अनुवाकः 7 TS 3.4.7

(A7)

(मनो॑ - ऽमृड॒यः - षट्च॑त्वारिꣳशच्च)

अनुवाकः 7 - Complete Audio

TS 3.4.7 - स्वरानुगामी

0:00 0:00
PS1.1 ऋ॒ता॒षाड् ऋ॒तधा॑मा॒ऽग्नि-र्ग॑न्ध॒र्वस्त-स्यौष॑धयोऽफ्स॒रस॒ ऊर्जो॒ नाम॒
PS1.2 स इ॒दं ब्रह्म॑ क्ष॒त्रं
PS1.3 पा॑तु॒ ता इ॒दं ब्रह्म॑
PS1.4 क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा॒
PS1.5 ताभ्यः॒ स्वाहा॑ सꣳहि॒तो वि॒श्वसा॑मा॒
PS1.6 सूर्यो॑ गन्ध॒र्व-स्तस्य॒ मरी॑चयोऽफ्स॒रस॑ आ॒युवः॑
PS1.7 सुषु॒म्नः सूर्य॑ रश्मि-श्च॒न्द्रमा॑ गन्ध॒र्व-स्तस्य॒
PS1.8 नक्ष॑त्राण्य-फ्स॒रसो॑ बे॒कुर॑योभु॒ज्युः सु॑प॒र्णो य॒ज्ञो
PS1.9 ग॑न्ध॒र्व-स्तस्य॒ दक्षि॑णा अप्स॒रस॑ स्त॒वाः
PS1.10 प्र॒जाप॑ति-र्वि॒श्वक॑र्मा॒ मनो॑ - [
PS1.11 ]
PS2.1 गन्ध॒र्वस्तस्य॑र्ख् सा॒मान्य॑-फ्स॒रसो॒ वह्न॑यैषि॒रो वि॒श्वव्य॑चा॒
PS2.2 वातो॑ गन्ध॒र्व-स्तस्याऽऽ*पो᳚ ऽफ्स॒रसो॑ मु॒दाभुव॑नस्य
PS2.3 पते॒ यस्य॑त उ॒परि॑ गृ॒हा
PS2.4 इ॒ह च॑
PS2.5 स नो॑ रा॒स्वाज्या॑निꣳ रा॒यस्पोषꣳ॑
PS2.6 सु॒वीर्यꣳ॑ संवॅथ्स॒रीणाꣳ॑ स्व॒स्तिं
PS2.7 प॒र॒मे॒ष्ठ्यधि॑पति-र्मृ॒त्युर् ग॑न्ध॒र्व-स्तस्य॒ विश्व॑मप्स॒रसो॒ भुवः॑
PS2.8 सुक्षि॒तिः- सुभू॑ति-र्भद्र॒कृथ् सुव॑र्वान् प॒र्जन्यो॑
PS2.9 गन्ध॒र्व-स्तस्य॑ वि॒द्युतो᳚ ऽफ्स॒रसो॒ रुचो॑
PS2.10 दू॒रे हे॑तिर-मृड॒यो - [
PS2.11 ]
PS3.1 मृ॒त्युर्ग॑न्ध॒र्व-स्तस्य॑ प्र॒जा अ॑फ्स॒रसो॑ भी॒रुव॒श्चरुः॑
PS3.2 कृपण का॒शी कामो॑ गन्ध॒र्व-स्तस्या॒धयो᳚
PS3.3 ऽफ्स॒रसः॑ शो॒चय॑न्ती॒र्नाम॒ स इ॒दं
PS3.4 ब्रह्म॑ क्ष॒त्रं पा॑त॒ ता
PS3.5 इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒
PS3.6 तस्मै॒ स्वाहा॒ ताभ्यः॒ स्वाहा॒
PS3.7 स नो॑ भुवनस्य पते॒
PS3.8 यस्य॑त उ॒परि॑ गृ॒हा इ॒ह
PS3.9 च॑
PS3.10 उ॒रु ब्र॒ह्म॑णे॒ऽस्मै क्ष॒त्राय॒ महि॒
PS3.11 शर्म॑ यच्छ

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 3.4.7.1 TS 3.4.7.1
ऋ॒ता॒षाड् ऋ॒तधा॑मा॒ऽग्नि-र्ग॑न्ध॒र्वस्त-स्यौष॑धयोऽफ्स॒रस॒ ऊर्जो॒ नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा॒ ताभ्यः॒ स्वाहा॑ सꣳहि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्व-स्तस्य॒ मरी॑चयोऽफ्स॒रस॑ आ॒युवः॑ सुषु॒म्नः सूर्य॑ रश्मि-श्च॒न्द्रमा॑ गन्ध॒र्व-स्तस्य॒ नक्ष॑त्राण्य-फ्स॒रसो॑ बे॒कुर॑योभु॒ज्युः सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्व-स्तस्य॒ दक्षि॑णा अप्स॒रस॑ स्त॒वाः प्र॒जाप॑ति-र्वि॒श्वक॑र्मा॒ मनो॑ - [ ]
पदपाठः (Word-by-word)
ऋ॒ता॒षाट् । ऋ॒तधा॒मेत्यृ॒त - धा॒मा॒ । अ॒ग्निः । ग॒न्ध॒र्वः । तस्य॑ । ओष॑धयः । अ॒फ्स॒रसः॑ । ऊर्जः॑ । नाम॑ । सः । इ॒दम् । ब्रह्म॑ । क्ष॒त्रम् । पा॒तु॒ । ताः । इ॒दम् । ब्रह्म॑ । क्ष॒त्रम् । पा॒न्तु॒ । तस्मै᳚ । स्वाहा᳚ । ताभ्यः॑ । स्वाहा᳚ । सꣳ॒॒हि॒त इति॑ सं - हि॒तः । वि॒श्वसा॒मेति॑ वि॒श्व - सा॒मा॒ । सूर्यः॑ । ग॒न्ध॒र्वः । तस्य॑ । मरी॑चयः । अ॒फ्स॒रसः॑ । आ॒युव॒ इत्या᳚ - युवः॑ । सु॒षु॒म्न इति॑ सु - सु॒म्नः । सूर्य॑रश्मि॒रिति॒ सूर्य॑-र॒श्मिः॒ । च॒न्द्रमाः᳚ । ग॒न्ध॒र्वः । तस्य॑ । नक्ष॑त्राणि । अ॒फ्स॒रसः॑ । बे॒कुर॑यः । भु॒ज्युः । सु॒प॒र्ण इति॑ सु - प॒र्णः । य॒ज्ञ्ः । ग॒न्ध॒र्वः । तस्य॑ । दक्षि॑णाः । अ॒फ्स॒रसः॑ । स्त॒वाः । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ । मनः॑ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ तृतीयाष्टके चतुर्थप्रपाठके सप्तमोऽनुवाकः) ।

अभ्याताना जयैः राष्ट्रभृद्भिः षष्ठे तु वर्णितः ।

अथ सप्तमे राष्ट्रभृन्मन्त्रा उच्यन्ते । तेषां विनियोगविशेषमग्निकाण्डे सूत्रकारो दर्शयति - “षड्मिः पर्यायैर्द्वादश राष्ट्रभृतो जुहोत्यृताषाडृतधामेति पर्यायमनुद्रुत्य तस्मै स्वाहेति प्रथमाहुतिं जुहोति ताभ्यः स्वाहेत्युत्तरामेवमितरान्पञ्च पर्यायान्विभजति भुवनस्य पत इति पर्यायाणां सप्तम्याहुतीनां त्रयोदश्येतेन व्याख्यातं भुवनस्य पत इति रथमुखे पञ्चाऽऽहुतीर्जुहोति दश वा इति । अत्राऽऽद्येषु प्रथमं पर्यायमाह - ऋताषाडिति । ऋतेन सत्येन सह सर्वमनृतमभिभवतीत्यृताषाट् । ऋतशब्दवाच्यं धाम स्थानं यस्यासावृतधामा । तादृशोऽग्निनामकः कश्विद्गन्धर्वस्तस्यौषधिदेवता अप्सरसः प्रियभार्याः । ऊर्ज इति तासां नामधेयम् । ऊर्जयन्ति बलवन्तं प्राणवन्तं वा कुर्वन्तीत्यूर्जः । स गन्धर्व इदं ब्रह्म बृहत्क्षत्रं फलसमर्थमिदं कर्म हविर्वा पातु रक्षतु फलपर्यवसन्नं करोतु । ताश्चाप्सरस इदं ब्रह्म क्षत्रं च पान्तु तथा रक्षन्तु । तस्मै गन्धर्वाय स्वाहा हुतमस्तु । ताभ्योऽप्सरोभ्य इदं स्वाहा हुतमस्तु ।

अथ द्वितीयपर्यायमाह — सहितो विश्वसामेति । संधीयते सर्वमनुसंधीयतेऽनेनेति संहितः । विश्वानि सामान्यवसितान्यस्मिन्निति विश्वसामा । तादृशः सूर्यनामकः कश्चिद्गन्धर्वस्तस्य मरीचिदेवताः प्रिया भार्याः, आयुव इति तासां नामधेयम् । आयन्ति शीघ्रमागच्छन्तीत्यायुवः । नाम स इदं ब्रह्मेत्यादिकं सर्वत्रानुषञ्जनीयम् ।

अथ तृतीयपर्यायमाह - सुषुम्नः । सूर्यरश्मिरिति । शोभनं सुम्नं सुखमस्येति सुषुम्नः । सूर्यस्येव रश्मिर्यस्यासौ सूर्यरश्मिः । चन्द्रमोनामकः कश्विद्गन्धर्वस्तस्य नक्षत्रसदृशानि शरीराणि भार्यास्ताश्च बेकुरीनामिकाः । चित्तविकारहेतुत्वाद्बेकुरय इत्युच्यन्ते ।

अथ चतुर्थपर्यायमाह — भुज्युः सुपर्ण इति । भुनक्ति पालयति विश्वमिति भुज्युः । पक्षिवदाकाश(वश)गामित्वात्सुपर्णस्तादृशो यज्ञनामकः कश्चिद्गन्धर्वस्तस्य च दक्षिणारूपा देवता भार्यास्ताश्च स्तूयन्त इति व्युत्पत्त्या स्तवा इत्युच्यन्ते ।

अथ पञ्चमं पर्यायमाह — प्रजापतिरिति । प्रजानां पालकः प्रजापतिः । विश्वं कर्म करणीयं यस्यासौ विश्वकर्मा । तादृशो मनोनामकः कश्चिद्गन्धर्वस्तस्य च ऋक्सामदेवता भार्यास्ताश्च सौन्दर्यं वहन्तीति वह्नय इत्युच्यन्ते ।

अथ षष्ठं पर्यायमाह — इषिरो विश्वव्यचा इति । इष्यमाणवस्तुसंपन्नत्वादिपिरः । विश्वं विशेषेणाञ्चति गच्छतीति विश्वव्यचाः । तादृशो वातनामकः कश्चिद्गन्धर्वस्तस्याब्देवता भार्यास्ताश्च हर्षयुक्तत्वान्मुदा इत्युच्यन्ते ।

अथ पर्यायेषु सप्तमं त्रयोदशाहुत्यर्थं मन्त्रमाह — भुवनस्य पत इति । भुवनस्य सर्वलोकस्य पते हे पालक यस्य तवोपर्यन्तरिक्षद्युलोकयोरिह च पृथिव्यां गृहाः सन्ति स त्वं नोऽस्मभ्यमज्यानिं रास्व वयोहान्यभावं देहि । तथा रायस्पोषं धनपुष्टिं सुवीर्यं शोभनपुत्रं संवत्सरीणां स्वस्तिं संवत्सरजीवनपरिमितां समृद्धिं च देहि ।

अथोत्तरस्मिन्पर्यायपञ्चके प्रथमं पर्यायमाह — परमेष्ठ्यधिपतिरिति । परमे सर्वोत्तमस्थाने तिष्ठतीति परमेष्ठी । अधिकत्वेन फलपाताऽधिपतिः । तादृशो मृत्युनामकः कश्चिद्गन्धर्वस्तस्य विश्वाभिमानिन्यो देवता भार्यास्ताश्च भवन्ति सर्वदा वर्तन्ते इति भुव इत्युच्यन्ते ।

अथ द्वितीयं पर्यायमाह — सुक्षितिः सुभूतिरिति । शोभना क्षितिर्भूमिर्यस्यासौ सुक्षितिः । समीचीननिवासस्थान इत्यर्थः । शोभना भूतिरैश्वर्यं यस्यासौ सुभूतिः, भद्रं कल्याणं यजमानाय करोतीति भद्रकृत् । सुवः स्वाधीनः स्वर्गलोकोऽस्यास्तीति सुवर्वान् । तादृशः पर्जन्यनामकः कश्चिद्गन्धर्वस्तस्य च विद्युद्देवता भार्यास्ताश्च दीप्यमानत्वाद्रुच इत्युच्यन्ते ।

अथ तृतीयं पर्यायमाह — दूरेहेतिरिति । दूरेऽप्यवस्थितस्य प्रहारसाधनं हेतिर्यस्यासौ दूरेहेतिः । नामश्रवणमात्रेण सुखनिवर्तकत्वादमृडयस्तादृशो मृत्युनामकः कश्चिद्गन्धर्वस्तस्य प्रजाभिमानिदेवता भार्यास्ताश्च बिभ्यति मृत्योरिति भीरुव इत्युच्यन्ते ।

अथ चतुर्थं पर्यायमाह – चारुः कृपणकाशीति । रमणीयाचरणोपेतत्वाद्रमणीयशरीरत्वाद्वा चारुः । कृपणेष्विन्द्रियार्थेषु प्रकाशयति मनो दीपयतीति कृपणकाशी । तादृशः कामनामकः कश्चिद्गन्धर्वस्तस्य विषयाभिलाषनिमित्तचित्तक्लेशाभिमानिदेवता (आधयः?) भार्यास्ताश्चापेक्षितविषयप्राप्त्यभावेन जनाञ्छोकयुक्तान्कुर्वन्तीति शोचयन्तीरित्युच्यन्ते । नाम स इदं ब्रह्मेत्यादेस्तु सर्वत्रानुषङ्गद्योतनाय पुनः पाठः ।

अथात्र पञ्चमं पर्यायरूपं द्वाविंशाहुतिसाधनं मन्त्रमाह — स नो भुवनस्येति । भुवनस्य सर्वलोकस्य हे पते पालक यस्य तवोपरितनलोकद्वये पृथिव्यां च गृहाः सन्ति स त्वं नोऽस्मभ्यमुरु विपुलं शर्म सुखं यच्छ । तथैवास्मै ब्रह्मणे ब्राह्मणजातियुक्ताय क्षत्त्राय समर्थाय च महि शर्म यच्छ महत्सुखं देहि ।

अत्र विनियोगसंग्रहः —

यथा त्रयोदश जयाश्चित्तं चेत्यादयः श्रुताः । अग्निरभ्यातानमन्त्रा अष्टादश यथाश्रुताः ॥ ऋता राष्टृभृतस्तद्वद्द्वाविंशतिरुदीरिताः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे चतुर्थप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ राष्ट्रकामादिभ्यो विहिता राष्ट्रभृतः ऋताषाडृतधामेत्यादयः द्विस्स्वाहाकारं होतव्याः । तस्मा इति गन्धर्वाय । ताभ्य इत्यप्सरोभ्यः । 'स इदं ब्रह्म क्षत्रं पातु' इति गन्धर्वेष्वनुषज्यते । 'ता इदं ब्रह्म क्षत्रं पान्तु' इत्यप्सरस्सु । भुवनस्य पते इति पञ्चपदा पङ्क्तिः । 'भुवनस्य पते' इति प्रथमपादान्तः । इयं च पर्यायाणां सप्तमी, आहुतीनां त्रयोदशी । अथ 'स नो भुवनस्य' इति न्यङ्कुसारिणी । द्वितीयः पादो द्वादशाक्षरः । इयं तु पर्यायाणां द्वादशी, आहुतीनां द्वाविंशतिः ।

ऋताषाट् ऋतं सत्यं यज्ञं वा सहते अभिभवति अतःपरं नास्ति सत्यं यज्ञो वा । ऋतेन वा विश्वमभिभवति । 'छन्दसि सहः' इति ण्विः, 'अन्येषामपि दृश्यते' इति दीर्घत्वम्, 'सहेस्साढस्सः' इति षत्वम् । ऋतधामा ऋतं सत्यं यज्ञो वा धाम स्थानं तेजो वा यस्य स ऋतधामा । ईदृशत्वादग्निर्गन्धर्वः गान्धारबन्धं धारयति उदकं वा यागद्वारेणोत्पादयतीति गन्धर्वः, पृषोदरादिः । तस्य सम्बन्धिन्यः तेनाह्रियमाणा ओषधयः अप्सरस्त्वेन रूप्यन्ते, गन्धर्वाणामप्सरसो भार्याः, अपस्सारयन्ति अन्नं भूत्वा आहुतिद्वारेणादित्यं प्राप्नुवन्ति यथोक्तं 'अग्नौ प्रास्ताहुतिस्सम्यगादित्यमुपतिष्ठते' इत्यादि । ऊर्जो नामान्नाख्यः, अन्नं भूत्वेत्यर्थः । केचिदाहुः - दोग्धृस्थानीयोऽग्निः वत्सस्थानीयाभिरोषधीभिः गां पयो दुग्धे इति स तादृशोऽग्निः इदं ब्रह्म क्षत्रं च पात्विति अस्मानाहुतिद्वारेण, प्राधान्यात्तयोर्ग्रहणं सर्वस्थावरजङ्गमप्रदर्शनार्थम् । ताश्च तादृश्योऽप्सरसः इदं क्षत्रं च पातु, तस्मा अग्नये स्वाहुतं करोमि ताभ्यश्चाप्सरोभ्यः । एवं सर्वेषु पर्यायेषु द्रष्टव्यम् ॥

2 संहितः सन्धीयतेऽनेनेति संहितः करणे क्तः, नैशी सूर्यप्रवृत्तिर्लक्ष्यते दर्शनात्मिका । विश्वसामा विश्वं सामावसितमस्मिन्निति विश्वसासा । अनेनापि नैशी वृत्तिर्लक्ष्यते अदर्शनात्मिका । 'बहुव्रीहौ विश्वं संज्ञायाम्' इति विश्वशब्दोऽन्तोदात्तः । एवम् अहोरात्रे प्रवर्तयन् सूर्यः गन्धर्वः व्याख्यातः मरीचयोऽप्सरसः मारयन्ति शोषयन्ति सलिलं दिवसविशेषेषु वर्षार्थमेवेति मरीचयः । अपां सारयितारोऽप्सरसः । आविष्टलिङ्गत्वादप्सरश्शब्दस्स्त्रीलिङ्गेनैवोच्यते । वत्सस्थानीया वा पूर्ववत् । आयुवः गमनशीलाः विश्वव्यापिनः । एतेः 'छन्दसीणः' इत्युण्प्रत्ययः, 'जसादिषु वा वचनं प्राङ्णौ चङ्युपधायाः' इति जसि गुणाभावः, 'तन्वादीनां छन्दसि बहुलम्' इत्युवङ् । नामेत्यादिस्सर्वत्रानुषङ्गः ॥
3 सुषुम्नः सुसूते शोभनं सुखं यो न इति । 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । चन्द्रो ह्यमृताद्देवपितृमनुष्यान् सुखयति । सूर्यरश्मिरेव रश्मिः यस्य अमृतात्मकत्वात् चन्द्रस्य । यथाऽऽहुः - सूर्योऽग्निमयो गोळः चन्द्रोऽम्बुमयस्स्वभावतस्स्वच्छः । तस्मात्स्वतो रश्म्यभावात् सूर्यरश्मिभिरेवायं दीप्यते इति ।

तदप्याहुः - भूग्रहभानां गोळार्धानि स्वच्छायया विवर्णानि । अर्धानि यथासारं सूर्याभिमुखानि दीप्यन्ते ॥ इति ॥

एतदुक्तं भवति । यदस्यैवान्तस्थस्य चन्द्रबिम्बस्यार्धमेकं सर्वदा भास्वरं भवति, अर्धं तद्व्यतिरिक्तवर्णं दृश्यते । तत्रेदं कारणं - सूर्याभिमुखं यदर्धं तत्सूर्यरश्मिभिरादीप्यते, अन्यत्स्वामेव छायामवलम्बति । किमिति तर्हि चन्द्रमसो बिम्बार्धं सर्वदा न चकास्ति, चकास्त्येव । किमिति नोपलभ्यते । उच्यते - अमावास्यायां चन्द्रमस उपर्यादित्यः तदासौ तस्य चन्द्रमसः उपरि यद्बिम्बार्धं तदशेषमवभासयति । ततश्चन्द्रस्यामावास्ययोपलक्षितोपरिबिम्बे केन्द्रात् यथा यथा पश्चादादित्योऽवलम्बते तथा तथा चन्द्रमसो बिम्बं केन्द्रस्य परतोऽवलम्बते तत्केन्द्रवशाच्चन्द्रमसो बिम्बार्धं यावदेवामावास्योपलक्षिते बिम्बस्यार्धादधोऽवलम्बते तावच्चन्द्रमसो बिम्बं अस्माभिरुपलभ्यते । शेषमुपरिस्थितत्वात् सूर्याभिमुखं दीप्यमानमपि नोपलभ्यते । तस्माद्यावद्यावत्सवितृकराश्लिष्टमवलम्बते तावत्तावच्छुक्लश्चन्द्रमा उपलभ्यते । तेनामी ज्योत्स्त्नावितानावभासिनश्चन्द्रकराः सूर्य-मरीचय एव । केन तर्हि सवितृमरीचयोऽम्बुमयस्वभावे च श्यामे चन्द्रबिम्बे सम्मूर्छिता नैशं ध्वान्तमुपध्वंसयन्ति । उच्यते - यथा दर्पणे जले वा दिवाकरकरास्सम्मूर्छितास्सन्तो गृहान्तर्गतं तमः क्षपयन्ति एवं तदिति द्रष्टव्यम् । अन्यच्च यो यः चन्द्रबिम्बप्रदेशः सवितृमार्गे ऋजुत्वेन व्यवस्थितः स एव शुक्ल उपलक्ष्यते नेतर इत्यवगन्तव्यम् । एवं च निरुक्ते पठ्यते - 'तस्यैको रश्मिः चन्द्रमसं प्रतिदीप्यते तेनोत्प्रेक्षितव्यमादित्योऽस्य दीप्तिर्भवति' इति । तादृशः चन्द्रमा गन्धर्वः नक्षत्राण्यप्सरसः वृष्टिहेतुत्वात् । बेकुरयः वर्णव्यावृत्तिश्छान्दसी, भेकुरयः । वाजसनेयिनामेष एव पाठः । भयं यक्ष्माख्यं चन्द्रस्य कृतवत्यः इत्यर्थः । बिभेतेर्व्यत्ययेन भावे विन्, करोतेरौणादिके किप्रत्यये छान्दसमुत्वम् । अन्य आहुः - वृष्ट्यादिकरणशीलाः बेकुरयः । वेरुपसर्गस्य स्वरव्यञ्जनयोर्व्यावृत्तिरिति ॥

4 भुज्युः भुनक्ति पालयति विश्वमिति भुज्युः, भुजेरौणादिकः क्युप्रत्ययः । सुपर्णः शोभनपतनः शोभनगमनः । पूर्वपदान्तोदात्तत्वम् । ईदृशो यज्ञः गन्धर्वो भवति । दक्षिणा अप्सरसः । दक्षिणा, दक्ष वृद्धौ, दक्षिणेति कल्याण्यः दक्षिणावृद्ध्यै भवन्ति । तामेव कल्याणतामाह - स्तवा इति । स्तूयन्त इति स्तवाः । यद्वा - स्तूयते पुरुषो याभिस्ताः स्तवाः यो भूरि ददाति सः स्तूयते हि लोके न कर्मणैव । ऋदोरप् । उञ्छादिर्द्रष्टव्यः ॥
5 प्रजापतिः प्रजानां पालयिता । 'पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वम् । विश्वकर्मा विश्वं करणीयं यस्य स विश्वकर्मा; मनोनिबन्धनत्वात्सर्वप्रवृत्तीनाम् । पूर्ववद्विश्वशब्दस्य अन्तादोत्तत्वम् । उभयत्रापि लिङ्गव्यत्ययः । यद्वा - प्रजापतिर्विश्वकर्मभावेन स्तूयते तत्कार्यभावेन प्रवणार्थं, लुप्तोपमा वा । मनो गन्धर्वः सम्यग्यागनिवृत्तेः । ऋक्सामान्यप्सरसः, यजुषामप्युपलक्षणम् । वह्नयः ऋगादयः यज्ञं वहन्ति मनसा गृहीतत्वात्ताः ॥
6 इषिरः सरणशीलस्सदागतिः । इष गतौ, औणादिकः किरच्प्रत्ययः । विश्वव्यचा विष्वग्भागं व्यचति पुरोवातादिरूपेण व्याप्नोति, विपूर्वादञ्चतेः 'गतिकारकयोरपि' इत्यसुन्, पूर्वपदप्रकृतिस्वरत्वस्य च बहुव्रीहिस्वरस्योपलक्षणत्वात् 'बहुव्रीहौ विश्वम्' इत्येतद्भवति । वातो गन्धर्वः, आपोऽप्सरसः व्याप्तिमत्यः वर्ष्या आपः मुदा नाम मोदयित्र्यः प्रजानां, ताभिर्हि सर्वे मोदन्ते, इगुपधात्कः ॥
7 भुवनस्येत्यादि ॥ भुवनस्य भूतजातस्य पते पालयितः उपरि द्युलोक्तान्तरिक्षयोः इह च पृथिव्यां गृहाः गृहवासिनः । ते स्वभूताः स त्वं नोऽस्मभ्यं रास्व देहि । व्यत्ययेनात्मनेपदम् ॥ अज्यानिम् अहानिम् अहानिनिमित्तम् । क्तिनो निष्ठावद्भावात् 'ल्वादिभ्यश्च' इति नत्वम् । रायो धनस्य पोषं सुवीर्यं शोभनवीर्यकम् । 'वीरवीर्यौ च' इत्युत्तरपदान्तादोत्तत्वम् । संवत्सरीणां च स्वस्तिम् अविनाशं संवत्सरभावीति । 'संपरिपूर्वात्ख च' इति खः ॥
8 परमेष्ठी परमे स्वभावे तिष्ठतीति प्रत्यये 'तत्पुरुषे कृति बहुलम्' इति सप्तम्या अलुक् । अधिपतिः स्वामी मृत्युः गन्धर्वः विश्वं भूतजातम् अप्सरसः सम्यङ्नीयमानं विश्वस्थितिहेतुरिति । भुवो नाम भवन्तीति भुवः । मध्यस्थतामादाय भूतानि धारयन्तीति ॥
9 सुक्षितिः शोभनक्षितिकः । पूर्ववत्स्वरः । सुभूतिः शोभनभूतिः सम्पत् प्रजानाम् । प्रादिसमासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । भद्रकृत् कल्याणकारी सर्वेषां सुवर्वान् द्युलोकवान् सस्यनिष्पत्त्यादिना तद्धारणात् । आदित्यवान्वा; तदधीनप्रवृत्तित्वात् । 'छन्दसीरः' इति मतुपो वत्वम् । शोभनारणवान्वा । तन्वादित्वादुवङ् । पर्जन्यो गन्धर्वः । विद्युतोऽप्सरसः । रुचः रुचमानाः नभसि दीप्यमानाः ।
10 दूरेहेतिः दूरेऽपि हेतिर्हननं यस्य, दूरेऽप्येतच्छ्रवणेन म्रियते इति कृत्वा । 'ऊतियूति' इत्यादौ हेतिशब्दो निपात्यते, 'तत्पुरुषे कृति बहुलम्' इत्यलुक् । अमृडयः दुःखयिता श्रवणमात्रेणैव भीतिजनकत्वात् । मृडेर्ण्यन्ताच्छान्दसः शः । मृत्युः श्रोतॄणां मारयिता त्रासनयत्नः गन्धर्वः प्रजा अप्सरसः; तदर्थत्वात्तत्प्रवृत्तेः । भीरुवः भयशीलाः पुष्याभाया ? ॥
11 चारुः चरणशीलः विषयमवगाहत इति कृपणकाशी कृपणेष्विन्द्रियार्थेषु मनः काशयतीति 'सुप्यजातौ' इति णिनिः । कामो गन्धर्वः । तेन हि यागादिद्वारेण वृत्तिरुत्पाद्यते । तस्याधयोऽप्सरसः आधीयन्ते ऋद्धावित्याधयः काम्या इन्द्रियार्था उच्यन्ते । 'उपसर्गे घोः किः' । शोचयन्तीः शोचयन्त्यः, तेषामलाभेन हि प्रजाः शोचन्ते । 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । नामेत्यादि पुनराम्नायते अनुषङ्गसमाप्तिं द्योतयितुम् ॥
12 स न इत्यादि ॥ व्याख्यातमर्धर्चम् । स त्वं नोऽस्माकं सम्बन्धिने अस्मै ब्रह्मणे अस्मै क्षत्राय उरु विस्तीर्णं महि महनीयं च शर्म सुखं यच्छ देहि । अन्ये आहुः - स न इति काम उच्यते । यस्य ते उपरि गृहाः इह च । स त्वं हे भुवनस्य पते काम ब्रह्मणे क्षत्राय च अस्मै उरु महनीयं च शर्म यच्छेति ॥
इति तृतीये चतुर्थे सप्तमोनुवाकः ॥
पञ्चशत् 2 #
TS 3.4.7.2 TS 3.4.7.2
गन्ध॒र्वस्तस्य॑र्ख् सा॒मान्य॑-फ्स॒रसो॒ वह्न॑यैषि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्व-स्तस्याऽऽ*पो᳚ ऽफ्स॒रसो॑ मु॒दाभुव॑नस्य पते॒ यस्य॑त उ॒परि॑ गृ॒हा इ॒ह च॑ । स नो॑ रा॒स्वाज्या॑निꣳ रा॒यस्पोषꣳ॑ सु॒वीर्यꣳ॑ संवॅथ्स॒रीणाꣳ॑ स्व॒स्तिं ॥ प॒र॒मे॒ष्ठ्यधि॑पति-र्मृ॒त्युर् ग॑न्ध॒र्व-स्तस्य॒ विश्व॑मप्स॒रसो॒ भुवः॑ सुक्षि॒तिः- सुभू॑ति-र्भद्र॒कृथ् सुव॑र्वान् प॒र्जन्यो॑ गन्ध॒र्व-स्तस्य॑ वि॒द्युतो᳚ ऽफ्स॒रसो॒ रुचो॑ दू॒रे हे॑तिर-मृड॒यो - [ ]
पदपाठः (Word-by-word)
ग॒न्ध॒र्वः । तस्य॑ । ऋ॒ख्सा॒मानीत्यृ॑क्-सा॒मानि॑ । अ॒फ्स॒रसः॑ । वह्न॑यः । इ॒षि॒रः । वि॒श्वव्य॑चा॒ इति॑ वि॒श्व - व्य॒चाः॒ । वातः॑ । ग॒न्ध॒र्वः । तस्य॑ । आपः॑ । अ॒फ्स॒रसः॑ । मु॒दाः । भुव॑नस्य । प॒ते॒ । यस्य॑ । ते॒ । उ॒परि॑ । गृ॒हाः । इ॒ह । च॒ ॥ सः । नः॒ । रा॒स्व॒ । अज्या॑निम् । रा॒यः । पोष᳚म् । सु॒वीर्य॒मिति॑ सु - वीर्य᳚म् । सं॒ॅव॒थ्स॒रीणा॒मिति॑ सं - व॒थ्स॒रीणा᳚म् । स्व॒स्तिम् ॥ प॒र॒मे॒ष्ठी । अधि॑प॒तिरित्यधि॑ - प॒तिः॒ । मृ॒त्युः । ग॒न्ध॒र्वः । तस्य॑ । विश्व᳚म् । अ॒फ्स॒रसः॑ । भुवः॑ । सु॒क्षि॒तिरिति॑ सु - क्षि॒तिः । सुभू॑ति॒रिति॒ सु - भू॒तिः॒ । भ॒द्र॒कृदिति॑ भद्र - कृत् । सुव॑र्वा॒निति॒ सुवः॑ - वा॒न् । प॒र्जन्यः॑ । ग॒न्ध॒र्वः । तस्य॑ । वि॒द्युत॒ इति॑ वि-द्युतः॑ । अ॒फ्स॒रसः॑ । रुचः॑ । दू॒रेहे॑ति॒रिति॑ दू॒रे - हे॒तिः॒ । अ॒मृ॒ड॒यः ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 3.4.7.3 TS 3.4.7.3
मृ॒त्युर्ग॑न्ध॒र्व-स्तस्य॑ प्र॒जा अ॑फ्स॒रसो॑ भी॒रुव॒श्चरुः॑ कृपण का॒शी कामो॑ गन्ध॒र्व-स्तस्या॒धयो᳚ ऽफ्स॒रसः॑ शो॒चय॑न्ती॒र्नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑त॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा॒ ताभ्यः॒ स्वाहा॒ स नो॑ भुवनस्य पते॒ यस्य॑त उ॒परि॑ गृ॒हा इ॒ह च॑ । उ॒रु ब्र॒ह्म॑णे॒ऽस्मै क्ष॒त्राय॒ महि॒ शर्म॑ यच्छ ॥
पदपाठः (Word-by-word)
मृ॒त्युः । ग॒न्ध॒र्वः । तस्य॑ । प्र॒जा इति॑ प्र - जाः । अ॒फ्स॒रसः॑ । भी॒रुवः॑ । चारुः॑ । कृ॒प॒ण॒का॒शीति॑ कृपण-का॒शी । कामः॑ । ग॒न्ध॒र्वः । तस्य॑ । आ॒धय॒ इत्या᳚ - धयः॑ । अ॒फ्स॒रसः॑ । शो॒चय॑न्तीः । नाम॑ । सः । इ॒दम् । ब्रह्म॑ । क्ष॒त्रम् । पा॒तु॒ । ताः । इ॒दम् । ब्रह्म॑ । क्ष॒त्रम् । पा॒न्तु॒ । तस्मै᳚ । स्वाहा᳚ । ताभ्यः॑ । स्वाहा᳚ । सः । नः॒ । भु॒व॒न॒स्य॒ । प॒ते॒ । यस्य॑ । ते॒ । उ॒परि॑ । गृ॒हाः । इ॒ह । च॒ ॥ उ॒रु । ब्रह्म॑णे । अ॒स्मै । क्ष॒त्राय॑ । महि॑ । शर्म॑ । य॒च्छ॒ ॥
पदसंख्या: 46