अनुवाकः 7 TS 6.2.7

अनुवाकः 7 - Complete Audio

TS 6.2.7 - स्वरानुगामी

0:00 0:00
PS1.1 तेभ्य॑ उत्तरवे॒दिः सिꣳ॒॒॒ही रू॒पं
PS1.2 कृ॒त्वोभया॑-नन्त॒राऽप॒क्रम्या॑तिष्ठ॒त् ते दे॒वा अ॑मन्यन्त
PS1.3 यत॒रान्. वा इ॒यमु॑पाव॒र्थ्स्यति॒ त
PS1.4 इ॒दं भ॑विष्य॒न्तीति॒ तामुपा॑मन्त्रयन्त॒ साऽब्र॑वी॒द्
PS1.5 वरं॑ ॅवृणै॒ सर्वा॒न् मया॒
PS1.6 कामा॒न् व्य॑श्नवथ॒ पूर्वां॒ तु
PS1.7 मा॒ऽग्नेराहु॑तिरश्नवता॒ इति॒ तस्मा॑दुत्तरवे॒दिं पूर्वा॑म॒ग्ने-
PS1.8 र्व्याघा॑रयन्ति॒ वारे॑वृतꣳ॒॒ ह्य॑स्यै॒ शम्य॑या॒
PS1.9 परि॑ मिमीते॒- [ ]
PS2.1 मात्रै॒वास्यै॒ साथो॑ यु॒क्तेनै॒व यु॒क्तमव॑
PS2.2 रुन्धे वि॒त्ताय॑नी मे॒ऽसीत्या॑ह वि॒त्ता
PS2.3 ह्ये॑ना॒नाव॑त् ति॒क्ताय॑नी मे॒ऽसीत्या॑ह ति॒क्तान्.
PS2.4 ह्ये॑ना॒नाव॒दव॑तान्मा नाथि॒तमित्या॑ह नाथि॒तान्. ह्ये॑ना॒नाव॒दव॑तान्मा
PS2.5 व्यथि॒तमित्या॑ह व्यथि॒तान्. ह्ये॑ना॒नाव॑द्-वि॒देर॒ग्निर्नभो॒ नामा-
PS2.6 [ ]
PS3.1 ग्ने॑ अङ्गिर॒ इति॒ त्रिर्.ह॑रति॒
PS3.2 य ए॒वैषु लो॒केष्व॒ग्नय॒-स्ताने॒वाव॑ रुन्धे
PS3.3 तू॒ष्णीं च॑तु॒र्त्थꣳ ह॑र॒त्यनि॑-रुक्तमे॒वाव॑ रुन्धे
PS3.4 सिꣳ॒॒हीर॑सि महि॒षीर॒सीत्या॑ह सिꣳ॒॒हीर्ह्ये॑षा रू॒पं
PS3.5 कृ॒त्वोभया॑-नन्त॒रा ऽप॒क्रम्याति॑ष्ठदु॒रु प्र॑थस्वो॒रु ते॑
PS3.6 य॒ज्ञ्प॑तिः प्रथता॒मित्या॑ह॒ यज॑मानमे॒व प्र॒जया॑
PS3.7 प॒शुभिः॑ प्रथयति ध्रु॒वा- [
PS3.8 ]
PS4.1 ऽसीति॒ सꣳ ह॑न्ति॒ धृत्यै॑
PS4.2 दे॒वेभ्यः॑ शुन्धस्व दे॒वेभ्यः॑ शुंभ॒स्वेत्यव॑
PS4.3 चो॒क्षति॒ प्र च॑ किरति॒
PS4.4 शुद्ध्या॑ इन्द्रघो॒षस्त्वा॒ वसु॑भिः पु॒रस्ता᳚त्
PS4.5 पा॒त्वित्या॑ह दि॒ग्भ्य ए॒वैनां॒ प्रोक्ष॑ति
PS4.6 दे॒वाꣳश्चेदु॑-त्तरवे॒दिरु॒पाव॑वर्ती॒हैव वि ज॑यामहा॒ इत्यसु॑रा॒
PS4.7 वज्र॑मु॒द्यत्य॑ दे॒वान॒भ्या॑यन्त॒ तानि॑न्द्रघो॒षो वसु॑भिः
PS4.8 पु॒रस्ता॒दपा॑- [ ]
PS5.1 -नुदत॒ मनो॑जवाः पि॒तृभि॑ र्दक्षिण॒तः
PS5.2 प्रचे॑ता रु॒द्रैः प॒श्चाद्-वि॒श्वक॑र्माऽऽदि॒त्यैरु॑त्तर॒तो यदे॒वमु॑त्तरवे॒दिं
PS5.3 प्रो॒क्षति॑ दि॒ग्भ्य ए॒व तद्-यज॑मानो॒
PS5.4 भ्रातृ॑व्या॒न् प्र णु॑दत॒ इन्द्रो॒
PS5.5 यती᳚न्थ् सालावृ॒केभ्यः॒ प्राय॑च्छ॒त् तान्
PS5.6 द॑क्षिण॒त उ॑त्तरवे॒द्या आ॑द॒न्॒ यत्
PS5.7 प्रोक्ष॑णीना-मु॒च्छिष्ये॑त॒ तद् द॑क्षिण॒त उ॑त्तरवे॒द्यै
PS5.8 नि न॑ये॒द्-यदे॒व तत्र॑ क्रू॒रं
PS5.9 तत् तेन॑ शमयति॒ यं
PS5.10 द्वि॒ष्यात् तं ध्या॑येच्छु॒चै (
PS5.11 ) वैन॑मर्पयति
PS5.12 (मि॒मी॒ते॒ - नाम॑ -
PS5.13 ध्रु॒वा - ऽप॑ -
PS5.14 शु॒चा - त्रीणि॑ च)
PS5.15 ( आ7)

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 6.2.7.1 TS 6.2.7.1
तेभ्य॑ उत्तरवे॒दिः सिꣳ॒॒॒ही रू॒पं कृ॒त्वोभया॑-नन्त॒राऽप॒क्रम्या॑तिष्ठ॒त् ते दे॒वा अ॑मन्यन्त यत॒रान्. वा इ॒यमु॑पाव॒र्थ्स्यति॒ त इ॒दं भ॑विष्य॒न्तीति॒ तामुपा॑मन्त्रयन्त॒ साऽब्र॑वी॒द् वरं॑ ॅवृणै॒ सर्वा॒न् मया॒ कामा॒न् व्य॑श्नवथ॒ पूर्वां॒ तु मा॒ऽग्नेराहु॑तिरश्नवता॒ इति॒ तस्मा॑दुत्तरवे॒दिं पूर्वा॑म॒ग्ने- र्व्याघा॑रयन्ति॒ वारे॑वृतꣳ॒॒ ह्य॑स्यै॒ शम्य॑या॒ परि॑ मिमीते॒- [ ]
पदपाठः (Word-by-word)
तेभ्यः॑ । उ॒त्त॒र॒वे॒दिरित्यु॑त्तर - वे॒दिः । सिꣳ॒॒हीः । रू॒पम् । कृ॒त्वा । उ॒भयान्॑ । अ॒न्त॒रा । अ॒प॒क्रम्येत्य॑प - क्रम्य॑ । अ॒ति॒ष्ठ॒त् । ते । दे॒वाः । अ॒म॒न्य॒न्त॒ । य॒त॒रान् । वै । इ॒यम् । उ॒पा॒व॒र्थ्स्यतीत्यु॑प-आ॒व॒र्थ्स्यति॑ । ते । इ॒दम् । भ॒वि॒ष्य॒न्ति॒ । इति॑ । ताम् । उपेति॑ । अ॒म॒न्त्र॒य॒न्त॒ । सा । अ॒ब्र॒वी॒त् । वर᳚म् । वृ॒णै॒ । सर्वान्॑ । मया᳚ । कामान्॑ । वीति॑ । अ॒श्न॒व॒थ॒ । पूर्वा᳚म् । तु । मा॒ । अ॒ग्नेः । आहु॑ति॒रित्या - हु॒तिः॒ । अ॒श्न॒व॒तै॒ । इति॑ । तस्मा᳚त् । उ॒त्त॒र॒वे॒दिमित्यु॑त्तर - वे॒दिम् । पूर्वा᳚म् । अ॒ग्नेः । व्याघा॑रय॒न्तीति॑ वि-आघा॑रयन्ति । वारे॑वृत॒मिति॒ वारे᳚-वृ॒त॒म् । हि । अ॒स्यै॒ । शम्य॑या । परीति॑ । मि॒मी॒ते॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

मन्त्रान्व्याचिख्यासुः शम्यया वेदिपरिमाणं विधातुमाख्यायिकया वेदिं प्रस्तुवन्प्रसङ्गाद्व्याघारणमभिधत्ते —

“तेभ्य उत्तरवेदिः सिही रूपं कृत्वोभयानन्तरराऽपक्रम्यातिष्ठत्ते देवा अमन्यन्त यतरान्वा इयमुपावर्त्स्यति त इदं भविष्यन्तीति। तामुपामन्त्रयन्त साऽब्रवीद्वरं वृणै सर्वान्मया कामान्व्यश्नवथ पूर्वां तु माऽग्नेराहुतिरश्नवता इति तस्मादुत्तरवेदिं पूर्वामग्नेर्व्याघारयन्ति वारेवृत ह्यस्यौ” (सं. का. ६ प्र. २ अ. ७) इति।

अत्रोभयोरन्तरेणेत्यभिधानात्तेभ्यो देवासुरेभ्य इति लभ्यते। ते देवास्तामुपामन्त्रयन्त प्रार्थितवन्तः। मया मदनुग्रहेण भ्रातृव्याभिभवात्सर्वान्कामान्यूयं व्यश्नवथ विशेषेण प्राप्स्यथ। तदर्थं त्वाद्याऽऽहुतिर्व्याघारणरूपा युष्माभिर्हुता प्रणेष्यमाणादग्नेः पूर्वभाविनीं मां व्यश्नवदै विशेषेण व्याप्नोतु मामेवोद्दिश्य हूयताम्। सोऽयं वरः। यस्माद्वरो वृतस्तस्मात्तथा व्याघारयेयुः। तत्प्रकरस्तु सिहीरसि महिषीरसीत्यादिमन्त्रव्याख्यानावसरे वक्ष्यते।

विधत्ते —

“शम्यया परि मिमीते मात्रैवास्यै साऽथो युक्तेनैव युक्तमव रुन्धे” (सं. का. ६ प्र. २ अ. ७) इति।

गदया सदृशी बाहुपरिमिता शम्या तया चतुर्दिक्षूत्तरवेदिं परिमिमीते। अस्या उत्तरवेदेः सेयं भूमिः शम्यया निर्णीता मात्रैव न न्यूना ग्रहचमसादिप्रचारस्य पर्याप्तत्वात्। नाप्यधिका यथोक्तप्रचारानुपयुक्तभागस्याभावात्। किंच युक्तेनैव योग्येनैवोत्तरवेदिप्रमाणेन योग्यफलं प्राप्नोति।

मन्त्रान्व्याचष्टे —

“वित्तायनी मेऽसीत्याह वित्ता ह्येनानावत्तिक्तायनी मेऽसीत्याह तिक्तान्ह्येनानावदतान्मा नाथितमित्याह नाथितान्ह्येनानावदवतान्मा व्यथितमित्याह व्यथितान्ह्येनानावत्” (सं. का. ६ प्र. २ अ. ७) इति।

वित्तं वह्निरूपम्। वित्तार्थिन एतान्यज्ञक्रतून्वह्निप्रापणेनेयमुत्तरवेदिररक्षत्। तिक्तं वह्निज्वालारूपं तेजनं तदर्थिन एतान्यागकर्तॄन्।

विधत्ते —

‘विदेरग्निर्नभो नामाग्ने अङ्गिर इति त्रिर्हरति य एवैषु लोकेष्वग्नयस्तानेवाव रुन्धे तूष्णीं चतुर्थं हरत्यनिरुक्तमेवाव रुन्धे” (सं. का. ६ प्र. २ अ. ७) इति।

लोकत्रयवर्तिनां त्रयाणामग्नीनामवरोधाय त्रिर्हरणमेतल्लोकवर्तीति निश्चित्य वक्तुमशक्यत्वेनानिरुक्तस्याग्निसामान्यस्यावरोधाय तूष्णीं हरणम्।

वेदेः सिंहमृगत्वं दर्शयति —

‘सिंहीरसि महिषीरसीत्याह सिंहीर्ह्येषा रूपं कृत्वोभयानन्तराऽपक्रम्यातिष्ठत्’ (सं. का. ६ प्र. २ अ. ७) इति।

महिषीर्महनीया। ब्राह्मणान्तरे वा महिषीजातित्वं द्रष्टव्यम्।

व्याचक्षाणं क्रमेण विधत्ते —

“उरु प्रथस्वोरु ते यज्ञपतिः प्रथतामित्याह यजमानमेव प्रजया पशुभिः प्रथयति ध्रुवाऽसीति सहन्ति धृत्यै देवेभ्यः शुन्धस्व देवभ्यः शुम्भस्वेत्यव चोक्षति प्र च किरति शुद्ध्यै’ (सं. का. ६ प्र. २ अ. ७) इति।

पुरस्तादित्यादिदिग्वाचकशब्दप्रयोगेण दिग्देवतातुष्टिकरं प्रोक्षणमित्याह —

‘इन्द्रघोषस्त्वा वसुभिः पुरस्तात्पात्वित्याह दिग्भ्य एवैनां प्रोक्षति’ (सं. का. ६ प्र. २ अ. ७) इति।

प्रोक्षणं विधातुं प्रस्तौति —

देवा श्चेदुत्तरवेदिरुपावर्तीहैव वि जयामहा इत्यसुरा वज्रमुद्यत्य देवानभ्यायन्त तानिन्द्रघोषो वसुभिः पुरस्तादपानुदत मनोजवाः पितृभिर्दक्षिणतः प्रचेता रुद्रैः पश्चाद्विश्वकर्माऽऽदित्यैरुत्तरतः’ (सं. का. ६ प्र. २ अ. ७) इति।

अपक्रम्य देवासुरसेनयोर्मध्ये तिष्ठन्तीमुत्तरवेदिं यदा देवा उपामन्त्रयन्त तदानीमसुरा एवमचिन्तयन्। यद्येषा देवानुपावर्तेत तदा त एव विजयेरन्। तस्मादिहैवेदानीमेव तदुपावर्तनात्प्रागेव देवान्विजयामह इति विचिन्त्य वज्रमुद्यत्य देवानभिलक्ष्य प्रहर्तुमागताः। तानसुरानिन्द्रघोषादयो दिग्भ्योऽपाकुर्वन्।

विधत्ते —

‘यदेवमुत्तरवेदिं प्रोक्षति दिग्म्य एव तद्यजमानो भ्रातृव्यान्प्र णुदते’ (सं. का. ६ प्र. २ अ. ७) इति।

विधत्ते —

‘यदेवमुत्तरवेदिं प्रोक्षति दिग्भ्य एव तद्यजमानो भ्रातृव्यान्प्र णुदते’ (सं. का. ६ प्र. २ अ. ७) इति।

प्रोक्षणशेषस्य निनयनं विधत्ते —

इन्द्रो यतीन्त्सालावृकेभ्यः प्रायच्छत्तान्दक्षिणत उत्तरवेद्या आदन्यत्प्रोक्षणीनामुच्छिष्येत तद्दक्षिणत उत्तरवेद्यै नि नयेद्यदेव तत्र क्रूरं तत्तेन शमयति’ (सं. का. ६ प्र. २ अ. ७) इति।

(इन्द्रो) यतयो देवान्हन्तुं सर्वदा प्रयतमाना उत्तमाश्रयेण प्रच्छन्नवेषा असुरास्तान्हत्वा सालावृकेभ्यः श्वभ्यो दत्तवान्।

निनयनकाले ध्यानं विधत्ते —

‘यं द्विष्यात्तं ध्यायेच्छुचैवैनमर्पयति’ (सं. का. ६ प्र. २ अ. ७) इति।

शुचा शोकेनार्पयति योजयति।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 उत्तरवेद्या व्याघारणं विधास्यन् आह - तेभ्य इत्यादि ।। देवासुरास्संयत्ता अधिकृताः, ते उभये अपि सर्वनाम्ना अपेक्ष्यन्ते । उत्तरवेदिस्सिंहीः तदीयं च रूपं कृत्वा तेभ्यो देवासुरेभ्योपक्रम्य उभयानन्तरा उभयेषां मध्ये उभयपक्षपरित्यागेन अतिष्ठत्, सिंहीरिति । हल्ङ्यादिलोपाभावश्छान्दसः । ते देवा इत्यादि । व्याख्यातप्रायम् । यतरानिति । 'किंयत्तदः' इति इतरच् । तामिति । उपामन्त्रयन्त तामुत्तरवेदिमुपच्छन्दितवन्तो देवाः । साऽब्रवीदिति । सर्वान्कामान् हविर्विषयान् मया सह मया हेतुभूतया व्यश्नवथ व्यश्नुवीतं तदर्थमिदं ममास्तु अग्नेः पूर्वां तु माऽऽहुतिं व्यश्नवतै व्यश्नुवीत आप्नोत्विति वरं वृणै इति साऽब्रवीत् । तस्मादग्नेः पूर्वमेव उत्तरवेदिं व्याघारयन्ति दक्षिणांसप्रभृति विविधमाघारयन्ति । वारेवृतं ह्येतत् अस्यै अस्या यद्व्याघारणादि । अश्नोतेर्लेटि 'लेटोऽडाटौ' इत्यडागमः ।।
2 शम्ययेति विधिः ।। परिमिमीते सर्वासु दिक्षु मिमीते । चात्वालत्वमुक्तमग्नेः पूर्वमेव, उत्तरवेद्या व्याघारणं कर्तव्यमेवेति तदर्थं तामेवोत्तरवेदिमुत्पादयित्वा प्रकृतिभूतं चात्वालमादायोत्पादनीयमिति आचार्याभिप्रायः । वित्तायन्यादयश्चात्वालमाने विनियुज्यन्ते । वित्तायन्यादिभिश्चात्वालस्था उत्तरवेदिरुच्यते, चात्वालभूमिर्वा । एवं मन्त्रब्राह्मणयोरविरोधः, उत्तरवेदिरेव प्रकृतिस्थानीयेति । मात्रैवेति । मात्रा प्रमाणमस्यास्सा शम्या मात्रैव शम्याप्रमाणत्वादस्याः । अथो अपिच युक्तेन योग्येनैव सूक्तं योग्यमवरुन्धे । युक्तकारिणो ह्यर्थं योग्यं लभन्ते ।।
3 अथ मानमन्त्रान्व्याचष्टे 'वित्तायनी' इत्यादीन् ।। वित्ता हीत्यादि । वित्तं लब्धं परेणापहृतं ईयते प्राप्यतेऽनयेति वित्तायनी । देवैश्चापहृतमात्मानमीयते तदिति वित्ता परेणापहृता एषा एनान् देवानावत् आगच्छत् । तस्माद्वित्तस्यात्मनः प्रापणी या त्वं ममापि वित्तस्याग्न्याख्यस्य प्रापणी भवेति मन्त्रार्थं इति भावः । अवतिर्गतिकर्मा । यथा - अव रक्षणगतितृप्तीत्यादि । विन्दतिरनुदात्तः । यद्वा - वित्तस्य धनस्य प्रापिता वित्तायनी, अभिमतप्रदानेन रक्षिकेतियावत् । तदाह - वित्ता लब्धा देवैः देवानावत् अरक्षदिति । तिक्तायनीति । तिक्तं तेजः तस्य प्रापणी तिक्तायनी । देवानतिक्तान् स्वापक्रमेण अतेजस्कान् तिक्तान् आवत् अरक्षत् तेजस्विनोकरोत् तेजसः प्रापिता तेषामासीत् । नाथितानिति । देवैर्निर्याचितानेनानावत् आगच्छत् अरक्षत् वा । मन्त्रे कर्तरि निष्ठा, ब्राह्मणे वा ऐश्वर्यकर्मा । इदमेवैश्वर्यं यद्याचारं रक्षन्तीति । व्यथितानिति । व्यथितात् देवानरक्षत् ।।
4 विदेरिति विधिः ।। य एतेषु त्रिष्वपि लोकेष्वग्नयः तान् सर्वानवरुन्धे ।।
5 तूष्णीमिति विधिः ।। अनिरुक्तं अव्याकृतमप्रार्थितमिष्टमवरुन्धे ।।
6 'सिंहीरसि' इति पुरीषसंप्रयणं व्याचष्टे - सिंहीरसि । सिंही रूपं कृत्वा यस्मादतिष्ठत् देवासुराणां मध्ये, तस्मादेवमाह । 'चवायोगे प्रथमा' इति तिङ्विभक्तिर्न निहन्यते । अवोक्षति चाद्भिः प्रकिरति च सिकताभिः । शुद्ध्यै भवति ।।
7 उत्तरवेद्याः प्रागादिप्रोक्षणमन्त्राः - 'इन्द्रघोषस्त्वा' इत्यादयः । दिग्भ्य एवेति । प्राच्यादिदिग्भ्योपादाय एनां क्रमेण प्रोक्षति । देवांश्चेदिति । यदि देवानुत्तरवेदिः उपावर्तते देवसमीपमागच्छति चेत् ततस्तेषामेव जयो नास्माकं तस्मादिहैव इदानीमेव तदुपावर्तनात्प्रागेव देवान्विजयामहै इति मत्वा असुरा वज्रमुद्यत्य देवानभ्यायन्त उत्तरवेदिस्थानमागताः । उपपूर्वाद्वृतेः लेटि 'बहुलं छन्दसि' इति शापश्श्लुः । तानिन्द्रघोषादयो वस्वादिगणसहिताः पूर्वादिदिग्भ्योसुरानपानुदत । यदेवमित्यादि । गतम् । 'सावेकाचः' इति दिग्भ्यो विभक्तेरुदात्तत्वम् ।।
8 इन्द्रो यतीनित्यादि ।। यतन्त इति यतयः, 'इन् सर्वधातुभ्यः' इतीन् । असुरविशेषाः ये सदैव देवान् जेतुं यतन्ते । दाम्भिकाः बिडालवृत्तयश्च यतय इत्यन्ये । तान् हत्वेन्द्रः सालावृकेभ्यः प्रायच्छत् । तानुत्तरवेद्या दक्षिणतः आदन् अभक्षयन् । तस्माद्यत्प्रोक्षणीनामतिरिच्येत्, तदुत्तरवेद्या दक्षिणतो निनयेत् इति विधिः । यदेवेत्यादि । गतम् ।।
इति षष्ठे द्वितीये सप्तमोनुवाकः ॥
पञ्चशत् 2 #
TS 6.2.7.2 TS 6.2.7.2
मात्रै॒वास्यै॒ साथो॑ यु॒क्तेनै॒व यु॒क्तमव॑ रुन्धे वि॒त्ताय॑नी मे॒ऽसीत्या॑ह वि॒त्ता ह्ये॑ना॒नाव॑त् ति॒क्ताय॑नी मे॒ऽसीत्या॑ह ति॒क्तान्. ह्ये॑ना॒नाव॒दव॑तान्मा नाथि॒तमित्या॑ह नाथि॒तान्. ह्ये॑ना॒नाव॒दव॑तान्मा व्यथि॒तमित्या॑ह व्यथि॒तान्. ह्ये॑ना॒नाव॑द्-वि॒देर॒ग्निर्नभो॒ नामा- [ ]
पदपाठः (Word-by-word)
मात्रा᳚ । ए॒व । अ॒स्यै॒ । सा । अथो॒ इति॑ । यु॒क्तेन॑ । ए॒व । यु॒क्तम् । अवेति॑ । रु॒न्धे॒ । वि॒त्ताय॒नीति॑ वित्त - अय॑नी । मे॒ । अ॒सि॒ । इति॑ । आ॒ह॒ । वि॒त्ता । हि । ए॒ना॒न् । आव॑त् । ति॒क्ताय॒नीति॑ तिक्त - अय॑नी । मे॒ । अ॒सि॒ । इति॑ । आ॒ह॒ । ति॒क्तान् । हि । ए॒ना॒न् । आव॑त् । अव॑तात् । मा॒ । ना॒थि॒तम् । इति॑ । आ॒ह॒ । ना॒थि॒तान् । हि । ए॒ना॒न् । आव॑त् । अव॑तात् । मा॒ । व्य॒थि॒तम् । इति॑ । आ॒ह॒ । व्य॒थि॒तान् । हि । ए॒ना॒न् । आव॑त् । वि॒देः । अ॒ग्निः । नभः॑ । नाम॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 6.2.7.3 TS 6.2.7.3
ग्ने॑ अङ्गिर॒ इति॒ त्रिर्.ह॑रति॒ य ए॒वैषु लो॒केष्व॒ग्नय॒-स्ताने॒वाव॑ रुन्धे तू॒ष्णीं च॑तु॒र्त्थꣳ ह॑र॒त्यनि॑-रुक्तमे॒वाव॑ रुन्धे सिꣳ॒॒हीर॑सि महि॒षीर॒सीत्या॑ह सिꣳ॒॒हीर्ह्ये॑षा रू॒पं कृ॒त्वोभया॑-नन्त॒रा ऽप॒क्रम्याति॑ष्ठदु॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञ्प॑तिः प्रथता॒मित्या॑ह॒ यज॑मानमे॒व प्र॒जया॑ प॒शुभिः॑ प्रथयति ध्रु॒वा- [ ]
पदपाठः (Word-by-word)
अग्ने᳚ । अ॒ङ्गि॒रः॒ । इति॑ । त्रिः । ह॒र॒ति॒ । ये । ए॒व । ए॒षु । लो॒केषु॑ । अ॒ग्नयः॑ । तान् । ए॒व । अवेति॑ । रु॒न्धे॒ । तू॒ष्णीम् । च॒तु॒र्थम् । ह॒र॒ति॒ । अनि॑रुक्त॒मित्यनिः॑ - उ॒क्त॒म् । ए॒व । अवेति॑ । रु॒न्धे॒ । सिꣳ॒॒हीः । अ॒सि॒ । म॒हि॒षीः । अ॒सि॒ । इति॑ । आ॒ह॒ । सिꣳ॒॒हीः । हि । ए॒षा । रू॒पम् । कृ॒त्वा । उ॒भयान्॑ । अ॒न्त॒रा । अ॒प॒क्रम्येत्य॑प - क्रम्य॑ । अति॑ष्ठत् । उ॒रु । प्र॒थ॒स्व॒ । उ॒रु । ते॒ । य॒ज्ञ्प॑ति॒रिति॑ य॒ज्ञ् - प॒तिः॒ । प्र॒थ॒ता॒म् । इति॑ । आ॒ह॒ । यज॑मानम् । ए॒व । प्र॒जयेति॑ प्र - जया᳚ । प॒शुभि॒रिति॑ प॒शु - भिः॒ । प्र॒थ॒य॒ति॒ । ध्रु॒वा ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 6.2.7.4 TS 6.2.7.4
ऽसीति॒ सꣳ ह॑न्ति॒ धृत्यै॑ दे॒वेभ्यः॑ शुन्धस्व दे॒वेभ्यः॑ शुंभ॒स्वेत्यव॑ चो॒क्षति॒ प्र च॑ किरति॒ शुद्ध्या॑ इन्द्रघो॒षस्त्वा॒ वसु॑भिः पु॒रस्ता᳚त् पा॒त्वित्या॑ह दि॒ग्भ्य ए॒वैनां॒ प्रोक्ष॑ति दे॒वाꣳश्चेदु॑-त्तरवे॒दिरु॒पाव॑वर्ती॒हैव वि ज॑यामहा॒ इत्यसु॑रा॒ वज्र॑मु॒द्यत्य॑ दे॒वान॒भ्या॑यन्त॒ तानि॑न्द्रघो॒षो वसु॑भिः पु॒रस्ता॒दपा॑- [ ]
पदपाठः (Word-by-word)
अ॒सि॒ । इति॑ । समिति॑ । ह॒न्ति॒ । धृत्यै᳚ । दे॒वेभ्यः॑ । शु॒न्ध॒स्व॒ । दे॒वेभ्यः॑ । शु॒म्भ॒स्व॒ । इति॑ । अवेति॑ । च॒ । उ॒क्षति॑ । प्रेति॑ । च॒ । कि॒र॒ति॒ । शुद्ध्यै᳚ । इ॒न्द्र॒घो॒ष इती᳚न्द्र - घो॒षः । त्वा॒ । वसु॑भि॒रिति॒ वसु॑ - भिः॒ । पु॒रस्ता᳚त् । पा॒तु॒ । इति॑ । आ॒ह॒ । दि॒ग्भ्य इति॑ दिक् - भ्यः । ए॒व । ए॒ना॒म् । प्रेति॑ । उ॒क्ष॒ति॒ । दे॒वान् । च॒ । इत् । उ॒त्त॒र॒वे॒दिरित्यु॑त्तर - वे॒दिः । उ॒पाव॑व॒र्तीत्यु॑प - आव॑वर्ति । इ॒ह । ए॒व । वीति॑ । ज॒या॒म॒है॒ । इति॑ । असु॑राः । वज्र᳚म् । उ॒द्यत्येत्यु॑त् - यत्य॑ । दे॒वान् । अ॒भीति॑ । आ॒य॒न्त॒ । तान् । इ॒न्द्र॒घो॒ष इती᳚न्द्र - घो॒षः । वसु॑भि॒रिति॒ वसु॑ - भिः॒ । पु॒रस्ता᳚त् । अपेति॑ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 6.2.7.5 TS 6.2.7.5
-नुदत॒ मनो॑जवाः पि॒तृभि॑ र्दक्षिण॒तः प्रचे॑ता रु॒द्रैः प॒श्चाद्-वि॒श्वक॑र्माऽऽदि॒त्यैरु॑त्तर॒तो यदे॒वमु॑त्तरवे॒दिं प्रो॒क्षति॑ दि॒ग्भ्य ए॒व तद्-यज॑मानो॒ भ्रातृ॑व्या॒न् प्र णु॑दत॒ इन्द्रो॒ यती᳚न्थ् सालावृ॒केभ्यः॒ प्राय॑च्छ॒त् तान् द॑क्षिण॒त उ॑त्तरवे॒द्या आ॑द॒न्॒ यत् प्रोक्ष॑णीना-मु॒च्छिष्ये॑त॒ तद् द॑क्षिण॒त उ॑त्तरवे॒द्यै नि न॑ये॒द्-यदे॒व तत्र॑ क्रू॒रं तत् तेन॑ शमयति॒ यं द्वि॒ष्यात् तं ध्या॑येच्छु॒चै ( ) वैन॑मर्पयति ॥(मि॒मी॒ते॒ - नाम॑ - ध्रु॒वा - ऽप॑ - शु॒चा - त्रीणि॑ च) ( आ7)
पदपाठः (Word-by-word)
अ॒नु॒द॒त॒ । मनो॑जवा॒ इति॒ मनः॑ - ज॒वाः॒ । पि॒तृभि॒रिति॑ पि॒तृ - भिः॒ । द॒क्षि॒ण॒तः । प्रचे॑ता॒ इति॒ प्र - चे॒ताः॒ । रु॒द्रैः । प॒श्चात् । वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ । आ॒दि॒त्यैः । उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । यत् । ए॒वम् । उ॒त्त॒र॒वे॒दिमित्यु॑त्तर - वे॒दिम् । प्रो॒क्षतीति॑ प्र - उ॒क्षति॑ । दि॒ग्भ्य इति॑ दिक् - भ्यः । ए॒व । तत् । यज॑मानः । भ्रातृ॑व्यान् । प्रेति॑ । नु॒द॒ते॒ । इन्द्रः॑ । यतीन्॑ । सा॒ला॒वृ॒केभ्यः॑ । प्रेति॑ । अ॒य॒च्छ॒त् । तान् । द॒क्षि॒ण॒तः । उ॒त्त॒र॒वे॒द्या इत्यु॑त्तर - वे॒द्याः । आ॒द॒न्न् । यत् । प्रोक्ष॑णीना॒मिति॑ प्र - उक्ष॑णीनाम् । उ॒च्छिष्ये॒तेत्यु॑त् - शिष्ये॑त । तत् । द॒क्षि॒ण॒तः । उ॒त्त॒र॒वे॒द्या इत्यु॑त्तर - वे॒द्यै । नीति॑ । न॒ये॒त् । यत् । ए॒व । तत्र॑ । क्रू॒रम् । तत् । तेन॑ । श॒म॒य॒ति॒ । यम् । द्वि॒ष्यात् । तम् । ध्या॒ये॒त् । शु॒चा ( ) । ए॒व । ए॒न॒म् । अ॒र्प॒य॒ति॒ ॥(मि॒मी॒ते॒ - नाम॑ - ध्रु॒वा - ऽप॑ - शु॒चा - त्रीणि॑ च) ( आ7)
पदसंख्या: 53