॒ यस्य॒ ज्योगा॒मय॑ति॒ छन्दो॑भिरे॒वैन॑-मग॒दं क॑रोति मद्ध्य॒तो धा॒तारं॑ करोति मद्ध्य॒तो वा ए॒तस्याक्लृ॑प्तं॒ ॅयस्य॒ ज्योगा॒मय॑ति मद्ध्य॒त ए॒वास्य॒ तेन॑ कल्पयत्ये॒ता ए॒व नि - [ ]
पदपाठः (Word-by-word)
अवेति॑ । रु॒न्धे॒ । म॒द्ध्य॒तः । धा॒तार᳚म् । क॒रो॒ति॒ । म॒द्ध्य॒तः । ए॒व । ए॒न॒म् । ग्राम॑स्य । द॒धा॒ति॒ । ए॒ताः । ए॒व । निरिति॑ । व॒पे॒त् । ज्योगा॑मया॒वीति॒ ज्योक् - आ॒म॒या॒वी॒ । छन्दाꣳ॑सि । वै । देवि॑काः । छन्दाꣳ॑सि । खलु॑ । वै । ए॒तम् । अ॒भीति॑ । म॒न्य॒न्ते॒ । यस्य॑ । ज्योक् । आ॒मय॑ति । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । ए॒व । ए॒न॒म् । अ॒ग॒दम् । क॒रो॒ति॒ । म॒द्ध्य॒तः । धा॒तार᳚म् । क॒रो॒ति॒ । म॒द्ध्य॒तः । वै । ए॒तस्य॑ । अक्लृ॑प्तम् । यस्य॑ । ज्योक् । आ॒मय॑ति । म॒द्ध्य॒तः । ए॒व । अ॒स्य॒ । तेन॑ । क॒ल्प॒य॒ति॒ । ए॒ताः । ए॒व । निरिति॑ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 3.4.9.4 TS 3.4.9.4
र्व॑पे॒द्यं ॅय॒ज्ञो नोप॒नमे॒च्छन्दाꣳ॑सि॒ वै देवि॑का॒श्छन्दाꣳ॑सि॒ खलु॒ वा ए॒तं नोप॑ नमन्ति॒ यं ॅय॒ज्ञो नोप॒नम॑ति प्रथ॒मं धा॒तारं॑ करोति मुख॒त ए॒वास्मै॒ छन्दाꣳ॑सि दधा॒त्युपै॑नं ॅय॒ज्ञो न॑मत्ये॒ता ए॒व निव॑र्पेदीजा॒नश्छन्दाꣳ॑सि॒ वै देवि॑का या॒तया॑मानीव॒ खलु॒ वा ए॒तस्य॒ छन्दाꣳ॑सि॒ य ई॑जा॒न उ॑त्त॒मं धा॒तारं॑ करो - [ ]
पदपाठः (Word-by-word)
व॒पे॒त् । यम् । य॒ज्ञ्ः । न । उ॒प॒नमे॒दित्यु॑प - नमे᳚त् । छन्दाꣳ॑सि । वै । देवि॑काः । छन्दाꣳ॑सि । खलु॑ । वै । ए॒तम् । न । उपेति॑ । न॒म॒न्ति॒ । यम् । य॒ज्ञ्ः । न । उ॒प॒नम॒तीत्यु॑प - नम॑ति । प्र॒थ॒मम् । धा॒तार᳚म् । क॒रो॒ति॒ । मु॒ख॒तः । ए॒व । अ॒स्मै॒ । छन्दाꣳ॑सि । द॒धा॒ति॒ । उपेति॑ । ए॒न॒म् । य॒ज्ञ्ः । न॒म॒ति॒ । ए॒ताः । ए॒व । निरिति॑ । व॒पे॒त् । ई॒जा॒नः । छन्दाꣳ॑सि । वै । देवि॑काः । या॒तया॑मा॒नीति॑ या॒त - या॒मा॒नि॒ । इ॒व॒ । खलु॑ । वै । ए॒तस्य॑ । छन्दाꣳ॑सि । यः । ई॒जा॒नः । उ॒त्त॒ममित्यु॑त् - त॒मम् । धा॒तार᳚म् । क॒रो॒ति॒ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 3.4.9.5 TS 3.4.9.5
-त्यु॒परि॑ष्टादे॒वास्मै॒ छन्दाꣳ॒॒स्यया॑तयामा॒न्यव॑ रुन्ध॒ उपै॑न॒मुत्त॑रो य॒ज्ञो न॑मत्ये॒ता ए॒व निव॑र्पे॒द्यं मे॒धा नोप॒नमे॒च्छन्दाꣳ॑सि॒ वै देवि॑का॒श्छन्दाꣳ॑सि॒ खलु॒ वा ए॒तं नोप॑ नमन्ति॒ यं मे॒धा नोप॒नम॑ति प्रथ॒मं धा॒तारं॑ करोति मुख॒त ए॒वास्मै॒ छन्दाꣳ॑सि दधा॒त्युपै॑नं मे॒धा न॑मत्ये॒ता ए॒व निव॑र्पे॒ - [ ]
पदपाठः (Word-by-word)
उ॒परि॑ष्टात् । ए॒व । अ॒स्मै॒ । छन्दाꣳ॑सि । अया॑तयामा॒नीत्यया॑त - या॒मा॒नि॒ । अवेति॑ । रु॒न्धे॒ । उपेति॑ । ए॒न॒म् । उत्त॑र॒ इत्युत् - त॒रः॒ । य॒ज्ञ्ः । न॒म॒ति॒ । ए॒ताः । ए॒व । निरिति॑ । व॒पे॒त् । यम् । मे॒धा । न । उ॒प॒नमे॒दित्यु॑प - नमे᳚त् । छन्दाꣳ॑सि । वै । देवि॑काः । छन्दाꣳ॑सि । खलु॑ । वै । ए॒तम् । न । उपेति॑ । न॒म॒न्ति॒ । यम् । मे॒धा । न । उ॒प॒नम॒तीत्यु॑प - नम॑ति । प्र॒थ॒मम् । धा॒तार᳚म् । क॒रो॒ति॒ । मु॒ख॒तः । ए॒व । अ॒स्मै॒ । छन्दाꣳ॑सि । द॒धा॒ति॒ । उपेति॑ । ए॒न॒म् । मे॒धा । न॒म॒ति॒ । ए॒ताः । ए॒व । निरिति॑ । व॒पे॒त् ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 3.4.9.6 TS 3.4.9.6
द्रुक्का॑म॒श्छन्दाꣳ॑सि॒ वै देवि॑का॒श्छन्दाꣳ॑सीव॒ खलु॒ वै रुक् छन्दो॑भिरे॒वास्मि॒न् रुचं॑ दधातिक्षी॒रे भ॑वन्ति॒ रुच॑मे॒वास्मि॑न् दधति मद्ध्य॒तो धा॒तारं॑ करोति मद्ध्य॒त ए॒वैनꣳ॑ रु॒चो द॑धातिगाय॒त्री वा अनु॑मतिस्त्रि॒ष्टुग्रा॒का जग॑ती सिनीवा॒ल्य॑नु॒ष्टुप् कु॒हूर्द्धा॒ता व॑षट्का॒रः पू᳚र्वप॒क्षो रा॒काऽप॑रप॒क्षः कु॒हूर॑मावा॒स्या॑ सिनीवा॒ली पौ᳚र्णमा॒स्यनु॑मतिश्च॒न्द्रमा॑ धा॒ताऽष्टौ - [ ]
पदपाठः (Word-by-word)
रुक्का॑म॒ इति॒ रुक्-का॒मः॒ । छन्दाꣳ॑सि । वै । देवि॑काः । छन्दाꣳ॑सि । इ॒व॒ । खलु॑ । वै । रुक् । छन्दो॑भि॒रिति॒ छन्दः॑-भिः॒ । ए॒व । अ॒स्मि॒न्न् । रुच᳚म् । द॒धा॒ति॒ । क्षी॒रे । भ॒व॒न्ति॒ । रुच᳚म् । ए॒व । अ॒स्मि॒न्न् । द॒ध॒ति॒ । म॒द्ध्य॒तः । धा॒तार᳚म् । क॒रो॒ति॒ । म॒द्ध्य॒तः । ए॒व । ए॒न॒म् । रु॒चः । द॒धा॒ति॒ । गा॒य॒त्री । वै । अनु॑मति॒रित्य॑नु - म॒तिः॒ । त्रि॒ष्टुक् । रा॒का । जग॑ती । सि॒नी॒वा॒ली । अ॒नु॒ष्टुबित्य॑नु - स्तुप् । कु॒हूः । धा॒ता । व॒ष॒ट्का॒र इति॑ वषट् - का॒रः । पू॒र्व॒प॒क्ष इति॑ पूर्व - प॒क्षः । रा॒का । अ॒प॒र॒प॒क्ष इत्य॑पर - प॒क्षः । कु॒हूः । अ॒मा॒वा॒स्येत्य॑मा - वा॒स्या᳚ । सि॒नी॒वा॒ली । पौ॒र्ण॒मा॒सीति॑ पौर्ण - मा॒सी । अनु॑मति॒रित्य॑नु - म॒तिः॒ । च॒न्द्रमाः᳚ । धा॒ता । अ॒ष्टौ ।
पदसंख्या: 50
पञ्चशत् 7 #
TS 3.4.9.7 TS 3.4.9.7
वस॑वो॒ऽष्टाक्ष॑रा गाय॒त्र्येका॑दश रु॒द्रा एका॑दशाक्षरा त्रि॒ष्टुब् द्वाद॑शाऽऽ*दि॒त्या द्वाद॑शाक्षरा॒ जग॑ती प्र॒जाप॑तिरनु॒ष्टुब् धा॒ता व॑षट्का॒र ए॒तद्वै देवि॑काः॒ सर्वा॑णि च॒ छन्दाꣳ॑सि॒ सर्वा᳚श्च दे॒वता॑ वषट्का॒रस्ता यथ् स॒ह सर्वा॑ नि॒र्वपे॑दीश्व॒रा ए॑नं प्र॒दहो॒ द्वे प्र॑थ॒मे नि॒रुप्य॑ धा॒तुस्तृ॒तीयं॒ निव॑र्पे॒त् तथो॑ ए॒वोत्त॑रे॒ निव॑र्पे॒त् तथै॑नं॒ न प्रद॑ह॒न्त्य ( ) थो॒ यस्मै॒ कामा॑य निरु॒प्यन्ते॒ तमे॒वाऽऽ*भि॒रुपा᳚ऽऽ*प्नोति ॥
पदपाठः (Word-by-word)
वस॑वः । अ॒ष्टाक्ष॒रेत्य॒ष्टा - अ॒क्ष॒रा॒ । गा॒य॒त्री । एका॑दश । रु॒द्राः । एका॑दशाक्ष॒रेत्येका॑दश - अ॒क्ष॒रा॒ । त्रि॒ष्टुप् । द्वाद॑श । आ॒दि॒त्याः । द्वाद॑शाक्ष॒रेति॒ द्वाद॑श-अ॒क्ष॒रा॒ । जग॑ती । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । अ॒नु॒ष्टुबित्य॑नु-स्तुप् । धा॒ता । व॒ष॒ट्का॒र इति॑ वषट् - का॒रः । ए॒तत् । वै । देवि॑काः । सर्वा॑णि । च॒ । छन्दाꣳ॑सि । सर्वाः᳚ । च॒ । दे॒वताः᳚ । व॒ष॒ट्का॒र इति॑ वषट् - का॒रः । ताः । यत् । स॒ह । सर्वाः᳚ । नि॒र्वपे॒दिति॑ निः - वपे᳚त् । ई॒श्व॒राः । ए॒न॒म् । प्र॒दह॒ इति॑ प्र - दहः॑ । द्वे इति॑ । प्र॒थ॒मे इति॑ । नि॒रुप्येति॑ निः - उप्य॑ । धा॒तुः । तृ॒तीय᳚म् । निरिति॑ । व॒पे॒त् । तथो॒ इति॑ । ए॒व । उत्त॑रे॒ इत्युत् - त॒रे॒ । निरिति॑ । व॒पे॒त् । तथा᳚ । ए॒न॒म् । न । प्रेति॑ । द॒ह॒न्ति॒ ( ) । अथो॒ इति॑ । यस्मै᳚ । कामा॑य । नि॒रु॒प्यन्त॒ इति॑ निः - उ॒प्यन्ते᳚ । तम् । ए॒व । आ॒भिः॒ । उपेति॑ । आ॒प्नो॒ति॒ ॥
पदसंख्या: 59