पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
( अथ तृतीयकाण्डे चतुर्थप्रपाठके एकादशोऽनुवाकः) ।
वास्तोष्पतियुतो होमो दशमे परिकीर्तितः ।
अथैकादशे याज्या (पुरोनुवाक्या) स्तत्र देवसुवामेतानि हवी+ षि भवन्तीति यानि विहितानि तेष्वग्नये गृहपतये पुरोडाशमष्टाकपालं निर्वपति कृष्णानां व्रीहीणामित्यस्य पुरोनुवाक्यामाह —
त्वमग्ने बृहदिति । हेऽग्ने देव त्वं दाशुषे हविर्दत्तवते यजमानाय बृहद्वयो दधासि महदन्नं दीर्घामायुर्वा प्रयच्छसि । कीदृशस्त्वम् । कविर्विद्वान् । गृहयतिर्गृहस्य पालयिता । युवा नित्यतरुणः । तत्रैव याज्यामाह —
हव्यवाडग्निरिति । अयमग्निर्हव्यं वहतीति हव्यवाट् । अजरो जरारहितः । नोऽस्माकं पितोत्पादकः पालयिता वा । विभुर्वापि । विभावा विशेषण भानशीलः । सुदृशीकः सुखदर्शनः । ईदृशो योऽग्नि । स त्वमस्मे अस्माकमिषोऽन्नानी संदिदिही सभ्यक्प्रयच्छ । कथंभूता इषः । सुगार्हपत्याः शोभनगृहपतित्वहेतुभूताः । किंच । अस्मद्रियमस्मादाभिमुख्येनाऽऽगतः सञ्श्रवांसि श्रोतव्यानि यशांसि संमिहीहि सम्यङ्निष्पादय ।
त्वं च सोमेति । हे सोम त्वं च त्वमपि नोऽस्माञ्जीवातुं वशो जीवयितुं कामयमानोऽसि । अतो न मरामहे त्वत्प्रसादान्न म्रियामहे । कीदृशस्त्वम् । मियस्तोषः सोमो वा ओषधीना राजेत्यादिस्तुतिप्रियः । वनस्पतिर्वनानां पालकः । तत्रैव याज्यामाह-
ब्रह्मा देवानामिति । देवानां मध्ये ब्रह्मा श्रेष्ठः । पदं वेत्त्यवगच्छतीति पदवीः । कवीनां विदुषां मध्ये पदवीः पदवाक्यप्रमाणामिज्ञः श्रेष्ठः । विप्राणां मध्य ऋषिरनुष्ठानसामर्थ्येनातीन्वियवस्तुद्रष्टा श्रेष्ठः । मृगाणां चतुष्पादानां मध्ये शक्त्याधिक्यान्महिषः श्रेष्ठः । तथैव मृध्राणां पक्षिणा मध्ये शक्त्याविक्या च्छ्येनः श्रेष्ठः । वनानां मध्ये स्वाधिति श्रेष्ठः । स्वधितिशब्देन करवालादिव दूदृढस्रूपो भास्वान्वृक्ष उच्यते । यथा ब्रह्मादयः स्वजातिषु श्रेष्ठा एवं सोमोऽपि पवित्रं शुद्धिहेतुं कुशादिकमत्येत्यतिक्रामति । कीदृशः सोमः । रेमञ्शब्दभावस्तू यमान इत्यर्थः ।
आ विश्वदेवमिति । अद्यास्मिन्कर्माणि सवितारं सूक्तैः शोभनवाक्यैरा-वृणीमहे फलसाधानाय प्रार्थयामहे । कीदृशं सवितारम् । विश्वदेवं विश्वे सर्वे देवा यस्य वशे वर्तन्ते सोऽयं विश्वदेवस्तम् । सप्ततिं सन्मार्गवर्तिनां पालकम । सत्यसवममो-धानुज्ञम । तत्रैव याज्यामाह —
आ सत्येनेति । सविताऽऽदित्यो हिरण्ययेन रथेनाऽऽयाति सुवर्णनिर्मितं रथमारुह्य प्रतिदिनं पूर्वस्यां दिश्यागच्छति । किं कुर्वन्, सत्येन रजसाऽऽवर्तमानः । अमोधेन रञ्जकात्मकेन मण्डलेनोदयास्तमययोर्म्राम्यन्नमृतं मर्त्यं च निवेशयन्तेव-शरीरं मनुष्यशरीरं स्वस्वकाले प्रकाशेन तत्तल्लोके व्यवहारक्षमं कुर्वन्भुवना विप-श्यन्सर्वलोकानवलोक्यन् ।
यथा नो अदितिरिति । अदितिरखण्डनीयो रुद्रो यथा पश्वे पशुभ्यो नृभ्यो गोभ्यश्व यथा तोकायापत्याय यथा रुद्रियं रुद्रमतिपादितं रक्षणादि यथा करत्पश्वा-दिभ्यः पुत्राद्यपत्याय च येन पर्कारण रक्षणं करोति तथा तमनेन हविषाऽऽराधयाम इति शेषः । तत्रैव याज्यमाह —
मा नस्तोक इति । हे रुद्र त्वं भामितः क्रुद्धः सन्नोऽस्माकं तोके पुत्रादौ तनये तदीयपुत्रेऽश्मत्पौत्रे मा रीरिषो हिंसां मा कृथाः । तथा नोऽस्माकमायुषि मा रीरिषः । तथा नोऽस्माकं वीरान्भृत्यान्मा वधीः । वयं हविष्मन्तो हविर्युक्ताः सन्तस्ते तुभ्यं नम-सा विधेम नमस्कारएम परिचर्यां करवाम ।
उदप्रतो नेति । एवं बृहस्पतिमभिलक्ष्यार्का अर्चनहेतवोऽस्मदीयां वाग्विशेषा अनावन्स्तुतवन्तः कीदृशा वाग्विशेषाः । उद्पुतो न वयो रक्षमाणा उदकं प्रप्लावयन्ति भूमौ प्रवर्तयन्तीत्युदप्रुतो मेघास्ते यथाऽन्नोदकनिष्पादनद्वरिण मदीयं वय आयुष्यं पालयन्ति तद्वन्मदीयाः स्तुतिरूपा वाग्विशेषास्चापमृत्युपरिहारेणाऽऽयुष्मस्य रक्षकाः तथाऽभ्रियस्य घोषा इव वावदतः । आम्राणां समूहोऽभ्रियं तस्य घोषा गर्जनशब्दा यथोच्चध्वनय एवमस्मदीया वाग्विशेषा भृशं वदन्तो भवन्ति । तथा गिरिभ्रजो नोर्मयो मदन्तः । यथा नदीतीरस्थगिरिस्पर्शिन ऊर्मयो नदीपूरणप्रकाशनेन हर्षं जनयन्त्येवमस्मदीयवाग्विशेषा बृहस्पतिमहिमप्रकाशनेन हर्षयन्तो भवन्ति । तत्रैव याज्यामाह —
ह सैरिवेति । अयं बृहस्पतिरभिकनिक्रददाभितोऽस्मदीयहविःस्वीकारपरितोष-द्योतकमुच्चध्वनिमकरोत् । उत गाः प्रास्तौत् । अपि च परितोषद्योतकानि वाक्यान्युच्चारितवान् । विद्वानुदगायच्चास्मदीयपरिचर्यामभिजानन्परितुष्ट उत्कर्षेण गानम-प्यकरोत् । किं कुर्वन् । अश्मन्मयानि नहना व्यस्यन्, पाषाणमयद्वारपिधानसदृशानि फलमतिबन्धकानि दुरितान्यपाकुर्वन् । यथा हंसैश्चतुर्थाश्रमवासिभिरभिष्टुतः परमेश्वरः पुरषार्थप्रतिबन्धकमपाकरोत्येवं वावदद्भिरतिशयेन स्तुवद्भिः सखिभिर्ऋत्विग्मिः परितोषितो बृहस्पतिः प्रतिबन्धमपाकरोतीत्यपेक्षितं शेषमध्याहृत्य व्याख्येयम् ।
अथेन्द्राय ज्योष्ठाय पुरोडाशमेकादशकपालं महाव्रीहिणामित्यस्य पुरोनुवाक्यामाह —
एन्द्र सानसिमिति । हे इन्द्र रयिं धनमूतये रक्षार्थमाभराऽऽनय । कीदृशं धनम् । सानसिं सनसो दानस्य संबन्धिनं बहुभ्यो दातुं पर्याप्तमित्यर्थः । सजित्वानं जित्वभिर्जयशीलैः पुत्रादिभिरुपेतम् । सदासहं सर्वदा विरोधिनां सोढारं तत्तिरस्कार-क्षममित्यर्थः वर्षिष्ठमतिशयेन प्रवृद्धम् । तत्रैव याज्यामाह —
प्र ससाहिष हति । हे पुरुहूत पुरूषु बहुषु यज्ञेष्वाहूयमान शत्रून्प्रकर्षेण ससाहिषे सर्वदा सहसे तिरस्करोषीत्यर्थः । ते शुष्मो ज्येष्टस्तव बलं प्रशस्तम् । इहास्मिन्कर्मणि रतिरस्तु । फलदानमस्तु । हे इन्द्र दक्षिणेन हस्तेन वसूनि धनान्यामर* समानय । सिन्धूनां समुद्रसमानानां रेवतीनां प्रजानां पतिरसि ।
अथ तत्रैव विकल्पितामन्यां पुरोनुवाक्यामाहत्व सुतस्येति । हे सुक्रतो शोभनकर्मन्निन्द्र त्वं सुतस्याभिषुतस्य पतिये पानाय सद्यस्तदानीमेव वृद्धोऽजायथाः प्रवृद्धो जातोऽसि । एतच्च सर्वेषां देवानां मध्ये तव ज्यैष्ठ्याय संपद्यते । तत्रैव विकल्पितामन्यां याज्यमाह —
भुवस्त्वमिति । हे इन्द्र त्वं ब्रह्मणा महान्भवः स्तुतिरूपेण वेदवाक्येना-भिवृद्धो भवसि । विश्वेषु सवनेषु त्रिष्वपि प्रातःसवनादिषु यज्ञियो भुवो यज्ञयोग्यो भवसि । नृन्प्रतिकूलाञ्शत्रूंश्च्यौत्नो भुवः प्रच्यावयन्विनाशयन्वर्तसे । हे विश्वचर्षणे विश्वे सर्वेचर्षणयो मनुष्या यस्मासौ विस्वचर्षणिः । सर्वमनुष्यस्वामी त्यर्थः । तादृशस्त्वं विश्वस्मिन्भरे सर्वस्मिन्यागे मन्त्रो मननीयो ज्येष्ठः प्रशास्तश्च भवसि । अथ मित्राय सत्यायाऽऽम्बानां चरुमित्यस्य पुरोनुवाक्यामाह-
मित्रस्येति । चर्षणीधृतो मनुष्याणां धारयितुर्मित्रस्य देवस्य श्रवः श्रोतुं योग्यं यशो महदस्तीति शेषः । सानसिं फलदानशीलम् । सत्यं सत्यवादिनम् । चित्रं श्रवः कीर्तिर्यस्यासौ चित्रश्रवा अतिशयेन तादृशम् । यजामह इति शेषः ।
तत्रैव याज्यमाह —
मित्रो जनानिति । अयं मित्रो देवो जनान्सर्वान्यातयति स्वस्वव्यापारेषुप्रयत्नयुक्तान्करोति । प्रजानंस्तत्तदधिदकारं विद्वान् । किंच मित्रः पृथिवीं दाधार धृतवान् । उतापि च द्यां दाधार । किंच मित्रः कृष्टीर्मनुष्याननिमिषा देवां श्चाभिचष्टे सर्वतः पश्यति । सत्ययामोघफलाय तस्मै मित्राय हव्यं चरुलक्षणं घृत वद्घृतयुक्तं विधेम कुर्मः ।
तत्रैव विकल्पितामान्यां याज्यामाह —
प्र स मित्रेति । यो यजमानस्तव संबन्धिना ब्रतेन कर्मणा शिक्षति अनुष्ठातुं शक्तो भवितुमिच्छति हे मित्र स मर्तः स मनुष्यो यजमानः प्रयस्वान्कर्मफलयुक्तः प्रकर्षेणास्तु । त्वोतस्त्वया रक्षितः स यजमानो न हन्यते रोगादिना न पीड्यते । न जीयते वैरिभिर्नाभिभूयते । अपि च त्वया रक्षितमेनं यजमान मंहः पाप्माऽन्तितः समीपे नाश्नोति न व्याप्नोति । दूराद्दूरेऽपि न प्राप्नोति ।
यच्चिद्धि त इति । हे वरुण देव ते त्वदीयं यञ्चिदव्रतं यत्किंचिदपि
कर्म द्यविद्यवि दिने दिने प्रकर्षेण मिनीमासि तर्कयामहे । तत्र दृष्टान्तः — विशो यथा सर्वाः प्रजाः स्वस्वव्यापारं यथा तर्कयन्ति तद्वत् । हि यस्मात्त्वदीयमेव कर्म सर्वदा तर्कयामस्तस्मास्वां परिचरेमेति शेषः । तत्रैव याज्यामाह-
यत्किंचेदभिति । हे वरुण मनुष्या वयं दैव्ये देवलोकवर्तिने जने यत्किंचेद-मभिद्रोहं स्वल्पमधिकं वा द्रोहमचिन्त्यज्ञानेन चरामसि कुर्मः । किंच यदपि तव धर्मा त्वदीयं कर्म युयोपिम विनाशयामो हे देव तस्मादेनसो द्रोहात्कर्मनाशाच्च नोऽस्मान्मा रिरिषो हिंसा मा कृथाः —
तत्रैव विकल्पितामान्यं याज्यामाह-
कितवास इति । कितवासो धूर्तसमानाः स्वार्थसाधनपरा ऋत्विजो यत्क-र्माङ्गं रिरिषुर्नाशितवन्तो न दिवि न तु देवने सम्यग्व्यवहृतौ प्रवर्तन्ते । वाऽथवा यत्पापं सत्यमवश्यं कृतं ज्ञात्वैव कृतमित्यर्थः । घशब्दः पादपूरणे पापवनाचको वा निपातितः । यद्ध सत्यमित्यन्वयः । उतापि च यद्ध विद्म यत्पापमज्ञानेन कृतमित्यर्थः । सर्वा ता, ऋत्विग्भिर्विनाशितमङ्गं ज्ञात्वा कृतमज्ञानेन कृतं चेति यानि सन्ति तानि सर्वाणि शिथिरेव शिथिलानीव विष्य विनाशयेत्यर्थः । अथानन्तरं हे वरुण ते तव प्रियासः स्याम प्रिया भवेम ।
अत्र विनियोगसंग्रहः —
राजसूये देवसुवामिष्टौ याज्या इमाः क्रमात् ।
त्वगग्ने बृहदाग्नेये त्वं च सोमेति सौम्यके ॥
आ विश्वदेवं सावित्रे यथा न इति रौद्रके ।
बार्हस्पत्य उदेत्येतदैन्द्रेऽन्त्यैन्द्रे चतुष्टयम् ॥
मित्रस्येति त्रयं मैत्रे वारुणे यदिति त्रयम् ।
एकादशेऽनुवाकेऽस्मिन्मन्त्रा उक्ता हि विंशतिः ॥
चतुर्थप्रपाठके एकदशोऽनुवाकः ॥ ११ ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधवाचार्येण विरचिते
वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
तृतीयकाण्डे चतुर्थः प्रपाठकः ॥ ४ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
समाप्तश्च प्रपाठकः ॥
……………………………………………………………………………………………………………
प्रश्नः-5