पञ्चशत् 1 #
यदक्र॑न्दः प्रथ॒मं जाय॑मान उ॒द्यन्थ् स॑मु॒द्रादु॒त वा॒ पुरी॑षात् । श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑प॒स्तुत्यं॒ महि॑ जा॒तं ते॑ अर्वन्न् ॥ य॒मेन॑ द॒त्तं त्रि॒त ए॑नमायुन॒गिन्द्र॑ एणं प्रथ॒मो अद्ध्य॑तिष्ठत् । ग॒न्ध॒र्वो अ॑स्य रश॒नाम॑-गृभ्णा॒थ् सूरा॒दश्वं॑ ॅवसवो॒ निर॑तष्ट ॥ असि॑ य॒मो अस्या॑दि॒त्यो अ॑र्व॒न्नसि॑ त्रि॒तो गुह्ये॑न व्र॒तेन॑ । असि॒ सोमे॑न स॒मया॒ विपृ॑क्त - [ ]
पदपाठः (Word-by-word)
यत् । अक्र॑न्दः । प्र॒थ॒मम् । जाय॑मानः । उ॒द्यन्नित्यु॑त्-यन्न् । स॒मु॒द्रात् । उ॒त । वा॒ । पुरी॑षात् ॥ श्ये॒नस्य॑ । प॒क्षा । ह॒रि॒णस्य॑ । बा॒हू इति॑ । उ॒प॒स्तुत्य॒मित्यु॑प - स्तुत्य᳚म् । महि॑ । जा॒तम् । ते॒ । अ॒र्व॒न्न् ॥ य॒मेन॑ । द॒त्तम् । त्रि॒तः । ए॒न॒म् । आ॒यु॒न॒क् । इन्द्रः॑ । ए॒न॒म् । प्र॒थ॒मः । अधीति॑ । अ॒ति॒ष्ठ॒त् ॥ ग॒न्ध॒र्वः । अ॒स्य॒ । र॒श॒नाम् । अ॒गृ॒भ्णा॒त् । सूरा᳚त् । अश्व᳚म् । व॒स॒वः॒ । निरिति॑ । अ॒त॒ष्ट॒ ॥ असि॑ । य॒मः । असि॑ । आ॒दि॒त्यः । अ॒र्व॒न्न् । असि॑ । त्रि॒तः । गुह्ये॑न । व्र॒तेन॑ ॥ असि॑ । सोमे॑न । स॒मया᳚ । विपृ॑क्त॒ इति॒ वि - पृ॒क्तः॒ ।