अनुवाकः 1 TS 3.4.1

(A1)

(व॒र्त॒यत्या॑ह-न॒ इति॒-वै नाभ्या॒-उल्ब॑मि॒वै-क॑विꣳशतिश्च)

अनुवाकः 1 - Complete Audio

TS 3.4.1 - स्वरानुगामी

0:00 0:00
PS1.1 वि वा ए॒तस्य॑ य॒ज्ञ्
PS1.2 ऋ॑द्ध्यते॒ यस्य॑ ह॒विर॑ति॒रिच्य॑ते॒ सूर्यो॑
PS1.3 दे॒वो दि॑वि॒षद्भ्य॒ इत्या॑ह॒ बृह॒स्पति॑ना
PS1.4 चै॒वास्य॑ प्र॒जाप॑तिना च य॒ज्ञ्स्य॒
PS1.5 व्यृ॑द्ध॒मपि॑ वपति॒ रक्षाꣳ॑सि॒ वा
PS1.6 ए॒तत् प॒शुꣳ स॑चन्ते॒ यदे॑कदेव॒त्य॑
PS1.7 आल॑ब्धो॒ भूया॒न् भव॑ति॒ यस्या᳚स्ते॒
PS1.8 हरि॑तो॒ गर्भ॒ इत्या॑ह देव॒त्रैवैनां᳚
PS1.9 गमयति॒ रक्ष॑सा॒मप॑हत्या॒ आ व॑र्तन
PS1.10 वर्त॒येत्या॑ह॒ - [ ]
PS2.1 ब्रह्म॑णै॒वैन॒मा व॑र्तयति॒ वि ते॑
PS2.2 भिनद्मि तक॒रीमित्या॑ह यथाय॒जुरे॒वैतदु॑- रुद्र॒फ्सो
PS2.3 वि॒श्वरू॑प॒ इन्दु॒रित्या॑ह प्र॒जा वै
PS2.4 प॒शव॒ इन्दुः॑ प्र॒जयै॒वैनं॑ प॒शुभिः॒
PS2.5 सम॑र्द्धयति॒ दिवं॒ ॅवै य॒ज्ञ्स्य॒
PS2.6 व्यृ॑द्धं गच्छति पृथि॒वीमति॑रिक्तं॒ तद्यन्न
PS2.7 श॒मये॒दार्ति॒मार्च्छे॒द्-यज॑मानो म॒ही द्यौः पृ॑थि॒वीच॑
PS2.8 न॒ इत्या॑ - [
PS2.9 ]
PS3.1 ह॒ द्यावा॑पृथि॒वीभ्या॑मे॒व य॒ज्ञ्स्य॒ व्यृ॑द्धं॒
PS3.2 चाति॑रिक्तं च शमयति॒ नाऽऽ*र्ति॒मार्च्छ॑ति॒
PS3.3 यज॑मानो॒ भस्म॑ना॒ऽभि समू॑हति स्व॒गाकृ॑त्या॒
PS3.4 अथो॑ अ॒नयो॒र्वा ए॒ष गर्भो॒ऽनयो॑रे॒वैनं॑
PS3.5 दधाति॒ यद॑व॒द्येदति॒ तद्रे॑चये॒द्यन्नाव॒द्येत् प॒शोराल॑ब्धस्य॒
PS3.6 नाव॑ द्येत् पु॒रस्ता॒न्नाभ्या॑ अ॒न्यद॑व॒द्ये-दु॒परि॑ष्टाद॒न्यत्
PS3.7 पु॒रस्ता॒द्वै नाभ्यै᳚ - [
PS3.8 ]
PS4.1 प्रा॒ण उ॒परि॑ष्टादपा॒नो यावा॑ने॒व प॒शुस्तस्याव॑
PS4.2 द्यति॒ विष्ण॑वे शिपिवि॒ष्टाय॑ जुहोति॒
PS4.3 यद्वै य॒ज्ञ्स्या॑ति॒रिच्य॑ते॒ यः प॒शोर्भू॒मा
PS4.4 या पुष्टि॒स्तद्-विष्णुः॑ शिपिवि॒ष्टो ऽति॑रिक्त
PS4.5 ए॒वाति॑रिक्तं दधा॒त्यति॑रिक्तस्य॒ शान्त्या॑ अ॒ष्टाप्रू॒ड्ढिर॑ण्यं॒
PS4.6 दक्षि॑णा॒ऽष्टाप॑दी॒ ह्ये॑षा ऽऽत्मा न॑व॒मः
PS4.7 प॒शोराप्त्या॑ अन्तरको॒श उ॒ष्णीषे॒णाऽऽ*वि॑ष्टितं भवत्ये॒वमि॑व॒
PS4.8 हि प॒शुरुल्ब॑मिव॒ ( )
PS4.9 चर्मे॑व माꣳ॒॒समि॒वास्थी॑व॒ यावा॑ने॒व प॒शुस्तमा॒प्त्वाऽव॑
PS4.10 रुन्धे॒यस्यै॒षा य॒ज्ञे प्राय॑श्चित्तिः क्रि॒यत॑
PS4.11 इ॒ष्ट्वा वसी॑यान् भवति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 3.4.1.1 TS 3.4.1.1
वि वा ए॒तस्य॑ य॒ज्ञ् ऋ॑द्ध्यते॒ यस्य॑ ह॒विर॑ति॒रिच्य॑ते॒ सूर्यो॑ दे॒वो दि॑वि॒षद्भ्य॒ इत्या॑ह॒ बृह॒स्पति॑ना चै॒वास्य॑ प्र॒जाप॑तिना च य॒ज्ञ्स्य॒ व्यृ॑द्ध॒मपि॑ वपति॒ रक्षाꣳ॑सि॒ वा ए॒तत् प॒शुꣳ स॑चन्ते॒ यदे॑कदेव॒त्य॑ आल॑ब्धो॒ भूया॒न् भव॑ति॒ यस्या᳚स्ते॒ हरि॑तो॒ गर्भ॒ इत्या॑ह देव॒त्रैवैनां᳚ गमयति॒ रक्ष॑सा॒मप॑हत्या॒ आ व॑र्तन वर्त॒येत्या॑ह॒ - [ ]
पदपाठः (Word-by-word)
वीति॑ । वै । ए॒तस्य॑ । य॒ज्ञ्ः । ऋ॒द्ध्य॒ते॒ । यस्य॑ । ह॒विः । अ॒ति॒रिच्य॑त॒ इत्य॑ति - रिच्य॑ते । सूर्यः॑ । दे॒वः । दि॒वि॒षद्भ्य॒ इति॑ दिवि॒षत् - भ्यः॒ । इति॑ । आ॒ह॒ । बृह॒स्पति॑ना । च॒ । ए॒व । अ॒स्य॒ । प्र॒जाप॑ति॒नेति॑ प्र॒जा - प॒ति॒ना॒ । च॒ । य॒ज्ञ्स्य॑ । व्यृ॑द्ध॒मिति॒ वि - ऋ॒द्ध॒म् । अपीति॑ । व॒प॒ति॒ । रक्षाꣳ॑सि । वै । ए॒तत् । प॒शुम् । स॒च॒न्ते॒ । यत् । ए॒क॒दे॒व॒त्य॑ इत्ये॑क - दे॒व॒त्यः॑ । आल॑ब्ध॒ इत्या - ल॒ब्धः॒ । भूयान्॑ । भव॑ति । यस्याः᳚ । ते॒ । हरि॑तः । गर्भः॑ । इति॑ । आ॒ह॒ । दे॒व॒त्रेति॑ देव - त्रा । ए॒व । ए॒ना॒म् । ग॒म॒य॒ति॒ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ । एति॑ । व॒र्त॒न॒ । व॒र्त॒य॒ । इति॑ । आ॒ह॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ तृतीयकाण्डे चतुर्थ प्रपाठकः)

(तत्र प्रथमोऽनुवाकः) ।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

प्रपाठके तृतीयेऽपि सोमशेषः क्रियानपि ।

उक्तः कर्मान्तरं किंचिदपि तत्रोपवर्णितम् ॥

प्रपाठके चतुर्थे तु किंचिन्नैमित्तिकं तथा ।

पश्चिष्टिर्दर्विहोमाश्च वाच्याः काम्याश्च केचन ॥

तत्राऽऽद्येनानुवाकेन वशागर्भस्य दर्शननिमित्ताः पूर्वोक्ता मन्त्रा व्याख्यायन्ते ।तत्र प्रथममन्त्रगतयोर्बृहस्पतिप्रजापतिशब्दयोस्तात्पर्यं दर्शयति —

वि वा एयस्येति । यस्य यजमाननस्य हविरतिरिच्यतेऽधिकं भवति । वशायाः शरीरवेकं हविष्ट्वन संकल्पितं तत्र गर्भे सति वपाद्याधिक्यं हविरतिरेक इत्युच्यते । ईदृशातिरेकवत एतस्य यजमानस्य यज्ञो व्यृध्यत एव विगुण एव भवति । तत्र सूर्यो देव इतिमन्त्रेण होमे सत्येतन्मन्त्रोक्ताभ्यां बृहस्वतिप्रजापतिभ्यां यज्ञस्य व्यृद्धमपि वपति वैगुण्यं समादधाति ।

अनुमन्त्रणमन्त्रे देवैः समजीगममित्यस्यांशस्य तात्पर्यं दर्शयति--

रक्षासि । वा इति । एकदेवत्य आलब्ध एकां देवतामुद्दिश्योपाकृतः पशुर्गर्भधारणेन भूयान्भवतीति यदेतेन वैकल्येन रक्षांसे समवयन्ति तत्परिहाराय यस्यास्त इत्यभिमन्त्रणेन कृतेन तां देवैः समजीगममित्युक्तत्वाद्देवेष्वैनां वशां प्रापितवान्भवति । ततो रक्षांस्यपहन्यन्त । लौकिकस्य गर्भपर्यावर्तनस्य व्यावृत्तये मन्त्रेणैव तत्पर्यावर्तनमित्येतद्दर्शयति —

आ वर्तनेति । उल्बच्छेदनमन्त्रस्य स्पष्टार्थतां दर्शयति वि ते भिनद्मीति । रसधारणार्थपात्रोपोहनमन्त्रगतस्येन्दुशब्दस्य तात्पर्यं दर्शयति —

उरुद्रप्सो विश्वरूप इति । इदि परमैश्वर्यं इत्यस्पाद्धातोरूपन्न इन्दुशब्दः । प्रजानां पशूनां चैश्वर्यरूपत्वादिन्दुत्वम् । अत इन्दुशब्दप्रयोगेण प्रजादिभिरेनं रसं समृद्धं करोति । तस्याभिसमूहनमन्त्रे द्युशब्दस्य पृथिवीशब्दस्य च तात्पर्यं दर्शयति —

दिवं वै यज्ञस्येति । यज्ञस्य संबन्धि यदङ्गं व्यृद्धं न्यूनंतद्दिवमेव गच्छति । यदतिरिक्तं तत्पृथिवीं गच्छति । तथा सति तद्यद्युभवं न शमयेत्तदा यजमान आर्तिं प्राप्नुयात् । अतो मन्त्रे द्यौः पृथिवीतिप्रयोगात्ताभ्यां तदुभयं शमयित्वा यजमान आर्तिं न प्राप्नोतित । अथ विधत्ते —

भस्मनाऽभि समिति । कथं नाम द्यावापृथिवीभ्यां गर्भाऽयमात्मसात्क्रियेतेति विचार्य तस्यै स्वगाकृत्यै शीतेन भस्मना गर्भमाच्छदायेत् । किंचैष गर्भोऽनयोर्द्यावापृथिव्योरेव समुत्पन्नः । अतोऽनेन मन्त्रेण भस्माच्छादने सत्यनयोर्द्यावापृथिव्योरेनं गर्भं स्थापयतीति —

यदुक्तं सूत्रकारेण — “पशोर्दैवतान्यवद्यन्गर्भस्य पुरस्तान्नाभ्या अन्यदवदाय दैवतेष्ववदधात्युपरिष्टादन्यत्सौविष्टकृतेष इति । तदेतद्विधत्ते —

यदवद्येतीति । यदि गर्भस्य हृदयाद्यङ्गमवद्येत्तदा पशुहृदयाद्यपेक्षया हविरतिरिक्तं भवेत् । यदि तद्दोषपरिहाराय नावद्येत्तदानीमालब्धस्य पशोरवदानं न कृतं स्यात् । अत उभयदोषपरिहाराय नाभ्याः परस्तात्किंचिदङ्गमवद्येदुपरिष्टाच्यान्यत्किंचिदवद्येत् । एवं सति यावानेव पशुस्तत्सर्वमवत्तं भवति । तत्कथमिति तदुच्यते – तिरश्चां हि नाभ्याः पुरस्तात्प्राणो मुखे संचरति । अपान उपरिष्टात्पुच्छदेशे संचरति । अत उभयावदानेन सर्वावदानीसद्धिः ।

कल्पः — “गर्भस्य दक्षिजं पूर्वपादं प्रच्छिद्य विष्णुं शिपिविष्टं यजति” इति ।

तदेतद्विधत्ते —

विष्णव इति । यज्ञो वै विष्णुः पशवः शिपिरिति श्रुत्यन्तरात्पशुस्वामी कश्चिद्यज्ञदेवः शिपिविष्टो विष्णुस्तस्यै जुहुयात् । यज्ञस्य संबन्धि यदङ्गमुपाकृतादतिरिक्तं भवति यश्च पशोर्भूमा बहुत्वं हविराधिक्यहेतुर्या च पशोः शरीरे पुष्टिराधिक्यहेतुस्तत्सर्वं शिपिविष्टस्य विष्णोरधीनम् । अतो विष्णुमुद्दिश्य तद्धोमे सत्यतिरिक्तहेतावेवातिरिक्तं स्थापितं भवति । तच्चातिरेकदोषस्य शान्त्यै भवति । देयां दक्षिणां विधत्ते —

अष्टाप्रूइढिरण्यमिति । अष्टाभिर्बिन्दुभिर्लाञ्छितमष्ठाप्रूट्तादृशं हिरण्यं दद्याद्यस्मादियं वशा सगर्भा साऽष्टाभिः पादैर्युक्ता । आत्मा पशोर्देहो यस्मादतिरिक्तो नवमस्तस्मादष्टाभिर्बिन्दुभिर्युक्तं हिरण्यमष्टाभिः पादैर्युक्तेन पशुना च सदृशं भवतीति पशुप्राप्त्यै संपद्येते ।

यदुक्तं सूत्रकारेण — “अष्टाप्रूड्ढिरण्यमुष्णीषेणाऽऽवेष्ट्य कोशेऽवधाय द्वितीयेऽवधाय तृतीयेऽवदधाति” इति । तदेतद्विधत्ते---

अन्तरकोश इति । बाह्यकोशमारभ्य योऽयमभ्यन्तरस्तृतीयः कोशस्तस्मिन्कोशे तद्धिरण्यमुष्णीषेण सर्वतो वेष्टनीयम् । तथैव तद्धिरण्यं चतुर्भिर्वोष्टितं तथैव गर्भरूपः पशुरपि चतुर्भिवेष्टितो भवति । तत्कथमिति तदुच्यते उल्बं बहिर्वेष्टनं तस्याभ्यन्तरे चर्म तस्याभ्यन्तरे मांसं ततस्तस्याभ्यन्तरेऽस्थि अस्थ्नोऽभ्यन्तरे पशोजीर्विः । एवं हिरण्यस्य पशुसादृश्ये सति तद्दानेन यावान्संपूर्णः पशुस्तं प्राप्य स्वाधीनं करोति । इदानीमेतत्साङ्गं कर्म विधत्ते —

यस्यैषेति । यस्य यजमानस्य यज्ञे वशागर्भमपराधं निमित्तीकृत्वा यथोक्तहोमरूपा प्रायश्चित्तिः क्रियते स यजमानः प्रायश्चित्तेन प्रकृतेन यज्ञेनेष्टूवा वसुमत्तरो भवति ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे

तृतीयप्रपाठके प्रथमोऽनुवाकः ॥१ ॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)

तैत्तिरीयसंहितायां

तृतीयकाण्डे चतुर्थः प्रपाठकः ॥

1 अथ 'सूर्यो देवः' इत्यादीनां मन्त्राणां ब्राह्मणम् - वि वा एतस्येत्यादि ॥ एतस्य यज्ञो व्यृद्ध्यते ऋद्ध्या विहीनः क्रियते यस्य हविरतिरिच्यते । देवताविशेषमुद्दिश्य उपाकृतस्य पशोः गर्भसंभवेन वपाद्याधिक्यमतिरकेः । अतिरेकाद्धविष्ट्वहानिः, तां देवतामतिव्याप्यावस्थितत्वात् । तस्मात्तत्परिहारार्थं 'सूर्यो देवः' इति मन्त्रेण तस्या गर्भवपावसां जुहोति । बृहस्पतिनेत्यादि । गतम् । व्यृद्धं विहीनं अपि वपति आपूरयति अतिरेकान्निवर्तयति । हविष इति । 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वेन उदात्तत्वे 'उदात्तस्वरितयोः' इति ऋकारस्स्वर्यते ॥
2 रक्षांसीत्यादि ॥ पशुं सचन्ते समवयन्ति समनुप्रविशन्ति एतत् एतेन हेतुना । केन? यत् येन एकदेवत्स आलब्धः एकस्यै देवतायै आलब्धः । देवतान्तात्तादर्थ्ये यत् । भूयान् भवति अतिरिच्यते, तस्मात् 'यस्याः' इत्यनुमन्त्रणेन एतां वशां देवत्रैव देवानेव गमयति । 'देवैस्समजीगमम्' इति दर्शनात् । 'देवमनुष्य' इत्यादिना त्रप्रत्ययः । तत् रक्षसामपहत्यै देवगतत्वात्पशौ निराशानि रक्षांसि भवन्ति ॥
3 आवर्तनेत्यादि ॥ गर्भे विस्रस्यमाने अनुमन्त्रणमिदम्, यथा यजुर्वदति निवृत्तमानं तदनुमन्त्रणमन्त्रोयम् । एवं ब्रह्मणा परमात्मनैवैनमावर्तयति जन्मान्तरे । 'ताभिरावर्तय' इति दर्शनात् । यद्वा - ब्रह्मणा मन्त्रेणैनं जनयति ॥
4 वि ते भिनद्मीत्यादि ॥ उल्बाद्गर्भे विस्रस्यमानेऽनुमन्त्रणम् । यथा यजुर्वदति तदनुरूपमेवैतद्भवति । 'बहिस्ते अस्तु बालिति' परमात्मभावेन पशुप्राणस्य संपत्तिरस्त्विति । यजुर्वेदाम्नातत्वात् यजुः, मन्त्रमात्राभिधानं वा ॥
5 उरुद्रप्स इत्यादि ॥ उरु शुक्रं यतोयं गर्भस्संजातः । तत्प्रभवत्वात् प्रजाः पशवश्च इन्दुः । तस्मादनेन गर्भावदानहोमेन एनं यजमानं प्रजया पशुभिश्च समृद्धं करोति ॥
6 दिवमित्यादि ॥ यज्ञस्य व्यृद्धं व्यृद्धदोषः दिवं गच्छति दिविस्थान् पीडयति, अतिरिक्तदोषः पृथिवीस्थान् बाधते । पूर्ववद्गतेः स्वरः । तद्यदित्यादि । गतम् । आर्छेत् गच्छेत् । 'उपसर्गादृति धातौ' इति वृद्धिः । मही द्यौरित्यादि । आहवनीयस्योत्तरार्धे भस्मना गर्भस्य अभिवासनमन्त्रोयम् । अनेन मन्त्रेण अस्मिन् क्रियमाणे यज्ञस्य दोषद्वयं द्यावापृथिवीभ्यां शमयति । 'इमं यज्ञं मिमिक्षताम्' इति सेचनाभिधानसामर्थ्यापादनम् । 'दिवो द्यावा' इति द्यावादेशः, 'देवताद्वन्द्वे च' इत्याद्युदात्तत्वम् । ततो न यजमान आर्तिं गच्छति । पूर्ववद्वृद्धिः ॥
7 भस्मनेत्यादि ॥ स्वगाकृत्यै कथं नाम द्यावापृथिवीभ्यां गर्भोयमात्मसात्क्रियते इति भस्मना छादयति । स्वगा[ग]शब्दाच्छान्दसो डाच्, 'ऊर्यादिच्विडाचश्च' इति गतित्वात् 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । किंचेत्याह - अथो अपिच अनयोर्द्यावापृथिव्योरेष गर्भः यो वशायाः एतत्प्रभवत्वात् । तस्मादनयोरेवैनं स्थापयति अनेन अभिवासनेन ॥
8 यदवद्येदित्यादि ॥ हृदयादि यदवद्येत् तद्धविरतिरेचयेत् । अतिरेकदोषप्रसंगतः ततो यज्ञः व्यृद्धस्स्यात्, तद्दोषपरिजिहीर्षया यत् नावद्येत् पशोरालब्धस्य हृदयाद्यवदानं न कृतं स्यात् ततो हविरभावात् यज्ञ एव न निर्वर्त्यते । एवमुभयथाऽपि दोषसंभवे कथं कर्तव्यमित्याह - पुरस्तादित्यादि । नाभ्याः पुरस्ताद्गर्भस्यैकस्यावदानमवद्येत्, उपरिष्टाच्चैकम् । 'एकान्याभ्याम्' इत्युपसंख्यानान्न निहन्यते । हेतुं चाह - पुरस्ताद्वा इत्यादि । तिरश्चां हि एवं प्राणापानौ वर्तेते । अन्येषां तु पुरस्तात् प्राणः अवाङपानः । तस्मादेवं क्रियमाणे यावान् पशुर्भवति तस्यावद्यति प्राणापानवृत्त्त्याश्रयत्वात्पशोः । एवं ह्यवत्तं च भवति, हृदयाद्यवदानाभावादनवत्तं च । तस्माद्यथोक्तदोषप्रसंग इति ॥
9 विष्णव इत्यादि ॥ शिपयो रश्मयः, तत्र प्रविष्टः शिपिविष्टः, विष्णुरादित्यः, तस्मै हविर्जुहोति । गर्भावदाने हेतुमाह - यद्वा - इत्यादि । यदेव यज्ञस्य हविरतिरिच्यते गर्भाधिक्यात् यो वा पशोर्भूमा बहुत्वं हविराधिक्यहेतुः, या च पुष्टिः पशोर्गर्भस्य चाभिवृद्धिः तत्सर्वमादित्याधीनमित्यर्थः; तद्गत्यधीनत्वात्सर्वप्रवृत्तीनाम् । तस्मादेवं क्रियमाणे अतिरेकहोमे अतिरिक्त एव अतिरिक्तं स्थापितं भवति, अतिरेकदोषस्य शान्त्यै भवतीति ॥
10 अष्टाप्रूडित्यादि ॥ अष्टाप्रूडष्टफलकमित्याचार्याः । अष्टबिन्दुकमित्येके । अष्टौ निष्कमित्यपरे । अष्टापदी ह्येषा वशा प्रजा पदैस्सह । तस्मादात्मना नवमेन सहायवान् पशुस्तस्य आप्त्यै भवति । अष्टाप्रूढ्ढिरण्यम् । तच्चान्तरकोशे उष्णीषेणाविष्टितं भवति । छान्दसो वर्णवीकारः । अत्रैवं कर्तव्यम् - इदमष्टाप्रुड्ढिरण्यं वाससा अपनह्य उष्णीषेण विगृध्येदभ्रे कोशे अवधाय महति कोशे अवदधाति । एतच्च कोशमिश्रमध्वर्यवे देयमिति । एवमिव हि पशुर्भवति । कथमिव? आह - उल्बमिवेत्यादि । कोशे चतुष्टयमुल्बादिचतुष्टयस्थानीयमस्येति । यावानित्यादि । यावानन्यूतातिरिक्तः पृशुः तमाप्त्वा वशायागफलमवरुन्धे । कः? यस्यैषा यज्ञे प्रायश्चित्तिः क्रियते । वशाया गर्भनिरीक्षणे इष्ट्वा च वसीयान् भवति वसुमत्तरो भवति, न केवलं वशायागफलभाग्येव, अपि तु वसीयांश्च भवतीति प्राय इति साकल्यस्य न्यूनत्वमुच्यते, चित्तिस्तद्विषयज्ञानं, तद्दोषापनोदनं यत्क्रियते तत्प्रायश्चित्तम् । दासीभारादिदं द्रष्टव्यम् । वसुमच्छब्दादीयसुनि 'विन्मतोः' इति लुक्, 'टेः' इति टिलोपः ॥
इति तृतीये चतुर्थे प्रथमोनुवाकः ॥
पञ्चशत् 2 #
TS 3.4.1.2 TS 3.4.1.2
ब्रह्म॑णै॒वैन॒मा व॑र्तयति॒ वि ते॑ भिनद्मि तक॒रीमित्या॑ह यथाय॒जुरे॒वैतदु॑- रुद्र॒फ्सो वि॒श्वरू॑प॒ इन्दु॒रित्या॑ह प्र॒जा वै प॒शव॒ इन्दुः॑ प्र॒जयै॒वैनं॑ प॒शुभिः॒ सम॑र्द्धयति॒ दिवं॒ ॅवै य॒ज्ञ्स्य॒ व्यृ॑द्धं गच्छति पृथि॒वीमति॑रिक्तं॒ तद्यन्न श॒मये॒दार्ति॒मार्च्छे॒द्-यज॑मानो म॒ही द्यौः पृ॑थि॒वीच॑ न॒ इत्या॑ - [ ]
पदपाठः (Word-by-word)
ब्रह्म॑णा । ए॒व । ए॒न॒म् । एति॑ । व॒र्त॒य॒ति॒ । वीति॑ । ते॒ । भि॒न॒द्मि॒ । त॒क॒रीम् । इति॑ । आ॒ह॒ । य॒था॒य॒जुरिति॑ यथा - य॒जुः । ए॒व । ए॒तत् । उ॒रु॒द्र॒फ्स इत्यु॑रु - द्र॒फ्सः । वि॒श्वरू॑प॒ इति॑ वि॒श्व - रू॒पः॒ । इन्दुः॑ । इति॑ । आ॒ह॒ । प्र॒जेति॑ प्र - जा । वै । प॒शवः॑ । इन्दुः॑ । प्र॒जयेति॑ प्र - जया᳚ । ए॒व । ए॒न॒म् । प॒शुभि॒रिति॑ प॒शु - भिः॒ । समिति॑ । अ॒र्द्ध॒य॒ति॒ । दिव᳚म् । वै । य॒ज्ञ्स्य॑ । व्यृ॑द्ध॒मिति॒ वि-ऋ॒द्ध॒म् । ग॒च्छ॒ति॒ । पृ॒थि॒वीम् । अति॑रिक्त॒मित्यति॑ - रि॒क्त॒म् । तत् । यत् । न । श॒मये᳚त् । आर्ति᳚म् । एति॑ । ऋ॒च्छे॒त् । यज॑मानः । म॒ही । द्यौः । पृ॒थि॒वी । च॒ । नः॒ । इति॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 3.4.1.3 TS 3.4.1.3
ह॒ द्यावा॑पृथि॒वीभ्या॑मे॒व य॒ज्ञ्स्य॒ व्यृ॑द्धं॒ चाति॑रिक्तं च शमयति॒ नाऽऽ*र्ति॒मार्च्छ॑ति॒ यज॑मानो॒ भस्म॑ना॒ऽभि समू॑हति स्व॒गाकृ॑त्या॒ अथो॑ अ॒नयो॒र्वा ए॒ष गर्भो॒ऽनयो॑रे॒वैनं॑ दधाति॒ यद॑व॒द्येदति॒ तद्रे॑चये॒द्यन्नाव॒द्येत् प॒शोराल॑ब्धस्य॒ नाव॑ द्येत् पु॒रस्ता॒न्नाभ्या॑ अ॒न्यद॑व॒द्ये-दु॒परि॑ष्टाद॒न्यत् पु॒रस्ता॒द्वै नाभ्यै᳚ - [ ]
पदपाठः (Word-by-word)
आ॒ह॒ । द्यावा॑पृथि॒वीभ्या॒मिति॒ द्यावा᳚ - पृ॒थि॒वीभ्या᳚म् । ए॒व । य॒ज्ञ्स्य॑ । व्यृ॑द्ध॒मिति॒ वि - ऋ॒द्ध॒म् । च॒ । अति॑रिक्त॒मित्यति॑ - रि॒क्त॒म् । च॒ । श॒म॒य॒ति॒ । न । आर्ति᳚म् । एति॑ । ऋ॒च्छ॒ति॒ । यज॑मानः । भस्म॑ना । अ॒भि । समिति॑ । ऊ॒ह॒ति॒ । स्व॒गाकृ॑त्या॒ इति॑ स्व॒गा - कृ॒त्यै॒ । अथो॒ इति॑ । अ॒नयोः᳚ । वै । ए॒षः । गर्भः॑ । अ॒नयोः᳚ । ए॒व । ए॒न॒म् । द॒धा॒ति॒ । यत् । अ॒व॒द्येदित्य॑व-द्येत् । अतीति॑ । तत् । रे॒च॒ये॒त् । यत् । न । अ॒व॒द्येदित्य॑व - द्येत् । प॒शोः । आल॑ब्ध॒स्येत्या-ल॒ब्ध॒स्य॒ । न । अवेति॑ । द्ये॒त् । पु॒रस्ता᳚त् । नाभ्याः᳚ । अ॒न्यत् । अ॒व॒द्येदित्य॑व - द्येत् । उ॒परि॑ष्टात् । अ॒न्यत् । पु॒रस्ता᳚त् । वै । नाभ्यै᳚ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 3.4.1.4 TS 3.4.1.4
प्रा॒ण उ॒परि॑ष्टादपा॒नो यावा॑ने॒व प॒शुस्तस्याव॑ द्यति॒ विष्ण॑वे शिपिवि॒ष्टाय॑ जुहोति॒ यद्वै य॒ज्ञ्स्या॑ति॒रिच्य॑ते॒ यः प॒शोर्भू॒मा या पुष्टि॒स्तद्-विष्णुः॑ शिपिवि॒ष्टो ऽति॑रिक्त ए॒वाति॑रिक्तं दधा॒त्यति॑रिक्तस्य॒ शान्त्या॑ अ॒ष्टाप्रू॒ड्ढिर॑ण्यं॒ दक्षि॑णा॒ऽष्टाप॑दी॒ ह्ये॑षा ऽऽत्मा न॑व॒मः प॒शोराप्त्या॑ अन्तरको॒श उ॒ष्णीषे॒णाऽऽ*वि॑ष्टितं भवत्ये॒वमि॑व॒ हि प॒शुरुल्ब॑मिव॒ ( ) चर्मे॑व माꣳ॒॒समि॒वास्थी॑व॒ यावा॑ने॒व प॒शुस्तमा॒प्त्वाऽव॑ रुन्धे॒यस्यै॒षा य॒ज्ञे प्राय॑श्चित्तिः क्रि॒यत॑ इ॒ष्ट्वा वसी॑यान् भवति ॥
पदपाठः (Word-by-word)
प्रा॒ण इति॑ प्र - अ॒नः । उ॒परि॑ष्टात् । अ॒पा॒न इत्य॑प-अ॒नः । यावान्॑ । ए॒व । प॒शुः । तस्य॑ । अवेति॑ । द्य॒ति॒ । विष्ण॑वे । शि॒पि॒वि॒ष्टायेति॑ शिपि - वि॒ष्टाय॑ । जु॒हो॒ति॒ । यत् । वै । य॒ज्ञ्स्य॑ । अ॒ति॒रिच्य॑त॒ इत्य॑ति - रिच्य॑ते । यः । प॒शोः । भू॒मा । या । पुष्टिः॑ । तत् । विष्णुः॑ । शि॒पि॒वि॒ष्ट इति॑ शिपि - वि॒ष्टः । अति॑रिक्त॒ इत्यति॑ - रि॒क्ते॒ । ए॒व । अति॑रिक्त॒मित्यति॑ - रि॒क्त॒म् । द॒धा॒ति॒ । अति॑रिक्त॒स्येत्यति॑ - रि॒क्त॒स्य॒ । शान्त्यै᳚ । अ॒ष्टाप्रू॒डित्य॒ष्टा - प्रू॒ट् । हिर॑ण्यम् । दक्षि॑णा । अ॒ष्टाप॒दीत्य॒ष्टा - प॒दी॒ । हि । ए॒षा । आ॒त्मा । न॒व॒मः । प॒शोः । आप्त्यै᳚ । अ॒न्त॒र॒को॒श इत्य॑न्तर - को॒शे । उ॒ष्णीषे॑ण । आवि॑ष्टित॒मित्या - वि॒ष्टि॒त॒म् । भ॒व॒ति॒ । ए॒वम् । इ॒व॒ । हि । प॒शुः । उल्ब᳚म् । इ॒व॒ ( ) । चर्म॑ । इ॒व॒ । माꣳ॒॒सम् । इ॒व॒ । अस्थि॑ । इ॒व॒ । यावान्॑ । ए॒व । प॒शुः । तम् । आ॒प्त्वा । अवेति॑ । रु॒न्धे॒ । यस्य॑ । ए॒षा । य॒ज्ञे । प्राय॑श्चित्तिः । क्रि॒यते᳚ । इ॒ष्ट्वा । वसी॑यान् । भ॒व॒ति॒ ॥
पदसंख्या: 71