अनुवाकः 5 TS 3.4.5

(A5)

(अ॒व॒रे॒ - स॒प्तद॑श च)

अनुवाकः 5 - Complete Audio

TS 3.4.5 - स्वरानुगामी

0:00 0:00
PS1.1 अ॒ग्निर्भू॒ताना॒मधि॑पतिः॒ समा॑ऽव॒त्विन्द्रो᳚ ज्ये॒ष्ठानां᳚ ॅय॒मः
PS1.2 पृ॑थि॒व्या वा॒युर॒न्तरि॑क्षस्य॒ सूर्यो॑दि॒वश्च॒न्द्रमा॒ नक्ष॑त्राणां॒
PS1.3 बृह॒स्पति॒र्ब्रह्म॑णो मि॒त्रः स॒त्यानां॒ ॅवरु॑णो॒ऽपाꣳ
PS1.4 स॑मु॒द्रः स्रो॒त्याना॒मन्नꣳ॒॒ साम्रा᳚ज्याना॒मधि॑पति॒ तन्मा॑ऽवतु॒
PS1.5 सोम॒ ओष॑धीनाꣳ सवि॒ता प्र॑स॒वानाꣳ॑
PS1.6 रु॒द्रः प॑शू॒नां त्वष्टा॑ रू॒पाणां॒
PS1.7 ॅविष्णुः॒ पर्व॑तानां म॒रुतो॑ ग॒णाना॒मधि॑पतय॒स्ते
PS1.8 मा॑वन्तु॒ पित॑रः पितामहाः परेऽवरे॒
PS1.9 ( ) तता᳚स्ततामहा इ॒ह
PS1.10 मा॑ऽवत
PS1.11 अ॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्या-मा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन्-कर्म॑न्न॒स्यां दे॒वहू᳚त्यां

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 3.4.5.1 TS 3.4.5.1
अ॒ग्निर्भू॒ताना॒मधि॑पतिः॒ समा॑ऽव॒त्विन्द्रो᳚ ज्ये॒ष्ठानां᳚ ॅय॒मः पृ॑थि॒व्या वा॒युर॒न्तरि॑क्षस्य॒ सूर्यो॑दि॒वश्च॒न्द्रमा॒ नक्ष॑त्राणां॒ बृह॒स्पति॒र्ब्रह्म॑णो मि॒त्रः स॒त्यानां॒ ॅवरु॑णो॒ऽपाꣳ स॑मु॒द्रः स्रो॒त्याना॒मन्नꣳ॒॒ साम्रा᳚ज्याना॒मधि॑पति॒ तन्मा॑ऽवतु॒ सोम॒ ओष॑धीनाꣳ सवि॒ता प्र॑स॒वानाꣳ॑ रु॒द्रः प॑शू॒नां त्वष्टा॑ रू॒पाणां॒ ॅविष्णुः॒ पर्व॑तानां म॒रुतो॑ ग॒णाना॒मधि॑पतय॒स्ते मा॑वन्तु॒ पित॑रः पितामहाः परेऽवरे॒ ( ) तता᳚स्ततामहा इ॒ह मा॑ऽवत । अ॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे᳚ऽस्या-मा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन्-कर्म॑न्न॒स्यां दे॒वहू᳚त्यां ॥
पदपाठः (Word-by-word)
अ॒ग्निः । भू॒ताना᳚म् । अधि॑पति॒रित्यधि॑- प॒तिः॒ । सः । मा॒ । अ॒व॒तु॒ । इन्द्रः॑ । ज्ये॒ष्ठाना᳚म् । य॒मः । पृ॒थि॒व्याः । वा॒युः । अ॒न्तरि॑क्षस्य । सूर्यः॑ । दि॒वः । च॒न्द्रमाः᳚ । नक्ष॑त्राणाम् । बृह॒स्पतिः॑ । ब्रह्म॑णः । मि॒त्रः । स॒त्याना᳚म् । वरु॑णः । अ॒पाम् । स॒मु॒द्रः । स्रो॒त्याना᳚म् । अन्न᳚म् । साम्रा᳚ज्याना॒मिति॒ सां - रा॒ज्या॒ना॒म् । अधि॑प॒तीत्यधि॑-प॒ति॒ । तत् । मा॒ । अ॒व॒तु॒ । सोमः॑ । ओष॑धीनाम् । स॒वि॒ता । प्र॒स॒वाना॒मिति॑ प्र - स॒वाना᳚म् । रु॒द्रः । प॒शू॒नाम् । त्वष्टा᳚ । रू॒पाणा᳚म् । विष्णुः॑ । पर्व॑तानाम् । म॒रुतः॑ । ग॒णाना᳚म् । अधि॑पतय॒ इत्यधि॑ - प॒त॒यः॒ । ते । मा॒ । अ॒व॒न्तु॒ । पित॑रः । पि॒ता॒म॒हाः॒ । प॒रे॒ । अ॒व॒रे॒ ( ) । तताः᳚ । त॒ता॒म॒हाः॒ । इ॒ह । मा॒ । अ॒व॒त॒ ॥ अ॒स्मिन्न् । ब्रह्मन्न्॑ । अ॒स्मिन्न् । क्ष॒त्रे । अ॒स्याम् । आ॒शिषीत्या᳚ - शिषि॑ । अ॒स्याम् । पु॒रो॒धाया॒मिति॑ पुरः - धाया᳚म् । अ॒स्मिन्न् । कर्मन्न्॑ । अ॒स्याम् । दे॒वहू᳚त्या॒मिति॑ दे॒व - हू॒त्या॒म् ॥
पदसंख्या: 67
सायणभाष्यम् (Sayana Commentary)

(अथ तृतीयाष्टके चतुर्थप्रपाठके पञ्चमोऽनुवाकः) ।

जयाख्यमन्त्रतद्धोमाश्चतुर्थे समुदीरिताः । अथ पञ्चमेऽभ्याताना उच्यन्ते । तन्मन्त्रपाठस्तु — अग्निर्भूतानामिति । अयमग्निर्भूतानां प्राणिनामधिपतिः स्वामी । स तादृशो मामवतु । अधिपतिः स माऽवत्वित्येतत्पदचतुष्टयं वक्ष्यमाणेषु षष्ठ्यन्तेषु वाक्यशेषत्वेनानुवर्तते । ज्येष्ठानां वृद्धतमानां लोकपालानामिन्द्रोऽधिपतिः । यमशब्देनाग्निविशेष उच्यते । 'अग्निर्वाव यम' इति श्रुत्यन्तरात् । अग्निवायुसूर्यचन्द्रबृहस्पतयः पृथिव्यन्तरिक्षद्युनक्षत्रब्राह्मणजातीनामधिपतयः प्रसिद्धाः । मित्रः सत्यवचनानामधिपतिः । वरुणः कूपादिगतानां स्थिराणा (मपा) मधिपतिः । समुद्रः स्रोत्यानां नदीप्रवाहगतानामधिपतिः । अन्नं साम्राज्यानां सार्वभौमराजभोग्यानां द्रव्याणां स्वामी । अनुवर्त्यमानस्य लिङ्गव्यत्ययं द्योतयितुमधिपति तन्माऽवत्वित्याम्नातम् । सोमसवितृरुद्रत्वष्टार ओषध्यनुज्ञा-पशु-रूपाणामधिपतयः प्रसिद्धाः । विष्णुः पर्वतानां गोवर्धनादीनामधिपतिः । मरुतो गणानामादित्यवस्वादिगणदेवतानां स्वामिनः । अत्रानुषज्यमानस्य वचनव्यत्ययं द्योतयितुमधिपतयस्ते माऽवन्त्वित्याम्नातम् । पितर इत्यादीनि यजुर्मन्त्राणां पदानि । पितृपितामहशब्दौ जीवद्विषयौ । तततामहशब्दौ मृतविषयौ । सषिण्डता तु पुरुषात्सप्तमाद्विनिवर्तते । ततः सप्तमादूर्ध्वा ये विप्रकृष्टास्ते परे । ततोऽर्वाचीनाः संनिकृष्टा अवरे । हे पित्रादयो यूयमिहैव तेषु तेषु विषयेषु मामवत रक्षत । कुत्र कुत्रेति तदुच्यते - अस्मिन्ब्रह्मन्नस्यां ब्राह्मणजातावस्मिन्क्षत्त्रेऽस्यामाशिष्याशासनीये प्रजापश्वादिरूपेऽस्मिन्फलेऽस्यां पुरोधायां पुरस्करणरूपेऽस्मिन्प्राधान्येऽस्मिन्कर्मणि क्रियमाणेऽस्मिन्ननुष्ठानविशेषेऽस्यां देवहूत्यां देवान्प्रति यदेतदस्मदीयमाह्वानं तस्मिन्नाह्वाने । एतेषु सर्वेषु विषयेषु मां रक्षत । पितर इत्यादिके चरममन्त्रे समाम्नातमस्मिन्ब्रह्मन्नित्यादिकं पूर्वेषु सप्तदशमन्त्रेष्वनुषञ्जनीयम् । तथा सत्यग्निर्भूतानामधिपतिः स माऽवत्वस्मिन्ब्रह्मन्निन्द्रो ज्येष्ठानामधिपतिः । स माऽवत्वस्मिन्ब्रह्मन्, इत्येवं सर्वत्र पाठः संपद्यते ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे चतुर्थप्रपाठके पञ्चमोऽनुवाकः ॥ ५ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 येन कर्मणेर्त्सेत्तत्राभ्यातानान् सप्तदश स्रुवाहुतीर्जुहोति - अग्निर्भूतानामित्यादीन् ॥ हुत्वाहुत्वा वाचयति - पितरः पितामहा इति । इयं जगती अतिजगती वा । 'आशिषि' इति तृतीयपादान्तः । अग्निः भूतानां प्रजानां अधिपतिः स्वामी स माऽवतु रक्षतु स्वाहुतमिदमस्तु तस्मा इति । 'अधिपतिस्स माऽवतु' इति सर्वत्रानुषज्यते । यत्र तु लिङ्गभेदो वचनभेदो वा भवति तत्राम्नायत एव स विशेषः, यथा - 'अन्नं साम्राज्यानामधिपति तन्माऽवतु' 'मरुतो गणानामधिपतयस्ते माऽवन्तु' इति ॥
2 इन्द्रो ज्येष्ठानामधिपतिः [वृद्धतमानां लोकपालानाम्] ॥
3 यमोऽग्निविशेषः, 'अग्निर्वाव यम इयं यमी' इति । यम एव वा ॥
4 -6वायुरन्तरिक्षस्येत्यादि ॥ गतम् ॥
7 बृहस्पतिर्ब्रह्मणः ऋत्विजोऽधिपतिः ब्राह्मणजनेर्वा । बृहस्पतिशब्दो वनस्पत्यादित्वादाद्युदात्तः ॥
8 मित्रस्सत्यानां सत्यवताम् ॥
9 वरुणोऽपां स्थावराणाम् । 'ऊडिदम्' इति षष्ठ्या उदात्तत्वम् ॥
10 समुद्रस्स्रोत्यानां स्रोतसि भवानां नद्यादीनाम् । 'स्रोतसो विभाषा ड्यड्ड्यौ' इति ड्यः ॥
11 अन्नं साम्राज्यानां सम्यग्राजवतां अधिपति मा अवतु ॥
12 सोम ओषधीनां फलपाकान्तानाम् ॥
13 सविता प्रसवानां अनुज्ञानानाम् ॥
14 रुद्रः पशूनां द्विपदां चतुष्पदां च । 'नामन्यतरस्याम्' इति नाम उदात्तत्वम् ॥
15 त्वष्टा रूपाणां रूपणीयानाम् ॥
16 विष्णुः पर्वतानां धारणानां धराधराणां तेषामपि धारकत्वात् ॥
17 मरुतो गणानां संघातानामधिपतयः ते मा अवन्तु ॥
18 पितरः इत्यादीनि षडामन्त्रितपदानि । पितृततशब्दयोः पादादित्वात् षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । अन्येषां तु निघातः । तत्र पितरः उत्पादयितारः । तेषां पितरः पितामहाः । जीवपितृतार्थं पितामहग्रहणम् ॥

लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः । सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ॥ इति ॥

सप्तमादूर्ध्वं ये विप्रकृष्टास्ते परे । ततोऽर्वाचीनास्सान्निकृष्टाः अवरे । तताः येभ्यो दीयते पिण्डास्ते तताः पित्रादयस्त्रयः । तेषां पितरस्ततामहाः ये न पृथक्पिण्डभाजः उभयत्रापि पिण्डभाजश्च । ते सर्वे यूयमिह कर्मणि वर्तमानं माम् अवत रक्षत । अस्मिन्नित्यादि । 'निमित्तात्कर्मसंयोगे' इति सर्वा निमित्तसप्तमी । अस्मिन् ब्रह्मन् ब्राह्मणे जातिनिर्देशोऽयं, इयं ब्राह्मणजातिस्संपद्यतामिति । ब्राह्मणस्य निमित्तं वा । 'ऊडिदम्' इति सप्तम्या उदात्तत्वम् । क्षत्रे क्षत्रजातौ । आशिषि आशासनीये फले प्रजापश्वादौ । 'आशासः क्वौ' इतीत्वम्, 'शासिवसिघसीनां च' इति षत्वम् । पुरोधायां पुरस्करणे सर्वेषां प्राधान्ये । पुरस उपसर्गभावात् 'आतश्चोपसर्गे' इति भिदादिर्द्रष्टव्यः । कर्मणि क्रियमाणे क्रियाविशेषे देवहूत्यां देवानामाह्वाने पूजायाम् । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् ॥

इति तृतीये चतुर्थे पञ्चमोऽनुवाकः ॥