अनुवाकः 1 TS 4.6.1

(A1)

(उप॑-दे॒वान्-वट्-प्रा॑ण॒दा-श्चतु॑श्चत्वारिꣳशच्च)

अनुवाकः 1 - Complete Audio

TS 4.6.1 - स्वरानुगामी

0:00 0:00
PS1.1 अश्म॒न्नूर्जं॒ पर्व॑ते शिश्रिया॒णां ॅवाते॑
PS1.2 प॒र्जन्ये॒ वरु॑णस्य॒ शुष्मे᳚
PS1.3 अ॒द्भ्य ओष॑धीभ्यो॒ वन॒स्पति॒भ्योऽधि॒ संभृ॑तां॒
PS1.4 तां न॒ इष॒मूर्जं॑ धत्त
PS1.5 मरुतः सꣳ ररा॒णाः
PS1.6 अश्मꣳ॑स्ते॒ क्षुद॒मुं ते॒ शुगृ॑च्छतु॒
PS1.7 यं द्वि॒ष्मः
PS1.8 स॒मु॒द्रस्य॑ त्वा॒ऽ*वाक॒याऽग्ने॒ परि॑ व्ययामसि
PS1.9 पा॒व॒को अ॒स्मभ्यꣳ॑ शि॒वो भ॑व
PS1.10 हि॒मस्य॑ त्वा ज॒रायु॒णाऽग्ने॒ परि॑ व्ययामसि
PS1.11 पा॒व॒को अ॒स्मभ्यꣳ॑ शि॒वो भ॑व
PS1.12 उप॒ - [ ]
PS2.1 -ज्मन्नुप॑ वेत॒सेऽव॑त्तरं न॒दीष्वा
PS2.2 अग्ने॑ पि॒त्तम॒पाम॑सि
PS2.3 मण्डू॑कि॒ ताभि॒रा ग॑हि॒ सेमं
PS2.4 नो॑ य॒ज्ञ्ं
PS2.5 पा॒व॒कव॑र्णꣳ शि॒वं कृ॑धि
PS2.6 पा॒व॒क आ चि॒तय॑न्त्या कृ॒पा
PS2.7 क्षाम॑न् रुरु॒च उ॒षसो॒ न भा॒नुना᳚
PS2.8 तूर्व॒न् न याम॒न्नेत॑शस्य॒ नू
PS2.9 रण॒ आ यो घृ॒णे
PS2.10 न त॑तृषा॒णो अ॒जरः॑
PS2.11 अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑
PS2.12 देव जि॒ह्वया᳚
PS2.13 आ दे॒वान् - [ ]
PS3.1 व॑क्षि॒ यक्षि॑ च
PS3.2 स नः॑ पावक दीदि॒वोऽग्ने॑
PS3.3 दे॒वाꣳ इ॒हाऽऽ व॑ह
PS3.4 उप॑ य॒ज्ञ्ꣳ ह॒विश्च॑ नः
PS3.5 अ॒पामि॒दं न्यय॑नꣳ समु॒द्रस्य॑ नि॒वेश॑नं
PS3.6 अ॒न्यं ते॑ अ॒स्मत् त॑पन्तु
PS3.7 हे॒तयः॑ पाव॒को अ॒स्मभ्यꣳ॑ शि॒वो
PS3.8 भ॑व
PS3.9 नम॑स्ते॒ हर॑से शो॒चिषे॒ नम॑स्ते अस्त्व॒र्चिषे᳚
PS3.10 अ॒न्यं ते॑ अ॒स्मत् त॑पन्तु
PS3.11 हे॒तयः॑ पाव॒को अ॒स्मभ्यꣳ॑ शि॒वो
PS3.12 भ॑व
PS3.13 नृ॒षदे॒ वड॑ - [ ]
PS4.1 -फ्सु॒षदे॒ वड् व॑न॒सदे॒ वड्
PS4.2 ब॑र्.हि॒षदे॒ वट्थ् सु॑व॒र्विदे॒ वट्
PS4.3 ये दे॒वा दे॒वानां᳚ ॅय॒ज्ञिया॑
PS4.4 य॒ज्ञिया॑नाꣳ संॅवथ् स॒रीण॒मुप॑ भा॒गमास॑ते
PS4.5 अ॒हु॒तादो॑ ह॒विषो॑ य॒ज्ञे अ॒स्मिन्थ्
PS4.6 स्व॒यं जु॑हुद्ध्वं॒ मधु॑नो घृ॒तस्य॑
PS4.7 ये दे॒वा दे॒वेष्वधि॑ देव॒त्वमाय॒न्॒
PS4.8 ये ब्रह्म॑णः पुर ए॒तारो॑
PS4.9 अ॒स्य
PS4.10 येभ्यो॒ नर्ते पव॑ते॒ धाम॒
PS4.11 किं च॒न न ते
PS4.12 दि॒वो न पृ॑थि॒व्या अधि॒
PS4.13 स्नुषु॑
PS4.14 प्रा॒ण॒दा - [ ]
PS5.1 अ॑पान॒दा व्या॑न॒दाश्च॑क्षु॒र्दा व॑र्चो॒दा व॑रिवो॒दाः
PS5.2 अ॒न्यं ते॑ अ॒स्मत् त॑पन्तु
PS5.3 हे॒तयः॑ पाव॒को अ॒स्मभ्यꣳ॑ शि॒वो
PS5.4 भ॑व
PS5.5 अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॒ यꣳस॒द्विश्वं॒ न्य॑त्रिणं᳚
PS5.6 अ॒ग्निर्नो॑ वꣳसते र॒यिं
PS5.7 सैनाऽनी॑केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑
PS5.8 दे॒वाꣳ आय॑जिष्ठः स्व॒स्ति
PS5.9 अद॑ब्धो गो॒पा उ॒त नः॑
PS5.10 पर॒स्पा अग्ने᳚ द्यु॒मदु॒त रे॒वद्-दि॑दीहि

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 4.6.1.1 TS 4.6.1.1
अश्म॒न्नूर्जं॒ पर्व॑ते शिश्रिया॒णां ॅवाते॑ प॒र्जन्ये॒ वरु॑णस्य॒ शुष्मे᳚ । अ॒द्भ्य ओष॑धीभ्यो॒ वन॒स्पति॒भ्योऽधि॒ संभृ॑तां॒ तां न॒ इष॒मूर्जं॑ धत्त मरुतः सꣳ ररा॒णाः ॥ अश्मꣳ॑स्ते॒ क्षुद॒मुं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मः ॥ स॒मु॒द्रस्य॑ त्वा॒ऽ*वाक॒याऽग्ने॒ परि॑ व्ययामसि । पा॒व॒को अ॒स्मभ्यꣳ॑ शि॒वो भ॑व ॥ हि॒मस्य॑ त्वा ज॒रायु॒णाऽग्ने॒ परि॑ व्ययामसि । पा॒व॒को अ॒स्मभ्यꣳ॑ शि॒वो भ॑व ॥ उप॒ - [ ]
पदपाठः (Word-by-word)
अश्मन्न्॑ । ऊर्ज᳚म् । पर्व॑ते । शि॒श्रि॒या॒णाम् । वाते᳚ । प॒र्जन्ये᳚ । वरु॑णस्य । शुष्मे᳚ ॥ अ॒द्भ्य इत्य॑त् - भ्यः । ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ । वन॒स्पति॑भ्य॒ इति॒ वन॒स्पति॑ - भ्यः॒ । अधीति॑ । संभृ॑ता॒मिति॒ सं - भृ॒ता॒म् । ताम् । नः॒ । इष᳚म् । ऊर्ज᳚म् । ध॒त्त॒ । म॒रु॒तः॒ । सꣳ॒॒र॒रा॒णा इति॑ सं - र॒रा॒णाः ॥ अश्मन्न्॑ । ते॒ । क्षुत् । अ॒मुम् । ते॒ । शुक् । ऋ॒च्छ॒तु॒ । यम् । द्वि॒ष्मः ॥ स॒मु॒द्रस्य॑ । त्वा॒ । अ॒वाक॑या । अग्ने᳚ । परीति॑ । व्य॒या॒म॒सि॒ ॥ पा॒व॒कः । अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् । शि॒वः । भ॒व॒ ॥ हि॒मस्य॑ । त्वा॒ । ज॒रायु॑णा । अग्ने᳚ । परीति॑ । व्य॒या॒म॒सि॒ ॥ पा॒व॒कः । अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् । शि॒वः । भ॒व॒ ॥ उपेति॑ ।
पदसंख्या: 50
पञ्चशत् 2 #
TS 4.6.1.2 TS 4.6.1.2
-ज्मन्नुप॑ वेत॒सेऽव॑त्तरं न॒दीष्वा । अग्ने॑ पि॒त्तम॒पाम॑सि ॥ मण्डू॑कि॒ ताभि॒रा ग॑हि॒ सेमं नो॑ य॒ज्ञ्ं । पा॒व॒कव॑र्णꣳ शि॒वं कृ॑धि ॥ पा॒व॒क आ चि॒तय॑न्त्या कृ॒पा । क्षाम॑न् रुरु॒च उ॒षसो॒ न भा॒नुना᳚ ॥ तूर्व॒न् न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घृ॒णे । न त॑तृषा॒णो अ॒जरः॑ ॥ अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया᳚ । आ दे॒वान् - [ ]
पदपाठः (Word-by-word)
ज्मन्न् । उपेति॑ । वे॒त॒से । अव॑त्तर॒मित्यव॑त्-त॒र॒म् । न॒दीषु॑ । आ ॥ अग्ने᳚ । पि॒त्तम् । अ॒पाम् । अ॒सि॒ ॥ मण्डू॑कि । ताभिः॑ । एति॑ । ग॒हि॒ । सा । इ॒मम् । नः॒ । य॒ज्ञ्म् ॥ पा॒व॒कव॑र्ण॒मिति॑ पाव॒क - व॒र्ण॒म् । शि॒वम् । कृ॒धि॒ ॥ पा॒व॒के । एति॑ । चि॒तय॑न्त्या । कृ॒पा ॥ क्षामन्न्॑ । रु॒रु॒चे । उ॒षसः॑ । न । भा॒नुना᳚ ॥ तूर्वन्न्॑ । न । यामन्न्॑ । एत॑शस्य । नु । रणे᳚ । एति॑ । यः । घृ॒णे ॥ न । त॒तृ॒षा॒णः । अ॒जरः॑ ॥ अग्ने᳚ । पा॒व॒क॒ । रो॒चिषा᳚ । म॒न्द्रया᳚ । दे॒व॒ । जि॒ह्वया᳚ ॥ एति॑ । दे॒वान् ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 4.6.1.3 TS 4.6.1.3
व॑क्षि॒ यक्षि॑ च ॥ स नः॑ पावक दीदि॒वोऽग्ने॑ दे॒वाꣳ इ॒हाऽऽ व॑ह । उप॑ य॒ज्ञ्ꣳ ह॒विश्च॑ नः ॥ अ॒पामि॒दं न्यय॑नꣳ समु॒द्रस्य॑ नि॒वेश॑नं । अ॒न्यं ते॑ अ॒स्मत् त॑पन्तु हे॒तयः॑ पाव॒को अ॒स्मभ्यꣳ॑ शि॒वो भ॑व ॥ नम॑स्ते॒ हर॑से शो॒चिषे॒ नम॑स्ते अस्त्व॒र्चिषे᳚ । अ॒न्यं ते॑ अ॒स्मत् त॑पन्तु हे॒तयः॑ पाव॒को अ॒स्मभ्यꣳ॑ शि॒वो भ॑व ॥ नृ॒षदे॒ वड॑ - [ ]
पदपाठः (Word-by-word)
व॒क्षि॒ । यक्षि॑ । च॒ ॥ सः । नः॒ । पा॒व॒क॒ । दी॒दि॒वः॒ । अग्ने᳚ । दे॒वान् । इ॒ह । एति॑ । व॒ह॒ ॥ उपेति॑ । य॒ज्ञ्म् । ह॒विः । च॒ । नः॒ ॥ अ॒पाम् । इ॒दम् । न्यय॑न॒मिति॑ नि - अय॑नम् । स॒मु॒द्रस्य॑ । नि॒वेश॑न॒मिति॑ नि - वेश॑नम् ॥ अ॒न्यम् । ते॒ । अ॒स्मत् । त॒प॒न्तु॒ । हे॒तयः॑ । पा॒व॒कः । अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् । शि॒वः । भ॒व॒ ॥ नमः॑ । ते॒ । हर॑से । शो॒चिषे᳚ । नमः॑ । ते॒ । अ॒स्तु॒ । अ॒र्चिषे᳚ ॥ अ॒न्यम् । ते॒ । अ॒स्मत् । त॒प॒न्तु॒ । हे॒तयः॑ । पा॒व॒कः । अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् । शि॒वः । भ॒व॒ ॥ नृ॒षद॒ इति॑ नृ - सदे᳚ । वट् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 4.6.1.4 TS 4.6.1.4
-फ्सु॒षदे॒ वड् व॑न॒सदे॒ वड् ब॑र्.हि॒षदे॒ वट्थ् सु॑व॒र्विदे॒ वट् ॥ ये दे॒वा दे॒वानां᳚ ॅय॒ज्ञिया॑ य॒ज्ञिया॑नाꣳ संॅवथ् स॒रीण॒मुप॑ भा॒गमास॑ते । अ॒हु॒तादो॑ ह॒विषो॑ य॒ज्ञे अ॒स्मिन्थ् स्व॒यं जु॑हुद्ध्वं॒ मधु॑नो घृ॒तस्य॑ ॥ ये दे॒वा दे॒वेष्वधि॑ देव॒त्वमाय॒न्॒ ये ब्रह्म॑णः पुर ए॒तारो॑ अ॒स्य । येभ्यो॒ नर्ते पव॑ते॒ धाम॒ किं च॒न न ते दि॒वो न पृ॑थि॒व्या अधि॒ स्नुषु॑ ॥ प्रा॒ण॒दा - [ ]
पदपाठः (Word-by-word)
अ॒फ्सु॒षद॒ इत्य॑फ्सु - सदे᳚ । वट् । व॒न॒सद॒ इति॑ वन - सदे᳚ । वट् । ब॒र्॒.हि॒षद॒ इति॑ बर्.हि - सदे᳚ । वट् । सु॒व॒र्विद॒ इति॑ सुवः - विदे᳚ । वट् ॥ ये । दे॒वाः । दे॒वाना᳚म् । य॒ज्ञियाः᳚ । य॒ज्ञिया॑नाम् । सं॒ॅव॒थ्स॒रीण॒मिति॑ सं - व॒थ्स॒रीण᳚म् । उपेति॑ । भा॒गम् । आस॑ते ॥ अ॒हु॒ताद॒ इत्य॑हुत - अदः॑ । ह॒विषः॑ । य॒ज्ञे । अ॒स्मिन्न् । स्व॒यम् । जु॒हु॒द्ध्व॒म् । मधु॑नः । घृ॒तस्य॑ ॥ ये । दे॒वाः । दे॒वेषू॑ । अधीति॑ । दे॒व॒त्वमिति॑ देव - त्वम् । आयन्न्॑ । ये । ब्रह्म॑णः । पु॒र॒ ए॒तार॒ इति॑ पुरः - ए॒तारः॑ । अ॒स्य ॥ येभ्यः॑ । न । ऋ॒ते । पव॑ते । धाम॑ । किम् । च॒न । न । ते । दि॒वः । न । पृ॒थि॒व्याः । अधीति॑ । स्नुषु॑ ॥ प्रा॒ण॒दा इति॑ प्राण - दाः ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 4.6.1.5 TS 4.6.1.5
अ॑पान॒दा व्या॑न॒दाश्च॑क्षु॒र्दा व॑र्चो॒दा व॑रिवो॒दाः । अ॒न्यं ते॑ अ॒स्मत् त॑पन्तु हे॒तयः॑ पाव॒को अ॒स्मभ्यꣳ॑ शि॒वो भ॑व ॥ अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॒ यꣳस॒द्विश्वं॒ न्य॑त्रिणं᳚ । अ॒ग्निर्नो॑ वꣳसते र॒यिं ॥ सैनाऽनी॑केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वाꣳ आय॑जिष्ठः स्व॒स्ति । अद॑ब्धो गो॒पा उ॒त नः॑ पर॒स्पा अग्ने᳚ द्यु॒मदु॒त रे॒वद्-दि॑दीहि ॥
पदपाठः (Word-by-word)
अ॒पा॒न॒दा इत्य॑पान - दाः । व्या॒न॒दा इति॑ व्यान - दाः । च॒क्षु॒र्दा इति॑ चक्षुः-दाः । व॒र्चो॒दा इति॑ वर्चः-दाः । व॒रि॒वो॒दा इति॑ वरिवः-दाः ॥ अ॒न्यम् । ते॒ । अ॒स्मत् । त॒प॒न्तु॒ । हे॒तयः॑ । पा॒व॒कः । अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् । शि॒वः । भ॒व॒ ॥ अ॒ग्निः । ति॒ग्मेन॑ । शो॒चिषा᳚ । यꣳस॑त् । विश्व᳚म् । नीति॑ । अ॒त्रिण᳚म् ॥ अ॒ग्निः । नः॒ । वꣳ॒॒स॒ते॒ । र॒यिम् ॥ सः । ए॒ना । अनी॑केन । सु॒वि॒दत्र॒ इति॑ सु-वि॒दत्रः॑ । अ॒स्मे इति॑ । यष्टा᳚ । दे॒वान् । आय॑जिष्ठ॒ इत्या-य॒जि॒ष्ठः॒ । स्व॒स्ति ॥ अद॑ब्धः । गो॒पा इति॑ गो - पाः । उ॒त । नः॒ । प॒र॒स्पा इति॑ परः - पाः । अग्ने᳚ । द्यु॒मदिति॑ द्यु - मत् । उ॒त । रे॒वत् । दि॒दी॒हि॒ ॥
पदसंख्या: 44