अनुवाकः 10 TS 3.4.10

(A10)

(ध॒त्ते॒-ऽर्वा॒चीनꣳ॑ -स्याथ्-स॒मारो॑हयति॒ -पञ्च॑चत्वारिꣳशच्च)

अनुवाकः 10 - Complete Audio

TS 3.4.10 - स्वरानुगामी

0:00 0:00
PS1.1 वास्तो᳚ष्पते॒ प्रति॑ जानी ह्य॒स्मान्थ्
PS1.2 स्वा॑वे॒शो अ॑नमी॒वो भ॑वानः
PS1.3 यत् त्वेम॑हे॒ प्रति॒तन्नो॑ जुषस्व॒
PS1.4 शन्न॑ एधि द्वि॒पदे॒ शञ्चतु॑ष्पदे
PS1.5 वास्तो᳚ष्पते श॒ग्मया॑ सꣳ॒॒ सदा॑ते
PS1.6 सक्षी॒महि॑ र॒ण्वया॑ गातु॒मत्या᳚
PS1.7 आवः॒ क्षेम॑ उ॒त योगे॒
PS1.8 वर॑न्नो यू॒यं पा॑त स्व॒स्तिभिः॒
PS1.9 सदा॑नः
PS1.10 यथ् सा॒यं प्रा॑तरग्निहो॒त्रं जु॒होत्या॑हुतीष्ट॒का
PS1.11 ए॒व ता उप॑ धत्ते॒
PS1.12 - [ ]
PS2.1 यज॑मानोऽहोरा॒त्राणि॒ वा ए॒तस्येष्ट॑का॒ य
PS2.2 आहि॑ताग्नि॒र्यथ् सा॒यं प्रा॑तर्जु॒होत्य॑होरा॒त्राण्ये॒वा ऽऽ*प्त्वेष्ट॑काः
PS2.3 कृ॒त्वोप॑ धत्ते॒ दश॑ समा॒नत्र॑
PS2.4 जुहोति॒ दशा᳚क्षरा वि॒राड् वि॒राज॑मे॒वाऽऽ*प्त्वेष्ट॑कां
PS2.5 कृ॒त्वोप॑ ध॒त्तेऽथो॑ वि॒राज्ये॒व य॒ज्ञ्मा᳚प्नोति॒
PS2.6 चित्य॑श्चित्योऽस्य भवति॒ तस्मा॒द्यत्र॒ दशो॑षि॒त्वा
PS2.7 प्र॒याति॒ तद्-य॑ज्ञ्वा॒स्त्ववा᳚स्त्वे॒व तद्यत् ततो᳚ऽर्वा॒चीनꣳ॑
PS2.8 - [ ]
PS3.1 रु॒द्रः खलु॒ वै वा᳚स्तोष्प॒तिर्यदहु॑त्वा
PS3.2 वास्तोष्प॒तीयं॑ प्रया॒याद् रु॒द्र ए॑नं
PS3.3 भू॒त्वाऽग्निर॑नू॒त्थाय॑ हन्याद्वास्तोष्प॒तीयं॑ जुहोति भाग॒धेये॑नै॒वैनꣳ॑
PS3.4 शमयति॒ नाऽऽ*र्ति॒मार्च्छ॑ति॒ यज॑मानो॒ यद्यु॒क्ते
PS3.5 जु॑हु॒याद्यथा॒ प्रया॑ते॒ वास्ता॒वाहु॑तिं जु॒होति॑
PS3.6 ता॒दृगे॒व तद्यदयु॑क्ते जुहु॒याद्यथा॒ क्षेम॒
PS3.7 आहु॑तिं जु॒होति॑ ता॒दृगे॒व तदहु॑तमस्य
PS3.8 वास्तोष्प॒तीयꣳ॑ स्या॒ - [
PS3.9 ]
PS4.1 द्दक्षि॑णो यु॒क्तो भव॑ति स॒व्योऽयु॒क्तोऽथ॑
PS4.2 वास्तोष्प॒तीयं॑ जुहोत्यु॒भय॑मे॒वाऽ क॒रप॑रिवर्गमे॒वैनꣳ॑ शमयति॒
PS4.3 यदेक॑या जुहु॒याद्द॑र्विहो॒मं कु॑र्यात् पुरोऽनुवा॒क्या॑
PS4.4 म॒नूच्य॑ या॒ज्य॑या जुहोति सदेव॒त्वाय॒
PS4.5 यद्धु॒त आ॑द॒द्ध्याद् रु॒द्रं गृ॒हान॒न्वारो॑हये॒द्-यद॑व॒क्षाणा॒न्यसं॑
PS4.6 प्रक्षाप्य प्रया॒याद्यथा॑ यज्ञ्वेश॒सं ॅवा॒ऽऽदह॑नं
PS4.7 ॅवा ता॒दृगे॒व तद॒यन्ते॒ योनि॑र्.ऋ॒त्विय॒
PS4.8 इत्य॒रण्योः᳚ स॒मारो॑हय - [
PS4.9 ]
PS5.1 -त्ये॒ष वा अ॒ग्नेर्योनिः॒ स्व
PS5.2 ए॒वैनं॒ ॅयोनौ॑ स॒मारो॑हय॒त्यथो॒ खल्वा॑हु॒र्यद॒रण्योः᳚
PS5.3 स॒मारू॑ढो॒ नश्ये॒दुद॑स्या॒ग्निः सी॑देत् पुनरा॒धेयः॑
PS5.4 स्या॒दिति॒ या ते॑ अग्ने
PS5.5 य॒ज्ञिया॑ त॒नूस्तयेह्या रो॒हेत्या॒त्मन्थ् स॒मारो॑हयते॒
PS5.6 यज॑मानो॒ वा अ॒ग्नेर्योनिः॒ स्वाया॑मे॒वैनं॒
PS5.7 ॅयोन्याꣳ॑ स॒मारो॑हयते

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 3.4.10.1 TS 3.4.10.1
वास्तो᳚ष्पते॒ प्रति॑ जानी ह्य॒स्मान्थ् स्वा॑वे॒शो अ॑नमी॒वो भ॑वानः । यत् त्वेम॑हे॒ प्रति॒तन्नो॑ जुषस्व॒ शन्न॑ एधि द्वि॒पदे॒ शञ्चतु॑ष्पदे ॥वास्तो᳚ष्पते श॒ग्मया॑ सꣳ॒॒ सदा॑ते सक्षी॒महि॑ र॒ण्वया॑ गातु॒मत्या᳚ । आवः॒ क्षेम॑ उ॒त योगे॒ वर॑न्नो यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑नः ॥ यथ् सा॒यं प्रा॑तरग्निहो॒त्रं जु॒होत्या॑हुतीष्ट॒का ए॒व ता उप॑ धत्ते॒ - [ ]
पदपाठः (Word-by-word)
वास्तोः᳚ । प॒ते॒ । प्रतीति॑ । जा॒नी॒हि॒ । अ॒स्मान् । स्वा॒वे॒श इति॑ सु-आ॒वे॒शः । अ॒न॒मी॒वः । भ॒व॒ । नः॒ ॥ यत् । त्वा॒ । ईम॑हे । प्रतीति॑ । तत् । नः॒ । जु॒ष॒स्व॒ । शम् । नः॒ । ए॒धि॒ । द्वि॒पद॒ इति॑ द्वि - पदे᳚ । शम् । चतु॑ष्पद॒ इति॒ चतुः॑ - प॒दे॒ ॥ वास्तोः᳚ । प॒ते॒ । श॒ग्मया᳚ । सꣳ॒॒सदेति॑ सं - सदा᳚ । ते॒ । स॒क्षी॒महि॑ । र॒ण्वया᳚ । गा॒तु॒मत्येति॑ गातु - मत्या᳚ ॥ आवः॑ । क्षेमे᳚ । उ॒त । योगे᳚ । वर᳚म् । नः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिभि॒रिति॑ स्व॒स्ति - भिः॒ । सदा᳚ । नः॒ ॥ यत् । सा॒यंप्रा॑त॒रिति॑ सा॒यं - प्रा॒तः॒ । अ॒ग्नि॒हो॒त्रमित्य॑ग्नि - हो॒त्रम् । जु॒होति॑ । आ॒हु॒ती॒ष्ट॒का इत्या॑हुति - इ॒ष्ट॒काः । ए॒व । ताः । उपेति॑ । ध॒त्ते॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

( अथ तृतीयकाण्डे चतुर्थप्रपाठके दशमोऽनुवाकः) ।

नवमे देविकाख्यानि हर्वीष्युक्तानि विस्तरात् ।

अथ दशमे प्रयाणं करिष्यताऽग्निहात्रिणोऽग्निसमारोपणमभिवीयते ।

कल्पः — “सगृहः प्रयास्यन्वास्तोष्पतीयं जुहोति वास्तोष्पत इत्यनुद्रुत्योत्तर य गार्हपत्ये जुहोति” इति । प्रथममन्त्र पाठस्तु---

वास्तष्पते प्रतीति । अग्निहोत्रिणो गार्हपत्याग्निरेव गृहस्थानीयः । तेन सह यदा प्रयास्याति तदानीं पत्नीसहितोऽग्निं गृहीत्वा प्रयास्यन्नुत्तरेण मन्त्रेण होतुमिमां पुरोनुवाक्यामनुब्रूबात् । तस्य मन्त्रस्यायमर्थः वास्तोरग्निहोत्रनिवासस्थानस्य गृहस्य ह्रे पते पालक गार्हपत्यास्मान्प्रतिजानीहि ग्रामान्तर यियासून्प्रतिबुध्यस्व । ततोऽमाकं स्वावेशःऋ सुखेनऽऽवेशयिता वासयिता भव । अनमीवो रोगनिवारकश्व भव । यक्तार्यमुद्दिश्य त्वां वयमीहे प्राप्नुमः प्रार्थयामह इत्यर्थः । नोऽस्मदर्थं तत्कार्यं चुषस्व प्रीतिपूर्वकं सेवस्व । ततोऽस्माकं द्विपदे मनुष्याय चतुष्पते पशवे च शमेधि सुखे हेतुर्भव । द्विपदे शं भव चतुष्पदे च शं भवेति वाक्वभेदाय शमित्यस्य द्विःपाठः । द्वितीयमन्त्र पाठस्तु —

वास्तोप्पते शग्भयेति । हे वास्तोष्पते संसदा त्वदीयया सभया सक्षीमहि वयं संसक्ता भूयास्म । कीदृश्या संसदा, शग्मया सर्वार्थसाधनशक्तया । रण्वयां रमणीयया । गातुमत्या गातुर्गतिरवगतिस्तद्युक्तया सर्वज्ञयेत्यर्थः । त्वं नोऽस्माकं योगे योगनिमित्तं वरमावः सम्यग्रक्ष । उतापि च क्षेमे क्षेमनिमित्तं सम्यग्रक्ष । अलब्धस्यापेक्षितस्य लाभो योगः । लब्धस्य सर्वार्तस्य परिपालनं क्षेमः । यूयमिति पूजार्थं बहुवचनम् । मे यूयं नोऽस्मान्स्वस्तिमिर्नानाविधश्रेयोभिः पात रक्षत । अथैनं होमं विधातुं प्रस्तौति —

यत्सायं प्रातरिति । अग्निहोत्री कालद्वयेनाग्निहोत्रं जुहोतीति यत्ताः स्रवा आहुतिरूपा इष्टका एव यजमान उपधत्ते । यद्यप्यत्र मृन्मया इष्टका न सन्ति तथाऽपि यः पुरु, आहिताग्निर्भवति एतस्याहोरात्राण्येवेष्टकाः संपद्यन्ते । अतो यदि सायंप्रातर्नियमेन जुहोति तदानीमनुष्ठानेनाहोरात्राण्येव प्राप्तकालारूपा इष्टकाः कृत्वोपधानं कृतवान्भवति । पुनः प्रकारान्तरेण प्रस्तौति —

दश समानत्रेति । समानत्रेकत्र दश दिनानि स्थित्वा यदाऽग्निहोत्रं जुहोति तदा दशसंख्यासामान्याद्विराट्संपद्यतेऽग्निहोत्री विराजमेव प्राप्य तां विराजमेवेष्टकां कृत्वोपधानं कृतवान्भवति । अपि च विराजि लब्धायामग्निष्टोमयज्ञं प्राप्नोति । अत एव सप्तमकाण्डेऽग्निष्टोमप्रस्तावे विराजमभिसंपद्यत इति वक्ष्यते । तदेवमस्याग्निहोत्रिणश्वचित्यश्वचित्यो भवति । त्रिविधाश्वचित्याग्नयः संपद्यन्ते । सायंप्रातर्होमाहुति-रूपाभिरिष्टकामिश्चित । एकोऽग्निः । अहोरात्रकालरूपाभिरिष्टकाभिश्चितो द्वितीयोऽग्निः । विराड्रूपेष्टकया चितस्तु तृतीयोऽग्निः । एवमस्य विविधचित्याग्निसंपत्तिः इदानीं विधत्ते —

तस्माद्यत्रेति । यस्मादेकत्र दशाहोरात्रहोमेन विराट्संपत्तिस्तस्माद्यत्र दश दिनान्युषित्वा पश्वादग्निहोत्री प्रयाति स देशो यज्ञभूमिस्ततोऽर्वाचनिं कालं यत्र वसति सेयमयज्ञभूमिरेव । अतो दशरात्रिरेकत्रोषित्वा यत्पश्वात्प्रयाणं तद्धोमति मित्तम । तस्मिन्होमे रुद्वशब्दामिधेयो मार्ह+त्याग्निदेवता । तस्य वास्तोष्पतित्वात् । एवं सति यदि वास्तोष्पतीयहोममकृत्वा प्रयाणे कुर्यात्ततो गार्हपत्योऽग्निः क्रूरो श्रूत्वा यजमानमनूत्थाय हन्यात् । अतस्तत्परिहाराय प्रमाणकाले वास्तोष्पतीयं

जुहुयात । तेन होमभागं दत्त्वा तगमग्निं शान्तं करोति । ततो यजमानो न म्रियते । प्रयाणार्थस्य शकटस्य दक्षिणबलीवर्दयोजतादूर्ध्वं सव्यबलीवर्दयोजनात्प्रगेव होमावसर इत्येतद्विधत्ते —

यदुक्ते जुहूयादिति । यदि बलीवर्दद्वये युक्ते सति पश्वाज्जुहुयात्तदा तावतैव वास्तुर्यज्ञदेशः प्रयातो भवति । तस्मिन्प्रयाते सति अयज्ञदेशे लौकिके यथां होमस्तथैतत्स्यात् । तर्ह्ययुक्ते बलीवर्दद्वये जुहोत्विति चेत् । तदप्यसंगतम् । यथा क्षेमे सति प्रयाणप्रसङ्गमन्तरेण जुहोति तथैतत्स्यात् । उभयथाऽप्यहुतमस्य वास्तोष्पतीयं भवेत् । प्रयास्याता हि वास्तोष्पतीयं होतव्यम् । उभययोगे हि प्रयाणस्य निष्पन्नत्वान्नायं प्रयास्यन्भवति । तयोरुभयोरप्ययोगे प्रयाणप्रसङ्गस्याभा वान्नेव प्रयास्यान्यवति । तक्षिणबलीवर्द एकस्मिन्नेव युक्ते तु प्रयाणस्य प्रसक्तत्वादनतीतत्वाच्चायं प्रयास्यन्भवति । अतस्तदा वास्तोष्पतीयं जुहुयात् । तथा सत्युभयमेव कृतवान्भवति । प्रयाणस्य प्रसक्तत्वमेकमनिप्पन्नत्वं द्वितीयमित्युभयम् । एनं क्रूरमग्निं तथाविधेन होमेनापरिवर्गमेव शमयति क्षमनीयस्यांसश्य कस्यचिदपि वर्जनमकृत्वा सर्वात्मना शान्तमेनं कृतवान्भवति ।

वास्तोष्पते प्रतिजानीहि वास्तोष्पते शग्मवेत्यत्यस्य मन्त्रद्वयस्य होमाङ्गतः विधत्ते —

यदेकयेति । आश्रावयेत्वादिर्वौषडित्यान्तो मन्त्रसंघो याज्यापुरोनुवाक्ययो सहाये (यो) वर्तते । याज्यापुरोनुवाक्ये तु प्रधानभूते । तत्पूर्वको होमो देवानां प्रियस्तद्रहितस्तु दर्विहोमः । अग्नये स्वाहेत्येवं मन्बमुच्चार्याऽऽश्रावादिभिर्विना केवलया दर्व्या हुयमानत्वात्तादृशो देवानामत्यन्तं प्रियो न भवति । एवं सत्यत्र यद्येकयैव दर्व्या चुहुयात्तदानीमाश्रावणादिमन्त्राणामवकाशाभावेन दर्विहोमः त्यात् । अतो दर्विहोमत्वं मा भूदित्यभिप्रेत्य वास्तोष्पते प्रतिजानीहीत्येतां पुरोवाक्यामनुच्य वास्तोष्पते शग्मयेत्यनया याज्वया जुहुयात । तथा सति देवानात्यन्तप्रियत्वाद्दे [त्सदे] वत्वं भवति ।

अथ क्रमेण शकटे भाण्डस्थापनमरण्योरग्निसमारोहणं च विधत्ते---

यद्धुत आदध्यादिति । यद्यग्निहोत्रे हुते सति पश्वाद्भाण्डानि शकटे

स्थापयेत्तदानीं गृहोपकरणानि भाण्डादीन्युन रुद्रनामकमग्निमपि शकटे स्थापयेत् । ततः शकटं दह्येत । नहि होमादुध्वर्भग्निः पूर्वदेशे तिष्ठति, पूर्वं तु होमार्थं विष्ठत्येव । तस्मादहुतेऽग्निहोत्रे तद्धोमात्प्रागेव भाण्डानि शकटे स्थापयेदिति विधिरुन्नीयते । ज्वलितानि काष्ठान्यङ्गाररूपाण्यवक्षाणशब्दाभिधेयानि । यदि तान्यसंप्रक्षाप्याग्निराहित्यं यथा न भवति तथा शान्तान्यकृत्वा प्रयाणं कुर्यात्तदाकेनचिद्यज्ञविधातः कृतो यथा वा गृहदहनं कृतं तादृशमेव तदङ्गारणामशमनं स्यात् । अतस्तत्परिहारार्थमयं ते योनिरिति मन्त्रेण तमग्निमरण्योः समारोह यत् । एयोऽरण्योः संद्यो वन्हेः कारणं ताभ्बामुत्पन्नत्वात् । ततस्तमग्निं स्वकीये योनौ समारूढं करोति । मन्त्रस्तूपप्रयन्तो अध्वरमित्यनुवाके समाम्नातत्वात्तत्रैव व्याख्यातः ।

अरणिसमारोहणं पाक्षत्रिकदोषग्रस्तत्वादपेक्ष्य स्वात्मनि समारोहणं विधत्ते —

अथो खल्वाहुरिति । अथ केचित्खल्वाहुररण्योः समारूढो यद्यरणिदा हापहारादिना नश्येत्तदा यजमानस्य पूर्वमादितोऽग्निरुत्सीदेदतोऽग्निः पुनराधातव्यः स्यादिति, तस्य दोषस्य परिहाराय यजमानो या ते अग्न इति मन्त्रेण स्वात्मन्यग्निं समारोहयेत । तथैवारण्योरग्न्युत्पादकत्वमेवं यजमानोऽपि शास्त्रीया-ग्नेरुत्पादकत्वाद्योनिर्भवति । तस्माद्यजमाने समारोहितोऽग्नि । स्वकीयोयामेव योन्यां समारोहितो भवति । अयं तु मन्त्रो ब्राह्मणग्रन्थे द्वितीयकाण्ड पश्वमप्रपाठके समाभ्नास्यमानत्वात्तत्रैव व्याख्यास्यते । अत्र विनियोगसंग्रहः —

अग्निहोत्री त सगृहः प्रयास्यञ्जुहुयादद्वयम् ।

वास्तोः पुरोनुवाक्योका याज्या चान्येति ददद्वयम् ॥

अत्र मीमांसा ।

अष्टमाध्यायस्य चतुर्थपादे चिन्तितम्---

दर्विहोमो गुणो नाम वा गुणो दधिहोमवत् ।

गुणासंभवतो लोकवेदयोर्नाम तद्भवेत् ॥

इदमाम्नायते “यदेकया जुहुयाद्दर्विहोमं कुर्यात्” इति । तत्र दर्व्या होमो दर्विहोम इति तृतीयासमासे सति दध्ना जुहोतीत्यादाविवि होमानुवादेन

गुणविधित्वसंभवाद्दर्व्याख्यो गुणो विधीयत इति चेन्मैवम् । न तावल्लोकसिद्धे स्थालीपाकाष्टकादिहोमे दर्विगुणो विधातुं शक्यो लौकिकशिष्टाचारदेव तत्र साधनप्राप्तेः नापि वेदसिद्धऽग्निहोत्रनारिष्ठादिहोमे विहितजुह्वादिबाधप्रसङ्गात् । तस्माद्दर्विहोम इति कर्मनामधेयम् । तत्रैवान्यच्चिन्तितम् —

लोकिकस्येत सर्वस्य नामाऽऽद्योऽम्बष्ठवाक्यतः ।

निमित्तसाम्याद्वेदेऽपि तदुक्ते सर्वनाम तत् ॥

“अम्बष्ठानां दार्विहोमिको ब्राह्मणः” इति श्रु (स्मृ) तावाम्बष्ठस्वामिके स्मार्तहोमे तत्प्रयोगाल्लौकिकस्यैव होमस्य तन्नामेति चेन्मैवम् । दर्व्या होम इति प्रवृत्तिनिमित्तस्य लौकिकवैदिकयोः समानत्वाद्दर्विहोमं कुर्यादिति श्रुत्युक्तेर्वैदिकहो मनामलिङ्गत्वात्सर्वस्य होमस्यैतन्नाम । तत्रैवान्यच्चिन्तितम् —

तद्यजेरपि नाम स्याज्जुहोतेरेव वाऽग्रिमः ।

अविशेषेण मुख्यत्वाज्जुहोतेर्लक्षणाऽन्यथा ॥

तन्नाम चुहोतिचोदानानां यजतिचोदनानां च भवितुमह्रति । कुतः । अवि शेषश्रवणादिति चेन्मैवम् । जुहोतियोदनासु होमशब्दस्य मुख्यत्वात् । यजतिचोदनानां तन्नामत्वे लक्षणा स्यात् । तस्माज्जुहोतिचोदनानामेव ।

तत्रैवान्यच्चित्नितम् —

दर्विहोमे सोमधर्मा अपूर्वत्वमुताग्निमः ।

अव्यक्तेर्यज्यबावाच्च स्वाहोक्त्यादेरपूर्वता ॥

जयाभ्याताननारिष्ठादिषु दर्विहोमेषूत्पत्तिवाक्ये देवताया अश्रवणाद-व्यक्तिलिङ्गेन सोमधर्माः कर्तव्या इति चेन्मैवम् । सोमे श्रुतस्य यजतिलिङ्गस्याभावात् । किंच – पृथिव्यै स्वाहाऽन्तरिक्षाय स्वाहा’ इति । दर्विहोमेषु स्वाहाकार आम्नातः । स च सोमाविध्यन्तातिदेशे विरुध्येत । तेन स्वाहाकारविरोधिनो वषट्कारस्य प्राप्यमाणत्वात् । किंचोदाहृतैर्मन्त्रगतचतुर्थ्यन्तैः पदैर्देवतासमर्पणान्नास्त्यव्यक्तत्म् । तस्माद्दर्विहोमानामपूर्वकर्मत्वान्नास्ति तत्र कस्यापि विध्यन्तस्यातिदेशः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे

चतुर्थप्रपाठके दशमोऽनुवाकः ॥ १० ॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 यत्र दशाहान्युषित्वा प्रयास्यन् स्रुचि तच्चतुर्गृहीतं गृहीत्वा आहवनीये वास्तोष्पतीयं जुहोति - वास्तोष्पते इति त्रिष्टुब्भ्यां याज्यानुवाक्याभ्याम् । वास्तोष्पते इति पुरोनुवाक्यामनूच्य वास्तोष्पते इति याज्यया जुहोति ॥ 'यदेकया जुहुयात्' इत्यादि ब्राह्मणम् । हे वास्तोष्पते वास्तोः गृहस्य पालयितः । 'रुद्रः खलु वै वास्तोष्पतिः' इति ब्राह्मणम् । 'सुबामन्त्रिते' इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य षाष्ठिकमामन्त्रिताद्युदात्तत्वम्, 'षष्ठ्याः पतिपुत्र' इति सत्वम्, सुषामादित्वात्षत्वम् । अस्मान् प्रतिजनीहि अत्मीयत्वेन बुद्ध्यस्व प्रत्येकं वा अस्मान् जानीहि अनुध्यातुमर्हसि । ततश्च स्वावेशः सुखावासः सुखं वासयिता अस्माकं भव । अनमीवः अरोगः अरोगहेतुश्चास्माकं भव । 'द्व्यचोतस्तिङः' इति संहितायां दीर्घत्वम्, 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । यत्त्वा ईमहे याचामहे तन्नोस्मान् प्रतिजुषस्व प्रतिप्रापय । प्रत्येकं वा प्रापय । यद्वा - तत्तत्प्रति तत्प्रदानार्थं नः अस्मान् जुषस्व । प्रतिगृहाण वा अस्मान् । किंच - नोस्माकं द्विपदे चतुष्पदे च शं सुखं सुखहेतुः एधि भव । 'द्वित्रिभ्यां पद्दन्' इति द्विपद इत्यत्रोत्तरपदान्तोदात्तत्वम् ॥
2 अथ द्वितीया - हे वास्तोष्पते शग्मया सर्वार्थसाधनशक्तया । छान्दसं जश्त्वम् । तव संसदा सन्तत्या श्लेषणेन एतद्धोमनिमित्तेन संबन्धेन सक्षीमहि अभिभवेम शत्रून् । यद्वा - त्वया संसक्ता भूयास्म । सञ्जेराशिषि लिङ्, छान्दसोनुनासिकलोपः । रण्वया गन्तव्यया । रवि गतौ, घञ् । पचाद्यजेव वाऽकर्तरि । रमणीयया वा । रमेरक्षरविकारश्छान्दसः, औणादिको यञ् प्रत्ययः । गातुमत्या गतिमत्या सर्वत्राप्रतिहतगत्या । 'ह्रस्वनुङ्भ्यां मतुप्' । इति मतुप उदात्तत्वम् । किञ्च - आवः रक्ष । अवतेश्छान्दसो लुङ् । क्षेमे उत अपि च योगक्षेमार्थं योगार्थं च नः अस्मान् वरं उत्कृष्टं रक्षेति । लब्धपरिपालनं क्षेमः, अलब्धलाभो योगः । यूयमित्यादि । व्याख्यातम् । पूजार्थं एकस्मिन् बहुवचनम्, वचनव्यत्ययो वा ॥
3 अथ वास्तोष्पतीयस्य ब्राह्मणम् - यत्सायमित्यादि ॥ सायंप्रातः अग्निहोमेन आहुत्यात्मिका इष्टका यजमान उपधत्ते ॥
4 अहोरात्राणीत्यादि ॥ अहानि रात्रयश्चाहोरात्राणि । 'हेमन्तशिशिरावहोरात्रे च' इति नपुंसकत्वम् । आहिताग्नेरिष्टकास्थानीयान्यहोरात्राणि सायंप्रातर्होमेन अहोरात्राण्याप्त्वा होमेन चेष्टकाः कृत्वा अहोरात्रात्मिका इष्टका उपधत्ते ॥
5 दशेत्यादि ॥ समानत्र वास्तौ दशाहुतीः दशस्वहोरात्रेषु जुहोति । दशसंख्यासंपत्त्या दशाक्षरां विराजमाप्त्वा विराडात्मिकामेवेष्टकामुपधत्ते । एवं त्रप्या [तिस्रः] इष्टका आहुतीष्टका अहोरात्रेष्टकौ विराडिष्टकेति । अथो अपि च विराजि लब्धायां यज्ञस्संपद्यते । चित्याश्चित्यः पुनःपुनश्च यजमानस्याग्निर्भवति न कदाचित्समाप्यते । 'चित्याग्निचित्ये च' इति निपात्यते, पौनःपुन्ये द्विर्वचनम्, 'अनुदात्तं च' इति द्वितीयस्य अनुदात्तत्वम् ॥
6 यदुक्तं विराजि यज्ञमाप्नोतीति, तत्स्फुटीकरोति - तस्मादिति ॥ यस्मादेवं विराट्सम्पत्तौ यज्ञावाप्तिः, तस्माद्यत्र वसतौ दश्रात्रीरुषित्वा प्रयाति देशान्तरं गच्छति, तद्यज्ञवास्तु भवति वास्तोष्पतीयहोमः कर्तव्य इत्यर्थः । यत्ततो दशरात्रादर्वाचीनं न्यूनं नवरात्रादि वसति तदवास्त्वेव उक्तेन न्यायेन यज्ञानवाप्तेर्वास्तोष्पतीयहोमाभावादवास्तुत्वम् । अर्वागञ्चतीति ऋत्विगादिना क्विनि 'विभाषाञ्चेः' इति खः ॥
7 कः पुनरत्र यष्टव्यः? । को वाऽस्य यागः? इत्याह - रुद्र इति ॥ 'रुद्रो वा एष यदग्निस्स एतर्हि जातो यर्हि सर्वश्चितः' इति न्यायेन अस्येष्टकचितस्य यज्ञस्य वास्तुनः पातृत्वेन स्वामित्वेन अग्न्यात्मा रुद्रस्सन्निधत्ते भागं च लिप्सते । तस्माद्रुद्रो वास्तोष्पतिः । छान्दसष्षष्ठ्या अलुक्, 'पत्यावैश्वर्ये' इति व्यत्ययेन न प्रवर्तते । ततश्च यदहुत्वा वास्तोष्पतीयं प्रयायात्, एनं प्रयान्तं रुद्रो भूत्वा अग्निरनूथाय हन्यात् अनुद्रुत्य नाशयेत् । वास्तोष्पतीयमित्यादि । वास्तोष्पते इति द्वाभ्याम् । संयोजिते वा अयं होमः स्यात्, अयुक्ते वा प्रागेव भवेत् ॥
8 अत्र पक्षद्वयेऽपि दोषमुक्त्वा समाधातुमारभते - यद्युक्ते इत्यादि ॥ अत्रानेन वास्तोष्पतीयं होतव्यं, तत्रापि प्रयास्यता होतव्यम्, यत्र यत् युक्ते जुहुयात् यथा प्रयाते अपगते वास्तौ अवास्तुन्येव जुहोति तादृक्तत्तुल्यं भवति । युक्ते तु स्थितस्यैव भाण्डाधारत्वादवास्तुत्वं वसतेर्व्यज्यते । अथ यदयुक्ते जुहुयात् यथा क्षेमे निवासे प्रयाणप्रसङ्ग एव जुहोति तादृक्तत् एवं पक्षद्वयेऽपि वास्तोष्पतीयं हुतं स्यात्, ततो रुद्रः कृद्ध्येत् ॥
9 अथ समाधत्ते - दक्षिण इत्यादि ॥ दक्षिणो गौर्युक्तो भवति, सव्यस्त्वयुक्तः, तथाऽस्मिन्नवसरे वास्तोश्पतीयं जुहोति उभयमप्यकः करोति वास्तुनी होतव्यं, प्रयास्यता होतव्यमिति तदुभयमनुष्ठितं भवति । एकस्य योगे प्रयाणस्य प्रस्तुतत्वात्, एकस्य चायोगेन प्रयाणस्याप्रस्तुतत्वात् एकस्य व्यवायोपगमात् । ततश्चैनमपरिवर्गं किंचिदप्यपरिवर्ग्यं सर्वात्मना शमयति । वृजेश्छान्दसो घञ्, तेन बहुव्रीहिः । करोतेश्छान्दसो लुङ्, 'मन्त्रे घस' इत्यादिना च्लेर्लुक् ॥
10 वषट्कारान्तानामभावाद्दर्विहोमः स्यात् । तस्मात्पुरोनुवाक्यामनूच्य अनुद्रुत्य द्वितीयया याज्यया जुहोति सदेवत्वाय देवसंमितत्वाय देवयोग्यत्वायेत्यर्थः । दर्विहोमप्रियतमत्वाद्देवानाम् ॥
11 यद्धुत इत्यादि ॥ हुतहोमे भाण्डादि शकट आदध्यात् आरोपयेत् तदा गृहानश्मादीन्यनुरुद्रमप्यारोपयेत् । स हि हुते होमे वास्तुं जहाति । तस्मादहुते यानेषु भाण्डान्यारोपयितव्यानीति भावः । यदवक्षाणानीत्यादि । यद्यवक्षाणानि ज्वलितकाष्ठसंहतीः असंप्रक्षाप्य समारोपितानि न कृत्वा अनिर्वापिताग्निरेव स्थापयित्वा प्रयायात् । क्षै जै षै क्षये, णौ पुगागमः । यथायज्ञवेशसं यज्ञविध्वंसनं वा आदहनं सर्वतो दहनं वा क्रियते तत्तुल्यं तादृशं व्यसनं अनारोपितोग्निरुत्पादयेदित्यर्थः । तस्मात् 'अयं ते योनिर् ऋत्वियः' इत्यनया ऋचा अरण्योरग्निं समारोहयति । एष वा इत्यादि । गतम् ॥
12 अथो खल्वाहुरिति ॥ यदरण्योः समारूढोग्निः अरण्योर्व्याप्त्यादिना नश्येत् अस्याग्निरुत्सीदेत् गत एव स्यात्, ततः पुनराधेयस्स्यात् इत्यरण्योस्समारोपणे दोषमाहुः । तस्मात् 'या ते अग्ने यज्ञिया तनूः' इत्यादिमन्त्रेण आत्मनि समारोहयते । यजमानो वा इत्यादि । गतम् ॥
इति तृतीये चतुर्थे दशमोनुवाकः ॥
पञ्चशत् 2 #
TS 3.4.10.2 TS 3.4.10.2
यज॑मानोऽहोरा॒त्राणि॒ वा ए॒तस्येष्ट॑का॒ य आहि॑ताग्नि॒र्यथ् सा॒यं प्रा॑तर्जु॒होत्य॑होरा॒त्राण्ये॒वा ऽऽ*प्त्वेष्ट॑काः कृ॒त्वोप॑ धत्ते॒ दश॑ समा॒नत्र॑ जुहोति॒ दशा᳚क्षरा वि॒राड् वि॒राज॑मे॒वाऽऽ*प्त्वेष्ट॑कां कृ॒त्वोप॑ ध॒त्तेऽथो॑ वि॒राज्ये॒व य॒ज्ञ्मा᳚प्नोति॒ चित्य॑श्चित्योऽस्य भवति॒ तस्मा॒द्यत्र॒ दशो॑षि॒त्वा प्र॒याति॒ तद्-य॑ज्ञ्वा॒स्त्ववा᳚स्त्वे॒व तद्यत् ततो᳚ऽर्वा॒चीनꣳ॑ - [ ]
पदपाठः (Word-by-word)
यज॑मानः । अ॒हो॒रा॒त्राणीत्य॑हः-रा॒त्राणि॑ । वै । ए॒तस्य॑ । इष्ट॑काः । यः । आहि॑ताग्नि॒रित्याहि॑त - अ॒ग्निः॒ । यत् । सा॒यंप्रा॑त॒रिति॑ सा॒यं-प्रा॒तः॒ । जु॒होति॑ । अ॒हो॒रा॒त्राणीत्य॑हः - रा॒त्राणि॑ । ए॒व । आ॒प्त्वा । इष्ट॑काः । कृ॒त्वा । उपेति॑ । ध॒त्ते॒ । दश॑ । स॒मा॒नत्र॑ । जु॒हो॒ति॒ । दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । वि॒राडिति॑ वि - राट् । वि॒राज॒मिति॑ वि - राज᳚म् । ए॒व । आ॒प्त्वा । इष्ट॑काम् । कृ॒त्वा । उपेति॑ । ध॒त्ते॒ । अथो॒ इति॑ । वि॒राजीति॑ वि - राजि॑ । ए॒व । य॒ज्ञ्म् । आ॒प्नो॒ति॒ । चित्य॑श्चित्य॒ इति॒ चित्यः॑ - चि॒त्यः॒ । अ॒स्य॒ । भ॒व॒ति॒ । तस्मा᳚त् । यत्र॑ । दश॑ । उ॒षि॒त्वा । प्र॒यातीति॑ प्र - याति॑ । तत् । य॒ज्ञ्॒वा॒स्त्विति॑ यज्ञ्-वा॒स्तु । अवा᳚स्तु । ए॒व । तत् । यत् । ततः॑ । अ॒र्वा॒चीन᳚म् ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 3.4.10.3 TS 3.4.10.3
रु॒द्रः खलु॒ वै वा᳚स्तोष्प॒तिर्यदहु॑त्वा वास्तोष्प॒तीयं॑ प्रया॒याद् रु॒द्र ए॑नं भू॒त्वाऽग्निर॑नू॒त्थाय॑ हन्याद्वास्तोष्प॒तीयं॑ जुहोति भाग॒धेये॑नै॒वैनꣳ॑ शमयति॒ नाऽऽ*र्ति॒मार्च्छ॑ति॒ यज॑मानो॒ यद्यु॒क्ते जु॑हु॒याद्यथा॒ प्रया॑ते॒ वास्ता॒वाहु॑तिं जु॒होति॑ ता॒दृगे॒व तद्यदयु॑क्ते जुहु॒याद्यथा॒ क्षेम॒ आहु॑तिं जु॒होति॑ ता॒दृगे॒व तदहु॑तमस्य वास्तोष्प॒तीयꣳ॑ स्या॒ - [ ]
पदपाठः (Word-by-word)
रु॒द्रः । खलु॑ । वै । वा॒स्तो॒ष्प॒तिरिति॑ वास्तोः-प॒तिः । यत् । अहु॑त्वा । वा॒स्तो॒ष्प॒तीय॒मिति॑ वास्तोः - प॒तीय᳚म् । प्र॒या॒यादिति॑ प्र - या॒यात् । रु॒द्रः । ए॒न॒म् । भू॒त्वा । अ॒ग्निः । अ॒नू॒त्थायेत्य॑नु - उ॒त्थाय॑ । ह॒न्या॒त् । वा॒स्तो॒ष्प॒तीय॒मिति॑ वास्तोः - प॒तीय᳚म् । जु॒हो॒ति॒ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । ए॒व । ए॒न॒म् । श॒म॒य॒ति॒ । न । आर्ति᳚म् । एति॑ । ऋ॒च्छ॒ति॒ । यज॑मानः । यत् । यु॒क्ते । जु॒हु॒यात् । यथा᳚ । प्रया॑त॒ इति॒ प्र - या॒ते॒ । वास्तौ᳚ । आहु॑ति॒मित्या-हु॒ति॒म् । जु॒होति॑ । ता॒दृक् । ए॒व । तत् । यत् । अयु॑क्ते । जु॒हु॒यात् । यथा᳚ । क्षेमे᳚ । आहु॑ति॒मित्या - हु॒ति॒म् । जु॒होति॑ । ता॒दृक् । ए॒व । तत् । अहु॑तम् । अ॒स्य॒ । वा॒स्तो॒ष्प॒तीय॒मिति॑ वास्तोः - प॒तीय᳚म् । स्यात् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 3.4.10.4 TS 3.4.10.4
द्दक्षि॑णो यु॒क्तो भव॑ति स॒व्योऽयु॒क्तोऽथ॑ वास्तोष्प॒तीयं॑ जुहोत्यु॒भय॑मे॒वाऽ क॒रप॑रिवर्गमे॒वैनꣳ॑ शमयति॒ यदेक॑या जुहु॒याद्द॑र्विहो॒मं कु॑र्यात् पुरोऽनुवा॒क्या॑ म॒नूच्य॑ या॒ज्य॑या जुहोति सदेव॒त्वाय॒ यद्धु॒त आ॑द॒द्ध्याद् रु॒द्रं गृ॒हान॒न्वारो॑हये॒द्-यद॑व॒क्षाणा॒न्यसं॑ प्रक्षाप्य प्रया॒याद्यथा॑ यज्ञ्वेश॒सं ॅवा॒ऽऽदह॑नं ॅवा ता॒दृगे॒व तद॒यन्ते॒ योनि॑र्.ऋ॒त्विय॒ इत्य॒रण्योः᳚ स॒मारो॑हय - [ ]
पदपाठः (Word-by-word)
दक्षि॑णः । यु॒क्तः । भव॑ति । स॒व्यः । अयु॑क्तः । अथ॑ । वा॒स्तो॒ष्प॒तीय॒मिति॑ वास्तोः -प॒तीय᳚म् । जु॒हो॒ति॒ । उ॒भय᳚म् । ए॒व । अ॒कः॒ । अप॑रिवर्ग॒मित्यप॑रि - व॒र्ग॒म् । ए॒व । ए॒न॒म् । श॒म॒य॒ति॒ । यत् । एक॑या । जु॒हु॒यात् । द॒र्वि॒हो॒ममिति॑ दर्वि - हो॒मम् । कु॒र्या॒त् । पु॒रो॒नु॒वा॒क्या॑मिति॑ पुरः - अ॒नु॒वा॒क्या᳚म् । अ॒नूच्येत्य॑नु - उच्य॑ । या॒ज्य॑या । जु॒हो॒ति॒ । स॒दे॒व॒त्वायेति॑ सदेव - त्वाय॑ । यत् । हु॒ते । आ॒द॒द्ध्यादित्या᳚ - द॒द्ध्यात् । रु॒द्रम् । गृ॒हान् । अ॒न्वारो॑हये॒दित्य॑नु - आरो॑हयेत् । यत् । अ॒व॒क्षाणा॒नीत्य॑व - क्षाणा॑नि । अस॑प्रंक्षा॒प्येत्यसं᳚ - प्र॒क्षा॒प्य॒ । प्र॒या॒यादिति॑ प्र - या॒यात् । यथा᳚ । य॒ज्ञ्॒वे॒श॒समिति॑ यज्ञ् - वे॒श॒सम् । वा॒ । आ॒दह॑न॒मित्या᳚ - दह॑नम् । वा॒ । ता॒दृक् । ए॒व । तत् । अ॒यम् । ते॒ । योनिः॑ । ऋ॒त्वियः॑ । इति॑ । अ॒रण्योः᳚ । स॒मारो॑हय॒तीति॑ सं - आरो॑हयति ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 3.4.10.5 TS 3.4.10.5
-त्ये॒ष वा अ॒ग्नेर्योनिः॒ स्व ए॒वैनं॒ ॅयोनौ॑ स॒मारो॑हय॒त्यथो॒ खल्वा॑हु॒र्यद॒रण्योः᳚ स॒मारू॑ढो॒ नश्ये॒दुद॑स्या॒ग्निः सी॑देत् पुनरा॒धेयः॑ स्या॒दिति॒ या ते॑ अग्ने य॒ज्ञिया॑ त॒नूस्तयेह्या रो॒हेत्या॒त्मन्थ् स॒मारो॑हयते॒ यज॑मानो॒ वा अ॒ग्नेर्योनिः॒ स्वाया॑मे॒वैनं॒ ॅयोन्याꣳ॑ स॒मारो॑हयते ॥
पदपाठः (Word-by-word)
ए॒षः । वै । अ॒ग्नेः । योनिः॑ । स्वे । ए॒व । ए॒न॒म् । योनौ᳚ । स॒मारो॑हय॒तीति॑ सं-आरो॑हयति । अथो॒ इति॑ । खलु॑ । आ॒हुः॒ । यत् । अ॒रण्योः᳚ । स॒मारू॑ढ॒ इति॑ सं-आरू॑ढः । नश्ये᳚त् । उदिति॑ । अ॒स्य॒ । अ॒ग्निः । सी॒दे॒त् । पु॒न॒रा॒धेय॒ इति॑ पुनः - आ॒धेयः॑ । स्या॒त् । इति॑ । या । ते॒ । अ॒ग्न॒ । य॒ज्ञिया᳚ । त॒नूः । तया᳚ । एति॑ । इ॒हि॒ । एति॑ । रो॒ह॒ । इति॑ । आ॒त्मन्न् । स॒मारो॑हयत॒ इति॑ सं-आरो॑हयते । यज॑मानः । वै । अ॒ग्नेः । योनिः॑ । स्वाया᳚म् । ए॒व । ए॒न॒म् । योन्या᳚म् । स॒मारो॑हयत॒ इति॑ सं - आरो॑हयते ॥
पदसंख्या: 45