पञ्चशत् 1 #
मा नो॑ मि॒त्रो वरु॑णो अर्य॒माऽऽयुरिन्द्र॑ ऋभु॒क्षा म॒रुतः॒ परि॑ ख्यन्न् । यद्-वा॒जिनो॑ दे॒वजा॑तस्य॒ सप्तेः᳚ प्रव॒क्ष्यामो॑ वि॒दथे॑ वी॒र्या॑णि ॥ यन्नि॒र्णिजा॒ रेक्ण॑सा॒ प्रावृ॑तस्य रा॒तिं गृ॑भी॒तां मु॑ख॒तो नय॑न्ति । सुप्रा॑ङ॒जो मेम्य॑द् वि॒श्वरू॑प इन्द्रापू॒ष्णोः प्रि॒यमप्ये॑ति॒ पाथः॑ ॥ ए॒ष च्छागः॑ पु॒रो अश्वे॑न वा॒जिना॑ पू॒ष्णो भा॒गो नी॑यते वि॒श्वदे᳚व्यः । अ॒भि॒प्रियं॒ ॅयत् पु॑रो॒डाश॒मर्व॑ता॒ त्वष्टे - [ ]
पदपाठः (Word-by-word)
मा । नः॒ । मि॒त्रः । वरु॑णः । अ॒र्य॒मा । आ॒युः । इन्द्रः॑ । ऋ॒भु॒क्षा इत्यृ॑भु - क्षाः । म॒रुतः॑ । परीति॑ । ख्य॒न्न् ॥ यत् । वा॒जिनः॑ । दे॒वजा॑त॒स्येति॑ दे॒व - जा॒त॒स्य॒ । सप्तेः᳚ । प्र॒व॒क्ष्याम॒ इति॑ प्र - व॒क्ष्यामः॑ । वि॒दथे᳚ । वी॒र्या॑णि ॥ यत् । नि॒र्णिजेति॑ निः - निजा᳚ । रेक्ण॑सा । प्रावृ॑तस्य । रा॒तिम् । गृ॒भी॒ताम् । मु॒ख॒तः । नय॑न्ति ॥ सुप्रा॒ङिति॒ सु - प्रा॒ङ् । अ॒जः । मेम्य॑त् । वि॒श्वरू॑प॒ इति॑ वि॒श्व - रू॒पः॒ । इ॒न्द्रा॒पू॒ष्णोरिती᳚न्द्रा-पू॒ष्णोः । प्रि॒यम् । अपीति॑ । ए॒ति॒ । पाथः॑ ॥ ए॒षः । छागः॑ । पु॒रः । अश्वे॑न । वा॒जिना᳚ । पू॒ष्णः । भा॒गः । नी॒य॒ते॒ । वि॒श्वदे᳚व्य॒ इति॑ वि॒श्व - दे॒व्यः॒ ॥ अ॒भि॒प्रिय॒मित्य॑भि- प्रिय᳚म् । यत् । पु॒रो॒डाश᳚म् । अर्व॑ता । त्वष्टा᳚ । इत् ।