अनुवाकः 8 TS 3.4.8

(A8)

(ग्रा॒मी - यु॑नक्ती॒ - ध्मः - स्व ए॒वैना॑ - न॒न्नाद्यं॑ - ॅयच्छ॒न्त्ये - का॒न्न प॑ञ्चा॒शच्च॑)

अनुवाकः 8 - Complete Audio

TS 3.4.8 - स्वरानुगामी

0:00 0:00
PS1.1 रा॒ष्ट्रका॑माय होत॒व्या॑ रा॒ष्ट्रं ॅवै
PS1.2 रा᳚ष्ट्र॒भृतो॑ रा॒ष्ट्रेणै॒वास्मै॑ रा॒ष्ट्रमव॑ रुन्धे
PS1.3 रा॒ष्ट्रमे॒व भ॑वत्या॒त्मने॑ होत॒व्या॑ रा॒ष्ट्रं
PS1.4 ॅवै रा᳚ष्ट्र॒भृतो॑ रा॒ष्ट्रं प्र॒जा
PS1.5 रा॒ष्ट्रं प॒शवो॑ रा॒ष्ट्रं ॅयच्छ्रेष्ठो॒
PS1.6 भव॑ति रा॒ष्ट्रेणै॒व रा॒ष्ट्रमव॑ रुन्धे॒
PS1.7 वसि॑ष्ठः समा॒नानां᳚ भवति॒ ग्राम॑कामाय
PS1.8 होत॒व्या॑ रा॒ष्ट्रं ॅवै रा᳚ष्ट्र॒भृतो॑
PS1.9 रा॒ष्ट्रꣳ स॑जा॒ता रा॒ष्ट्रेणै॒वास्मै॑ रा॒ष्ट्रꣳ
PS1.10 स॑जा॒तानव॑ रुन्धे ग्रा॒म्ये॑ -
PS1.11 [ ]
PS2.1 -व भ॑वत्यधि॒देव॑ने जुहोत्यधि॒देव॑न ए॒वास्मै॑
PS2.2 सजा॒तानव॑ रुन्धे॒ त ए॑न॒मव॑रुद्धा॒
PS2.3 उप॑ तिष्ठन्ते रथमु॒ख ओज॑स्कामस्य
PS2.4 होत॒व्या॑ ओजो॒ वै रा᳚ष्ट्र॒भृत॒
PS2.5 ओजो॒ रथ॒ ओज॑सै॒वास्मा॒ ओजोऽव॑
PS2.6 रुन्ध ओज॒स्व्ये॑व भ॑वति॒ यो
PS2.7 रा॒ष्ट्रादप॑भूतः॒ स्यात् तस्मै॑ होत॒व्या॑
PS2.8 याव॑न्तोऽस्य॒ रथाः॒ स्युस्तान् ब्रू॑याद्
PS2.9 यु॒ङ्ध्वमिति॑ रा॒ष्ट्रमे॒वास्मै॑ युन॒क्त्या -
PS2.10 [ ]
PS3.1 हु॑तयो॒ वा ए॒तस्याक्लृ॑प्ता॒ यस्य॑
PS3.2 रा॒ष्ट्रं न कल्प॑ते स्वर॒थस्य॒
PS3.3 दक्षि॑णं च॒क्रं प्र॒वृह्य॑ ना॒डीम॒भि
PS3.4 जु॑हुया॒दाहु॑तीरे॒वास्य॑ कल्पयति॒ ता अ॑स्य॒
PS3.5 कल्प॑माना रा॒ष्ट्रमनु॑ कल्पते संग्रा॒मे
PS3.6 संॅय॑त्ते होत॒व्या॑ रा॒ष्ट्रं ॅवै
PS3.7 रा᳚ष्ट्र॒भृतो॑ रा॒ष्ट्रे खलु॒ वा
PS3.8 ए॒ते व्याय॑च्छन्ते॒ ये स॑ङ्ग्रा॒मꣳ
PS3.9 सं॒ ॅयन्ति॒ यस्य॒ पूर्व॑स्य॒
PS3.10 जुह्व॑ति॒ स ए॒व भ॑वति॒
PS3.11 जय॑ति॒ तꣳ स॑ग्रां॒मं मा᳚न्धु॒क
PS3.12 इ॒द्ध्मो- [ ]
PS4.1 भ॑व॒त्यङ्गा॑रा ए॒व प्र॑ति॒वेष्ट॑माना अ॒मित्रा॑णामस्य॒
PS4.2 सेनां॒ प्रति॑वेष्टयन्ति॒ य उ॒न्माद्ये॒त्
PS4.3 तस्मै॑ होत॒व्या॑ गन्धर्वाफ्स॒रसो॒ वा
PS4.4 ए॒तमुन्मा॑दयन्ति॒ य उ॒न्माद्य॑त्ये॒ते खलु॒
PS4.5 वै ग॑न्धर्वाफ्स॒रसो॒ यद्रा᳚ष्ट्र॒भृत॒स्तस्मै॒ स्वाहा॒
PS4.6 ताभ्यः॒ स्वाहेति॑ जुहोति॒ तेनै॒वैना᳚ञ्छमयति॒
PS4.7 नैय॑ग्रोध॒ औदु॑म्बर॒ आश्व॑त्थः॒ प्लाक्ष॒
PS4.8 इती॒द्ध्मो भ॑वत्ये॒ते वै ग॑न्धर्वाफ्स॒रसां᳚
PS4.9 गृ॒हाः स्व ए॒वैना॑ -
PS4.10 [ ]
PS5.1 ना॒यत॑ने शमयत्यभि॒चर॑ता प्रतिलो॒मꣳ हो॑त॒व्याः᳚
PS5.2 प्रा॒णाने॒वास्य॑ प्र॒तीचः॒ प्रति॑ यौति॒
PS5.3 तं ततो॒ येन॒ केन॑
PS5.4 च स्तृणुते॒ स्वकृ॑त॒ इरि॑णे
PS5.5 जुहोति प्रद॒रे वै॒तद्वा अ॒स्यै
PS5.6 निर्.ऋ॑तिगृहीतं॒ निर्.ऋ॑तिगृहीत ए॒वैनं॒ निर्.ऋ॑त्या
PS5.7 ग्राहयति॒ यद्वा॒चः क्रू॒रं तेन॒
PS5.8 वष॑ट् करोति वा॒च ए॒वैनं॑
PS5.9 क्रू॒रेण॒ प्रवृ॑श्चति ता॒जगार्ति॒मार्च्छ॑ति॒ यस्य॑
PS5.10 का॒मये॑ता॒न्नाद्य॒ - [ ]
PS6.1 मा द॑दी॒येति॒ तस्य॑ स॒भाया॑मुत्ता॒नो
PS6.2 नि॒पद्य॒ भुव॑नस्य पत॒ इति॒
PS6.3 तृणा॑नि॒ सं गृ॑ह्णीयात् प्र॒जाप॑ति॒र्वै
PS6.4 भुव॑नस्य॒ पतिः॑ प्र॒जाप॑तिनै॒वास्या॒न्नाद्य॒मा द॑त्त
PS6.5 इ॒दम॒हम॒मुष्या॑ ऽऽ*मुष्याय॒णस्या॒न्नाद्यꣳ॑ हरा॒मीत्या॑हा॒न्नाद्य॑मे॒वास्य॑ हरति
PS6.6 ष॒ड्भिर्.ह॑रति॒ षड्वा ऋ॒तवः॑ प्र॒जाप॑तिनै॒वास्या॒-न्नाद्य॑मा॒दाय॒र्तवो᳚
PS6.7 ऽस्मा॒ अनु॒ प्रय॑च्छन्ति॒ -
PS6.8 [ ]
PS7.1 यो ज्ये॒ष्ठब॑न्धु॒रप॑ भूतः॒ स्यात्
PS7.2 तꣳस्थले॑ऽव॒साय्य॑ ब्रह्मौद॒नं चतुः॑ शरावं
PS7.3 प॒क्त्वा तस्मै॑ होत॒व्या॑ वर्ष्म॒
PS7.4 वै रा᳚ष्ट्र॒भृतो॒ वष्म॒ स्थलं॒
PS7.5 ॅवर्ष्म॑णै॒वैनं॒ ॅवष्म॑ समा॒नानां᳚ गमयति॒
PS7.6 चतुः॑ शरावो भवति दि॒क्ष्वे॑व
PS7.7 प्रति॑तिष्ठति क्षी॒रे भ॑वति॒ रुच॑मे॒वास्मि॑न्
PS7.8 दधा॒त्युद्ध॑रति शृत॒त्वाय॑ स॒र्पिष्वा᳚न् भवति
PS7.9 मेद्ध्य॒त्वाय॑ च॒त्वार॑ आर्.षे॒याः प्राश्न॑न्ति
PS7.10 दि॒शामे॒व ज्योति॑षि जुहोति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 3.4.8.1 TS 3.4.8.1
रा॒ष्ट्रका॑माय होत॒व्या॑ रा॒ष्ट्रं ॅवै रा᳚ष्ट्र॒भृतो॑ रा॒ष्ट्रेणै॒वास्मै॑ रा॒ष्ट्रमव॑ रुन्धे रा॒ष्ट्रमे॒व भ॑वत्या॒त्मने॑ होत॒व्या॑ रा॒ष्ट्रं ॅवै रा᳚ष्ट्र॒भृतो॑ रा॒ष्ट्रं प्र॒जा रा॒ष्ट्रं प॒शवो॑ रा॒ष्ट्रं ॅयच्छ्रेष्ठो॒ भव॑ति रा॒ष्ट्रेणै॒व रा॒ष्ट्रमव॑ रुन्धे॒ वसि॑ष्ठः समा॒नानां᳚ भवति॒ ग्राम॑कामाय होत॒व्या॑ रा॒ष्ट्रं ॅवै रा᳚ष्ट्र॒भृतो॑ रा॒ष्ट्रꣳ स॑जा॒ता रा॒ष्ट्रेणै॒वास्मै॑ रा॒ष्ट्रꣳ स॑जा॒तानव॑ रुन्धे ग्रा॒म्ये॑ - [ ]
पदपाठः (Word-by-word)
रा॒ष्ट्रका॑मा॒येति॑ रा॒ष्ट्र - का॒मा॒य॒ । हो॒त॒व्याः᳚ । रा॒ष्ट्रम् । वै । रा॒ष्ट्र॒भृत॒ इति॑ राष्ट्र - भृतः॑ । रा॒ष्ट्रेण॑ । ए॒व । अ॒स्मै॒ । रा॒ष्ट्रम् । अवेति॑ । रु॒न्धे॒ । रा॒ष्ट्रम् । ए॒व । भ॒व॒ति॒ । आ॒त्मने᳚ । हो॒त॒व्याः᳚ । रा॒ष्ट्रम् । वै । रा॒ष्ट्र॒भृत॒ इति॑ राष्ट्र - भृतः॑ । रा॒ष्ट्रम् । प्र॒जेति॑ प्र - जा । रा॒ष्ट्रम् । प॒शवः॑ । रा॒ष्ट्रम् । यत् । श्रेष्ठः॑ । भव॑ति । रा॒ष्ट्रेण॑ । ए॒व । रा॒ष्ट्रम् । अवेति॑ । रु॒न्धे॒ । वसि॑ष्ठः । स॒मा॒नाना᳚म् । भ॒व॒ति॒ । ग्राम॑कामा॒येति॒ ग्राम॑ - का॒मा॒य॒ । हो॒त॒व्याः᳚ । रा॒ष्ट्रम् । वै । रा॒ष्ट्र॒भृत॒ इति॑ राष्ट्र-भृतः॑ । रा॒ष्ट्रम् । स॒जा॒ता इति॑ स - जा॒ताः । रा॒ष्ट्रेण॑ । ए॒व । अ॒स्मै॒ । रा॒ष्ट्रम् । स॒जा॒तानिति॑ स - जा॒तान् । अवेति॑ । रु॒न्धे॒ । ग्रा॒मी ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ तृतीयाष्टके चतुर्थप्रपाठकेऽष्टमोऽनुवाकः) ।

अनुवाके सप्तमेऽस्मिन्नुक्ता राष्ट्रभृतोऽखिलाः ।

अथाष्टमे तेषां काम्याः प्रयोगा उच्चन्ते । तत्रैवं प्रयोगं विधत्ते —

राष्ट्रकामयेति । ये एते पूर्वानुवाकोक्ता राष्ट्रभृत्संज्ञका मन्त्रास्तेषां राष्ट्रप्राप्तिहेतुत्वाद्राष्ट्रमित्यपचर्यते । अतस्तन्मन्त्रहोमलक्षणेन राष्ट्रेणैव यजमानार्थ मध्यर्युर्भूमिविशेषरूपं राष्ट्रं संपादयति । स च यजमानो राष्ट्रं प्राप्नोत्येव । अतो राष्ट्रमाप्तिकामयजमानर्थमेते मन्त्रा होतव्याः ।

अथ प्रजापश्वादिनाऽऽत्मोत्क्रर्षार्थं तैरेव मन्यैर्होमं विधत्ते —

आत्मने होतव्या इति । मन्त्राणां पूर्ववत्साधनत्वाद्राप्ट्रत्वम् । सत्यपि भूगिविशेषरूपे राष्ट्रे प्रजापशुश्रैष्ठ्यानामभावे सति भोगासंभवाद्भूमिवद्भोगहेतुत्वेन प्रजादीनाप्रपि राष्ट्रत्वम् । अतो राष्ट्ररूपमन्त्रेण राष्ट्रेण प्रजादिरूपात्मोत्कर्षरूपं राष्ट्रमवरुन्धे । तथा सति समानानामन्येषांस्वयमेवातिशयेन निवासहेतुर्भवति । अथ ग्रामप्राप्तये होमं विधत्ते —

ग्रामकामायेति । स्वेन सहोत्पन्ना ज्ञातय एकग्रामनिवासिनश्व सजातास्तेषु सर्वेषु सत्सु राष्ट्रं संपूर्णं भवतीति तेषां राष्ट्रत्वमते मन्त्ररूपेण राष्ट्रेण सजातरूपं राष्ट्रभवरुन्धे ग्रामस्वामी भवत्येव । तस्य होमस्य देशविशेषं विधत्ते —

अधिदेवन इति । अविदीव्यन्ति द्यूनेन क्रीष्ठन्त्यस्मिस्थान इत्यधिदेवनं तत्र होमे सति तस्मिन्नेव स्थाने ये सजाताः समागतास्तान्सवीनवीनान्करोति । ते चाधीनाः सन्त एव सेवन्ते । अथ बलालामाय होमं विधत्ते —

रथमुख् इति । रथस्य यदीषाग्रं तदग्नेरुपरि धारयित्वा तत्र जुहुयात् । राष्ट्रभृन्मन्त्राणां रथस्य च क्रतुहेतुत्वादोजस्त्वम् । अतस्तदुभयरूपेणौजसैव यजमानस्य बलमधीनं करोति । ततो बलवान्भवत्यवे ।

अथ राष्ट्राद्भ्रष्ट्रस्य तत्प्राप्तये होमं विधत्ते —

यो राष्ट्रादिति । अस्व राष्ट्रभ्रष्टस्य सतोऽपि यावन्तो रथाः सन्ति तान्सर्वान्नरैर्योजयध्वमिति प्रैषं ब्रूयात् । अनेन प्रैषेण होमेन चास्मै भ्रष्टाय राष्ट्रं संपादयति ।

यदा लब्धमपि राष्ट्रमिष्टसाधनसमर्थं न भवति तदा प्रयोगविशेष विधत्ते-

आहुतयो वा इति । न कल्पते भोगे क्षमं यस्य न भवति, एतस्य पूर्वा आहुतयः स्वकार्यक्षमा न भवन्ति तदानीमयं स्वकीयरथस्य यद्दक्षिणं चक्रं तदग्नेरुपरि धारयित्वा तस्य चक्रस्य रन्ध्राभिमुखत्वेन जुहुयात् । तदानीमस्याऽऽहुतीः कल्पयत्वेव स्वकार्यक्षमा एव करोति । ताश्व क्षमाः सत्यो राष्ट्रं भोगे क्षमं कुर्वन्ति । अतस्ता आहुतीरनु राष्ट्रं क्षमं भवतीत्युच्यते ।

अथ युद्धे प्रवृत्ते जयार्थिनो होमं विधत्ते —

सह्ग्रामे संयत्त इति । ये युद्धं प्राप्नुवन्ति एते राष्ट्रे निमित्तभूते सति कलहं कुर्वान्त । तेषा च कलहं कुर्वतां मध्ये प्रथमं होमे प्रवृत्तस्य यस्यैता राष्ट्रभृतो जुह्वति स एव समर्थो भवति न त्वन्यः । समर्थत्वाच्य तं सङ्ग्रामं जयति । श्रौताग्निं प्रज्वलयितुं काष्टविशेषं विधत्ते —

मान्धुक इघ्म इति । मधुकवृक्षस्य संबन्धी काठविशेष मान्धुकः । तेन प्रत्वीमत्रं पृथगग्निमुपसमाधाय जुहुयात् । तत्र मधूककाष्ठजन्मा येऽङ्गारास्त एवास्य यजमानस्य विरोधिपुरुषाणां सेनां प्रत्येकं वेष्टयन्ति । परकीये कटकेऽग्निवाधा जायते । पुरुषाणां वा शरीरेषु ज्षरदिसंतापो जायत इत्यर्थः ।

अथोन्मादपरिहाय होमं विधत्ते —

य उन्माद्येति । यः पुरुष उन्मत्ते भवत्येतं गन्धर्वाप्सरत्त एवोन्मत्तं कुर्वन्ति । राष्ट्रभृन्मन्त्राश्व गन्धवाष्सरसस्तद्देवत्यत्वाद्वन्धवर्वानुद्दिश्य तस्यै स्वाहेति अप्सरस उद्दिश्य ताभ्यः स्वाहेति जुहुयात् । तेन होमेनोभयविधानुन्मादयितृञ्शान्तान्करोति ।

अत्रापि पूर्ववदग्निं प्रज्वलयितुं काष्ठविशेषान्विकाल्पितान्दर्शंयति —

नैयग्रोध औदुम्बर इति । एते न्यग्रोधादयः वैशाब्दो लोकप्रसिद्धिं दर्शमति । अभिचाराऱ्ततयैतद्धोतं विधत्ते —

अमिचरतेति । प्रतिलोममन्त्यादिक्रमेण अस्याभिचरितस्य प्राणान्प्रतीचः प्राणाषानादीन्विपरीतस्थानैः प्रतियौति प्रतिकूलत्वेन योजयति । ततस्तमनाया सेनैष हिनस्ति । देशं विधत्ते —

स्वकृत इरिण इति । ऊयररूपायां सुषिररूपायां वा भूमावभिचारदेवतायाः स्वस्थाने तमेनं शत्रुं निर्ऋत्या तया देवतया ग्राहयति । वाचः क्रूरेण वषट्कारेणैनं प्रकर्षेण वृश्वति च्छिनत्ति । ततो झटित्यार्तो भवति ।

शत्रोरन्नाद्यस्यान्नदनशक्तेश्व हरणकामत्य कर्मविशेषं विधत्ते —

यस्य कामयेतेति । सभायामत्तानशरीरो निपतितः संस्तृणानि भुवनस्यपति इति संगृण्हीयातु* । तत्र मन्त्रसंख्यां विधत्ते —

षड्भिर्हरतीति । षड्भिः स नो भुवनस्यं पत इत्यन्तैः ।

परकृतभयवतस्तत्परिहाराय कर्मान्तरं विधत्ते —

यो ज्येष्ठबन्युरिति । ज्येष्ठबन्धुः सत्यौऽपभूतः स्वयं ततो निकृष्टस्तत्पराभूत इति यावत् । तं स्थल उच्चप्रदेशेऽवसाम्योपरवेश्य तस्मै तत्फलसिद्धये होताब्या राष्ट्रभृतः । स्थलं च वर्ष्म शरीरमुभवविधेन, वर्ष्मणैव यजमानं स्वसमानानां परुषाणां शरीरस्थानीयं करोति । असौ शरीरवत्प्रधानभूत इतरे हस्तादिवदुपसर्जनभूता यथा भवन्ति तता करातीत्यर्थः । शरावसंख्यां प्रशंसति —

त्ततुःशराव इति । दिशां चतुष्टयात्तत्संख्यया तत्र प्रतिष्ठा युक्ता ।

पाकसाधनद्रव्यं विधत्ते —

क्षीरे भवतीति । रु च स्वादुत्वम् ।

पच्यमानर्स्येदनस्यापव्कत्वपरिहारार्थं दर्व्यो द्धरणं विधत्ते —

उद्धरतीति । शृतत्वाय पव्कत्वाय । पक्वस्य घृतालुतत्वं विधत्ते —

सर्पिष्वान्भवतीति । हुतशेषस्य ऋषिसमानैरेवान्यैः प्राशनं विधत्ते —

चत्वार आर्षेया इति । चतुर्दिक्संबन्धिवन्हिस्थानीयाश्वत्वारो ब्राह्मणा अतस्तैः प्राशितमग्नावेव हुतं भवति ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे

चतुर्थप्रपाठकेऽष्टमोऽनुवाकः ॥ ८ ॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ राष्ट्रभृतां ब्राह्मणं - राष्ट्रकामायेत्यादि ॥ राष्ट्रं प्राप्तुकामो राष्ट्रकामः । 'शीलिकामि ' इत्यादिना णः पूर्वपदप्रकृतिस्वरत्वं च । राष्ट्रं वा इति । तत्साधनत्वात्ताच्छब्द्यम् । अस्मै यजमानाय राष्ट्रमवरुन्धे परिगृह्णात्यध्वर्युः । ततो यजमानो राष्ट्रं भवति । स्वस्वामिनोरभेदोपचारः विधेयत्वातिशयप्रदर्शनार्थः ॥
2 आत्मन इति ॥ प्रजादिसमृद्ध्या यच्छ्रैष्ठ्यं तत्पुरुषस्यात्मा । राष्ट्रं प्रजा; राष्ट्रहेतुत्वाद्बलहेतुत्वाद्वा । राष्ट्रं पशवः ; तत एव हेतोः यच्छ्रेष्ठः सर्वेषां प्रशस्यतमो भवति तदपि राष्ट्रतुल्यम् । वसिष्ठः वसुमत्तमः समानानां मध्ये भवति । प्रजादि धनं वसु । विन्मतोर्लुक्, 'टेः' इति टिलोपः ॥
3 ग्रामकामायेति ॥ सजातसमवायो ग्रामः । सजाताः समानजन्मानः । पूर्ववत्ताच्छब्द्यम् । 'वा दान्त' इत्युत्तरपदान्तोदात्तत्वम् ॥
4 अधि देवन इति ॥ अधि दीव्यत्यस्मिन्निति अधिदेवनं देवनस्थानं, तत्र प्रधानाग्निमुपसमाधाय निशायां जुहोति ॥
5 रथमुख इति ॥ उपर्यग्नेः रथमुखं प्रगृह्य जुहुयात् । ओजो वा इत्यादि । गतम् । पूर्ववत्ताच्छब्द्यम् ॥
6 यो राष्ट्रादित्यादि ॥ अपभूतः अपरुष्टः । पूर्ववद्गतेः प्रकृतिस्वरत्वम् । हुत्वा यावन्तोस्य राष्ट्रप्रेप्सोः रथाः भवन्ति तान् सर्वान् 'युङ्ध्वम्' इति प्रैषं ब्रूयात् । तेनास्मै राष्ट्रमेव युनक्ति ततो[न]पभूतो भवतीति । तिङः परत्वाद्युङ्ध्वमिति न निहन्यते ॥
7 आहुतय इत्यादि ॥ अकॢप्ताः स्वस्वकार्यकरणे असमर्था यस्य राष्ट्रं न कल्पते नेष्टसाधनसमर्थं भवति, स्वरथस्य दक्षिणं चक्रं प्रवृह्य उपर्यग्नौ रथचक्रस्य नाडीं रन्ध्रं प्रगृह्य निशायां राष्ट्रभृतो जुहोति । तेनाहुतीरस्य कल्पयति । ताश्च कल्पमानाः अनु अस्य राष्ट्रं कल्पते । लक्षणे अनोः कर्मप्रवचनीयत्वम् ॥
8 संग्रामे संयत्ते इत्यादि ॥ संग्रामे संयत्ते प्रक्रान्ते तज्जयार्थिनो होतव्याः । राष्ट्रार्थं खल्वेते व्यायच्छन्ते व्यायामं कुर्वन्ति, ये संग्रामं संयन्ति प्राप्नुवन्ति । तस्माद्यस्य पूर्वर्स्य प्रथमभाजिन एव जुहोति स एव भवति आत्मवान् संपद्यते तेन इतरं जयति च तं संग्रामं स एव । अत्र विशेषमाह - मान्धुक इति । मान्धुकशब्दोधिक्रियन्ते? । बन्धूकविकार इत्येके । वृक्षान्तरमित्यन्ये । 'कोपधाच्च' इत्यण् । तत्रत्यं मित्रमग्निमुपसमाधाय मान्धुकमिध्ममभ्यज्य स्वाहाकारेणाभ्याधाय निशायामेतं जुहोति । त एवाङ्गाराः प्रतिवेष्टमानाः संहत्य ज्वलन्तः अस्यामित्राणां सेनाः प्रतिवेष्टयन्ति प्रतिवेष्ट्य दहन्ति । 'अमेरित्रः' इतीत्रप्रत्ययः ॥
9 य उन्माद्येदित्यादि ॥ गतम् । एते खल्विति । तेषां प्रतिपादकत्वात्ताच्छब्द्यम् । तस्मा इत्यादि ॥ गन्धर्वाप्सरोभ्यः पृथक्स्वाहाकृत्य होमेन एनान् शमयति शान्ताननुन्मादयितॄन् करोति । अत्र विशेषमाह - नैयग्रोध इत्यादि । एषामन्यतम इध्मो भवतीत्येके । एतच्चतुष्टयवानेक इध्म इत्यन्ये । 'अनुदात्तादेश्च' इति विकारे न्यग्रोधादिभ्योञ् । एत इत्यादि ॥ एते न्यग्रोधादयः गन्धर्वाप्सरसां ग्रहवत्प्रीतिहेतवः । तस्मादेवं कुर्वन् स्वस्मिन्नेवायतनेऽवस्थितानेतान् शमयति शान्ताननुन्मादयितॄन् करोति ॥
10 अभिचरतेति ॥ प्रतिलोमं अन्त्यादारभ्य अस्याभिचर्यमाणस्य प्रतीचः प्रतिलोमान् प्रतियौति प्रातिकूल्येन प्रवर्तयति । 'चौ' इति पूर्वपदस्यान्तोदात्तत्वम् दीर्घश्च । ततस्तं प्रातिकूल्यप्राणं [कारिणं] येन केन च आयुधादिं विना येन केन च स्तृणुते विनाशयितुं शक्नुयात् । स्वकृते स्वाभाविके, इरिणे ऊषरे प्रदरे भूविवरे वा जुहोति । स्वेनैव कृतं, 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । प्रकर्षेण दीर्यते इति प्रदरः, 'ऋदोरप्' थाथादिनोत्तरपदान्तोदात्तत्वम् । अस्यै पृथिव्याः एतस्मिन् निरृतिगृहीतं निरृत्या अलक्ष्म्या समाश्रितम् । पूर्ववत्स्वरः । तस्मान्निरृतिगृहीते स्थाने होमादेनं निरृत्या ग्राहयति । यद्वाचः क्रूरं तेन वाचः क्रूरेण एनं प्रकर्षेण वृश्चति । ततः ताजक् तदानीमेव स आर्तिं गच्छति ॥
11 यस्व कामयेतेत्यादि ॥ अन्नमेवात्तव्यमन्नाद्यम्, छान्दसो यत् । उत्तानो निपद्य निपतितशरीरस्सन् 'भुवनस्य पते' इति मन्त्रेण तृणानि संगृह्णीयात् ॥
12 इदमहमित्यादि ॥ अदश्शब्दान्नडादित्वात्फक् । इदं तृणान्यादाय इदमहं नारायणस्य गोविन्दसूनोरन्नाद्यमाहरामीत्याहरन् आहरत्येवास्यान्नाद्यम् । षड्भिरित्यादि । 'भुवनस्य' इत्यादि 'स नो भुवनस्य' इत्यन्तैः । एतानि तृणानि स्वस्यां वा सभायां स्वेषु वा अमात्येष्वपि सृजति । प्रजापतिनेत्यादि । गतम् ॥
13 यो ज्येष्ठबन्धुरित्यादि ॥ ज्येष्ठबन्धुरुच्छ्रितबन्धुः अपभूतः न्यक्कृतः । स्थले उच्छ्रिते भूप्रदेशे अवस्थाप्य । चतुश्शरावमिति । चत्वारश्शरावाः परिमाणमस्येति । आर्हीयस्य 'अध्यर्थपूर्वद्विगोः' इति लुक्, 'इगन्तकाल' इति पूर्वपदप्रकृतिस्वरत्वम् । वर्ष्म उच्च्छ्रायः । उद्धरति पात्रान्तरे शृतत्वाय अभिव्यक्तये । आर्षेयाः भवन्ति । अथवा शुश्रुवांसस्स्युः । दिशां सम्बन्धिनि ज्योतिषि अग्नौ हुतं भवति तैः प्राशितम् ॥
इति तृतीये चतुर्थे अष्टमोनुवाकः ॥
पञ्चशत् 2 #
TS 3.4.8.2 TS 3.4.8.2
-व भ॑वत्यधि॒देव॑ने जुहोत्यधि॒देव॑न ए॒वास्मै॑ सजा॒तानव॑ रुन्धे॒ त ए॑न॒मव॑रुद्धा॒ उप॑ तिष्ठन्ते रथमु॒ख ओज॑स्कामस्य होत॒व्या॑ ओजो॒ वै रा᳚ष्ट्र॒भृत॒ ओजो॒ रथ॒ ओज॑सै॒वास्मा॒ ओजोऽव॑ रुन्ध ओज॒स्व्ये॑व भ॑वति॒ यो रा॒ष्ट्रादप॑भूतः॒ स्यात् तस्मै॑ होत॒व्या॑ याव॑न्तोऽस्य॒ रथाः॒ स्युस्तान् ब्रू॑याद् यु॒ङ्ध्वमिति॑ रा॒ष्ट्रमे॒वास्मै॑ युन॒क्त्या - [ ]
पदपाठः (Word-by-word)
ए॒व । भ॒व॒ति॒ । अ॒धि॒देव॑न॒ इत्य॑धि - देव॑ने । जु॒हो॒ति॒ । अ॒धि॒देव॑न॒ इत्य॑धि - देव॑ने । ए॒व । अ॒स्मै॒ । स॒जा॒तानिति॑ स-जा॒तान् । अवेति॑ । रु॒न्धे॒ । ते । ए॒न॒म् । अव॑रुद्धा॒ इत्यव॑ - रु॒द्धाः॒ । उपेति॑ । ति॒ष्ठ॒न्ते॒ । र॒थ॒मु॒ख इति॑ रथ - मु॒खे । ओज॑स्काम॒स्येत्योजः॑ - का॒म॒स्य॒ । हो॒त॒व्याः᳚ । ओजः॑ । वै । रा॒ष्ट्र॒भृत॒ इति॑ राष्ट्र-भृतः॑ । ओजः॑ । रथः॑ । ओज॑सा । ए॒व । अ॒स्मै॒ । ओजः॑ । अवेति॑ । रु॒न्धे॒ । ओ॒ज॒स्वी । ए॒व । भ॒व॒ति॒ । यः । रा॒ष्ट्रात् । अप॑भूत॒ इत्यप॑ - भू॒तः॒ । स्यात् । तस्मै᳚ । हो॒त॒व्याः᳚ । याव॑न्तः । अ॒स्य॒ । रथाः᳚ । स्युः । तान् । ब्रू॒या॒त् । यु॒ङ्ध्वम् । इति॑ । रा॒ष्ट्रम् । ए॒व । अ॒स्मै॒ । यु॒न॒क्ति॒ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 3.4.8.3 TS 3.4.8.3
हु॑तयो॒ वा ए॒तस्याक्लृ॑प्ता॒ यस्य॑ रा॒ष्ट्रं न कल्प॑ते स्वर॒थस्य॒ दक्षि॑णं च॒क्रं प्र॒वृह्य॑ ना॒डीम॒भि जु॑हुया॒दाहु॑तीरे॒वास्य॑ कल्पयति॒ ता अ॑स्य॒ कल्प॑माना रा॒ष्ट्रमनु॑ कल्पते संग्रा॒मे संॅय॑त्ते होत॒व्या॑ रा॒ष्ट्रं ॅवै रा᳚ष्ट्र॒भृतो॑ रा॒ष्ट्रे खलु॒ वा ए॒ते व्याय॑च्छन्ते॒ ये स॑ङ्ग्रा॒मꣳ सं॒ ॅयन्ति॒ यस्य॒ पूर्व॑स्य॒ जुह्व॑ति॒ स ए॒व भ॑वति॒ जय॑ति॒ तꣳ स॑ग्रां॒मं मा᳚न्धु॒क इ॒द्ध्मो- [ ]
पदपाठः (Word-by-word)
आहु॑तय॒ इत्या - हु॒त॒यः॒ । वै । ए॒तस्य॑ । अक्लृ॑प्ताः । यस्य॑ । रा॒ष्ट्रम् । न । कल्प॑ते । स्व॒र॒थस्येति॑ स्व - र॒थस्य॑ । दक्षि॑णम् । च॒क्रम् । प्र॒वृह्येति॑ प्र - वृह्य॑ । ना॒डीम् । अ॒भीति॑ । जु॒हु॒या॒त् । आहु॑ती॒रित्या - हु॒तीः॒ । ए॒व । अ॒स्य॒ । क॒ल्प॒य॒ति॒ । ताः । अ॒स्य॒ । कल्प॑मानाः । रा॒ष्ट्रम् । अन्विति॑ । क॒ल्प॒ते॒ । स॒ग्रां॒म इति॑ सं - ग्रा॒मे । संॅय॑त्त॒ इति॒ सं - य॒त्ते॒ । हो॒त॒व्याः᳚ । रा॒ष्ट्रम् । वै । रा॒ष्ट्र॒भृत॒ इति॑ राष्ट्र - भृतः॑ । रा॒ष्ट्रे । खलु॑ । वै । ए॒ते । व्याय॑च्छन्त॒ इति॑ वि - आय॑च्छन्ते । ये । स॒ग्रां॒ममिति॑ सं - ग्रा॒मम् । सं॒ॅयन्तीति॑ सं-यन्ति॑ । यस्य॑ । पूर्व॑स्य । जुह्व॑ति । सः । ए॒व । भ॒व॒ति॒ । जय॑ति । तम् । स॒ग्रां॒ममिति॑ सं - ग्रा॒मम् । मा॒न्धु॒कः । इ॒द्ध्मः ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 3.4.8.4 TS 3.4.8.4
भ॑व॒त्यङ्गा॑रा ए॒व प्र॑ति॒वेष्ट॑माना अ॒मित्रा॑णामस्य॒ सेनां॒ प्रति॑वेष्टयन्ति॒ य उ॒न्माद्ये॒त् तस्मै॑ होत॒व्या॑ गन्धर्वाफ्स॒रसो॒ वा ए॒तमुन्मा॑दयन्ति॒ य उ॒न्माद्य॑त्ये॒ते खलु॒ वै ग॑न्धर्वाफ्स॒रसो॒ यद्रा᳚ष्ट्र॒भृत॒स्तस्मै॒ स्वाहा॒ ताभ्यः॒ स्वाहेति॑ जुहोति॒ तेनै॒वैना᳚ञ्छमयति॒ नैय॑ग्रोध॒ औदु॑म्बर॒ आश्व॑त्थः॒ प्लाक्ष॒ इती॒द्ध्मो भ॑वत्ये॒ते वै ग॑न्धर्वाफ्स॒रसां᳚ गृ॒हाः स्व ए॒वैना॑ - [ ]
पदपाठः (Word-by-word)
भ॒व॒ति॒ । अङ्गा॑राः । ए॒व । प्र॒ति॒वेष्ट॑माना॒ इति॑ प्रति - वेष्ट॑मानाः । अ॒मित्रा॑णाम् । अ॒स्य॒ । सेना᳚म् । प्रतीति॑ । वे॒ष्ट॒य॒न्ति॒ । यः । उ॒न्माद्ये॒दित्यु॑त् - माद्ये᳚त् । तस्मै᳚ । हो॒त॒व्याः᳚ । ग॒न्ध॒र्वा॒फ्स॒रस॒ इति॑ गन्धर्व - अ॒फ्स॒रसः॑ । वै । ए॒तम् । उदिति॑ । मा॒द॒य॒न्ति॒ । यः । उ॒न्माद्य॒तीत्यु॑त् - माद्य॑ति । ए॒ते । खलु॑ । वै । ग॒न्ध॒र्वा॒फ्स॒रस॒ इति॑ गन्धर्व - अ॒फ्स॒रसः॑ । यत् । रा॒ष्ट्र॒भृत॒ इति॑ राष्ट्र - भृतः॑ । तस्मै᳚ । स्वाहा᳚ । ताभ्यः॑ । स्वाहा᳚ । इति॑ । जु॒हो॒ति॒ । तेन॑ । ए॒व । ए॒ना॒न् । श॒म॒य॒ति॒ । नैय॑ग्रोधः । औदु॑बंरः । आश्व॑त्थः । प्लाक्षः॑ । इति॑ । इ॒द्ध्मः । भ॒व॒ति॒ । ए॒ते । वै । ग॒न्ध॒र्वा॒फ्स॒रसा॒मिति॑ गन्धर्व - अ॒फ्स॒रसा᳚म् । गृ॒हाः । स्वे । ए॒व । ए॒ना॒न् ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 3.4.8.5 TS 3.4.8.5
ना॒यत॑ने शमयत्यभि॒चर॑ता प्रतिलो॒मꣳ हो॑त॒व्याः᳚ प्रा॒णाने॒वास्य॑ प्र॒तीचः॒ प्रति॑ यौति॒ तं ततो॒ येन॒ केन॑ च स्तृणुते॒ स्वकृ॑त॒ इरि॑णे जुहोति प्रद॒रे वै॒तद्वा अ॒स्यै निर्.ऋ॑तिगृहीतं॒ निर्.ऋ॑तिगृहीत ए॒वैनं॒ निर्.ऋ॑त्या ग्राहयति॒ यद्वा॒चः क्रू॒रं तेन॒ वष॑ट् करोति वा॒च ए॒वैनं॑ क्रू॒रेण॒ प्रवृ॑श्चति ता॒जगार्ति॒मार्च्छ॑ति॒ यस्य॑ का॒मये॑ता॒न्नाद्य॒ - [ ]
पदपाठः (Word-by-word)
आ॒यत॑न॒ इत्या᳚ - यत॑ने । श॒म॒य॒ति॒ । अ॒भि॒चर॒तेत्य॑भि - चर॑ता । प्र॒ति॒लो॒ममिति॑ प्रति - लो॒मम् । हो॒त॒व्याः᳚ । प्रा॒णानिति॑ प्र - अ॒नान् । ए॒व । अ॒स्य॒ । प्र॒तीचः॑ । प्रतीति॑ । यौ॒ति॒ । तम् । ततः॑ । येन॑ । केन॑ । च॒ । स्तृ॒णु॒ते॒ । स्वकृ॑त॒ इति॒ स्व - कृ॒ते॒ । इरि॑णे । जु॒हो॒ति॒ । प्र॒द॒र इति॑ प्र - द॒रे । वा॒ । ए॒तत् । वै । अ॒स्यै । निर्.ऋ॑तिगृहीत॒मिति॒ निर्.ऋ॑ति - गृ॒ही॒त॒म् । निर्.ऋ॑तिगृहीत॒ इति॒ निर्.ऋ॑ति-गृ॒ही॒ते॒ । ए॒व । ए॒न॒म् । निर्.ऋ॒त्येति॒ निः-ऋ॒त्या॒ । ग्रा॒ह॒य॒ति॒ । यत् । वा॒चः । क्रू॒रम् । तेन॑ । वष॑ट् । क॒रो॒ति॒ । वा॒चः । ए॒व । ए॒न॒म् । क्रू॒रेण॑ । प्रेति॑ । वृ॒श्च॒ति॒ । ता॒जक् । आर्ति᳚म् । एति॑ । ऋ॒च्छ॒ति॒ । यस्य॑ । का॒मये॑त । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 3.4.8.6 TS 3.4.8.6
मा द॑दी॒येति॒ तस्य॑ स॒भाया॑मुत्ता॒नो नि॒पद्य॒ भुव॑नस्य पत॒ इति॒ तृणा॑नि॒ सं गृ॑ह्णीयात् प्र॒जाप॑ति॒र्वै भुव॑नस्य॒ पतिः॑ प्र॒जाप॑तिनै॒वास्या॒न्नाद्य॒मा द॑त्त इ॒दम॒हम॒मुष्या॑ ऽऽ*मुष्याय॒णस्या॒न्नाद्यꣳ॑ हरा॒मीत्या॑हा॒न्नाद्य॑मे॒वास्य॑ हरति ष॒ड्भिर्.ह॑रति॒ षड्वा ऋ॒तवः॑ प्र॒जाप॑तिनै॒वास्या॒-न्नाद्य॑मा॒दाय॒र्तवो᳚ ऽस्मा॒ अनु॒ प्रय॑च्छन्ति॒ - [ ]
पदपाठः (Word-by-word)
एति॑ । द॒दी॒य॒ । इति॑ । तस्य॑ । स॒भाया᳚म् । उ॒त्ता॒न इत्यु॑त् - ता॒नः । नि॒पद्येति॑ नि - पद्य॑ । भुव॑नस्य । प॒ते॒ । इति॑ । तृणा॑नि । समिति॑ । गृ॒ह्णी॒या॒त् । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । वै । भुव॑नस्य । पतिः॑ । प्र॒जाप॑ति॒नेति॑ प्र॒जा - प॒ति॒ना॒ । ए॒व । अ॒स्य॒ । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । एति॑ । द॒त्ते॒ । इ॒दम् । अ॒हम् । अ॒मुष्य॑ । आ॒मु॒ष्या॒य॒णस्य॑ । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । ह॒रा॒मि॒ । इति॑ । आ॒ह॒ । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । ए॒व । अ॒स्य॒ । ह॒र॒ति॒ । ष॒ड्भिरिति॑ षट् - भिः । ह॒र॒ति॒ । षट् । वै । ऋ॒तवः॑ । प्र॒जाप॑ति॒नेति॑ प्र॒जा-प॒ति॒ना॒ । ए॒व । अ॒स्य॒ । अ॒न्नाद्य॒मित्य॑न्न -अद्य᳚म् । आ॒दायेत्या᳚-दाय॑ । ऋ॒तवः॑ । अ॒स्मै॒ । अनु॑ । प्रेति॑ । य॒च्छ॒न्ति॒ ।
पदसंख्या: 50
पञ्चशत् 7 #
TS 3.4.8.7 TS 3.4.8.7
यो ज्ये॒ष्ठब॑न्धु॒रप॑ भूतः॒ स्यात् तꣳस्थले॑ऽव॒साय्य॑ ब्रह्मौद॒नं चतुः॑ शरावं प॒क्त्वा तस्मै॑ होत॒व्या॑ वर्ष्म॒ वै रा᳚ष्ट्र॒भृतो॒ वष्म॒ स्थलं॒ ॅवर्ष्म॑णै॒वैनं॒ ॅवष्म॑ समा॒नानां᳚ गमयति॒ चतुः॑ शरावो भवति दि॒क्ष्वे॑व प्रति॑तिष्ठति क्षी॒रे भ॑वति॒ रुच॑मे॒वास्मि॑न् दधा॒त्युद्ध॑रति शृत॒त्वाय॑ स॒र्पिष्वा᳚न् भवति मेद्ध्य॒त्वाय॑ च॒त्वार॑ आर्.षे॒याः प्राश्न॑न्ति दि॒शामे॒व ज्योति॑षि जुहोति ॥
पदपाठः (Word-by-word)
यः । ज्ये॒ष्ठब॑न्धु॒रिति॑ ज्ये॒ष्ठ - ब॒न्धुः॒ । अप॑भूत॒ इत्यप॑ - भू॒तः॒ । स्यात् । तम् । स्थले᳚ । अ॒व॒साय्येत्य॑व - साय्य॑ । ब्र॒ह्मौ॒द॒नमिति॑ ब्रह्म - ओ॒द॒नम् । चतुः॑ शराव॒मिति॒ चतुः॑ - श॒रा॒व॒म् । प॒क्त्वा । तस्मै᳚ । हो॒त॒व्याः᳚ । वर्ष्म॑ । वै । रा॒ष्ट्र॒भृत॒ इति॑ राष्ट्र - भृतः॑ । वर्ष्म॑ । स्थल᳚म् । वर्ष्म॑णा । ए॒व । ए॒न॒म् । वर्ष्म॑ । स॒मा॒नाना᳚म् । ग॒म॒य॒ति॒ । चतुः॑ शराव॒ इति॒ चतुः॑ - श॒रा॒वः॒ । भ॒व॒ति॒ । दि॒क्षु । ए॒व । प्रतीति॑ । ति॒ष्ठ॒ति॒ । क्षी॒रे । भ॒व॒ति॒ । रुच᳚म् । ए॒व । अ॒स्मि॒न्न् । द॒धा॒ति॒ । उदिति॑ । ह॒र॒ति॒ । शृ॒त॒त्वायेति॑ शृत - त्वाय॑ । स॒र्पिष्वान्॑ । भ॒व॒ति॒ । मे॒द्ध्य॒त्वायेति॑ मेद्ध्य-त्वाय॑ । च॒त्वारः॑ । आ॒र्॒.षे॒याः । प्रेति॑ । अ॒श्न॒न्ति॒ । दि॒शाम् । ए॒व । ज्योति॑षि । जु॒हो॒ति॒ ॥
पदसंख्या: 49