अनुवाकः 11 TS 3.4.11

(A11)

(सोमो॒-गोषु॒ मा- र॒यिं - मन्त्रो॒ -य-च्छि॑थि॒रा-स॒प्त च॑ )

अनुवाकः 11 - Complete Audio

TS 3.4.11 - स्वरानुगामी

0:00 0:00
PS1.1 त्वम॑ग्ने बृ॒हद्वयो॒ दधा॑सि देव दा॒शुषे᳚
PS1.2 क॒विर्गृ॒हप॑ति॒र्युवा᳚
PS1.3 ह॒व्य॒वाड॒ग्निर॒जरः॑ पि॒ता नो॑ वि॒भुर्वि॒भावा॑
PS1.4 सु॒दृशी॑को अ॒स्मे
PS1.5 सु॒गा॒र्॒.ह॒प॒त्याः समिषो॑ दिदीह्यस्म॒द्रिय॒ख्सं मि॑मीहि॒ श्रवाꣳ॑सि
PS1.6 त्वं च॑ सोम नो॒
PS1.7 वशो॑ जी॒वातुं॒ न म॑रामहे
PS1.8 प्रि॒यस्तो᳚त्रो॒ वन॒स्पतिः॑
PS1.9 ब्र॒ह्मा दे॒वानां᳚ पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णां
PS1.10 महि॒षो मृ॒गाणां᳚
PS1.11 श्ये॒नो गृद्ध्रा॑णाꣳ॒॒ स्वधि॑ति॒ र्वना॑नाꣳ॒॒
PS1.12 सोमः॑ - [ ]
PS2.1 प॒वित्र॒मत्ये॑ति॒ रेभन्न्॑
PS2.2 आ वि॒श्वदे॑वꣳ॒॒ सत्प॑तिꣳ सू॒क्तैर॒द्या वृ॑णीमहे
PS2.3 स॒त्यस॑वꣳ सवि॒तारं᳚
PS2.4 आस॒त्येन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्य॑ञ्च
PS2.5 हि॒र॒ण्यये॑न सवि॒ता रथे॒नाऽऽ* दे॒वोया॑ति॒
PS2.6 भुव॑ना वि॒पश्यन्न्॑
PS2.7 यथा॑ नो॒ अदि॑तिः॒ कर॒त्
PS2.8 पश्वे॒ नृभ्यो॒ यथा॒ गवे᳚
PS2.9 यथा॑ तो॒काय॑ रु॒द्रियं᳚
PS2.10 मा न॑स्तो॒के तन॑ये॒ मा
PS2.11 न॒ आयु॑षि॒ मा नो॒
PS2.12 गोषु॒ मा- [ ]
PS3.1 नो॒ अश्वे॑षु रीरिषः
PS3.2 वी॒रान् मानो॑ रुद्र भामि॒तो
PS3.3 व॑धीर्.ह॒विष्म॑न्तो॒ नम॑सा विधेम ते
PS3.4 उ॒द॒प्रुतो॒ न वयो॒ रक्ष॑माणा॒
PS3.5 वाव॑दतो अ॒भ्रिय॑स्येव॒ घोषाः᳚
PS3.6 गि॒रि॒भ्रजो॒ नोर्मयो॒ मद॑न्तो॒ बृह॒स्पति॑म॒भ्य॑र्का अ॑नावन्न्
PS3.7 हꣳ॒॒सैरि॑व॒ सखि॑भि॒र्वाव॑दद्भिरश्म॒न्- मया॑नि॒ नह॑ना॒ व्यस्यन्न्॑
PS3.8 बृह॒स्पति॑रभि॒कनि॑क्रद॒द्गा उ॒त प्रास्तौ॒दुच्च॑ वि॒द्वाꣳ अ॑गायत्
PS3.9 एन्द्र॑ सान॒सिꣳ र॒यिꣳ -
PS3.10 [ ]
PS4.1 स॒जित्वा॑नꣳ सदा॒सहं᳚
PS4.2 वर्.षि॑ष्ठमू॒तये॑ भर
PS4.3 प्र स॑साहिषे पुरुहूत॒ शत्रू॒न्
PS4.4 ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु
PS4.5 इन्द्राऽऽ* भ॑र॒ दक्षि॑णेना॒ वसू॑नि॒
PS4.6 पतिः॒ सिन्धू॑नामसि रे॒वती॑नां
PS4.7 त्वꣳ सु॒तस्य॑ पी॒तये॑ स॒द्यो
PS4.8 वृ॒द्धो अ॑जायथाः
PS4.9 इन्द्र॒ ज्यैष्ठ्या॑य सुक्रतो
PS4.10 भुव॒स्त्वमि॑न्द्र॒ ब्रह्म॑णा म॒हान् भुवो॒
PS4.11 विश्वे॑षु॒ सव॑नेषु य॒ज्ञियः॑
PS4.12 भुवो॒ नॄꣳश्च्यौ॒त्नो विश्व॑स्मि॒न् भरे॒
PS4.13 ज्येष्ठ॑श्च॒ मन्त्रो॑ - [
PS4.14 ]
PS5.1 विश्वचर्.षणे
PS5.2 मि॒त्रस्य॑ चर्.षणी॒धृतः॒ श्रवो॑ दे॒वस्य॑ सान॒सिं
PS5.3 स॒त्यं चि॒त्र श्र॑वस्तमं
PS5.4 मि॒त्रो जनान्॑ यातयति प्रजा॒नन्
PS5.5 मि॒त्रो दा॑धार पृथि॒वीमु॒त द्यां
PS5.6 मि॒त्रः कृ॒ष्टीरनि॑मिषा॒ऽभि च॑ष्टे स॒त्याय॑
PS5.7 ह॒व्यं घृ॒तव॑द्-विधेम
PS5.8 प्रसमि॑त्र॒ मर्तो॑ अस्तु॒ प्रय॑स्वा॒न्॒.
PS5.9 यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑
PS5.10 न ह॑न्यते॒ न जी॑यते॒
PS5.11 त्वोतो॒ नैन॒मꣳहो॑ अश्नो॒त्यन्ति॑तो॒ न
PS5.12 दू॒रात्
PS5.13 य- [ ]
PS6.1 च्चि॒द्धि ते॒ विशो॑ यथा॒
PS6.2 प्रदे॑व वरुण व्र॒तं
PS6.3 मि॒नी॒मसि॒ द्यवि॑द्यवि
PS6.4 यत् किञ्चे॒दं ॅव॑रुण॒ दैव्ये॒
PS6.5 जने॑ऽभिद्रो॒हं म॑नु॒ष्या᳚श्चरा॑मसि
PS6.6 अचि॑त्ती॒यत् तव॒ धर्मा॑ युयोपि॒ममा
PS6.7 न॒स्तस्मा॒ देन॑सो देव रीरिषः
PS6.8 कि॒त॒वासो॒ यद्रि॑ रि॒पुर्न दी॒वि
PS6.9 यद्वा॑ घा स॒त्य मु॒तयन्न
PS6.10 वि॒द्म
PS6.11 सर्वा॒ ता विष्य॑ शिथि॒रे
PS6.12 ( ) व॑ दे॒वाथा॑
PS6.13 ते स्याम वरुण प्रि॒यासः॑

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 3.4.11.1 TS 3.4.11.1
त्वम॑ग्ने बृ॒हद्वयो॒ दधा॑सि देव दा॒शुषे᳚ । क॒विर्गृ॒हप॑ति॒र्युवा᳚ ॥ह॒व्य॒वाड॒ग्निर॒जरः॑ पि॒ता नो॑ वि॒भुर्वि॒भावा॑ सु॒दृशी॑को अ॒स्मे । सु॒गा॒र्॒.ह॒प॒त्याः समिषो॑ दिदीह्यस्म॒द्रिय॒ख्सं मि॑मीहि॒ श्रवाꣳ॑सि ॥ त्वं च॑ सोम नो॒ वशो॑ जी॒वातुं॒ न म॑रामहे । प्रि॒यस्तो᳚त्रो॒ वन॒स्पतिः॑ ॥ ब्र॒ह्मा दे॒वानां᳚ पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णां महि॒षो मृ॒गाणां᳚ । श्ये॒नो गृद्ध्रा॑णाꣳ॒॒ स्वधि॑ति॒ र्वना॑नाꣳ॒॒ सोमः॑ - [ ]
पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । बृ॒हत् । वयः॑ । दधा॑सि । दे॒व॒ । दा॒शुषे᳚ ॥ क॒विः । गृ॒हप॑ति॒रिति॑ गृ॒ह - प॒तिः॒ । युवा᳚ ॥ ह॒व्य॒वाडिति॑ हव्य - वाट् । अ॒ग्निः । अ॒जरः॑ । पि॒ता । नः॒ । वि॒भुरिति॑ वि - भुः । वि॒भावेति॑ वि - भावा᳚ । सु॒दृशी॑क॒ इति॑ सु - दृशी॑कः । अ॒स्मे इति॑ ॥ सु॒गा॒र्॒.ह॒प॒त्या इति॑ सु - गा॒र्॒.ह॒प॒त्याः । समिति॑ । इषः॑ । दि॒दी॒हि॒ । ॒स्म॒द्रिय॒गित्य॑स्म - द्रिय॑क् । समिति॑ । मि॒मी॒हि॒ । श्रवाꣳ॑सि ॥ त्वम् । च॒ । सो॒म॒ । नः॒ । वशः॑ । जी॒वातु᳚म् । न । म॒रा॒म॒हे॒ ॥ प्रि॒यस्तो᳚त्र॒ इति॑ प्रि॒य - स्तो॒त्रः॒ । वन॒स्पतिः॑ ॥ ब्र॒ह्मा । दे॒वाना᳚म् । प॒द॒वीरिति॑ पद - वीः । क॒वी॒नाम् । ऋषिः॑ । विप्रा॑णाम् । म॒हि॒षः । मृ॒गाणा᳚म् ॥ श्ये॒नः । गृद्ध्रा॑णाम् । स्वधि॑ति॒रिति॒ स्व - धि॒तिः॒ । वना॑नाम् । सोमः॑ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

( अथ तृतीयकाण्डे चतुर्थप्रपाठके एकादशोऽनुवाकः) ।

वास्तोष्पतियुतो होमो दशमे परिकीर्तितः ।

अथैकादशे याज्या (पुरोनुवाक्या) स्तत्र देवसुवामेतानि हवी+ षि भवन्तीति यानि विहितानि तेष्वग्नये गृहपतये पुरोडाशमष्टाकपालं निर्वपति कृष्णानां व्रीहीणामित्यस्य पुरोनुवाक्यामाह —

त्वमग्ने बृहदिति । हेऽग्ने देव त्वं दाशुषे हविर्दत्तवते यजमानाय बृहद्वयो दधासि महदन्नं दीर्घामायुर्वा प्रयच्छसि । कीदृशस्त्वम् । कविर्विद्वान् । गृहयतिर्गृहस्य पालयिता । युवा नित्यतरुणः । तत्रैव याज्यामाह —

हव्यवाडग्निरिति । अयमग्निर्हव्यं वहतीति हव्यवाट् । अजरो जरारहितः । नोऽस्माकं पितोत्पादकः पालयिता वा । विभुर्वापि । विभावा विशेषण भानशीलः । सुदृशीकः सुखदर्शनः । ईदृशो योऽग्नि । स त्वमस्मे अस्माकमिषोऽन्नानी संदिदिही सभ्यक्प्रयच्छ । कथंभूता इषः । सुगार्हपत्याः शोभनगृहपतित्वहेतुभूताः । किंच । अस्मद्रियमस्मादाभिमुख्येनाऽऽगतः सञ्श्रवांसि श्रोतव्यानि यशांसि संमिहीहि सम्यङ्निष्पादय ।

अथ सोमाय वनस्पतये श्यामाकं चरुमित्यस्य पुरोनुवाक्यामाह —

त्वं च सोमेति । हे सोम त्वं च त्वमपि नोऽस्माञ्जीवातुं वशो जीवयितुं कामयमानोऽसि । अतो न मरामहे त्वत्प्रसादान्न म्रियामहे । कीदृशस्त्वम् । मियस्तोषः सोमो वा ओषधीना राजेत्यादिस्तुतिप्रियः । वनस्पतिर्वनानां पालकः । तत्रैव याज्यामाह-

ब्रह्मा देवानामिति । देवानां मध्ये ब्रह्मा श्रेष्ठः । पदं वेत्त्यवगच्छतीति पदवीः । कवीनां विदुषां मध्ये पदवीः पदवाक्यप्रमाणामिज्ञः श्रेष्ठः । विप्राणां मध्य ऋषिरनुष्ठानसामर्थ्येनातीन्वियवस्तुद्रष्टा श्रेष्ठः । मृगाणां चतुष्पादानां मध्ये शक्त्याधिक्यान्महिषः श्रेष्ठः । तथैव मृध्राणां पक्षिणा मध्ये शक्त्याविक्या च्छ्येनः श्रेष्ठः । वनानां मध्ये स्वाधिति श्रेष्ठः । स्वधितिशब्देन करवालादिव दूदृढस्रूपो भास्वान्वृक्ष उच्यते । यथा ब्रह्मादयः स्वजातिषु श्रेष्ठा एवं सोमोऽपि पवित्रं शुद्धिहेतुं कुशादिकमत्येत्यतिक्रामति । कीदृशः सोमः । रेमञ्शब्दभावस्तू यमान इत्यर्थः ।

अथ सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालमाशूनां व्रीहीणामित्यास्य पुरोनुवाक्यामाह —

आ विश्वदेवमिति । अद्यास्मिन्कर्माणि सवितारं सूक्तैः शोभनवाक्यैरा-वृणीमहे फलसाधानाय प्रार्थयामहे । कीदृशं सवितारम् । विश्वदेवं विश्वे सर्वे देवा यस्य वशे वर्तन्ते सोऽयं विश्वदेवस्तम् । सप्ततिं सन्मार्गवर्तिनां पालकम । सत्यसवममो-धानुज्ञम । तत्रैव याज्यामाह —

आ सत्येनेति । सविताऽऽदित्यो हिरण्ययेन रथेनाऽऽयाति सुवर्णनिर्मितं रथमारुह्य प्रतिदिनं पूर्वस्यां दिश्यागच्छति । किं कुर्वन्, सत्येन रजसाऽऽवर्तमानः । अमोधेन रञ्जकात्मकेन मण्डलेनोदयास्तमययोर्म्राम्यन्नमृतं मर्त्यं च निवेशयन्तेव-शरीरं मनुष्यशरीरं स्वस्वकाले प्रकाशेन तत्तल्लोके व्यवहारक्षमं कुर्वन्भुवना विप-श्यन्सर्वलोकानवलोक्यन् ।

अथ रुद्राप्र पशुपतये गावीधुकं चरुमित्येतस्य पुरोनुवाक्यामाह —

यथा नो अदितिरिति । अदितिरखण्डनीयो रुद्रो यथा पश्वे पशुभ्यो नृभ्यो गोभ्यश्व यथा तोकायापत्याय यथा रुद्रियं रुद्रमतिपादितं रक्षणादि यथा करत्पश्वा-दिभ्यः पुत्राद्यपत्याय च येन पर्कारण रक्षणं करोति तथा तमनेन हविषाऽऽराधयाम इति शेषः । तत्रैव याज्यमाह —

मा नस्तोक इति । हे रुद्र त्वं भामितः क्रुद्धः सन्नोऽस्माकं तोके पुत्रादौ तनये तदीयपुत्रेऽश्मत्पौत्रे मा रीरिषो हिंसां मा कृथाः । तथा नोऽस्माकमायुषि मा रीरिषः । तथा नोऽस्माकं वीरान्भृत्यान्मा वधीः । वयं हविष्मन्तो हविर्युक्ताः सन्तस्ते तुभ्यं नम-सा विधेम नमस्कारएम परिचर्यां करवाम ।

अथ बृहस्पतये वाचस्पतये नैवारं चरुमित्यस्य पुरोनुवाक्यामाह —

उदप्रतो नेति । एवं बृहस्पतिमभिलक्ष्यार्का अर्चनहेतवोऽस्मदीयां वाग्विशेषा अनावन्स्तुतवन्तः कीदृशा वाग्विशेषाः । उद्पुतो न वयो रक्षमाणा उदकं प्रप्लावयन्ति भूमौ प्रवर्तयन्तीत्युदप्रुतो मेघास्ते यथाऽन्नोदकनिष्पादनद्वरिण मदीयं वय आयुष्यं पालयन्ति तद्वन्मदीयाः स्तुतिरूपा वाग्विशेषास्चापमृत्युपरिहारेणाऽऽयुष्मस्य रक्षकाः तथाऽभ्रियस्य घोषा इव वावदतः । आम्राणां समूहोऽभ्रियं तस्य घोषा गर्जनशब्दा यथोच्चध्वनय एवमस्मदीया वाग्विशेषा भृशं वदन्तो भवन्ति । तथा गिरिभ्रजो नोर्मयो मदन्तः । यथा नदीतीरस्थगिरिस्पर्शिन ऊर्मयो नदीपूरणप्रकाशनेन हर्षं जनयन्त्येवमस्मदीयवाग्विशेषा बृहस्पतिमहिमप्रकाशनेन हर्षयन्तो भवन्ति । तत्रैव याज्यामाह —

ह सैरिवेति । अयं बृहस्पतिरभिकनिक्रददाभितोऽस्मदीयहविःस्वीकारपरितोष-द्योतकमुच्चध्वनिमकरोत् । उत गाः प्रास्तौत् । अपि च परितोषद्योतकानि वाक्यान्युच्चारितवान् । विद्वानुदगायच्चास्मदीयपरिचर्यामभिजानन्परितुष्ट उत्कर्षेण गानम-प्यकरोत् । किं कुर्वन् । अश्मन्मयानि नहना व्यस्यन्, पाषाणमयद्वारपिधानसदृशानि फलमतिबन्धकानि दुरितान्यपाकुर्वन् । यथा हंसैश्चतुर्थाश्रमवासिभिरभिष्टुतः परमेश्वरः पुरषार्थप्रतिबन्धकमपाकरोत्येवं वावदद्भिरतिशयेन स्तुवद्भिः सखिभिर्ऋत्विग्मिः परितोषितो बृहस्पतिः प्रतिबन्धमपाकरोतीत्यपेक्षितं शेषमध्याहृत्य व्याख्येयम् ।

अथेन्द्राय ज्योष्ठाय पुरोडाशमेकादशकपालं महाव्रीहिणामित्यस्य पुरोनुवाक्यामाह —

एन्द्र सानसिमिति । हे इन्द्र रयिं धनमूतये रक्षार्थमाभराऽऽनय । कीदृशं धनम् । सानसिं सनसो दानस्य संबन्धिनं बहुभ्यो दातुं पर्याप्तमित्यर्थः । सजित्वानं जित्वभिर्जयशीलैः पुत्रादिभिरुपेतम् । सदासहं सर्वदा विरोधिनां सोढारं तत्तिरस्कार-क्षममित्यर्थः वर्षिष्ठमतिशयेन प्रवृद्धम् । तत्रैव याज्यामाह —

प्र ससाहिष हति । हे पुरुहूत पुरूषु बहुषु यज्ञेष्वाहूयमान शत्रून्प्रकर्षेण ससाहिषे सर्वदा सहसे तिरस्करोषीत्यर्थः । ते शुष्मो ज्येष्टस्तव बलं प्रशस्तम् । इहास्मिन्कर्मणि रतिरस्तु । फलदानमस्तु । हे इन्द्र दक्षिणेन हस्तेन वसूनि धनान्यामर* समानय । सिन्धूनां समुद्रसमानानां रेवतीनां प्रजानां पतिरसि ।

अथ तत्रैव विकल्पितामन्यां पुरोनुवाक्यामाहत्व सुतस्येति । हे सुक्रतो शोभनकर्मन्निन्द्र त्वं सुतस्याभिषुतस्य पतिये पानाय सद्यस्तदानीमेव वृद्धोऽजायथाः प्रवृद्धो जातोऽसि । एतच्च सर्वेषां देवानां मध्ये तव ज्यैष्ठ्याय संपद्यते । तत्रैव विकल्पितामन्यां याज्यमाह —

भुवस्त्वमिति । हे इन्द्र त्वं ब्रह्मणा महान्भवः स्तुतिरूपेण वेदवाक्येना-भिवृद्धो भवसि । विश्वेषु सवनेषु त्रिष्वपि प्रातःसवनादिषु यज्ञियो भुवो यज्ञयोग्यो भवसि । नृन्प्रतिकूलाञ्शत्रूंश्च्यौत्नो भुवः प्रच्यावयन्विनाशयन्वर्तसे । हे विश्वचर्षणे विश्वे सर्वेचर्षणयो मनुष्या यस्मासौ विस्वचर्षणिः । सर्वमनुष्यस्वामी त्यर्थः । तादृशस्त्वं विश्वस्मिन्भरे सर्वस्मिन्यागे मन्त्रो मननीयो ज्येष्ठः प्रशास्तश्च भवसि । अथ मित्राय सत्यायाऽऽम्बानां चरुमित्यस्य पुरोनुवाक्यामाह-

मित्रस्येति । चर्षणीधृतो मनुष्याणां धारयितुर्मित्रस्य देवस्य श्रवः श्रोतुं योग्यं यशो महदस्तीति शेषः । सानसिं फलदानशीलम् । सत्यं सत्यवादिनम् । चित्रं श्रवः कीर्तिर्यस्यासौ चित्रश्रवा अतिशयेन तादृशम् । यजामह इति शेषः ।

तत्रैव याज्यमाह —

मित्रो जनानिति । अयं मित्रो देवो जनान्सर्वान्यातयति स्वस्वव्यापारेषुप्रयत्नयुक्तान्करोति । प्रजानंस्तत्तदधिदकारं विद्वान् । किंच मित्रः पृथिवीं दाधार धृतवान् । उतापि च द्यां दाधार । किंच मित्रः कृष्टीर्मनुष्याननिमिषा देवां श्चाभिचष्टे सर्वतः पश्यति । सत्ययामोघफलाय तस्मै मित्राय हव्यं चरुलक्षणं घृत वद्घृतयुक्तं विधेम कुर्मः ।

तत्रैव विकल्पितामान्यां याज्यामाह —

प्र स मित्रेति । यो यजमानस्तव संबन्धिना ब्रतेन कर्मणा शिक्षति अनुष्ठातुं शक्तो भवितुमिच्छति हे मित्र स मर्तः स मनुष्यो यजमानः प्रयस्वान्कर्मफलयुक्तः प्रकर्षेणास्तु । त्वोतस्त्वया रक्षितः स यजमानो न हन्यते रोगादिना न पीड्यते । न जीयते वैरिभिर्नाभिभूयते । अपि च त्वया रक्षितमेनं यजमान मंहः पाप्माऽन्तितः समीपे नाश्नोति न व्याप्नोति । दूराद्दूरेऽपि न प्राप्नोति ।

अथ वरुणाय धर्मपतये यवमयं चरुमित्यस्य पुरोनुवाक्यामाह —

यच्चिद्धि त इति । हे वरुण देव ते त्वदीयं यञ्चिदव्रतं यत्किंचिदपि

कर्म द्यविद्यवि दिने दिने प्रकर्षेण मिनीमासि तर्कयामहे । तत्र दृष्टान्तः — विशो यथा सर्वाः प्रजाः स्वस्वव्यापारं यथा तर्कयन्ति तद्वत् । हि यस्मात्त्वदीयमेव कर्म सर्वदा तर्कयामस्तस्मास्वां परिचरेमेति शेषः । तत्रैव याज्यामाह-

यत्किंचेदभिति । हे वरुण मनुष्या वयं दैव्ये देवलोकवर्तिने जने यत्किंचेद-मभिद्रोहं स्वल्पमधिकं वा द्रोहमचिन्त्यज्ञानेन चरामसि कुर्मः । किंच यदपि तव धर्मा त्वदीयं कर्म युयोपिम विनाशयामो हे देव तस्मादेनसो द्रोहात्कर्मनाशाच्च नोऽस्मान्मा रिरिषो हिंसा मा कृथाः —

तत्रैव विकल्पितामान्यं याज्यामाह-

कितवास इति । कितवासो धूर्तसमानाः स्वार्थसाधनपरा ऋत्विजो यत्क-र्माङ्गं रिरिषुर्नाशितवन्तो न दिवि न तु देवने सम्यग्व्यवहृतौ प्रवर्तन्ते । वाऽथवा यत्पापं सत्यमवश्यं कृतं ज्ञात्वैव कृतमित्यर्थः । घशब्दः पादपूरणे पापवनाचको वा निपातितः । यद्ध सत्यमित्यन्वयः । उतापि च यद्ध विद्म यत्पापमज्ञानेन कृतमित्यर्थः । सर्वा ता, ऋत्विग्भिर्विनाशितमङ्गं ज्ञात्वा कृतमज्ञानेन कृतं चेति यानि सन्ति तानि सर्वाणि शिथिरेव शिथिलानीव विष्य विनाशयेत्यर्थः । अथानन्तरं हे वरुण ते तव प्रियासः स्याम प्रिया भवेम ।

अत्र विनियोगसंग्रहः —

राजसूये देवसुवामिष्टौ याज्या इमाः क्रमात् ।

त्वगग्ने बृहदाग्नेये त्वं च सोमेति सौम्यके ॥

आ विश्वदेवं सावित्रे यथा न इति रौद्रके ।

बार्हस्पत्य उदेत्येतदैन्द्रेऽन्त्यैन्द्रे चतुष्टयम् ॥

मित्रस्येति त्रयं मैत्रे वारुणे यदिति त्रयम् ।

एकादशेऽनुवाकेऽस्मिन्मन्त्रा उक्ता हि विंशतिः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे

चतुर्थप्रपाठके एकदशोऽनुवाकः ॥ ११ ॥

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधवाचार्येण विरचिते

वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये

तृतीयकाण्डे चतुर्थः प्रपाठकः ॥ ४ ॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 सन्ति देवसुवां हवींष्यष्टौ 'अग्नये गृहपतये पुरोडाशमष्टाकपालं निर्वपेत्कृष्णानां व्रीहीणाम्' इत्यादौ विहितानि, 'देवसुवामेतानि हवींषि भवन्ति' इति च तेषां याज्यानुवाक्या । तस्याग्नेयस्य पुरोनुवाक्या - त्वमग्ने इति गायत्री हे अग्ने देव त्वं बृहत् महत् वयः अन्नं दधासि धारयसि दाशुषे हविर्दत्तवते यजमानाय दातुं दधासि । कविः क्रान्तदर्शनः गृहपतिः गृहस्य पाता युवा हविषां देवैर्मिश्रयिता, नित्यतरुणो वा । 'दाश्वान्' इति निपातितः ॥
2 तत्रैव याज्या - हव्यवाडिति त्रिष्टुप् ॥ हव्यवाट् हविषां वोढा अग्निः अङ्गनादिगुणयुक्तः अजरो जरारहितः । 'नञो जरमर' इत्युदात्तत्वम् । पिता पालयिता नः अस्माकं विभुः भुवनस्य व्यापी विभावा विशेषेण भानशीलः । भातेर्वनिप् । सुदृशीकः सुखदर्शनः । दृशीकादयो निपात्यन्ते, 'क्रत्वादयश्च' इत्युत्तरपदाद्युदात्तत्वम् । ईदृशस्त्वं अस्मै अस्माकम् । 'सुपां सुलुक्' इति शे आदेशः । सुगार्हपत्याः शोभनगृहपतित्वहेतुभूताः इषः अन्नानि संदिदीहि एकीकृत्य दीपय देहीत्यर्थः । दिदेतिः दीप्तिकर्मा छान्दसः, ददातेर्वा रूपं छान्दसविकारः । किं च - अस्मद्रियक् अस्मदाभिमुख्येनागतिमत् । 'विष्वग्देवयोश्च' इत्यद्र्यादशेः । श्रवांसि यशांसि अन्नानि वा संमिमीहि सम्यङ्निष्पादय । माङ् माने, जौहोत्यादिकः, व्यत्ययेन परस्मैपदम् ॥
3 अथ 'सोमाय वनस्पतये श्यामाकं चरुम्' इत्यस्य सौम्यस्य पुरोनुवाक्या - त्वं चेति गायत्री ॥ त्वमपि महानुभावः सोम नः वशः कामयसे रक्ष्यत्वेन । वष्टेर्लोट्याडागमः । 'निपातैर्यद्यदिहन्त' इति निघाताभावः । यद्वा - चशब्दोवधारणे । हे सोम नोस्माकं त्वमेव वशः कान्तः इष्टतमः । किमर्थम्? जीवातुं जीवनाय । व्यत्ययेन चतुर्थ्यर्थे द्वितीया । तुमुनि वा आडागमश्छान्दसः, तस्योदात्तत्वं च । अतः त्वत्प्रसादात् न मरामहे न म्रियामहे । व्यत्ययेन शप् । पुनश्च सोमो विशेष्यते - प्रियस्तोत्रः । गतम् । वनस्पतिः वनानां पाता । 'सोमो वा ओषधीनां राजा' इति । वनस्थानां वा पाता 'सोमो वनस्पतीनाम्' इति । पारस्करादित्वात्सुट्, 'उभे वनस्पत्यादिषु युगपत्' इति पूर्वयोर्युगपत्प्रकृतिस्वरत्वम् ॥
4 तत्रैव याज्या - देवानां मध्ये ब्रह्मा सोमः ब्रह्मात्मना वर्तते । यद्वा - देवानां यथा ब्रह्मा श्रेष्ठो भवति, एवं सोमः पवित्राणां श्रेष्ठ इति । पदवीः पदव्यः यज्ञाः अभेदेन तद्विद उच्यन्ते । कवीनां क्रान्तदर्शनानां मध्ये यज्ञविदः श्रेष्ठाः । व्यत्ययेन वा बहुवचनम् । हल्ञ्यादिलोपाभावो वा । यज्ञश्रेष्ठ इति । यद्वा - वेतेर्गतिकर्मणो बुद्ध्यर्थात्क्विप् । पदानां पद्यमानानां यज्ञानामेव वेदितोच्यते, अनवधारणादनवग्रहः । ऋषिः द्रष्टा विप्राणां श्रेष्ठः, महाबलत्वात् । श्येनः शंसनीयो गच्छतीति गृध्राणां श्रेष्ठः । स्वधितिः अग्निः विनाशनसामर्थ्यात्ताच्छब्द्यम् । आत्मनि धीयते इति । वनानां वननीयानां अग्निः श्रेष्ठः । महावृक्षः कश्चिदित्येके । एवं सोमः पवित्राणां मध्ये पवित्रमत्येति ब्रह्मादिकम् । यद्वा - यन्नाम किंचित् पवित्रं तत् सर्वमत्येति रेभन् स्तूयमानः । रेभृ शब्दे, व्यत्ययेन कर्तृप्रत्ययः ॥
5 'सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालमाशूनां व्रीहीणाम्' इत्यस्य सावित्रस्य पुरोनुवाक्या - आ विश्वदेवमिति गायत्री ॥ विश्वदेवं विश्वेऽपि देवा दीव्यन्तेऽस्मिन्निति विश्वदेवस्सविता । 'विश्वं संज्ञायाम्' इति विश्वशब्दस्याद्युदात्तत्वम् । सत्पतिं सतां विदुषां पातारम् । 'पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वम् । सूक्तैस्सम्यगुक्तैः स्तोत्रैः अद्यास्मिन् यज्ञे वृणीमहे सत्यसवं सत्यानुज्ञं सवितारं देवम् ॥
6 तत्रैव याज्या - आ सत्येनेति त्रिष्टुप् ॥ सत्येन नित्येन रजसा लोकेन ज्योतिर्मयेन मण्डलात्मना आवर्तमानः उदयमस्तमयं चानुपूर्व्येण कुर्वाणः निवेशयन् स्थापयन् जीवयन् अमृतं देवादिलक्षणं मर्त्यं मनुष्यादिलक्षणं च । 'नञो जरमर' इत्युत्तरपदाद्युदात्तत्वम् । हिरण्ययेन हिरण्मयेन रथेन । 'ऋत्व्यवास्त्व' इति निपात्यते । हिरण्यया हिरण्ययानी[नेने]त्येके । सविता देवः । एवं भुवना भुवनानि भूतजातानि विपश्यन् विविधं पश्यन् हितेन योजयन् आयाति आगच्छतु ॥
7 'रुद्राय पशुपतये गावीधुकं चरुम्' इत्यस्य रौद्रस्य पुरोनुवाक्या - यथा न इति गायत्री ॥ अदितिः अखण्डनीयो रुद्रः कर्मणि क्तिन् । स देवः यथा नोस्माकं पश्वे पशुभ्यः । जातावेकवचनम्, 'जसादिषु वा वचनम्' इति गुणाभावः । यथा वा नृभ्यः मनुष्येभ्यः यथा गवे गोभ्यः । पूर्ववदेकवचनम् । उभयत्रापि 'सावेकाचः' इति प्राप्तं विभक्त्युदात्तत्वं 'न गोश्वन्' इत्यादिना निषिद्ध्यते । यथा च तोकाय अस्मदीयाय बालायापत्यादिकाय रुद्रियं रुद्रस्य पशुपतेः यत्कृत्यं सशिवया तन्वा यत्करोति तद्रुद्रियं पशूनां रक्षणं करत् करोति । यथा पश्वादिभ्यो यद्देवः करोति तथा तमनेन हविषाऽऽराधयाम इति शेषः । रुद्रशब्दादिदमर्थे घः, अर्हार्थे वा यद्रुद्रस्यार्हमिति । करोतेश्छान्दसो लुङ्, 'कृ मृ दृ रुहिभ्यः' इति अङ्, 'ऋदृशोङि गुणः' ॥
8 तत्रैव याज्या - मा न इति जगती ॥ हे रुद्र भामितः क्रुद्धस्त्वं नोस्माकं तोकादीन् मा रीरिषः मा हिंसीः तोकादिविषये हिंसां मा कृधाः । सर्वत्र जातावेकवचनम् । तोकेष्वपत्येषु तनयेषु तदपत्येषु नप्त्रादिषु आयुषि जीविते गोषु अश्वेषु च । किञ्च - वीरान् विक्रान्तान् नोस्मदीयान् क्रोधेन मा वधीः । यथा वयं हविष्मन्तोनेन गावीधुकेन चरुणा तद्वन्तः नमसा नमस्कारेण ते त्वां विधेम परिचरेम तदर्थं मा रीरिषः इति । पूर्ववत्कर्मणि षष्ठी ॥
9 'बृहस्पतये वाचस्पतये नैवारं चरुं' इत्यस्य पुरोनुवाक्या - उदप्रुत इति त्रिष्टुप् ॥ उदप्रुतः उदकस्य प्रापयितारः प्रवोढारः प्रवर्तयितारो वा मेघा उच्यन्ते । ध्रुङ् प्रुङ् प्लुङ् गतौ, उदभावश्छान्दसः । उदप्रुतो न उदप्लुत इव वयोन्नं रक्षमाणाः वृष्टिद्वारेण रक्षन्तः । व्यत्ययेनात्मनेपदम् । वावदतः अभ्रियस्य घोषा इव विश्वं जगद्वादयन्तः । वदेर्यङ्लुगन्ताच्छतरि 'अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । गिरिभ्रजो न गिरिभ्रज इव गिरिपृष्ठगामिनः । भ्रजतिर्गतिकर्मा, भ्राजतेर्वा ह्रस्वत्वम् । ऊर्मयः उदकसंघाता इव मदन्तः मादयन्तस्तर्पयन्तः प्रजाः । स्वरितत्वाच्चौरादिकस्य णिलुक् । ईदृशार्काः अर्चनादिसाधनभूताः स्तुतयः । अर्चतेः करणे घञ्, 'चजोः कुधिण्यतोः' इति कुत्वम् । यद्वा - अर्क स्तुतौ । बृहस्पतिमभ्यनावन् बृहस्पतिमभिष्टुवन्ति, तस्माद्वयमपि तं महानुभावं यजामहे इति । नौतेश्छान्दसो लुङ्, व्यत्ययेन शप्, धातोश्च वृद्धिः । बृहस्पतेस्सुट्स्वरावुक्तौ ॥
10 तत्रैव याज्या - हंसैरिति त्रिष्टुप् ॥ हंसैः हननशीलैः ज्ञानशीलैः शुद्धात्मभिः तैरिव सखिभिः समानख्यानैः ऋत्विग्भिः यावदर्थं वदद्बिः अश्मन्मयानि व्याप्तिमदुदकवन्ति । अयस्मयादित्वेनाश्मन्नलोपाभावः नहना नहनानि बन्धनानि मेघान् व्यस्यन् विविधं क्षिपन् प्रेरयन् बृहस्पतिः अभिकनिक्रदत् अभितस्स्तनयन् । दाधर्त्यादौ निपात्यते, शतर्यनुनासिकलोपः, 'अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । गाः अपः । उतशब्दश्चार्थे । प्रास्तौत् उच्च मेघसन्निधानादिना वृष्ट्याभिमुख्यवतीः कृतवान् उदगायच्च, उदक्षिपच्च अवर्षच्चेत्यर्थः । विद्वान् वर्षणोपायज्ञः । विद्वानेव प्रस्तोता उदगायदिति भावः । 'दीर्घादटि समानपादे' इति रुत्वम् ॥
11 'इन्द्राय ज्येष्ठाय पुरोडाशमेकादशकपालं महाव्रीहीणाम्' इत्यस्य पुरोनुवाक्या - ऐन्द्रेति गायत्री ॥ हे इन्द्र सानसिं संभजनीयाम् । सनोतेरसिप्रत्ययः, वृद्धिश्च निपात्यते । रयिं धनं सजित्वानं सर्वानरीन् जेतुं शीलं यस्य । 'अन्येभ्योपि दृश्यते' इति जयतेः क्वनिप् । यद्वा - जेतृभिस्सहितम् । 'परादिश्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । सदासहं सर्वकालमरीणामभिभवितारं वर्षिष्ठं वृद्धतरं अतिप्रभूतं ईदृशं रयिमस्मभ्यं आभर । 'हृग्रहोः' इति भः । ऊतये रक्षणाय तर्पणाय वा । 'ऊतियूति' इत्यादिना क्तिन उदात्तत्वं निपात्यते ॥
12 तत्रैव याज्या - प्र ससाहिषे इति त्रिष्टुप् ॥ हे इन्द्र पुरुहूत बहुभिराहूत शत्रून् प्रससाहिषे प्रकषेर्णाभिभवसि । छान्दसे लिटि 'तुजादानाम्' इत्यभ्यासस्य दीर्घत्वम् । यद्वा - अभ्यास योर्विपर्ययः । कस्मादेवमुच्यत इति चेत् ज्येष्ठः श्रेष्ठः प्रभूततमो वा ते तव शुष्मः बलम् । अत ख इहास्मिन् कर्मणि रातिः दानं हविषः तवैवास्तु त्वामेव यजामहे । 'मन्त्रे वृष' इति क्तिन उदात्तत्वम् । त्वं चास्मभ्यं दक्षिणेन हस्तेन वसूनि धनानि उदकादीनि आभर आहर । पूर्ववद्भत्वम्, 'अन्येषामपि दृश्यते' इति दक्षिणेत्यस्य दीर्घत्वम् । यस्मात्सिन्धूनां अपां रेवतीनां साधनानां पतिः पाता त्वमसि । रयेर्मतुब्बहुलम्' इति संप्रसारणत्वम् । यस्मात्पतिरसि, तस्मात्त्वमेब देहीत्युच्यते; बलत्त्वन्नाच्च तव दातुं नास्ति प्रतिबन्ध इति ॥
13 अथैन्द्रे याज्यानुवाक्ये विकल्प्येते । तत्र पुरोनुवाक्या - त्वं सुतस्येति गायत्री ॥ हे इन्द्र त्वं सुतस्याभिषुतस्य सोमस्य पीतये सद्यो वृद्धो अजायथाः सर्वेषां ज्येष्ठभावाय [वः] तव भवति । हे सुक्रतो सुकर्मन् । तस्मात्सर्वज्येष्ठं त्वामेव यजामहे इति ॥
14 अथ याज्या - भुव इति गायत्री ॥ हे इन्द्र त्वं कर्म, ब्रह्मणा परिबृढेन श्रोत्रेण वा महान् भुवः असि सर्वैस्स्तूयमनो वर्धसे इत्यर्थः स्तूयमानानि तेजांसि वर्धन्ते । भवतेर्लेटि शपो लुक्, लेटोडागमः, 'भूसुवोस्तिङि' इति गुणाभावः पादादित्वान्न निहन्यते । भवसि च विश्वेषु सवनेषु यज्ञेषु यज्ञियः यागार्हः । 'यज्ञर्त्विग्भ्याम्' इति घः । विश्वस्मिन् भरे संग्रामे नॄन् नॄणां शत्रूणां च्यौत्नः च्यावयिता विनाशयिता । च्यवतेरौणादिकोत्नप्रत्ययः, वृद्धिश्चातोः । नृशब्दात् 'कर्तृकर्मणोः' इति षष्ठी व्यत्ययेन न प्रवर्तते । हे विश्वचर्षणे सर्वमनुष्यबद्धेऽपि मनुष्यास्त्वयि भवन्ति सत्त्वेन । यद्वा - विश्वस्य द्रष्टः, मन्त्रः मन्द्रः मननीत्यः स्तुतो वा । तस्मात्त्वमसि ज्येष्ठो भवसि च सर्वेषाम् । चशब्देन भुव इत्यनुकृष्यते ॥
15 'मित्राय सत्यायाम्बानां चरुम्' इत्यस्य मैत्रस्य पुरोनुवाक्या - मित्रस्येति गायत्री ॥ मित्रस्य देवस्य मित्रणादिकृतः चर्षणीधृतः मनुष्याणां धारयितुः श्रवः अन्नं यशो वा सानसिं सननीयं सर्वेषां, देयं वा सर्वेभ्यः । व्यत्ययेन 'स्वमोर्नपुंसकात्' इति लुक् ङि प्रवर्तते । सत्यमविनश्वरं चित्रश्रवस्तमं अतिशयेन चित्रं चायनीयं श्रवणमस्येति चायनीयः । यशस्तमं वा । तस्मात्त्वामेव यजामहे इति ॥
16 तत्रैव याज्या - मित्र इति त्रिष्टुप् ॥ मित्रो देवः जनान् सर्वान् यातयति चेष्टयति प्रजानन् तत्तदधिकारानुरूपविधानज्ञः मित्र एव पृथिवीमपि द्यामपि दाधार धारयितुं प्रभवति । ध्रियतेः छन्दसि लिटि तुजादित्वादभ्यासस्य दीर्घत्वम् । मित्र एव कृष्टीः मनुष्यान् विशेषेण अनिमिषा अनिमिषेणादरेणाभिचष्टे आभिमुख्येन पश्यति उपकरोतीत्यर्थः । दर्शनमुपकारः, तथाहि - 'वक्तारो भवन्ति, सुपश्यति' इति । मिषतेर्भावे क्विप् । यद्वा - अनिमिषाः देवाः । इगुपधलक्षणः कः, 'सुपां सुलुक्' इति शस आकारः । मनुष्यान् देवाश्च विशेषेण पश्यतीति । तस्मात्तस्मै सत्यायामोघफलाय देवाय हव्यं चरुलक्षणं घृतवत् घृतसंयुक्तं विधेम कुर्मः ददाम इत्यर्थः । विदधातिर्दानकर्मा, विध विधाने, तौदादिकः ॥
17 अथ तत्रैव याज्या विकल्प्यते - प्र स मित्रेति त्रिष्टुप् । 'प्रयस्वान्' इति प्रथमपादान्तः, 'त्वोतः' इति तृतीयपादान्तः ॥ हे मित्र स मर्तः मनुष्यः प्रयस्वान् अन्नवान् प्रास्तु प्रकर्षेण भवतु । क इत्याह – हे आदित्य अदितेः पुत्र यस्तव प्रीतेन कर्मणा यागादिना शिक्षति शक्तो भवितुमिच्छति अविघ्नेनान्वतिष्ठदित्यथः । शकेः 'सनि मीमा' इत्यादिना इस् । यद्वा - शिक्ष विद्योपादाने । व्रतेनेति, व्यत्ययेन द्वितीयाबहुवचनस्य स्थाने तृतीयैकवचनम् । व्रतानि शिक्षति पुनःपुनरभ्यस्यतीति । कस्मादेवमुच्यते इत्यत आह - न हन्यते न पीड्यते शत्रुभिः, व्याध्यादिभिश्च । न जीयते नाभिभूयते दारिद्र्यादिभिः । कः ? त्वोतः त्वया ऊतो रक्षितः । पृषोदरदत्वादिष्टस्वररूपसिद्धिः, 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । किं च - नैनं त्वया रक्षितं अंहः पापं अन्तितः अन्तितः अन्तिके समीपे सन्तं न दूरात् सन्तम् । 'दूरान्तिकार्थेभ्यो द्वितीया च' इति पञ्चमी, 'कादिलोपो बहुलम्' इत्यन्तिकस्य लोपः । अतस्त्वामेव परिचरेमेति ॥
18 'वरुणाय धर्मपतये यवमयं चरुम्' इत्यस्य पुरोनुवाक्या - यच्चिदिति गायत्री ॥ हे देव वरुण यत्किंचित्ते त्वयि यद्व्रतं यागादिकं कर्म वयं विशः मनुष्यमात्रभूताः द्यविद्यवि दिनेदिने प्रमिनीमसि प्रतर्कयामः अविच्छेदेनानुष्ठातुमिच्छामः तत्तथा करोषि त्वमेव तस्मात् त्वामेव परिचरेमेति । मीञ् हिसायां, क्रय्यादिकः प्वादित्वाद्ध्रस्वत्वम्, 'इदन्तो मसि' प्रपूर्वोयं हिंसाभावे वर्तते । यथा प्रस्मरतीति स्मृत्यभावे, प्रतिष्ठतीति स्थित्यभावे, एवमिहापि द्रष्टव्यम् । यद्वा - यद्व्रतं प्रमिनीमः हिंसितवन्तः विशो यथा यथाजाता मष्याः उपतापादापूरयेमेति शेषः ॥
19 तत्रैव याज्या - यत्किं चेदमिति जगती - हे वरुण देव दैव्ये देवप्रभवे जने । 'देवाद्यञञौ इति यञ् । तद्विषये किंचित् स्वल्पमपि वा अभिद्रोहं अभितो द्रोहं मनुष्या वयं मनुष्यस्वभावात्संभाव्यमानप्रमादाः यदिदं चरामसि चरामः 'इदन्तो मसि' । इद्मिति क्रियाविशेषणम् । किंच - यत्तव धर्मा धर्माणि । 'शेश्छन्दसि' इति लोपः । अचित्ती अचित्त्या अज्ञानेन । 'सुपां सुलुक्' इति पूर्वसवर्णः । युयोपिम विनाशयामः । युपु विमोहने, ण्यन्ताच्छान्दसः आर्धधातुकत्वाण्णिलोपः । तस्मादेनसः पापादभिद्रोहलक्षणाद्धर्मविलोपलक्षणाच्च हेतुभूतान्नः अस्मान्मा रीरिषः, अपि तु अनुगृहाणैव ॥
20 तत्रैव याज्याविकल्पः - कितवास इति त्रिष्टुप् ॥ हे देव वरुण कितवासः स्वार्थसाधनतत्पराः कितवेति प्रवर्तमाना ऋत्विजः यत् येन रिरिपुः नाशितवन्तोस्मान्न दीवि न तु देवने सम्यग्व्यवसिताः प्रवर्तन्ते । दिवेरौणादिकेऽसिचि छान्दसं दीर्घत्वम् । 'ऊडिदम्' इति सप्तम्युदात्ता । यद्वा - यच्च सत्यं बुद्धिपूर्वमेव कृतं पापमश्रद्धादिना । 'घ' इति पादपूरणः, प्रसिद्धौ वा । 'ऋचि मनु' इत्यादिना संहितायां दीर्घत्वम् । उत अपि च यत् न विद्म कृतमपि न जानीमः सौकर्म्यात् । सर्वा ता सर्वाणि तानि तस्माद्दुश्चरितानि । 'शेश्छन्दसि' इति लोपः । विष्य विमुक्तबन्धनानि कुरु क्षमस्वेति यावत् । 'उपसर्गात्सुनोति' इत्यादिना स्यतेष्षत्वम् । शिथिरा शिथिलानीव सुमोचनानीव विमुञ्च । कपिलकादित्वाल्लत्वविकल्पः । अथानन्तरं विमुक्तैनसो वयं तव प्रियासः इष्टास्स्याम भवेम । 'आज्जसेरसुक्', 'निपातस्य च' इति संहितायां अथशब्दस्य दीर्घत्वम् ॥
इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये तृतीयकाण्डे चतुर्थप्रपाठके एकादशोनुवाकः ॥

समाप्तश्च प्रपाठकः ॥

……………………………………………………………………………………………………………

प्रश्नः-5

पञ्चशत् 2 #
TS 3.4.11.2 TS 3.4.11.2
प॒वित्र॒मत्ये॑ति॒ रेभन्न्॑ ॥ आ वि॒श्वदे॑वꣳ॒॒ सत्प॑तिꣳ सू॒क्तैर॒द्या वृ॑णीमहे । स॒त्यस॑वꣳ सवि॒तारं᳚ ॥ आस॒त्येन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्य॑ञ्च । हि॒र॒ण्यये॑न सवि॒ता रथे॒नाऽऽ* दे॒वोया॑ति॒ भुव॑ना वि॒पश्यन्न्॑ ॥ यथा॑ नो॒ अदि॑तिः॒ कर॒त् पश्वे॒ नृभ्यो॒ यथा॒ गवे᳚ । यथा॑ तो॒काय॑ रु॒द्रियं᳚ ॥ मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा- [ ]
पदपाठः (Word-by-word)
प॒वित्र᳚म् । अतीति॑ । ए॒ति॒ । रेभन्न्॑ ॥ एति॑ । वि॒श्वदे॑व॒मिति॑ वि॒श्व - दे॒व॒म् । सत्प॑ति॒मिति॒ सत् - प॒ति॒म् । सू॒क्तैरिति॑ सु-उ॒क्तैः । अ॒द्य । वृ॒णी॒म॒हे॒ ॥ स॒त्यस॑व॒मिति॑ स॒त्य-स॒व॒म् । स॒वि॒तार᳚म् ॥ एति॑ । स॒त्येन॑ । रज॑सा । वर्त॑मानः । नि॒वे॒शय॒न्निति॑ नि-वे॒शयन्न्॑ । अ॒मृत᳚म् । मर्त्य᳚म् । च॒ ॥ हि॒र॒ण्यये॑न । स॒वि॒ता । रथे॑न । एति॑ । दे॒वः । या॒ति॒ । भुव॑ना । वि॒पश्य॒न्निति॑ वि-पश्यन्न्॑ ॥ यथा᳚ । नः॒ । अदि॑तिः । कर॑त् । पश्वे᳚ । नृभ्य॒ इति॒ नृ - भ्यः॒ । यथा᳚ । गवे᳚ ॥ यथा᳚ । तो॒काय॑ । रु॒द्रिय᳚म् ॥ मा । नः॒ । तो॒के । तन॑ये । मा । नः॒ । आयु॑षि । मा । नः॒ । गोषु॑ । मा ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 3.4.11.3 TS 3.4.11.3
नो॒ अश्वे॑षु रीरिषः । वी॒रान् मानो॑ रुद्र भामि॒तो व॑धीर्.ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ॥ उ॒द॒प्रुतो॒ न वयो॒ रक्ष॑माणा॒ वाव॑दतो अ॒भ्रिय॑स्येव॒ घोषाः᳚ । गि॒रि॒भ्रजो॒ नोर्मयो॒ मद॑न्तो॒ बृह॒स्पति॑म॒भ्य॑र्का अ॑नावन्न् ॥ हꣳ॒॒सैरि॑व॒ सखि॑भि॒र्वाव॑दद्भिरश्म॒न्- मया॑नि॒ नह॑ना॒ व्यस्यन्न्॑ । बृह॒स्पति॑रभि॒कनि॑क्रद॒द्गा उ॒त प्रास्तौ॒दुच्च॑ वि॒द्वाꣳ अ॑गायत् ॥एन्द्र॑ सान॒सिꣳ र॒यिꣳ - [ ]
पदपाठः (Word-by-word)
नः॒ । अश्वे॑षु । री॒रि॒षः॒ ॥ वी॒रान् । मा । नः॒ । रु॒द्र॒ । भा॒मि॒तः । व॒धीः॒ । ह॒विष्म॑न्तः । नम॑सा । वि॒धे॒म॒ । ते॒ ॥ उ॒द॒प्रुत॒ इत्यु॑द - प्रुतः॑ । न । वयः॑ । रक्ष॑माणाः । वाव॑दतः । अ॒भ्रिय॑स्य । इ॒व॒ । घोषाः᳚ ॥ गि॒रि॒भ्रज॒ इति॑ गिरि - भ्रजः॑ । न । ऊ॒र्मयः॑ । मद॑न्तः । बृह॒स्पति᳚म् । अ॒भीति॑ । अ॒र्काः । अ॒ना॒व॒न्न् ॥ हꣳ॒॒सैः । इ॒व॒ । सखि॑भि॒रिति॒ सखि॑ - भिः॒ । वाव॑दद्भि॒रिति॒ वाव॑दत्- भिः॒ । अ॒श्म॒न्मया॒नीत्य॑श्मन्न् - मया॑नि । नह॑ना । व्यस्य॒न्निति॑ वि-अस्यन्न्॑ ॥ बृह॒स्पतिः॑ । अ॒भि॒कनि॑क्रद॒दित्य॑भि - कनि॑क्रदत् । गाः । उ॒त । प्रेति॑ । अ॒स्तौ॒त् । उदिति॑ । च॒ । वि॒द्वान् । अ॒गा॒य॒त् ॥ एति॑ । इ॒न्द्र॒ । सा॒न॒सिम् । र॒यिम् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 3.4.11.4 TS 3.4.11.4
स॒जित्वा॑नꣳ सदा॒सहं᳚ । वर्.षि॑ष्ठमू॒तये॑ भर ॥प्र स॑साहिषे पुरुहूत॒ शत्रू॒न् ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु । इन्द्राऽऽ* भ॑र॒ दक्षि॑णेना॒ वसू॑नि॒ पतिः॒ सिन्धू॑नामसि रे॒वती॑नां ॥ त्वꣳ सु॒तस्य॑ पी॒तये॑ स॒द्यो वृ॒द्धो अ॑जायथाः । इन्द्र॒ ज्यैष्ठ्या॑य सुक्रतो ॥ भुव॒स्त्वमि॑न्द्र॒ ब्रह्म॑णा म॒हान् भुवो॒ विश्वे॑षु॒ सव॑नेषु य॒ज्ञियः॑ । भुवो॒ नॄꣳश्च्यौ॒त्नो विश्व॑स्मि॒न् भरे॒ ज्येष्ठ॑श्च॒ मन्त्रो॑ - [ ]
पदपाठः (Word-by-word)
स॒जित्वा॑न॒मिति॑ स - जित्वा॑नम् । स॒दा॒सह॒मिति॑ सदा - सह᳚म् ॥ वर्.षि॑ष्ठम् । ऊ॒तये᳚ । भ॒र॒ ॥ प्रेति॑ । स॒सा॒हि॒षे॒ । पु॒रु॒हू॒तेति॑ पुरु-हू॒त॒ । शत्रून्॑ । ज्येष्ठः॑ । ते॒ । शुष्मः॑ । इ॒ह । रा॒तिः । अ॒स्तु॒ ॥ इन्द्र॑ । एति॑ । भ॒र॒ । दक्षि॑णेन । वसू॑नि । पतिः॑ । सिन्धू॑नाम् । अ॒सि॒ । रे॒वती॑नाम् ॥ त्वम् । सु॒तस्य॑ । पी॒तये᳚ । स॒द्यः । वृ॒द्धः । अ॒जा॒य॒थाः॒ । इन्द्र॑ । ज्यैष्ठ्या॑य । सु॒क्र॒तो॒ इति॑ सु-क्र॒तो॒ ॥ भुवः॑ । त्वम् । इ॒न्द्र॒ । ब्रह्म॑णा । म॒हान् । भुवः॑ । विश्वे॑षु । सव॑नेषु । य॒ज्ञियः॑ ॥ भुवः॑ । नॄन् । च्यौ॒त्नः । विश्व॑स्मिन्न् । भरे᳚ । ज्येष्ठः॑ । च॒ । मन्त्रः॑ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 3.4.11.5 TS 3.4.11.5
विश्वचर्.षणे ॥ मि॒त्रस्य॑ चर्.षणी॒धृतः॒ श्रवो॑ दे॒वस्य॑ सान॒सिं । स॒त्यं चि॒त्र श्र॑वस्तमं ॥मि॒त्रो जनान्॑ यातयति प्रजा॒नन् मि॒त्रो दा॑धार पृथि॒वीमु॒त द्यां । मि॒त्रः कृ॒ष्टीरनि॑मिषा॒ऽभि च॑ष्टे स॒त्याय॑ ह॒व्यं घृ॒तव॑द्-विधेम ॥ प्रसमि॑त्र॒ मर्तो॑ अस्तु॒ प्रय॑स्वा॒न्॒. यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ । न ह॑न्यते॒ न जी॑यते॒ त्वोतो॒ नैन॒मꣳहो॑ अश्नो॒त्यन्ति॑तो॒ न दू॒रात् ॥ य- [ ]
पदपाठः (Word-by-word)
वि॒श्व॒च॒र्॒.ष॒ण॒ इति॑ विश्व - च॒र्॒.ष॒णे॒ ॥ मि॒त्रस्य॑ । च॒र्॒.ष॒णी॒धृत॒ इति॑ चर्.षणी - धृतः॑ । श्रवः॑ । दे॒वस्य॑ । सा॒न॒सिम् ॥ स॒त्यम् । चि॒त्रश्र॑वस्तम॒मिति॑ चि॒त्रश्र॑वः - त॒म॒म् ॥ मि॒त्रः । जनान्॑ । या॒त॒य॒ति॒ । प्र॒जा॒नन्निति॑ प्र - जा॒नन् । मि॒त्रः । दा॒धा॒र॒ । पृ॒थि॒वीम् । उ॒त । द्याम् ॥ मि॒त्रः । कृ॒ष्टीः । अनि॑मि॒षेत्यनि॑ - मि॒षा॒ । अ॒भीति॑ । च॒ष्टे॒ । स॒त्याय॑ । ह॒व्यम् । घृ॒तव॒दिति॑ घृ॒त-व॒त् । वि॒धे॒म॒ ॥ प्रेति॑ । सः । मि॒त्र॒ । मर्तः॑ । अ॒स्तु॒ । प्रय॑स्वान् । यः । ते॒ । आ॒दि॒त्य॒ । शिक्ष॑ति । व्र॒तेन॑ ॥ न । ह॒न्य॒ते॒ । न । जी॒य॒ते॒ । त्वोतः॑ । न । ए॒न॒म् । अꣳहः॑ । अ॒श्नो॒ति॒ । अन्ति॑तः । न । दू॒रात् ॥ यत् ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 3.4.11.6 TS 3.4.11.6
च्चि॒द्धि ते॒ विशो॑ यथा॒ प्रदे॑व वरुण व्र॒तं । मि॒नी॒मसि॒ द्यवि॑द्यवि ॥यत् किञ्चे॒दं ॅव॑रुण॒ दैव्ये॒ जने॑ऽभिद्रो॒हं म॑नु॒ष्या᳚श्चरा॑मसि । अचि॑त्ती॒यत् तव॒ धर्मा॑ युयोपि॒ममा न॒स्तस्मा॒ देन॑सो देव रीरिषः ॥ कि॒त॒वासो॒ यद्रि॑ रि॒पुर्न दी॒वि यद्वा॑ घा स॒त्य मु॒तयन्न वि॒द्म । सर्वा॒ ता विष्य॑ शिथि॒रे ( ) व॑ दे॒वाथा॑ ते स्याम वरुण प्रि॒यासः॑ ॥
पदपाठः (Word-by-word)
चि॒त् । हि । ते॒ । विशः॑ । य॒था॒ । प्रेति॑ । दे॒व॒ । व॒रु॒ण॒ । व्र॒तम् ॥ मि॒नी॒मसि॑ । द्यवि॑द्य॒वीति॒ द्यवि॑ - द्य॒वि॒ ॥ यत् । किम् । च॒ । इ॒दम् । व॒रु॒ण॒ । दैव्ये᳚ । जने᳚ । अ॒भि॒द्रो॒हमित्य॑भि - द्रो॒हम् । म॒नु॒ष्याः᳚ । चरा॑मसि ॥ अचि॑त्ती । यत् । तव॑ । धर्मा᳚ । यु॒यो॒पि॒म । मा । नः॒ । तस्मा᳚त् । एन॑सः । दे॒व॒ । री॒रि॒षः॒ ॥ कि॒त॒वासः॑ । यत् । रि॒रि॒पुः । न । दी॒वि । यत् । वा॒ । घ॒ । स॒त्यम् । उ॒त । यत् । न । वि॒द्म ॥ सर्वा᳚ । ता । वीति॑ । स्य॒ । शि॒थि॒रा ( ) । इ॒व॒ । दे॒व॒ । अथ॑ । ते॒ । स्या॒म॒ । व॒रु॒ण॒ । प्रि॒यासः॑ ॥
पदसंख्या: 57