पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
( अथ तृतीयकाण्डे चतुर्थप्रपाठके दशमोऽनुवाकः) ।
नवमे देविकाख्यानि हर्वीष्युक्तानि विस्तरात् ।
कल्पः — “सगृहः प्रयास्यन्वास्तोष्पतीयं जुहोति वास्तोष्पत इत्यनुद्रुत्योत्तर य गार्हपत्ये जुहोति” इति । प्रथममन्त्र पाठस्तु---
वास्तष्पते प्रतीति । अग्निहोत्रिणो गार्हपत्याग्निरेव गृहस्थानीयः । तेन सह यदा प्रयास्याति तदानीं पत्नीसहितोऽग्निं गृहीत्वा प्रयास्यन्नुत्तरेण मन्त्रेण होतुमिमां पुरोनुवाक्यामनुब्रूबात् । तस्य मन्त्रस्यायमर्थः वास्तोरग्निहोत्रनिवासस्थानस्य गृहस्य ह्रे पते पालक गार्हपत्यास्मान्प्रतिजानीहि ग्रामान्तर यियासून्प्रतिबुध्यस्व । ततोऽमाकं स्वावेशःऋ सुखेनऽऽवेशयिता वासयिता भव । अनमीवो रोगनिवारकश्व भव । यक्तार्यमुद्दिश्य त्वां वयमीहे प्राप्नुमः प्रार्थयामह इत्यर्थः । नोऽस्मदर्थं तत्कार्यं चुषस्व प्रीतिपूर्वकं सेवस्व । ततोऽस्माकं द्विपदे मनुष्याय चतुष्पते पशवे च शमेधि सुखे हेतुर्भव । द्विपदे शं भव चतुष्पदे च शं भवेति वाक्वभेदाय शमित्यस्य द्विःपाठः । द्वितीयमन्त्र पाठस्तु —
वास्तोप्पते शग्भयेति । हे वास्तोष्पते संसदा त्वदीयया सभया सक्षीमहि वयं संसक्ता भूयास्म । कीदृश्या संसदा, शग्मया सर्वार्थसाधनशक्तया । रण्वयां रमणीयया । गातुमत्या गातुर्गतिरवगतिस्तद्युक्तया सर्वज्ञयेत्यर्थः । त्वं नोऽस्माकं योगे योगनिमित्तं वरमावः सम्यग्रक्ष । उतापि च क्षेमे क्षेमनिमित्तं सम्यग्रक्ष । अलब्धस्यापेक्षितस्य लाभो योगः । लब्धस्य सर्वार्तस्य परिपालनं क्षेमः । यूयमिति पूजार्थं बहुवचनम् । मे यूयं नोऽस्मान्स्वस्तिमिर्नानाविधश्रेयोभिः पात रक्षत । अथैनं होमं विधातुं प्रस्तौति —
यत्सायं प्रातरिति । अग्निहोत्री कालद्वयेनाग्निहोत्रं जुहोतीति यत्ताः स्रवा आहुतिरूपा इष्टका एव यजमान उपधत्ते । यद्यप्यत्र मृन्मया इष्टका न सन्ति तथाऽपि यः पुरु, आहिताग्निर्भवति एतस्याहोरात्राण्येवेष्टकाः संपद्यन्ते । अतो यदि सायंप्रातर्नियमेन जुहोति तदानीमनुष्ठानेनाहोरात्राण्येव प्राप्तकालारूपा इष्टकाः कृत्वोपधानं कृतवान्भवति । पुनः प्रकारान्तरेण प्रस्तौति —
दश समानत्रेति । समानत्रेकत्र दश दिनानि स्थित्वा यदाऽग्निहोत्रं जुहोति तदा दशसंख्यासामान्याद्विराट्संपद्यतेऽग्निहोत्री विराजमेव प्राप्य तां विराजमेवेष्टकां कृत्वोपधानं कृतवान्भवति । अपि च विराजि लब्धायामग्निष्टोमयज्ञं प्राप्नोति । अत एव सप्तमकाण्डेऽग्निष्टोमप्रस्तावे विराजमभिसंपद्यत इति वक्ष्यते । तदेवमस्याग्निहोत्रिणश्वचित्यश्वचित्यो भवति । त्रिविधाश्वचित्याग्नयः संपद्यन्ते । सायंप्रातर्होमाहुति-रूपाभिरिष्टकामिश्चित । एकोऽग्निः । अहोरात्रकालरूपाभिरिष्टकाभिश्चितो द्वितीयोऽग्निः । विराड्रूपेष्टकया चितस्तु तृतीयोऽग्निः । एवमस्य विविधचित्याग्निसंपत्तिः इदानीं विधत्ते —
तस्माद्यत्रेति । यस्मादेकत्र दशाहोरात्रहोमेन विराट्संपत्तिस्तस्माद्यत्र दश दिनान्युषित्वा पश्वादग्निहोत्री प्रयाति स देशो यज्ञभूमिस्ततोऽर्वाचनिं कालं यत्र वसति सेयमयज्ञभूमिरेव । अतो दशरात्रिरेकत्रोषित्वा यत्पश्वात्प्रयाणं तद्धोमति मित्तम । तस्मिन्होमे रुद्वशब्दामिधेयो मार्ह+त्याग्निदेवता । तस्य वास्तोष्पतित्वात् । एवं सति यदि वास्तोष्पतीयहोममकृत्वा प्रयाणे कुर्यात्ततो गार्हपत्योऽग्निः क्रूरो श्रूत्वा यजमानमनूत्थाय हन्यात् । अतस्तत्परिहाराय प्रमाणकाले वास्तोष्पतीयं
जुहुयात । तेन होमभागं दत्त्वा तगमग्निं शान्तं करोति । ततो यजमानो न म्रियते । प्रयाणार्थस्य शकटस्य दक्षिणबलीवर्दयोजतादूर्ध्वं सव्यबलीवर्दयोजनात्प्रगेव होमावसर इत्येतद्विधत्ते —
यदुक्ते जुहूयादिति । यदि बलीवर्दद्वये युक्ते सति पश्वाज्जुहुयात्तदा तावतैव वास्तुर्यज्ञदेशः प्रयातो भवति । तस्मिन्प्रयाते सति अयज्ञदेशे लौकिके यथां होमस्तथैतत्स्यात् । तर्ह्ययुक्ते बलीवर्दद्वये जुहोत्विति चेत् । तदप्यसंगतम् । यथा क्षेमे सति प्रयाणप्रसङ्गमन्तरेण जुहोति तथैतत्स्यात् । उभयथाऽप्यहुतमस्य वास्तोष्पतीयं भवेत् । प्रयास्याता हि वास्तोष्पतीयं होतव्यम् । उभययोगे हि प्रयाणस्य निष्पन्नत्वान्नायं प्रयास्यन्भवति । तयोरुभयोरप्ययोगे प्रयाणप्रसङ्गस्याभा वान्नेव प्रयास्यान्यवति । तक्षिणबलीवर्द एकस्मिन्नेव युक्ते तु प्रयाणस्य प्रसक्तत्वादनतीतत्वाच्चायं प्रयास्यन्भवति । अतस्तदा वास्तोष्पतीयं जुहुयात् । तथा सत्युभयमेव कृतवान्भवति । प्रयाणस्य प्रसक्तत्वमेकमनिप्पन्नत्वं द्वितीयमित्युभयम् । एनं क्रूरमग्निं तथाविधेन होमेनापरिवर्गमेव शमयति क्षमनीयस्यांसश्य कस्यचिदपि वर्जनमकृत्वा सर्वात्मना शान्तमेनं कृतवान्भवति ।
वास्तोष्पते प्रतिजानीहि वास्तोष्पते शग्मवेत्यत्यस्य मन्त्रद्वयस्य होमाङ्गतः विधत्ते —
यदेकयेति । आश्रावयेत्वादिर्वौषडित्यान्तो मन्त्रसंघो याज्यापुरोनुवाक्ययो सहाये (यो) वर्तते । याज्यापुरोनुवाक्ये तु प्रधानभूते । तत्पूर्वको होमो देवानां प्रियस्तद्रहितस्तु दर्विहोमः । अग्नये स्वाहेत्येवं मन्बमुच्चार्याऽऽश्रावादिभिर्विना केवलया दर्व्या हुयमानत्वात्तादृशो देवानामत्यन्तं प्रियो न भवति । एवं सत्यत्र यद्येकयैव दर्व्या चुहुयात्तदानीमाश्रावणादिमन्त्राणामवकाशाभावेन दर्विहोमः त्यात् । अतो दर्विहोमत्वं मा भूदित्यभिप्रेत्य वास्तोष्पते प्रतिजानीहीत्येतां पुरोवाक्यामनुच्य वास्तोष्पते शग्मयेत्यनया याज्वया जुहुयात । तथा सति देवानात्यन्तप्रियत्वाद्दे [त्सदे] वत्वं भवति ।
यद्धुत आदध्यादिति । यद्यग्निहोत्रे हुते सति पश्वाद्भाण्डानि शकटे
स्थापयेत्तदानीं गृहोपकरणानि भाण्डादीन्युन रुद्रनामकमग्निमपि शकटे स्थापयेत् । ततः शकटं दह्येत । नहि होमादुध्वर्भग्निः पूर्वदेशे तिष्ठति, पूर्वं तु होमार्थं विष्ठत्येव । तस्मादहुतेऽग्निहोत्रे तद्धोमात्प्रागेव भाण्डानि शकटे स्थापयेदिति विधिरुन्नीयते । ज्वलितानि काष्ठान्यङ्गाररूपाण्यवक्षाणशब्दाभिधेयानि । यदि तान्यसंप्रक्षाप्याग्निराहित्यं यथा न भवति तथा शान्तान्यकृत्वा प्रयाणं कुर्यात्तदाकेनचिद्यज्ञविधातः कृतो यथा वा गृहदहनं कृतं तादृशमेव तदङ्गारणामशमनं स्यात् । अतस्तत्परिहारार्थमयं ते योनिरिति मन्त्रेण तमग्निमरण्योः समारोह यत् । एयोऽरण्योः संद्यो वन्हेः कारणं ताभ्बामुत्पन्नत्वात् । ततस्तमग्निं स्वकीये योनौ समारूढं करोति । मन्त्रस्तूपप्रयन्तो अध्वरमित्यनुवाके समाम्नातत्वात्तत्रैव व्याख्यातः ।
अरणिसमारोहणं पाक्षत्रिकदोषग्रस्तत्वादपेक्ष्य स्वात्मनि समारोहणं विधत्ते —
अथो खल्वाहुरिति । अथ केचित्खल्वाहुररण्योः समारूढो यद्यरणिदा हापहारादिना नश्येत्तदा यजमानस्य पूर्वमादितोऽग्निरुत्सीदेदतोऽग्निः पुनराधातव्यः स्यादिति, तस्य दोषस्य परिहाराय यजमानो या ते अग्न इति मन्त्रेण स्वात्मन्यग्निं समारोहयेत । तथैवारण्योरग्न्युत्पादकत्वमेवं यजमानोऽपि शास्त्रीया-ग्नेरुत्पादकत्वाद्योनिर्भवति । तस्माद्यजमाने समारोहितोऽग्नि । स्वकीयोयामेव योन्यां समारोहितो भवति । अयं तु मन्त्रो ब्राह्मणग्रन्थे द्वितीयकाण्ड पश्वमप्रपाठके समाभ्नास्यमानत्वात्तत्रैव व्याख्यास्यते । अत्र विनियोगसंग्रहः —
अग्निहोत्री त सगृहः प्रयास्यञ्जुहुयादद्वयम् ।
वास्तोः पुरोनुवाक्योका याज्या चान्येति ददद्वयम् ॥
अत्र मीमांसा ।
अष्टमाध्यायस्य चतुर्थपादे चिन्तितम्---
दर्विहोमो गुणो नाम वा गुणो दधिहोमवत् ।
गुणासंभवतो लोकवेदयोर्नाम तद्भवेत् ॥
इदमाम्नायते “यदेकया जुहुयाद्दर्विहोमं कुर्यात्” इति । तत्र दर्व्या होमो दर्विहोम इति तृतीयासमासे सति दध्ना जुहोतीत्यादाविवि होमानुवादेन
गुणविधित्वसंभवाद्दर्व्याख्यो गुणो विधीयत इति चेन्मैवम् । न तावल्लोकसिद्धे स्थालीपाकाष्टकादिहोमे दर्विगुणो विधातुं शक्यो लौकिकशिष्टाचारदेव तत्र साधनप्राप्तेः नापि वेदसिद्धऽग्निहोत्रनारिष्ठादिहोमे विहितजुह्वादिबाधप्रसङ्गात् । तस्माद्दर्विहोम इति कर्मनामधेयम् । तत्रैवान्यच्चिन्तितम् —
लोकिकस्येत सर्वस्य नामाऽऽद्योऽम्बष्ठवाक्यतः ।
निमित्तसाम्याद्वेदेऽपि तदुक्ते सर्वनाम तत् ॥
“अम्बष्ठानां दार्विहोमिको ब्राह्मणः” इति श्रु (स्मृ) तावाम्बष्ठस्वामिके स्मार्तहोमे तत्प्रयोगाल्लौकिकस्यैव होमस्य तन्नामेति चेन्मैवम् । दर्व्या होम इति प्रवृत्तिनिमित्तस्य लौकिकवैदिकयोः समानत्वाद्दर्विहोमं कुर्यादिति श्रुत्युक्तेर्वैदिकहो मनामलिङ्गत्वात्सर्वस्य होमस्यैतन्नाम । तत्रैवान्यच्चिन्तितम् —
तद्यजेरपि नाम स्याज्जुहोतेरेव वाऽग्रिमः ।
अविशेषेण मुख्यत्वाज्जुहोतेर्लक्षणाऽन्यथा ॥
तन्नाम चुहोतिचोदानानां यजतिचोदनानां च भवितुमह्रति । कुतः । अवि शेषश्रवणादिति चेन्मैवम् । जुहोतियोदनासु होमशब्दस्य मुख्यत्वात् । यजतिचोदनानां तन्नामत्वे लक्षणा स्यात् । तस्माज्जुहोतिचोदनानामेव ।
तत्रैवान्यच्चित्नितम् —
दर्विहोमे सोमधर्मा अपूर्वत्वमुताग्निमः ।
अव्यक्तेर्यज्यबावाच्च स्वाहोक्त्यादेरपूर्वता ॥
जयाभ्याताननारिष्ठादिषु दर्विहोमेषूत्पत्तिवाक्ये देवताया अश्रवणाद-व्यक्तिलिङ्गेन सोमधर्माः कर्तव्या इति चेन्मैवम् । सोमे श्रुतस्य यजतिलिङ्गस्याभावात् । किंच – पृथिव्यै स्वाहाऽन्तरिक्षाय स्वाहा’ इति । दर्विहोमेषु स्वाहाकार आम्नातः । स च सोमाविध्यन्तातिदेशे विरुध्येत । तेन स्वाहाकारविरोधिनो वषट्कारस्य प्राप्यमाणत्वात् । किंचोदाहृतैर्मन्त्रगतचतुर्थ्यन्तैः पदैर्देवतासमर्पणान्नास्त्यव्यक्तत्म् । तस्माद्दर्विहोमानामपूर्वकर्मत्वान्नास्ति तत्र कस्यापि विध्यन्तस्यातिदेशः ॥
चतुर्थप्रपाठके दशमोऽनुवाकः ॥ १० ॥