पञ्चशत् 1 #
उदे॑नमुत्त॒रां न॒याग्ने॑ घृतेनाऽऽहुत । रा॒यस्पोषे॑ण॒ सꣳ सृ॑ज प्र॒जया॑ च॒ धने॑न च ॥ इन्द्रे॒मं प्र॑त॒रां कृ॑धि सजा॒ताना॑-मसद्व॒शी । समे॑नं॒ ॅवर्च॑सा सृज दे॒वेभ्यो॑ भाग॒धा अ॑सत् ॥ यस्य॑ कु॒र्मो ह॒विर्गृ॒हे तम॑ग्ने वर्द्धया॒ त्वं । तस्म॑ दे॒वा अधि॑ ब्रवन्न॒यं च॒ ब्रह्म॑ण॒स्पतिः॑ ॥ उदु॑ त्वा॒ विश्वे॑ दे॒वा - [ ]
पदपाठः (Word-by-word)
उदिति॑ । ए॒न॒म् । उ॒त्त॒रामित्यु॑त् - त॒राम् । न॒य॒ । अग्ने᳚ । घृ॒ते॒न॒ । आ॒हु॒तेत्या᳚ - हु॒त॒ ॥ रा॒यः । पोषे॑ण । समिति॑ । सृ॒ज॒ । प्र॒जयेति॑ प्र - जया᳚ । च॒ । धने॑न । च॒ ॥ इन्द्र॑ । इ॒मम् । प्र॒त॒रामिति॑ प्र-त॒राम् । कृ॒धि॒ । स॒जा॒ताना॒मिति॑ स - जा॒ताना᳚म् । अ॒स॒त् । व॒शी ॥ समिति॑ । ए॒न॒म् । वर्च॑सा । सृ॒ज॒ । दे॒वेभ्यः॑ । भा॒ग॒धा इति॑ भाग - धाः । अ॒स॒त् ॥ यस्य॑ । कु॒र्मः । ह॒विः । गृ॒हे । तम् । अ॒ग्ने॒ । व॒द्र्ध॒य॒ । त्वम् ॥ तस्मै᳚ । दे॒वाः । अधीति॑ । ब्र॒व॒न्न् । अ॒यम् । च॒ । ब्रह्म॑णः । पतिः॑ ॥ उदिति॑ । उ॒ । त्वा॒ । विश्वे᳚ । दे॒वाः ।