अनुवाकः 5 TS 4.6.5

(A5)

(अ॒गाꣳ॒॒ - स॒ह॒स्रा॒क्ष॒ - दे॒वाः॒ - स॒हस्र॑धारा॒ - मत्यꣳ॑हा॒ - अनु॑वर्त्मानः॒ - षोड॑श च)

अनुवाकः 5 - Complete Audio

TS 4.6.5 - स्वरानुगामी

0:00 0:00
PS1.1 प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वान॒ग्नेर॑ग्ने
PS1.2 पु॒रो अ॑ग्निर्भवे॒ह
PS1.3 विश्वा॒ आशा॒ दीद्या॑नो॒ वि
PS1.4 भा॒ह्यूर्जं॑ नो धेहि द्वि॒पदे॒
PS1.5 चतु॑ष्पदे
PS1.6 क्रम॑द्ध्वम॒ग्निना॒ नाक॒मुख्यꣳ॒॒ हस्ते॑षु॒ बिभ्र॑तः
PS1.7 दि॒वः पृ॒ष्ठꣳ सुव॑र्ग॒त्वा मि॒श्रा दे॒वेभि॑राद्ध्वं
PS1.8 पृ॒थि॒व्या अ॒हमुद॒न्तरि॑क्ष॒-माऽरु॑ह-म॒न्तरि॑क्षा॒द् दिव॒माऽरु॑हं
PS1.9 दि॒वो नाक॑स्य पृ॒ष्ठाथ् सुव॒र्ज्योति॑रगा-
PS1.10 [ ]
PS2.1 म॒हं
PS2.2 सुव॒र्यन्तो॒ नापे᳚क्षन्त॒ आ द्याꣳ
PS2.3 रो॑हन्ति॒ रोद॑सी
PS2.4 य॒ज्ञ्ं ॅये वि॒श्वतो॑धारꣳ॒॒ सुवि॑द्वाꣳसो वितेनि॒रे
PS2.5 अग्ने॒ प्रेहि॑ प्रथ॒मो दे॑वय॒तां
PS2.6 चक्षु॑र्दे॒वाना॑मु॒त मर्त्या॑नां
PS2.7 इय॑क्षमाणा॒ भृगु॑भिः स॒जोषाः॒ सुव॑र्यन्तु॒
PS2.8 यज॑मानाः स्व॒स्ति
PS2.9 नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒
PS2.10 शिशु॒मेकꣳ॑ समी॒ची
PS2.11 द्यावा॒ क्षामा॑ रु॒क्मो अ॒न्तर्वि
PS2.12 भा॑ति दे॒वा अ॒ग्निं धा॑रयन्
PS2.13 द्रविणो॒दाः
PS2.14 अग्ने॑ सहस्राक्ष - [ ]
PS3.1 शतमूर्द्धञ्छ॒तं ते᳚ प्रा॒णाः स॒हस्र॑मपा॒नाः
PS3.2 त्वꣳ सा॑ह॒स्रस्य॑ रा॒य ई॑शिषे॒
PS3.3 तस्मै॑ ते विधेम॒ वाजा॑य॒
PS3.4 स्वाहा᳚
PS3.5 सु॒प॒र्णो॑ऽसि ग॒रुत्मा᳚न् पृथि॒व्याꣳ सी॑द
PS3.6 पृ॒ष्ठे पृ॑थि॒व्याः सी॑द भा॒साऽ*न्तरि॑क्ष॒मा
PS3.7 पृ॑ण॒ ज्योति॑षा॒ दिव॒मुत्त॑भान॒ तेज॑सा॒
PS3.8 दिश॒ उद् दृꣳ॑ह
PS3.9 आ॒जुह्वा॑नः सु॒प्रती॑कः पु॒रस्ता॒दग्ने॒ स्वां
PS3.10 ॅयोनि॒मा सी॑द सा॒द्ध्या
PS3.11 अ॒स्मिन्थ्-स॒धस्थे॒ अद्ध्युत्त॑रस्मि॒न् विश्वे॑ देवा॒
PS3.12 - [ ]
PS4.1 यज॑मानश्च सीदत
PS4.2 प्रेद्धो॑ अग्ने दीदिहि पु॒रो
PS4.3 नोऽज॑स्रया सू॒र्म्या॑ यविष्ठ
PS4.4 त्वाꣳ शश्व॑न्त॒ उप॑ यन्ति॒ वाजाः᳚
PS4.5 वि॒धेम॑ ते पर॒मे जन्म॑न्नग्ने
PS4.6 वि॒धेम॒ स्तोमै॒रव॑रे स॒धस्थे᳚
PS4.7 यस्मा॒द्-योने॑रु॒दारि॑था॒ यजे॒ तं प्रत्वे
PS4.8 ह॒वीꣳषि॑ जुहुरे॒ समि॑द्धे
PS4.9 ताꣳ स॑वि॒तुर्वरे᳚ण्यस्य चि॒त्रामाऽहं ॅवृ॑णे
PS4.10 सुम॒तिं ॅवि॒श्वज॑न्यां
PS4.11 याम॑स्य॒ कण्वो॒ अदु॑ह॒त् प्रपी॑नाꣳ
PS4.12 स॒हस्र॑धारां॒ - [ ]
PS5.1 पय॑सा म॒हीं गां
PS5.2 स॒प्त ते॑ अग्ने स॒मिधः॑
PS5.3 स॒प्त जि॒ह्वाः स॒प्तर्.ष॑यः स॒प्त
PS5.4 धाम॑ प्रि॒याणि॑
PS5.5 स॒प्त होत्राः᳚ सप्त॒धा त्वा॑
PS5.6 यजन्ति स॒प्त योनी॒रा पृ॑णस्वा
PS5.7 घृ॒तेन॑
PS5.8 ई॒दृङ् चा᳚न्या॒दृङ् चै॑ता॒दृङ्च॑ प्रति॒दृङ्
PS5.9 च॑ मि॒तश्च॒ संमि॑तश्च॒ सभ॑राः
PS5.10 शु॒क्रज्यो॑तिश्च चि॒त्रज्यो॑तिश्च स॒त्यज्यो॑तिश्च॒ ज्योति॑ष्माꣳश्च स॒त्यश्च॑र्त॒पाश्चात्यꣳ॑हाः
PS6.1 ऋ॒त॒जिच्च॑ सत्य॒जिच्च॑ सेन॒जिच्च॑ सु॒षेण॒श्चान्त्य॑मित्रश्च
PS6.2 दू॒रेअ॑मित्रश्च ग॒णः
PS6.3 ऋ॒तश्च॑ स॒त्यश्च॑ ध्रु॒वश्च॑ ध॒रुण॑श्च
PS6.4 ध॒र्ता च॑ विध॒र्ता च॑
PS6.5 विधार॒यः
PS6.6 ई॒दृक्षा॑स एता॒दृक्षा॑स ऊ॒ षुणः॑
PS6.7 स॒दृक्षा॑सः॒ प्रति॑सदृक्षास॒ एत॑न
PS6.8 मि॒तास॑श्च॒ संमि॑तासश्च न ऊ॒तये॒
PS6.9 सभ॑रसो मरुतो य॒ज्ञे अ॒स्मिन्निन्द्रं॒
PS6.10 दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मानो॒ ( )
PS6.11 यथेन्द्रं॒ दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मान ए॒वमि॒मं
PS6.12 ॅयज॑मानं॒ दैवी᳚श्च॒ विशो॒ मानु॑षी॒श्चानु॑वर्त्मानो
PS6.13 भवन्तु

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 4.6.5.1 TS 4.6.5.1
प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वान॒ग्नेर॑ग्ने पु॒रो अ॑ग्निर्भवे॒ह । विश्वा॒ आशा॒ दीद्या॑नो॒ वि भा॒ह्यूर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ॥ क्रम॑द्ध्वम॒ग्निना॒ नाक॒मुख्यꣳ॒॒ हस्ते॑षु॒ बिभ्र॑तः । दि॒वः पृ॒ष्ठꣳ सुव॑र्ग॒त्वा मि॒श्रा दे॒वेभि॑राद्ध्वं ॥ पृ॒थि॒व्या अ॒हमुद॒न्तरि॑क्ष॒-माऽरु॑ह-म॒न्तरि॑क्षा॒द् दिव॒माऽरु॑हं ।दि॒वो नाक॑स्य पृ॒ष्ठाथ् सुव॒र्ज्योति॑रगा- [ ]
पदपाठः (Word-by-word)
प्राची᳚म् । अन्विति॑ । प्र॒दिश॒मिति॑ प्र-दिश᳚म् । प्रेति॑ । इ॒हि॒ । वि॒द्वान् । अ॒ग्नेः । अ॒ग्ने॒ । पु॒रो अ॑ग्नि॒रिति॑ पु॒रः - अ॒ग्निः॒ । भ॒व॒ । इ॒ह ॥ विश्वाः᳚ । आशाः᳚ । दीद्या॑नः । वीति॑ । भा॒हि॒ । ऊर्ज᳚म् । नः॒ । धे॒हि॒ । द्वि॒पद॒ इति॑ द्वि - पदे᳚ । चतु॑ष्पद॒ इति॒ चतुः॑ - प॒दे॒ ॥ क्रम॑द्ध्वम् । अ॒ग्निना᳚ । नाक᳚म् । उख्य᳚म् । हस्ते॑षु । बिभ्र॑तः ॥ दि॒वः । पृ॒ष्ठम् । सुवः॑ । ग॒त्वा । मि॒श्राः । दे॒वेभिः॑ । आ॒द्ध्व॒म् ॥ पृ॒थि॒व्याः । अ॒हम् । उदिति॑ । अ॒न्तरि॑क्षम् । एति॑ । अ॒रु॒ह॒म् । अ॒न्तरि॑क्षात् । दिव᳚म् । एति॑ । अ॒रु॒ह॒म् ॥ दि॒वः । नाक॑स्य । पृ॒ष्ठात् । सुवः॑ । ज्योतिः॑ । अ॒गा॒म् ।
पदसंख्या: 50
पञ्चशत् 2 #
TS 4.6.5.2 TS 4.6.5.2
म॒हं ॥ सुव॒र्यन्तो॒ नापे᳚क्षन्त॒ आ द्याꣳ रो॑हन्ति॒ रोद॑सी । य॒ज्ञ्ं ॅये वि॒श्वतो॑धारꣳ॒॒ सुवि॑द्वाꣳसो वितेनि॒रे ॥ अग्ने॒ प्रेहि॑ प्रथ॒मो दे॑वय॒तां चक्षु॑र्दे॒वाना॑मु॒त मर्त्या॑नां । इय॑क्षमाणा॒ भृगु॑भिः स॒जोषाः॒ सुव॑र्यन्तु॒ यज॑मानाः स्व॒स्ति ॥ नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेकꣳ॑ समी॒ची । द्यावा॒ क्षामा॑ रु॒क्मो अ॒न्तर्वि भा॑ति दे॒वा अ॒ग्निं धा॑रयन् द्रविणो॒दाः ॥ अग्ने॑ सहस्राक्ष - [ ]
पदपाठः (Word-by-word)
अ॒हम् ॥ सुवः॑ । यन्तः॑ । न । अपेति॑ । ई॒क्ष॒न्ते॒ । एति॑ । द्याम् । रो॒ह॒न्ति॒ । रोद॑सी॒ इति॑ ॥ य॒ज्ञ्म् । ये । वि॒श्वतो॑धार॒मिति॑ वि॒श्वतः॑ - धा॒र॒म् । सुवि॑द्वाꣳस॒ इति॒ सु - वि॒द्वाꣳ॒॒सः॒ । वि॒ते॒नि॒र इति॑ वि - ते॒नि॒रे ॥ अग्ने᳚ । प्रेति॑ । इ॒हि॒ । प्र॒थ॒मः । दे॒व॒य॒तामिति॑ देव - य॒ताम् । चक्षुः॑ । दे॒वाना᳚म् । उ॒त । मर्त्या॑नाम् ॥ इय॑क्षमाणाः । भृगु॑भि॒रिति॒ भृगु॑ - भिः॒ । स॒जोषा॒ इति॑ स-जोषाः᳚ । सुवः॑ । य॒न्तु॒ । यज॑मानाः । स्व॒स्ति ॥ नक्तो॒षासा᳚ । सम॑न॒सेति॒ स - म॒न॒सा॒ । विरू॑पे॒ इति॒ वि - रू॒पे॒ । धा॒पये॑ते॒ इति॑ । शिशु᳚म् । एक᳚म् । स॒मी॒ची इति॑ ॥ द्यावा᳚ । क्षाम॑ । रु॒क्मः । अ॒न्तः । वीति॑ । भा॒ति॒ । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न्न् । द्र॒वि॒णो॒दा इति॑ द्रविणः - दाः ॥ अग्ने᳚ । स॒ह॒स्रा॒क्षेति॑ सहस्र - अ॒क्ष॒ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 4.6.5.3 TS 4.6.5.3
शतमूर्द्धञ्छ॒तं ते᳚ प्रा॒णाः स॒हस्र॑मपा॒नाः । त्वꣳ सा॑ह॒स्रस्य॑ रा॒य ई॑शिषे॒ तस्मै॑ ते विधेम॒ वाजा॑य॒ स्वाहा᳚ ॥ सु॒प॒र्णो॑ऽसि ग॒रुत्मा᳚न् पृथि॒व्याꣳ सी॑द पृ॒ष्ठे पृ॑थि॒व्याः सी॑द भा॒साऽ*न्तरि॑क्ष॒मा पृ॑ण॒ ज्योति॑षा॒ दिव॒मुत्त॑भान॒ तेज॑सा॒ दिश॒ उद् दृꣳ॑ह ॥ आ॒जुह्वा॑नः सु॒प्रती॑कः पु॒रस्ता॒दग्ने॒ स्वां ॅयोनि॒मा सी॑द सा॒द्ध्या । अ॒स्मिन्थ्-स॒धस्थे॒ अद्ध्युत्त॑रस्मि॒न् विश्वे॑ देवा॒ - [ ]
पदपाठः (Word-by-word)
श॒त॒मू॒द्‌र्ध॒न्निति॑ शत - मू॒र्ध॒न्न् । श॒तम् । ते॒ । प्रा॒णा इति॑ प्र-अ॒नाः । स॒हस्र᳚म् । अ॒पा॒न इत्य॑प - अ॒नाः ॥ त्वम् । सा॒ह॒स्रस्य॑ । रा॒यः । ई॒शि॒षे॒ । तस्मै᳚ । ते॒ । वि॒धे॒म॒ । वाजा॑य । स्वाहा᳚ ॥ सु॒प॒र्ण॒ इति॑ सु-प॒र्णः । अ॒सि॒ । ग॒रुत्मान्॑ । पृ॒थि॒व्याम् । सी॒द॒ । पृ॒ष्ठे । पृ॒थि॒व्याः । सी॒द॒ । भा॒सा । अ॒न्तरि॑क्षम् । एति॑ । पृ॒ण॒ । ज्योति॑षा । दिव᳚म् । उदिति॑ । स्त॒भा॒न॒ । तेज॑सा । दिशः॑ । उदिति॑ । दृꣳ॒॒ह॒ ॥ आ॒जुह्वा॑न॒ इत्या᳚ - जुह्वा॑नः । सु॒प्रती॑क॒ इति॑ सु - प्रती॑कः । पु॒रस्ता᳚त् । अग्ने᳚ । स्वाम् । योनि᳚म् । एति॑ । सी॒द॒ । सा॒द्ध्या ॥ अ॒स्मिन्न् । स॒धस्थ॒ इति॑ स॒ध - स्थे॒ । अधीति॑ । उत्त॑रस्मि॒न्नित्युत् - त॒र॒स्मि॒न्न् । विश्वे᳚ । दे॒वाः॒ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 4.6.5.4 TS 4.6.5.4
यज॑मानश्च सीदत ॥ प्रेद्धो॑ अग्ने दीदिहि पु॒रो नोऽज॑स्रया सू॒र्म्या॑ यविष्ठ । त्वाꣳ शश्व॑न्त॒ उप॑ यन्ति॒ वाजाः᳚ ॥ वि॒धेम॑ ते पर॒मे जन्म॑न्नग्ने वि॒धेम॒ स्तोमै॒रव॑रे स॒धस्थे᳚ । यस्मा॒द्-योने॑रु॒दारि॑था॒ यजे॒ तं प्रत्वे ह॒वीꣳषि॑ जुहुरे॒ समि॑द्धे ॥ ताꣳ स॑वि॒तुर्वरे᳚ण्यस्य चि॒त्रामाऽहं ॅवृ॑णे सुम॒तिं ॅवि॒श्वज॑न्यां । याम॑स्य॒ कण्वो॒ अदु॑ह॒त् प्रपी॑नाꣳ स॒हस्र॑धारां॒ - [ ]
पदपाठः (Word-by-word)
यज॑मानः । च॒ । सी॒द॒त॒ ॥ प्रेद्ध॒ इति॒ प्र - इ॒द्धः॒ । अ॒ग्ने॒ । दी॒दि॒हि॒ । पु॒रः । नः॒ । अज॑स्रया । सू॒र्म्या᳚ । य॒वि॒ष्ठ॒ ॥ त्वा॒म् । शश्व॑न्तः । उपेति॑ । य॒न्ति॒ । वाजाः᳚ ॥ वि॒धेम॑ । ते॒ । प॒र॒मे । जन्मन्न्॑ । अ॒ग्ने॒ । वि॒धेम॑ । स्तोमैः᳚ । अव॑रे । स॒धस्थ॒ इति॑ स॒ध - स्थे॒ ॥ यस्मा᳚त् । योनेः᳚ । उ॒दारि॒थेत्यु॑त् - आरि॑थ । यजे᳚ । तम् । प्रेति॑ । त्वे इति॑ । ह॒वीꣳषि॑ । जु॒हु॒रे॒ । समि॑द्ध॒ इति॒ सं - इ॒द्धे॒ ॥ ताम् । स॒वि॒तुः । वरे᳚ण्यस्य । चि॒त्राम् । एति॑ । अ॒हम् । वृ॒णे॒ । सु॒म॒तिमिति॑ सु - म॒तिम् । वि॒श्वज॑न्या॒मिति॑ वि॒श्व - ज॒न्या॒म् ॥ याम् । अ॒स्य॒ । कण्वः॑ । अदु॑हत् । प्रपी॑ना॒मिति॒ प्र-पी॒ना॒म् । स॒हस्र॑धारा॒मिति॑ स॒हस्र॑ - धा॒रा॒म् ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 4.6.5.5 TS 4.6.5.5
पय॑सा म॒हीं गां ॥ स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वाः स॒प्तर्.ष॑यः स॒प्त धाम॑ प्रि॒याणि॑ । स॒प्त होत्राः᳚ सप्त॒धा त्वा॑ यजन्ति स॒प्त योनी॒रा पृ॑णस्वा घृ॒तेन॑ ॥ ई॒दृङ् चा᳚न्या॒दृङ् चै॑ता॒दृङ्च॑ प्रति॒दृङ् च॑ मि॒तश्च॒ संमि॑तश्च॒ सभ॑राः ॥ शु॒क्रज्यो॑तिश्च चि॒त्रज्यो॑तिश्च स॒त्यज्यो॑तिश्च॒ ज्योति॑ष्माꣳश्च स॒त्यश्च॑र्त॒पाश्चात्यꣳ॑हाः ॥
पदपाठः (Word-by-word)
पय॑सा । म॒हीम् । गाम् ॥ स॒प्त । ते॒ । अ॒ग्ने॒ । स॒मिध॒ इति॑ सम् - इधः॑ । स॒प्त । जि॒ह्वाः । स॒प्त । ऋष॑यः । स॒प्त । धाम॑ । प्रि॒याणि॑ ॥ स॒प्त । होत्राः᳚ । स॒प्त॒धेति॑ सप्त - धा । त्वा॒ । य॒ज॒न्ति॒ । स॒प्त । योनीः᳚ । एति॑ । पृ॒ण॒स्व॒ । घृ॒तेन॑ ॥ ई॒दृङ् । च॒ । अ॒न्या॒दृङ् । च॒ । ए॒ता॒दृङ् । च॒ । प्र॒ति॒दृङिति॑ प्रति - दृङ् । च॒ । मि॒तः । च॒ । संमि॑त॒ इति॒ सं - मि॒तः॒ । च॒ । सभ॑रा॒ इति॒ स - भ॒राः॒ ॥ शु॒क्रज्यो॑ति॒रिति॑ शु॒क्र-ज्यो॒तिः॒ । च॒ । चि॒त्रज्यो॑ति॒रिति॑ चि॒त्र-ज्यो॒तिः॒ । च॒ । स॒त्यज्यो॑ति॒रिति॑ स॒त्य - ज्यो॒तिः॒ । च॒ । ज्योति॑ष्मान् । च॒ । स॒त्यः । च॒ । ऋ॒त॒पा इत्यृ॑त-पाः । च॒ । अत्यꣳ॑हा॒ इत्यति॑ - अꣳ॒॒हाः॒ ॥
पदसंख्या: 50
पञ्चशत् 6 #
TS 4.6.5.6 TS 4.6.5.6
ऋ॒त॒जिच्च॑ सत्य॒जिच्च॑ सेन॒जिच्च॑ सु॒षेण॒श्चान्त्य॑मित्रश्च दू॒रेअ॑मित्रश्च ग॒णः ॥ ऋ॒तश्च॑ स॒त्यश्च॑ ध्रु॒वश्च॑ ध॒रुण॑श्च ध॒र्ता च॑ विध॒र्ता च॑ विधार॒यः ॥ ई॒दृक्षा॑स एता॒दृक्षा॑स ऊ॒ षुणः॑ स॒दृक्षा॑सः॒ प्रति॑सदृक्षास॒ एत॑न । मि॒तास॑श्च॒ संमि॑तासश्च न ऊ॒तये॒ सभ॑रसो मरुतो य॒ज्ञे अ॒स्मिन्निन्द्रं॒ दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मानो॒ ( ) यथेन्द्रं॒ दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मान ए॒वमि॒मं ॅयज॑मानं॒ दैवी᳚श्च॒ विशो॒ मानु॑षी॒श्चानु॑वर्त्मानो भवन्तु ॥
पदपाठः (Word-by-word)
ऋ॒त॒जिदित्यृ॑त - जित् । च॒ । स॒त्य॒जिदिति॑ सत्य - जित् । च॒ । से॒न॒जिदिति॑ सेन - जित् । च॒ । सु॒षेण॒ इति॑ सु - सेनः॑ । च॒ । अन्त्य॑मित्र॒ इत्यन्ति॑-अ॒मि॒त्रः॒ । च॒ । दू॒रे अ॑मित्र॒ इति॑ दू॒रे - अ॒मि॒त्रः॒ । च॒ । ग॒णः ॥ ऋ॒तः । च॒ । स॒त्यः । च॒ । ध्रु॒वः । च॒ । ध॒रुणः॑ । च॒ । ध॒र्ता । च॒ । वि॒ध॒र्तेति॑ वि - ध॒र्ता । च॒ । वि॒धा॒र॒य इति॑ वि-धा॒र॒यः ॥ ई॒दृक्षा॑सः । ए॒ता॒दृक्षा॑सः । उ॒ । स्विति॑ । नः॒ । स॒दृक्षा॑सः । प्रति॑सदृक्षास॒ इति॒ प्रति॑ - स॒दृ॒क्षा॒सः॒ । एति॑ । इ॒त॒न॒ ॥ मि॒तासः॑ । च॒ । संमि॑तास॒ इति॒ सं - मि॒ता॒सः॒ । च॒ । नः॒ । ऊ॒तये᳚ । सभ॑रस॒ इति॒ स - भ॒र॒सः॒ । म॒रु॒तः॒ । य॒ज्ञे । अ॒स्मिन्न् । इन्द्र᳚म् । दैवीः᳚ । विशः॑ । म॒रुतः॑ । अनु॑वर्त्मान॒ इत्यनु॑-व॒र्त्मा॒नः॒ ( ) । यथा᳚ । इन्द्र᳚म् । दैवीः᳚ । विशः॑ । म॒रुतः॑ । अनु॑वर्त्मान॒ इत्यनु॑ - व॒र्त्मा॒नः॒ । ए॒वम् । इ॒मम् । यज॑मानम् । दैवीः᳚ । च॒ । विशः॑ । मानु॑षीः । च॒ । अनु॑वर्त्मान॒ इत्यनु॑ - व॒र्त्मा॒नः॒ । भ॒व॒न्तु॒ ॥
पदसंख्या: 66