पञ्चशत् 1 #
य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्॒.होता॑ निष॒सादा॑ पि॒ता नः॑ । स आ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नः परम॒च्छदो॒ वर॒ आ वि॑वेश ॥ वि॒श्वक॑र्मा॒ मन॑सा॒ यद्विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत स॒न्दृक् । तेषा॑मि॒ष्टानि॒ समि॒षा म॑दन्ति॒ यत्र॑ सप्त॒र्॒.षीन् प॒र एक॑मा॒हुः ॥ यो नः॑ पि॒ता ज॑नि॒ता यो वि॑धा॒ता यो नः॑ स॒तो अ॒भ्या सज्ज॒जान॑ ।
पदपाठः (Word-by-word)
य । इ॒मा । विश्वा᳚ । भुव॑नानि । जुह्व॑त् । ऋषिः॑ । होता᳚ । नि॒ष॒सादेति॑ नि - स॒साद॑ । पि॒ता । नः॒ ॥ सः । आ॒शिषेत्या᳚ -शिषा᳚ । द्रवि॑णम् । इ॒च्छमा॑नः । प॒र॒म॒च्छद॒ इति॑ परम - छदः॑ । वरे᳚ । एति॑ । वि॒वे॒श॒ ॥ वि॒श्वक॒र्मेति॑ वि॒श्व-क॒र्मा॒ । मन॑सा । यत् । विहा॑या॒ इति॒ वि-हा॒याः॒ । धा॒ता । वि॒धा॒तेति॑ वि - धा॒ता । प॒र॒मा । उ॒त । स॒न्दृगिति॑ सं-दृक् ॥ तेषा᳚म् । इ॒ष्टानि॑ । समिति॑ । इ॒षा । म॒द॒न्ति॒ । यत्र॑ । स॒प्त॒र्॒.षीनिति॑ सप्त-ऋ॒षीन् । प॒रः । एक᳚म् । आ॒हुः ॥ यः । नः॒ । पि॒ता । ज॒नि॒ता । यः । वि॒धा॒तेति॑ वि - धा॒ता । यः । नः॒ । स॒तः । अ॒भि । एति॑ । सत् । जजान॑ ॥