पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ तृतीयकाण्डे चतुर्थ प्रपाठकः)
(तत्र प्रथमोऽनुवाकः) ।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
प्रपाठके तृतीयेऽपि सोमशेषः क्रियानपि ।
उक्तः कर्मान्तरं किंचिदपि तत्रोपवर्णितम् ॥
प्रपाठके चतुर्थे तु किंचिन्नैमित्तिकं तथा ।
पश्चिष्टिर्दर्विहोमाश्च वाच्याः काम्याश्च केचन ॥
तत्राऽऽद्येनानुवाकेन वशागर्भस्य दर्शननिमित्ताः पूर्वोक्ता मन्त्रा व्याख्यायन्ते ।तत्र प्रथममन्त्रगतयोर्बृहस्पतिप्रजापतिशब्दयोस्तात्पर्यं दर्शयति —
वि वा एयस्येति । यस्य यजमाननस्य हविरतिरिच्यतेऽधिकं भवति । वशायाः शरीरवेकं हविष्ट्वन संकल्पितं तत्र गर्भे सति वपाद्याधिक्यं हविरतिरेक इत्युच्यते । ईदृशातिरेकवत एतस्य यजमानस्य यज्ञो व्यृध्यत एव विगुण एव भवति । तत्र सूर्यो देव इतिमन्त्रेण होमे सत्येतन्मन्त्रोक्ताभ्यां बृहस्वतिप्रजापतिभ्यां यज्ञस्य व्यृद्धमपि वपति वैगुण्यं समादधाति ।
अनुमन्त्रणमन्त्रे देवैः समजीगममित्यस्यांशस्य तात्पर्यं दर्शयति--
रक्षासि । वा इति । एकदेवत्य आलब्ध एकां देवतामुद्दिश्योपाकृतः पशुर्गर्भधारणेन भूयान्भवतीति यदेतेन वैकल्येन रक्षांसे समवयन्ति तत्परिहाराय यस्यास्त इत्यभिमन्त्रणेन कृतेन तां देवैः समजीगममित्युक्तत्वाद्देवेष्वैनां वशां प्रापितवान्भवति । ततो रक्षांस्यपहन्यन्त । लौकिकस्य गर्भपर्यावर्तनस्य व्यावृत्तये मन्त्रेणैव तत्पर्यावर्तनमित्येतद्दर्शयति —
आ वर्तनेति । उल्बच्छेदनमन्त्रस्य स्पष्टार्थतां दर्शयति वि ते भिनद्मीति । रसधारणार्थपात्रोपोहनमन्त्रगतस्येन्दुशब्दस्य तात्पर्यं दर्शयति —
उरुद्रप्सो विश्वरूप इति । इदि परमैश्वर्यं इत्यस्पाद्धातोरूपन्न इन्दुशब्दः । प्रजानां पशूनां चैश्वर्यरूपत्वादिन्दुत्वम् । अत इन्दुशब्दप्रयोगेण प्रजादिभिरेनं रसं समृद्धं करोति । तस्याभिसमूहनमन्त्रे द्युशब्दस्य पृथिवीशब्दस्य च तात्पर्यं दर्शयति —
दिवं वै यज्ञस्येति । यज्ञस्य संबन्धि यदङ्गं व्यृद्धं न्यूनंतद्दिवमेव गच्छति । यदतिरिक्तं तत्पृथिवीं गच्छति । तथा सति तद्यद्युभवं न शमयेत्तदा यजमान आर्तिं प्राप्नुयात् । अतो मन्त्रे द्यौः पृथिवीतिप्रयोगात्ताभ्यां तदुभयं शमयित्वा यजमान आर्तिं न प्राप्नोतित । अथ विधत्ते —
भस्मनाऽभि समिति । कथं नाम द्यावापृथिवीभ्यां गर्भाऽयमात्मसात्क्रियेतेति विचार्य तस्यै स्वगाकृत्यै शीतेन भस्मना गर्भमाच्छदायेत् । किंचैष गर्भोऽनयोर्द्यावापृथिव्योरेव समुत्पन्नः । अतोऽनेन मन्त्रेण भस्माच्छादने सत्यनयोर्द्यावापृथिव्योरेनं गर्भं स्थापयतीति —
यदुक्तं सूत्रकारेण — “पशोर्दैवतान्यवद्यन्गर्भस्य पुरस्तान्नाभ्या अन्यदवदाय दैवतेष्ववदधात्युपरिष्टादन्यत्सौविष्टकृतेष इति । तदेतद्विधत्ते —
यदवद्येतीति । यदि गर्भस्य हृदयाद्यङ्गमवद्येत्तदा पशुहृदयाद्यपेक्षया हविरतिरिक्तं भवेत् । यदि तद्दोषपरिहाराय नावद्येत्तदानीमालब्धस्य पशोरवदानं न कृतं स्यात् । अत उभयदोषपरिहाराय नाभ्याः परस्तात्किंचिदङ्गमवद्येदुपरिष्टाच्यान्यत्किंचिदवद्येत् । एवं सति यावानेव पशुस्तत्सर्वमवत्तं भवति । तत्कथमिति तदुच्यते – तिरश्चां हि नाभ्याः पुरस्तात्प्राणो मुखे संचरति । अपान उपरिष्टात्पुच्छदेशे संचरति । अत उभयावदानेन सर्वावदानीसद्धिः ।
कल्पः — “गर्भस्य दक्षिजं पूर्वपादं प्रच्छिद्य विष्णुं शिपिविष्टं यजति” इति ।
तदेतद्विधत्ते —
विष्णव इति । यज्ञो वै विष्णुः पशवः शिपिरिति श्रुत्यन्तरात्पशुस्वामी कश्चिद्यज्ञदेवः शिपिविष्टो विष्णुस्तस्यै जुहुयात् । यज्ञस्य संबन्धि यदङ्गमुपाकृतादतिरिक्तं भवति यश्च पशोर्भूमा बहुत्वं हविराधिक्यहेतुर्या च पशोः शरीरे पुष्टिराधिक्यहेतुस्तत्सर्वं शिपिविष्टस्य विष्णोरधीनम् । अतो विष्णुमुद्दिश्य तद्धोमे सत्यतिरिक्तहेतावेवातिरिक्तं स्थापितं भवति । तच्चातिरेकदोषस्य शान्त्यै भवति । देयां दक्षिणां विधत्ते —
अष्टाप्रूइढिरण्यमिति । अष्टाभिर्बिन्दुभिर्लाञ्छितमष्ठाप्रूट्तादृशं हिरण्यं दद्याद्यस्मादियं वशा सगर्भा साऽष्टाभिः पादैर्युक्ता । आत्मा पशोर्देहो यस्मादतिरिक्तो नवमस्तस्मादष्टाभिर्बिन्दुभिर्युक्तं हिरण्यमष्टाभिः पादैर्युक्तेन पशुना च सदृशं भवतीति पशुप्राप्त्यै संपद्येते ।
यदुक्तं सूत्रकारेण — “अष्टाप्रूड्ढिरण्यमुष्णीषेणाऽऽवेष्ट्य कोशेऽवधाय द्वितीयेऽवधाय तृतीयेऽवदधाति” इति । तदेतद्विधत्ते---
अन्तरकोश इति । बाह्यकोशमारभ्य योऽयमभ्यन्तरस्तृतीयः कोशस्तस्मिन्कोशे तद्धिरण्यमुष्णीषेण सर्वतो वेष्टनीयम् । तथैव तद्धिरण्यं चतुर्भिर्वोष्टितं तथैव गर्भरूपः पशुरपि चतुर्भिवेष्टितो भवति । तत्कथमिति तदुच्यते उल्बं बहिर्वेष्टनं तस्याभ्यन्तरे चर्म तस्याभ्यन्तरे मांसं ततस्तस्याभ्यन्तरेऽस्थि अस्थ्नोऽभ्यन्तरे पशोजीर्विः । एवं हिरण्यस्य पशुसादृश्ये सति तद्दानेन यावान्संपूर्णः पशुस्तं प्राप्य स्वाधीनं करोति । इदानीमेतत्साङ्गं कर्म विधत्ते —
यस्यैषेति । यस्य यजमानस्य यज्ञे वशागर्भमपराधं निमित्तीकृत्वा यथोक्तहोमरूपा प्रायश्चित्तिः क्रियते स यजमानः प्रायश्चित्तेन प्रकृतेन यज्ञेनेष्टूवा वसुमत्तरो भवति ॥
तृतीयप्रपाठके प्रथमोऽनुवाकः ॥१ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
तैत्तिरीयसंहितायां
तृतीयकाण्डे चतुर्थः प्रपाठकः ॥