प्रश्नः 6 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 4.6.3.2 TS 4.6.3.2
अग्ने॒ भर॑न्तु॒ चित्ति॑भिः । स नो॑ भव शि॒वत॑मः सु॒प्रती॑को वि॒भाव॑सुः ॥ पञ्च॒ दिशो॒ दैवी᳚र्य॒ज्ञ्म॑वन्तु दे॒वीरपाम॑तिं दुर्म॒तिं बाध॑मानाः । रा॒यस्पोषे॑ य॒ज्ञ्प॑ति-मा॒भज॑न्तीः ॥ रा॒यस्पोषे॒ अधि॑ य॒ज्ञो अ॑स्था॒थ् समि॑द्धे अ॒ग्नावधि॑ मामहा॒नः । उ॒क्थप॑त्र॒ ईड्यो॑ गृभी॒तस्त॒प्तं घ॒र्मं प॑रि॒गृह्या॑यजन्त ॥ ऊ॒र्जा यद्-य॒ज्ञ्मश॑मन्त दे॒वा दैव्या॑य ध॒र्त्रे जोष्ट्रे᳚ । दे॒व॒श्रीः श्रीम॑णाः श॒तप॑याः - [ ]
पदपाठः (Word-by-word)
अग्ने᳚ । भर॑न्तु । चित्ति॑भि॒रिति॒ चित्ति॑ - भिः॒ ॥ सः । नः॒ । भ॒व॒ । शि॒वत॑म॒ इति॑ शि॒व - त॒मः॒ । सु॒प्रती॑क॒ इति॑ सु - प्रती॑कः । वि॒भाव॑सु॒रिति॑ वि॒भा - व॒सुः॒ ॥ पञ्च॑ । दिशः॑ । दैवीः᳚ । य॒ज्ञ्म् । अ॒व॒न्तु॒ । दे॒वीः । अपेति॑ । अम॑तिम् । दु॒र्म॒तिमिति॑ दुः - म॒तिम् । बाध॑मानाः ॥ रा॒यः । पोषे᳚ । य॒ज्ञ्प॑ति॒मिति॑ य॒ज्ञ् - प॒ति॒म् । आ॒भज॑न्ती॒रित्या᳚ - भज॑न्तीः ॥ रा॒यः । पोषे᳚ । अधीति॑ । य॒ज्ञ्ः । अ॒स्था॒त् । समि॑द्ध॒ इति॒ सं - इ॒द्धे॒ । अ॒ग्नौ । अधीति॑ । मा॒म॒हा॒नः ॥ उ॒क्थप॑त्र॒ इत्यु॒क्थ - प॒त्रः॒ । ईड्यः॑ । गृ॒भी॒तः । त॒प्तम् । घ॒र्मम् । प॒रि॒गृह्येति॑ परि-गृह्य॑ । अ॒य॒ज॒न्त॒ ॥ ऊ॒र्जा । यत् । य॒ज्ञ्म् । अश॑मन्त । दे॒वाः । दैव्या॑य । ध॒र्त्रे । जोष्ट्रे᳚ ॥ दे॒व॒श्रीरिति॑ देव - श्रीः । श्रीम॑णा॒ इति॒ श्री - म॒नाः॒ । श॒तप॑या॒ इति॑ श॒त - प॒याः॒ ।
पदसंख्या: 50