अनुवाकः 9 TS 4.6.9

(A9)

(घा॒सिं-कश॑या - तपद् - र॒यिं - नव॑ च )

अनुवाकः 9 - Complete Audio

TS 4.6.9 - स्वरानुगामी

0:00 0:00
PS1.1 ये वा॒जिनं॑ परि॒पश्य॑न्ति प॒क्वं
PS1.2 ॅय ई॑मा॒हुः सु॑र॒भिर्निर्.ह॒रेति॑
PS1.3 ये चार्व॑तो माꣳसभि॒क्षामु॒पास॑त उ॒तो
PS1.4 तेषा॑म॒भिगू᳚र्तिर्न इन्वतु
PS1.5 यन्नीक्ष॑णं माꣳ॒॒स्पच॑न्या उ॒खाया॒ या
PS1.6 पात्रा॑णि यू॒ष्ण आ॒सेच॑नानि
PS1.7 ऊ॒ष्म॒ण्या॑ऽपि॒धाना॑ चरू॒णाम॒ङ्काः सू॒नाः परि॑ भूष॒न्त्यश्वं᳚
PS1.8 नि॒क्रम॑णं नि॒षद॑नं ॅवि॒वर्त॑नं॒ ॅयच्च॒ पड्बी॑श॒मर्व॑तः
PS1.9 यच्च॑ प॒पौ यच्च॑ घा॒सिं
PS1.10 -[ ]
PS2.1 ज॒घास॒ सर्वा॒ ता ते॒
PS2.2 अपि॑ दे॒वेष्व॑स्तु
PS2.3 मा त्वा॒ऽग्नि-र्द्ध्व॑नयिद्-धू॒मग॑न्धि॒र्मोखा भ्राज॑न्त्य॒भि वि॑क्त॒ जघ्रिः॑
PS2.4 इ॒ष्टं ॅवी॒तम॒भिगू᳚र्तं॒ ॅवष॑ट्कृतं॒ तं
PS2.5 दे॒वासः॒ प्रति॑ गृभ्ण॒न्त्यश्वं᳚
PS2.6 यदश्वा॑य॒ वास॑ उपस्तृ॒णन्त्य॑धीवा॒सं ॅया हिर॑ण्यान्यस्मै
PS2.7 स॒न्दान॒मर्व॑न्तं॒ पड्बी॑शं प्रि॒या दे॒वेष्वा या॑मयन्ति
PS2.8 यत् ते॑ सा॒दे मह॑सा॒
PS2.9 शूकृ॑तस्य॒ पार्ष्णि॑या वा॒ कश॑या
PS2.10 - [ ]
PS3.1 वा तु॒तोद॑
PS3.2 स्रु॒चेव॒ ता ह॒विषो॑ अद्ध्व॒रेषु॒
PS3.3 सर्वा॒ ता ते॒ ब्रह्म॑णा
PS3.4 सूदयामि
PS3.5 चतु॑स्त्रिꣳशद्-वा॒जिनो॑ दे॒वब॑न्धो॒-र्वङ्क्री॒-रश्व॑स्य॒ स्वधि॑तिः॒ समे॑ति
PS3.6 अच्छि॑द्रा॒ गात्रा॑ व॒युना॑ कृणोत॒
PS3.7 परु॑ष्परुरनु॒घुष्या॒ वि श॑स्त
PS3.8 एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता द्वा य॒न्तारा॑ भवत॒स्तथ॒र्तुः
PS3.9 या ते॒ गात्रा॑णामृतु॒था कृ॒णोमि॒
PS3.10 ताता॒ पिण्डा॑नां॒ प्र जु॑होम्य॒ग्नौ
PS3.11 मा त्वा॑ तपत् -
PS3.12 [ ]
PS4.1 प्रि॒य आ॒त्माऽपि॒यन्तं॒ मा स्वधि॑तिस्त॒नुव॒
PS4.2 आ ति॑ष्ठिपत् ते
PS4.3 मा ते॑ गृ॒द्ध्नु-र॑विश॒स्ताऽति॒हाय॑ छि॒द्रा
PS4.4 गात्रा᳚ण्य॒सिना॒ मिथू॑ कः
PS4.5 न वा उ॑वे॒तन्म्रि॑यसे॒ न
PS4.6 रि॑ष्यसि दे॒वाꣳ इदे॑षि प॒थिभिः॑
PS4.7 सु॒गेभिः॑
PS4.8 हरी॑ ते॒ युञ्जा॒ पृष॑ती
PS4.9 अभूता॒मुपा᳚स्थाद्-वा॒जी धु॒रि रास॑भस्य
PS4.10 सु॒गव्यं॑ नो वा॒जी स्वश्वि॑यं
PS4.11 पुꣳ॒॒सः पु॒त्राꣳ उ॒त वि॑श्वा॒पुषꣳ॑
PS4.12 र॒यिं ( )
PS4.13 अ॒ना॒गा॒स्त्वं नो॒ अदि॑तिः कृणोतु
PS4.14 क्ष॒त्रं नो॒ अश्वो॑ वनताꣳ
PS4.15 ह॒विष्मान्॑

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 4.6.9.1 TS 4.6.9.1
ये वा॒जिनं॑ परि॒पश्य॑न्ति प॒क्वं ॅय ई॑मा॒हुः सु॑र॒भिर्निर्.ह॒रेति॑ । ये चार्व॑तो माꣳसभि॒क्षामु॒पास॑त उ॒तो तेषा॑म॒भिगू᳚र्तिर्न इन्वतु ॥ यन्नीक्ष॑णं माꣳ॒॒स्पच॑न्या उ॒खाया॒ या पात्रा॑णि यू॒ष्ण आ॒सेच॑नानि । ऊ॒ष्म॒ण्या॑ऽपि॒धाना॑ चरू॒णाम॒ङ्काः सू॒नाः परि॑ भूष॒न्त्यश्वं᳚ ॥ नि॒क्रम॑णं नि॒षद॑नं ॅवि॒वर्त॑नं॒ ॅयच्च॒ पड्बी॑श॒मर्व॑तः । यच्च॑ प॒पौ यच्च॑ घा॒सिं -[ ]
पदपाठः (Word-by-word)
ये । वा॒जिन᳚म् । प॒रि॒पश्य॒न्तीति॑ परि-पश्य॑न्ति । प॒क्वम् । ये । ई॒म् । आ॒हुः । सु॒र॒भिः । निरिति॑ । ह॒र॒ । इति॑ ॥ ये । च॒ । अर्व॑तः । माꣳ॒॒स॒भि॒क्षामिति॑ माꣳस - भि॒क्षाम् । उ॒पास॑त॒ इत्यु॑प - आस॑ते । उ॒तो इति॑ । तेषा᳚म् । अ॒भिगू᳚र्ति॒रित्य॒भि - गू॒र्तिः॒ । नः॒ । इ॒न्व॒तु॒ ॥ यत् । नीक्ष॑णम् । माꣳ॒॒स्पच॑न्याः । उ॒खायाः᳚ । या । पात्रा॑णि । यू॒ष्णः । आ॒सेच॑ना॒नीत्या᳚ - सेच॑नानि ॥ ऊ॒ष्म॒ण्या᳚ । अ॒पि॒धानेत्य॑पि - धाना᳚ । च॒रू॒णाम् । अ॒ङ्काः । सू॒नाः । परीति॑ । भू॒ष॒न्ति॒ । अश्व᳚म् ॥ नि॒क्रम॑ण॒मिति॑ नि - क्रम॑णम् । नि॒षद॑न॒मिति॑ नि - सद॑नम् । वि॒वर्त॑न॒मिति॑ वि - वर्त॑नम् । यत् । च॒ । पड्बी॑शम् । अर्व॑तः ॥ यत् । च॒ । प॒पौ । यत् । च॒ । घा॒सिम् ।
पदसंख्या: 50
पञ्चशत् 2 #
TS 4.6.9.2 TS 4.6.9.2
ज॒घास॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥ मा त्वा॒ऽग्नि-र्द्ध्व॑नयिद्-धू॒मग॑न्धि॒र्मोखा भ्राज॑न्त्य॒भि वि॑क्त॒ जघ्रिः॑ । इ॒ष्टं ॅवी॒तम॒भिगू᳚र्तं॒ ॅवष॑ट्कृतं॒ तं दे॒वासः॒ प्रति॑ गृभ्ण॒न्त्यश्वं᳚ ॥ यदश्वा॑य॒ वास॑ उपस्तृ॒णन्त्य॑धीवा॒सं ॅया हिर॑ण्यान्यस्मै । स॒न्दान॒मर्व॑न्तं॒ पड्बी॑शं प्रि॒या दे॒वेष्वा या॑मयन्ति ॥ यत् ते॑ सा॒दे मह॑सा॒ शूकृ॑तस्य॒ पार्ष्णि॑या वा॒ कश॑या - [ ]
पदपाठः (Word-by-word)
ज॒घास॑ । सर्वा᳚ । ता । ते॒ । अपीति॑ । दे॒वेषु॑ । अ॒स्तु॒ ॥ मा । त्वा॒ । अ॒ग्निः । ध्व॒न॒यि॒त् । धू॒मग॑न्धि॒रिति॑ धू॒म - ग॒न्धिः॒ । मा । उ॒खा । भ्राज॑न्ति । अ॒भीति॑ । वि॒क्त॒ । जघ्रिः॑ ॥ इ॒ष्टम् । वी॒तम् । अ॒भिगू᳚र्त॒मित्य॒भि - गू॒र्त॒म् । वष॑ट्कृत॒मिति॒ वष॑ट् - कृ॒त॒म् । तम् । दे॒वासः॑ । प्रतीति॑ । गृ॒भ्ण॒न्ति॒ । अश्व᳚म् ॥ यत् । अश्वा॑य । वासः॑ । उ॒प॒स्तृ॒णन्तीत्यु॑प - स्तृ॒णन्ति॑ । अ॒धी॒वा॒समित्य॑धि - वा॒सम् । या । हिर॑ण्यानि । अ॒स्मै॒ ॥ स॒न्दान॒मिति॑ सं - दान᳚म् । अर्व॑न्तम् । पड्बी॑शम् । प्रि॒या । दे॒वेषु॑ । एति॑ । या॒म॒य॒न्ति॒ ॥ यत् । ते॒ । सा॒दे । मह॑सा । शूकृ॑त॒स्येति॒ शू - कृ॒त॒स्य॒ । पार्ष्णि॑या । वा॒ । कश॑या ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 4.6.9.3 TS 4.6.9.3
वा तु॒तोद॑ । स्रु॒चेव॒ ता ह॒विषो॑ अद्ध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा सूदयामि ॥ चतु॑स्त्रिꣳशद्-वा॒जिनो॑ दे॒वब॑न्धो॒-र्वङ्क्री॒-रश्व॑स्य॒ स्वधि॑तिः॒ समे॑ति । अच्छि॑द्रा॒ गात्रा॑ व॒युना॑ कृणोत॒ परु॑ष्परुरनु॒घुष्या॒ वि श॑स्त ॥ एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता द्वा य॒न्तारा॑ भवत॒स्तथ॒र्तुः । या ते॒ गात्रा॑णामृतु॒था कृ॒णोमि॒ ताता॒ पिण्डा॑नां॒ प्र जु॑होम्य॒ग्नौ ॥ मा त्वा॑ तपत् - [ ]
पदपाठः (Word-by-word)
वा॒ । तु॒तोद॑ ॥ स्रु॒चा । इ॒व॒ । ता । ह॒विषः॑ । अ॒द्ध्व॒रेषु॑ । सर्वा᳚ । ता । ते॒ । ब्रह्म॑णा । सू॒द॒या॒मि॒ ॥ चतु॑स्त्रिꣳश॒दिति॒ चतुः॑ - त्रिꣳ॒॒श॒त् । वा॒जिनः॑ । दे॒वब॑न्धो॒रिति॑ दे॒व - ब॒न्धोः॒ । वङ्क्रीः᳚ । अश्व॑स्य । स्वधि॑ति॒रिति॒ स्व - धि॒तिः॒ । समिति॑ । ए॒ति॒ ॥ अच्छि॑द्रा । गात्रा᳚ । व॒युना᳚ । कृ॒णो॒त॒ । परु॑ष्परु॒रिति॒ परुः॑ - प॒रुः॒ । अ॒नु॒घुष्येत्य॑नु-घुष्य॑ । वीति॑ । श॒स्त॒ ॥ एकः॑ । त्वष्टुः॑ । अश्व॑स्य । वि॒श॒स्तेति॑ वि - श॒स्ता । द्वा । य॒न्तारा᳚ । भ॒व॒तः॒ । तथा᳚ । ऋ॒तुः ॥ या । ते॒ । गात्रा॑णाम् । ऋ॒तु॒थेत्यृ॑तु - था । कृ॒णोमि॑ । तातेति॒ ता - ता॒ । पिण्डा॑नाम् । प्रेति॑ । जु॒हो॒मि॒ । अ॒ग्नौ ॥ मा । त्वा॒ । त॒प॒त् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 4.6.9.4 TS 4.6.9.4
प्रि॒य आ॒त्माऽपि॒यन्तं॒ मा स्वधि॑तिस्त॒नुव॒ आ ति॑ष्ठिपत् ते । मा ते॑ गृ॒द्ध्नु-र॑विश॒स्ताऽति॒हाय॑ छि॒द्रा गात्रा᳚ण्य॒सिना॒ मिथू॑ कः ॥ न वा उ॑वे॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाꣳ इदे॑षि प॒थिभिः॑ सु॒गेभिः॑ । हरी॑ ते॒ युञ्जा॒ पृष॑ती अभूता॒मुपा᳚स्थाद्-वा॒जी धु॒रि रास॑भस्य ॥ सु॒गव्यं॑ नो वा॒जी स्वश्वि॑यं पुꣳ॒॒सः पु॒त्राꣳ उ॒त वि॑श्वा॒पुषꣳ॑ र॒यिं ( ) । अ॒ना॒गा॒स्त्वं नो॒ अदि॑तिः कृणोतु क्ष॒त्रं नो॒ अश्वो॑ वनताꣳ ह॒विष्मान्॑ ॥
पदपाठः (Word-by-word)
प्रि॒यः । आ॒त्मा । अ॒पि॒यन्त॒मित्य॑पि - यन्त᳚म् । मा । स्वधि॑ति॒रिति॒ स्व - धि॒तिः॒ । त॒नुवः॑ । एति॑ । ति॒ष्ठि॒प॒त् । ते॒ ॥ मा । ते॒ । गृ॒द्ध्नुः । अ॒वि॒श॒स्तेत्य॑वि - श॒स्ता । अ॒ति॒हायेत्य॑ति-हाय॑ । छि॒द्रा । गात्रा॑णि । अ॒सिना᳚ । मिथु॑ । कः॒ ॥ न । वै । उ॒ । ए॒तत् । म्रि॒य॒से॒ । न । रि॒ष्य॒सि॒ । दे॒वान् । इत् । ए॒षि॒ । प॒थिभि॒रिति॑ प॒थि - भिः॒ । सु॒गेभि॒रिति॑ सु - गेभिः॑ ॥ हरी॒ इति॑ । ते॒ । युञ्जा᳚ । पृष॑ती॒ इति॑ । अ॒भू॒ता॒म् । उपेति॑ । अ॒स्था॒त् । वा॒जी । धु॒रि । रास॑भस्य ॥ सु॒गव्य॒मिति॑ सु - गव्य᳚म् । नः॒ । वा॒जी । स्वश्वि॑य॒मिति॑ सु - अश्वि॑यम् । पुꣳ॒॒सः । पु॒त्रान् । उ॒त । वि॒श्वा॒पुष॒मिति॑ विश्व -पुष᳚म् । र॒यिम् ( ) ॥ अ॒ना॒गा॒स्त्वमित्य॑नागाः - त्वम् । नः॒ । अदि॑तिः । कृ॒णो॒तु॒ । क्ष॒त्रम् । नः॒ । अश्वः॑ । व॒न॒ता॒म् । ह॒विष्मान्॑ ॥
पदसंख्या: 59